सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

६१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८अनु०२]
एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥
जलप्रविष्टश्चन्द्रोऽयमस्पष्टः कलुषे जले ।
विस्पष्टो निर्मले तद्वद्द्वेधा ब्रह्मापि वृत्तिषु ॥
घोरमूढासु मालिन्यात्सुखांशोऽत्र तिरोहितः ।
ईषन्नैर्मल्यतस्तत्र चिदंशः प्रतिबिम्बति ॥
यथाऽतिनिर्मले नीरे वह्नेरौष्ण्यस्य संक्रमः ।
न प्रकाशस्य तद्वत्स्याच्चिन्मात्रोद्भूतिरत्र हि ॥
काष्ठे त्वौष्ण्यप्रकाशौ द्वावुद्भवं गच्छतो यथा ।
शान्तासु सुखचैतन्ये तथैवोद्भूतिमाप्नुते ” ॥ इति ।
प्रतिबिम्बपक्ष इत्थमुदीरितः । अथावच्छिन्नपक्ष उच्यते । देहेन्द्रियाद्युपाधौ स्वय-
मेव भासमानस्य जीवात्मनः स्वरूपभूतो य आनन्दः सोऽयमवच्छिन्नोऽतिशयेन प्रीति-
विषयत्वात् । आत्मन आनन्दरूपत्वं तद्विषयत्वं च वाजसनेयिन आमनन्ति—“तदे-
तत्प्रेयः पुत्रात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा” इति । अहमहंप्रत्ययेनानुभूय-
मानो देहेन्द्रियादिसाक्ष्यात्मेति यदस्ति तदेतदतिशयेनाभ्यन्तरं स्वरूपं तँदेव वित्तपुत्रादि-
भ्यस्तारतम्येन प्रत्यासन्नेभ्योऽतिशयेन प्रियम् ।
तच्च तारतम्यं वार्तिककारो दर्शयति—
“ वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियम् ।
इन्द्रियाच्च प्रियः प्राणः प्राणादात्मा परः प्रियः ” ॥ इति ।
आत्मव्यतिरिक्तेषु वित्तादिष्वात्मशेषत्वोपाधिना प्रीतिः । आत्मनि तु निरुपाधि-
कप्रीतित्वेन तस्याः प्रीतेः परत्वम् । एतच्च सर्वं मैत्रेयीब्राह्मणे—“ न वा अरे पत्युः
कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ” इत्यादिभिर्बहुभिरु-
दाहरणैः प्रपञ्चितम् ।
तानि चोदाहरणानि कैश्चिदेवं संगृहीतानि—
“ पतिँर्जायापुत्रवित्तपशुब्राह्मणभूमयः ।
लोका देवा वेदभूते सर्वं चाऽऽत्मार्थतः प्रियम् ” ॥ इति ।
मुख्यप्रीतिविषयत्वादात्मा मुख्यानन्दस्वरूपभूतः । एकैकदेहमात्रवर्तित्वादवच्छिन्नः ।
स च स्वाभाविकानन्दत्वाद्विम्बँरूपः । तदीयः प्रतिबिम्बोऽनुकूलवित्तपुत्रादिगोचरासु
१ ख. जलं प्र० । व. जले प्र० । २ ख. ॰मः । प्रकाशयति त० । ३ व. ॰रं रू० ।
४ क. ख. ङ. तत एव । ५ क. ङ. ॰देव सं० । ६ क. ख. ग. ङ. ॰तिर्जाया० । ७ व.
॰णबाहुजाः । लो० । ८ व. ॰का वेशा देवभू० । ९ क. ङ. ॰र्वं वाऽऽत्मा० । १० ग. व.
॰म्बभूतः । त० ।

[प्रपा० ८/अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६१५

शान्तवृत्तिष्ववभासते । तस्य प्रतिबिम्बस्य 'जलदर्पणादिप्रतिबिम्बवन्मिथ्यात्वादवच्छि-
न्नस्य वस्तुत्वेऽप्यवच्छेददोषोपेतत्वान्न तयोर्मुख्यानन्दत्वम् । यस्त्ववच्छेदराहितो ब्रह्म-
स्वरूपभूत आनन्दः स मुख्यः । तथा च च्छन्दोगा नारदसनत्कुमारसंवादे समा-
मनन्ति—“ सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति । यो वै भूमा
तत्सुखं नाल्पे सुखमस्ति । भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो
विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । अथ
यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् । यो वै भूमा तदमृतमथ यदल्पं
तन्मर्त्यम् ” इति । अस्यायमर्थः । शोकस्य पारं तारयेत्येवं नारदेन प्रार्थितः सन-
त्कुमारः शोकतरणाय सुखरूपमेव त्वया विचारयितव्यमित्युवाच । तद्विचारमङ्गीकृ-
तवते नारदाय भूमपदार्थं सुखत्वेनोपदिदेश । बहोर्भावो भूमा । यथा प्रकरणोपपदयोः
संकोचहेत्वोरसत्त्वेन निरतिशयबृहत्त्ववाची ब्रह्मशब्द इति पूर्वत्रोक्तम्, एवमत्रापि
निरतिशयबाहुल्यवाची भूमशब्दः । लोके हि धनाल्पत्वे सुखं न दृष्टम् । किंतु धन-
बाहुल्य एव सुखं दृष्टम् । तस्मात्सुखात्मको भूमैव विचारणीय इत्युक्त्वा तद्विचाराभि-
मुखाय भूमलक्षणं यत्र नान्यदित्यादिनोपादिदेश । लोकव्यवहारे हि कश्चिद्द्रष्टा स्वस्मा-
दन्यद्रूपं चक्षुषा पश्यति । सेयं द्रष्टृदृश्यदर्शनरूपा काचिन्त्रिपुटी । तथा श्रोतृश्रोतव्य-
श्रवणविज्ञातृविज्ञातव्यविज्ञानाद्यस्त्रिपुट्यो यस्मिन्पदार्थे न सन्ति स पदार्थो भूमा ।
यंस्मिंस्तु मायारूपे त्रिपुट्यो विद्यन्ते तन्मायारूपमल्पम् । तयोर्मध्ये भूमा नाशरहितः ।
अल्पं तु विनश्वरम् । तस्मिन्नल्पे द्वैतरूपे दुःखनिमित्तानां संभवात्तदल्पं दुःखात्मकम् ।
भूम्नि त्वद्वैते तदभावात्सुखात्मको भूमेति । सोऽयं भूमा त्रिपुटीरहितयोः सुषुप्तिसमाध्योः
सुखात्मकोऽनुभूयते । जागरणव्युत्थानयोस्तु त्रिपुटीयुक्तयोर्लोकव्यवहाररूपोऽल्पारख्यः
पदार्थो मूर्खण तत्त्वविदो च दुःखात्मकोऽनुभूयते । अतो दुःखमिश्रत्वादवच्छिन्नो जीवा-
त्मस्वरूपभूत आनन्दस्तत्प्रतिबिम्बरूपो वृत्त्यानन्दश्च न मुख्यः । किंतु भूमैव मुख्या-
नन्द इति सिद्धम् ।
स वा ए॒ष पु॑रुषवि॑ध ए॒व । तस्य॑ पुरु॑षविध-
ताम् । अन्व॒यं पुरु॑षवि॒धः । तस्य॑ प्रि॒यमे॒व शिर॑ः ।
मोदो॒ दक्षि॑णः प॒क्षः । प्र॒मोद॒ उत्त॑रः प॒क्षः ।
आ॒नन्द॑ आ॒त्मा । ब्रह्म॒ पुच्छं॒ प्रति॑ष्ठा ।
एतस्याऽऽनन्दस्य विकारे प्रियमोदादिरूप आनन्दमये स्वात्मत्वबुद्धिदार्ढ्यार्थमुपा-
सनीयं स्वरूपं दर्शयति—स वा इत्यादिना । य आनन्दमयो विज्ञानमयादभ्यन्तरः

१ घ. यस्मिन्माया° । २ घ. °दा चानुभू° ।

स एवैषोऽहं सुखी भोक्तेत्येवमनुभूयमानो विज्ञानमयस्य शिरःपक्षादिपुरुषाकारमनु
स्वयमपि पुरुषाकार एव प्रियमोदप्रमोदाः सात्त्विकवृत्तिप्रतिबिम्बिता आनन्दाः ।
तत्राभीष्टपुत्रादिदर्शनजन्यं प्रियम् । तल्लाभजन्यो मोदः । तत्कृतोपकारजन्यः
प्रमोदः । यथोक्तवृत्त्युपादानभूताज्ञाने प्रतिबिम्बित आनन्दः । यद्वा वृत्तिप्रति-
बिम्बानां प्रतियोगिजीवात्मस्वरूपभूतोऽवच्छिन्नो बिम्बस्थानीयः स आनन्दः । अनव-
च्छिन्नो मुख्य आनन्दो ब्रह्म तदेवेतरेषां प्रतिष्ठाऽऽधारः । अवच्छिन्नस्य प्रतिबि-
म्बानां च तदधीनत्वात् । यद्यपि प्रियमोदप्रमोदा मनसः करणरूपस्य वृत्तिविशेष-
तया कर्तृरूपाद्विज्ञानमयाद्बहिर्भूतास्तथाऽप्यन्तरस्यावच्छिन्नजीवानन्दस्यानवच्छिन्नब्रह्मा-
नन्दस्य वा प्रतिबिम्बं धारयन्तीत्यान्तरत्वमभिप्रेत्य विज्ञानमयादभ्यन्तर आत्माऽऽ-
नन्दमय इत्युक्तम् । तमेतमानन्दमयमात्मानमुपासीनो यदा भावनया साक्षात्करोति
तदा पुच्छत्वेनोपचरिते ब्रह्मण्यप्यैकाग्र्यं प्रतिपन्ना मनोवृत्तिः प्रतिबिम्बाभावाद्ब्रह्मतत्त्वं
साक्षात्करोत्येव “ दृश्यते त्वग्र्यया बुद्ध्या ” इति श्रुतेः । यथा मणिप्रभायां मणित्व-
भ्रान्त्या प्रवर्तमानस्यार्थान्मणितत्त्वसाक्षात्कारस्तद्वत् ।
अयमेवार्थीत्सिद्धो ब्रह्मतत्त्वसाक्षात्कार उपास्तिफलमित्यभिप्रेत्य श्रुतिः फलान्तरमन-
भिधाय केवलं ब्रह्म पुच्छं प्रतिष्ठेत्येवं सर्वजगदाधारभूतब्रह्मतत्त्वोपदेशे पर्यवसिता
ततोऽस्मिन्नानन्दमयकोशे प्रधानभूतस्य ब्रह्मणः प्रतिपादकं श्लोकमुदाहरति—
तदप्येष॒ श्लोको॑ भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथाष्टमे षष्ठोऽनुवाकः ।
अस॑न्नेव॒ स भ॑वति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति॒
ब्रह्मेति॑ चेद्वे॒द । सन्त॑मेनं ततो विदु॒रिति॑, इति ।
लोके हि जलाहरणचाक्षुषदर्शनादिव्यवहारविषयं घटमुद्दिश्य प्राणिनः सर्वेऽप्ययं
घटोऽस्तीति ब्रुवते । तद्विपर्यये तु घटो नास्तीति च वदन्ति । अतो व्यवहारवासना-
युक्तः पुमानन्वयव्यवहार्यस्य ब्रह्मणोऽसत्त्वं मन्यते । अन्यस्तु विवेकी व्यवहाराणां
भूतानां भौतिकानां च श्रुतियुक्त्यनुभूतिभिर्मायामयत्वनिश्चयादसत्त्वं प्रतिपद्यते
व्यवहारातीतस्य ब्रह्मणः श्रुत्यादिभिः सत्यत्वनिश्चयात्सत्त्वमेव प्रत्येति । तत्र ब्रह्म-
णोऽसत्त्वं यो वेद स पुमानसन्नेव स्यात् । अन्नमयादिकोशानामात्मत्वस्य प्रति-
पादितत्वात्तदतिरिक्तस्य ब्रह्मणः स्वयमनङ्गीकृतत्वाच्च । यस्तु पञ्चकोशातीतं ब्रह्म


१ घ. ०भूतस्य । २ ख. ग. ०सत्त्वं सा° । ३ घ. ०न्प्यव्यव° ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६१७

स्तीति वेद तस्य पुंसस्तदेव ब्रह्म स्वरूपम् । ततो ब्रह्मास्तित्ववेदनादेनं विवेकिनं सन्तं
विद्यमानं सात्मकं जानन्ति शास्त्रपारं गताः । अथवा योऽसद्ब्रह्मेति वेद सोऽसन्नसाधुरेव
भवति । वर्णाश्रमादिव्यवस्थालक्षणस्य सर्वस्य सन्मार्गस्य ब्रह्मप्रतिपत्त्यर्थतया ब्रह्मापला-
पेन सर्वसन्मार्गदूषको नास्तिको भवति । अस्तित्त्ववादिनमुक्तविपर्ययेण सन्तं सर्वसन्मार्ग-
स्थापकमाहुः । एतदेवाभिप्रेत्य कठा आमनन्ति—" अस्तित्येवोपलब्धव्यः ” इति ।
अथोपासकस्याऽऽनन्दमये बुभुत्सोश्च ब्रह्मतत्त्वे¹ त्वात्मबुद्धिं द्रढयितुमाह—
तस्यैष एव शारीर आ॒त्मा । यः पूर्व॑स्य, इति ।
य आनन्दमयोऽस्ति स एष एव तस्य पूर्वस्य विज्ञानमयस्य शारीरः स्वामी ।
विज्ञानमयः शरीरम् । आनन्दमय आत्मेत्युपासकं प्रति योजनीयम् । बुभुत्सुं प्रति त्वेवं
योजयेत् । यो ब्रह्म पुच्छमित्युक्तः पदार्थ एष एव तस्य पूर्वस्य प्रियमोदादिचतुष्टयस्य
शारीर आत्मा । प्रियादिकं शरीरं तस्मिञ्शरीरेऽवस्थितं ब्रह्मैवाऽऽत्मेति ।
एतदेवाभिप्रेत्य वार्तिककारा आहुः—
मिथ्यात्मनां हि सर्वेषां सत्यादिगुणलक्षणम् ।
व्याविद्धाशेषसंसारमात्मानं तं प्रचक्षते ॥
न ह्यात्मवान्भवेत्सर्पो दण्डाद्यध्यासरूपिणा ।
आत्मना ह्येष सत्येन सर्पो रज्ज्वात्मनाऽऽत्मवान् ” ॥ इति ।
अथ मीमांसा । तत्रैकदेशिनां विचारः प्रथमाध्यायस्य प्रथमपादे* दर्शितः—
“संसारी ब्रह्म वाऽऽनन्दमयः संसार्थयं भवेत् ।
विकारार्थमयट्शब्दात्प्रियाद्यवयवोक्तितः ॥
अभ्यासोपक्रमादिभ्यो ब्रह्माऽऽनन्दमयो भवेत् ।
प्राचुर्यार्थो मयट्शब्दः प्रियाद्याः स्युरुपाधयः ” ॥ इति ।
तैत्तिरीयके देहप्राणमनोबुद्ध्यानन्दरूपा अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमय-
संज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः । तत्र सर्वान्तर आनन्दमयः
संसारी परमात्मा वेति संदेहः । संसारीति³ तावत्प्राप्तम् । कुतः । आनन्दस्य विकार
आनन्दमय इति व्युत्पत्तेः संसारिणि संभवात् । अविक्रिये परमात्मन्यसौ न संभवति ।
किंच—“ तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः ।

  • आनन्दमयोऽभ्यासात्—ब्र० सू० अ० १ पा० १ अ० ६ । सू० १२ ।
    १. ॰त्सोर्वाऽऽत्मतत्त्वे त्वात्मत्वम् । २ ख. ॰हः। आनन्दमय. सं° । ३ क. ख. ग. ङ.
    ॰ति प्राप्तं ।
    ७८

आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा " इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते । अपेक्षि-
तविषयदर्शनजन्यं सुखं प्रियम् । तल्लाभजन्यो मोदः । तद्भोगजन्यः प्रमोदः । सुषु-
पत्यादौ भासमानमज्ञानोपहितं सुखसामान्यमानन्दः । निरुपाधिकं सुखं ब्रह्म । प्रियादीनां
पञ्चावयवानां शिरआदिरूपत्वमुपास्तिप्रतिपत्तिसौकर्याय कल्प्यते । कल्पितस्याऽऽन-
न्दमयस्य शिरः पक्षौ चेत्यवयवत्रयम् । आत्मशब्देन मध्यशरीरं चतुर्थावयवत्वेनोच्यते ।
पुच्छमपरभागः । प्रतिष्ठाऽऽधारः पञ्चमोऽवयवः । न च निरंशस्य परमात्मनोऽवयवा
युक्ताः । तस्मात्संसार्येवाऽऽनन्दमय इत्येवं प्राप्ते ब्रूमः—आनन्दमयः परमात्मा । कुतः।
अभ्यासात् । " सैषाऽऽनन्दस्य मीमाᳪसा भवति । एतमानन्दमयमात्मानमुपसंक्रामति "
इत्यादिनाऽऽनन्दमयोऽभ्यस्यते । अभ्यासश्च तात्पर्यलिङ्गम् । तात्पर्यं च वेदान्तानां
ब्रह्मण्येवेत्यवोचाम । किंच—"सत्यं ज्ञानमनन्तं ब्रह्म " इति ब्रह्मोपक्रमात् " इदं
सर्वमसृजत " इति सर्वजगत्स्रष्टृत्वादिभ्यश्चाऽऽनन्दमयो ब्रह्म । न च ब्रह्मणि मयट्श-
ब्दानुपपत्तिः । प्राचुर्यार्थसंभवात् । प्रियाद्यवयवा अपि विषयदर्शनाद्युपाधिकृता भविष्यन्ति।
तस्मात्परमात्माऽऽनन्दमय इत्येकदेशिनां मतम् ।
इदानीं स्वमतानुसारेणाधिकरणमुच्यते -
"अन्याङ्गं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम् ।
स्यादानन्दमयस्याङ्गं पुच्छेऽङ्गत्त्वप्रसिद्धितः ॥
लाङ्गूलासंभवादत्र पुच्छेनाऽऽधारलक्षणा ।
आनन्दमयजीवोऽस्मिन्नाश्रितोऽतः प्रधानता" ॥ इति ।
" ब्रह्म पुच्छं प्रतिष्ठा " इति यच्छ्रुतं ब्रह्म तत्किमानन्दमयस्याङ्गत्वेन निर्दिश्यत
उत स्वयं प्राधान्येन प्रतिपाद्यत इति संशयः । आनन्दमयस्यावयवत्वेनेति तावत्प्राप्तम् ।
लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वादिति प्राप्त उच्यते-- न पुच्छशब्दोऽव-
यववाची । किंतु लाङ्गूलवाची । न चाऽऽनन्दमयस्य लाङ्गूलं संभवति । लाङ्गूलस्य गवा-
दिलक्षणान्न मयावयवत्वात् । अतः पुच्छशब्दस्य मुख्यार्थासंभवे सति योग्यतावशाद-
त्राऽऽधारो लक्ष्यते । ब्रह्माऽऽनन्दमयस्य जीवस्याऽऽधारस्तत्कल्पनाधिष्ठानत्वात् । न
चाऽऽनन्दमयः परमात्मा । प्राचुर्यार्थस्वीकारेऽप्यल्पदुःखसद्भावप्रतीतेः । तस्माज्जीवा-
धारत्वाद्ब्रह्म प्राधान्येन प्रतिपाद्यते । तथा—" असन्नेव स भवति । असद्ब्रह्मेति वेद
चेत् " इत्यादिब्रह्माभ्यासः " ब्रह्मविदाप्नोति " इति ब्रह्मोपक्रमश्चानुकूलो भवति ।
अतः कठवल्ल्युक्तपुरुषन्यायेन ब्रह्मैव ज्ञेयम् । न त्वाकाशादिसृष्टिरन्नमयादिकोशाश्च ।
१ क. ख. ङ. °क्षणम् । आ° । २ घ. स्वप्रा° । ३ घ. °शादाधा° । ४ ख. °था चास° ।

स च न्यायस्तृतीयाध्यायस्य *तृतीयपादेऽभिहितः—
“सर्वा परम्पराऽक्षादेर्ज्ञेया पुरुष एव वा ।
ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्युर्बहूनि हि ॥
पुमर्थः पुरुषज्ञानं तत्र यत्नः श्रुतेर्महान् ।
तद्बोधाय श्रुतोऽक्षादिर्वेद्य एकः पुमानतः ॥
कठवल्लीषु पठ्यते—“इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः । मनसस्तु
परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं
किंचित्सा काष्ठा सा परा गतिः” इति । अस्यायमर्थः—मनसा विषयानाभिलैप्य पश्चा-
दिन्द्रियैर्बाह्यान्विषयानाप्नोति । तत्र बाह्यविषयेभ्य इन्द्रियाणामान्तरत्वात्परत्वं प्रसिद्धम् ।
इन्द्रियेभ्यश्चाभिलप्यमानत्वदशापन्ना अर्था आन्तरास्तेभ्योऽप्यभिलाषात्मिका मनोवृत्ति-
रन्तरा । वृत्तेरपि वृत्तिमती बुद्धिरभ्यन्तरा । बुद्धेरपि बुद्धयुपादानभूतो महच्छब्द-
वाच्यो हिरण्यगर्भरूप आत्माऽऽन्तरः । महतोऽपि तदुपादानभूतमव्यक्ताख्यं मूलाज्ञान-
मान्तरम् । अव्यक्तादपि तदधिष्ठानभूताश्चिद्रूपः पुरुषोऽभ्यन्तरः । पुरुषादभ्यन्तरं न
किंचिदस्ति । पुरुष एवाभ्यन्तरतारतम्यस्य विश्रान्तिभूमिः । पुरुषार्थकामैः परमो गन्तव्यः
प्रदेशश्चेति । तत्र यथा पुरुषः श्रुत्या तात्पर्यण प्रतिपाद्य एवमिन्द्रियादिपरम्पराऽपि
प्रतिपाद्यैव । अन्यथा तदुपन्यासवैयर्थ्यात् । बहूनां प्रतिपादने वाक्यभेदः स्यादिति
चेद्बाढम् । सन्त्येव तानि बहूनि वाक्यानि । एकवाक्यत्वस्यासंभवादिति प्राप्ते ब्रूमः—
पुरुषज्ञानस्याशेषसंसारनिदानभूताज्ञाननिवर्तकत्वात्पुरुष एव ज्ञेयतया प्रतिपाद्यः । अत
एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः ।
“एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” ॥ इति ।
अयमर्थः—सर्वाभ्यन्तरत्वेन गूढ आत्मा बहिर्मुखानां( णां ) न प्रकाशते । अन्तर्मु-
खानां( णां ) तु प्रकाशते । अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलास्तैर्योगाभ्यासेनेकाग्र्य-
मापन्नया बुद्ध्या सूक्ष्मवस्तुविषयया द्रष्टुं शक्यत इति । न च पुरुषस्यैव प्रतिपाद्यत्वे
परम्परोपदेशवैयर्थ्यम् । बहिर्मुखस्य चित्तस्य क्रमेण पुरुषप्रवेशे परम्परायाः साधनत्वात् ।
तस्मात्पुरुष एव ज्ञातव्यः” ।
अनेन न्यायेन ब्रह्मण आनन्त्यमुपपादयितुमाकाशादिसृष्टिरुक्ता । गुहाहितत्वमुप-
पादयितुं पञ्चान्न मयादिकोशा उपन्यस्ताः । ज्ञातव्यं तु ब्रह्मैव । तच्च सत्यज्ञानादिलक्षणं
गुहाहितत्वेन प्रत्यगात्मस्वरूपं चेति स्थितम् ।

  • आध्यानाय प्रयोजनाभावात्—ब्र० सू० अ० ३ पा० ३ अ० ७ सू० १४ ।
    १ क. ख ढ. ॰लक्ष्य प० । २ क. ङ. उपादिष्टः ।

इत्थं ब्रह्मोपदेशरूपं श्रवणप्रकरणं परिसमाप्य बहिर्मुखाना( णा )मुपपादनरूपा-
मननप्रकरणस्याऽऽरम्भे शिष्यप्रश्नान्प्रतिजानीते—
अथातो॑ऽनुप्र॒श्नाः, इति ।
उपदेशानन्तरमुपदिष्टेऽर्थे यस्मात्कारणाच्छिष्यस्य बुद्धिदोषेण बहवः संदेहाः प्रादुर्-
भवन्त्यतः कारणादुपदिष्टानुरूपाः प्रश्नाः क्रियन्ते । अत्राथशब्देन विवक्षितं श्रवणम-
ननयोः पूर्वापरभावमन्वत्र विस्पष्टमेव श्रुतिराह—“ श्रोतव्यो मन्तव्यः ” इति । तयोः
स्वरूपमेवं स्मर्यते—“ श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ” इति ।
तयोः प्रयोजनं विभज्याऽऽम्नायते—“ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः १
इत्युपदेशेन ब्रह्मतत्त्वे ज्ञाते सति प्रत्यगात्मनोऽन्तःकरणेन सह तादात्म्यभ्रमस्वरूपो
ग्रन्थिर्निवर्तते । उपपत्तिपर्यालोचनरूपेण मननेन संशयाश्छिद्यन्ते । तस्मादत्र च्छेत्तव्य-
संशयोपन्यासरूपाः प्रश्नाः क्रियन्त इत्यर्थः ।
प्रतिज्ञातान्प्रश्नानुपन्यस्यति —
उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्च॒न ग॑च्छती ३ । आहो॑
वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒त्सम॑श्नुता ३ उ॑, इति ।
यदुक्तम्—“ब्रह्मविदाप्नोति परम्” इति तेन बुद्धिस्थेन तत्प्रतियोगिन्यविदुषि द्वौ
प्रश्नौ क्रियेते । उतशब्दः प्रश्नद्योतकः किमित्येतस्मिन्नर्थे वर्तते । चनशब्दोऽपिश-
ब्दार्थवाची । अमुं लोकमिति पुरोवर्ती परमात्मोच्यते । किमविद्वान्यः कोऽपि देहा-
त्प्रेत्य परमात्मानं गच्छतीति श्रौत आद्यः । अथवा न गच्छतीत्यर्थसिद्धो द्वितीयः
प्रश्नः । तथा विद्वद्विषयावपि द्वौ प्रश्नावित्येवं चत्वारः प्रश्नाः । सर्वजगत्कारणस्य
जीवरूपेण देहेषु प्रविष्टस्य ब्रह्मणो विद्वदविद्वत्साधारणत्वेन विदुषस्तत्प्राप्तावविद्वानपि
प्राप्नुयात् । अविदुषोऽप्राप्तौ विद्वानपि न प्राप्नुयादिति चतुर्णां प्रश्नानामभिप्रायः ।
यद्वा श्रूयमाणौ विद्वदविद्वद्विषयौ द्वावेव प्रश्नौ । पूर्ववाक्यसूचितेन प्रश्नेन सह समुच्चि-
तत्वाद्बहुवचननिर्देशः ।
पूर्ववाक्ये हि—“असद्ब्रह्मेति वेद चेदस्ति ब्रह्मेति चेद्वेद ” इतिकोटिद्वयोपन्यासेन
सूचितो ब्रह्मसद्भावविषयः प्रथमः प्रश्नः । एतस्य प्रश्नस्योत्तरत्वेन गुरुर्ब्रह्मणः सद्भावं
साधयितुं सृष्टिमुपन्यस्यति --
सो॑ऽकामयत । ब॒हु स्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽ-
तप्यत । स तप॑स्त॒प्त्वा । इ॒दꣳ सर्व॑मसृजत, इति ।
१ घ. 'विद्यते । २ क. घ. ङ. °षयेऽपि । ख. °षये द्वौ ।

[प्रपा०८/अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२१
ब्रह्म पुच्छं प्रतिष्ठेति निर्दिष्टो योऽयं ब्रह्मपदार्थोऽन्नमयादीनामानन्दमायान्तानां
पञ्चानां कोशानां शारीर आत्मेत्युक्तः सोऽयमात्मा सृष्टेः पूर्वमेक एवाद्वितीयः सन्स्व-
शक्तिसंयोगात्कामितवान् । आत्मन्याश्रिता मायाशक्तिः कामनाकारेण विक्रियामा-
पद्यत इत्यर्थः । न ह्यविक्रियस्य चिदेकरसस्य मायामन्तरेण कामः संभवति । *यद्य-
प्यस्तीश्वरस्य मायाकल्पितः कामस्त+थाऽपि कामित्वेन जीववन्नित्यतृप्तो न स्यादिति
चेन्न । लीलाश्वासादिदृष्टान्तेन मीमांसायां परिहृतत्वात् । कामितार्थस्य काचिदपि
विघाताभावादपि जीववैषम्यम् । अत एव—"सत्यकामः सत्यसंकल्पः” इत्यन्यत्राऽऽ-
म्नातम् । कामनाप्रकार एव निर्दिश्यते—बहु स्यां प्रभूतं भवेयम् । नन्वाकाशस्य
घटादिपदार्थान्तरोपाधिकृतं बहुवचनं दृष्टमद्वितीयस्य तु कथं बहुतेत्याशङ्क्योच्यते—
प्रजायेय प्रकर्षेण पूर्वावस्थितात्स्वरूपादाधिक्येनोत्पद्येय । ननु विद्यमानः पिता
पुत्रमुत्पादयति न तु स्वयमुत्पद्यते । तथा सत्यत्रापि जगदुत्पादकस्य ब्रह्मणः
स्वोत्पत्त्यभावात्प्रजायेयेत्युक्तिरनुपपन्नेति चेन्न । उत्पद्यमानयोर्नामरूपयोर्ब्रह्मणोऽत्य-
न्तभेदाभावात् । यथा समुद्रादाविर्भवन्तस्तरङ्गादयो नात्यन्तं भिन्नास्तथा ब्रह्मशक्तौ
मायायामवस्थिते पूर्वमनभिव्यक्ते नामरूपे पश्चादभिव्यज्यमाने सती ब्रह्मणः सद्रू-
पामपरित्यज्यैव स्वयमपि सद्रूपत्वेन भासेते । एतदेवाभिप्रेत्य वाजसनेयिन
आमनन्ति—"तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत ” इति । तस्मा-
द्ब्रह्मण एव मायया जगद्रूपेण प्रतिभासात्प्रजायेयेत्युक्तिरुपपद्यते । स परमात्मोक्तप्रकारेण
कामयमानस्तपोऽतप्यत । तपःशब्देन ज्ञानमुच्यते । “यस्य ज्ञानमयं तपः ”
इति श्रुत्यन्तरात् । सृज्यमानजगद्रचनालोचनमकरोदित्यर्थः । न खलु परमेश्वरस्य
कृच्छ्रचान्द्रायणादिरूपेण तपसा किंचित्प्रयोजनमस्ति । स परमेश्वरः स्रष्टव्यवस्तुपर्या-
लोचनं कृत्वा प्राणिकर्मनिमित्तानुरूपमिदं सर्वं जगद्देशतः कालतो नाम्ना रूपेण
च सर्वप्राणिभिः सर्वावस्थैरनुभूयमानं सृष्टवान् । अत्र कामयितृत्वपर्यालोचक-
त्वजगत्स्रष्टृत्वरूपैर्हेतुभिः परमात्मनः सद्भावः प्रतिपाद्यते । असद्वादी तावदेवं
मन्यते—यद्यदस्ति तत्सर्वं नामरूपात्मकमित्याकाशादिभूतेषु देवतिर्यगादिभौतिकदेहा-
दिषु चेत्यादिव्याप्तिर्दृष्टा । परमात्मा तु नामरूपाभ्यामन्यः “आकाशो वै नाम
नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म ” इति श्रुत्यन्तरात् । यस्तु परमात्मा ब्रह्मे-
त्यादिव्यवहारः सोऽपि तत्सद्भावं साधयितुं न प्रभवति । नरविषाणादिवत्तस्य विकल्प-
मात्रत्वात् । “ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ” इति हि पातञ्जलं सूत्रम् ।
ततो नामरूपे ब्रह्मणो व्यावर्तमाने स्वव्याप्यं सद्भावमपि व्यावर्तयतः । एवं च सति

  • यदीत्यर्थः । + तर्हीत्यर्थः ।
    १ ग. ॰त्यन्तभिं॰ । २ घ. ॰ष्टत्वादिरू॰ । ३ ग. ॰व्यातं सं॰ ।

६२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८ अनु०२]
“ असद्वा इदमग्र आसीत् ” “ यतो वाचो निवर्तन्ते ” “ अथात आदेशो नेति
नेति ” “ अस्थूलमनण्वह्रस्वम् ” इत्याद्याः श्रुतयोऽनुगृहीता भविष्यन्ति । तस्मान्नास्ति
ब्रह्मेति । तमेतमसद्वादिनं प्रति सद्भावः साध्यते । परमात्मा सद्रूपः कामयितृ-
त्वात्स्वर्गादिकामयितृवत् । पर्यालोचकत्वाद्राजमन्त्रिवत् । स्रष्टृत्वात्कुम्भकारादिवत् ।
यत्तु नामरूपयोः सत्त्वं भवतोदाहृतं तदेवास्मदभिप्रेतं ब्रह्म । सद्रूपे ब्रह्मण्यधिष्ठाने
मायया नामरूपयोः कल्पितत्वात् । असद्वा इत्यादेस्त्वर्थो वक्ष्यते ।
किंच ब्रह्म सद्रूपं प्रवेष्टृत्वाद्यथा गृहादौ प्रवेष्टा पुरुष इत्यभिप्रेत्य प्रवेशं दर्शयति—
यदि॒दं किंच॑ । तत्सृ॒ष्ट्वा॑ । तदे॒वानु॒प्रावि॑शत्, इति ।
हिरण्यगर्भादिस्थावरान्तं शरीरजातं यत्किंचिदस्ति तत्सर्वं सृष्ट्वा तदेव सृष्टं शरीर-
जातं परमात्मा प्राविशदित्यर्थः । अत्रेदं चिन्तनीयम् । यः परमात्मा स्रष्टाऽस्ति
स किं तेनैव रूपेण प्राविशत्किंवा रूपान्तरेणेति । तत्र सृष्ट्वेति क्त्वाप्रत्ययेन
सृष्टिप्रवेशयोः समानकर्तृकत्वावगमात्स्वस्रष्टृरूपेणैव प्रवेश इति चेन्न । मृत्पिण्डवदु-
पादानस्य प्रवेशानुपपत्तेः । न खलु यो मृत्पिण्डो घटाकारेण परिणतः स एव
घटमनुप्रविशति । तथा शरीराकारेण परिणतस्य स्रष्टुस्तेष्वेव शरीरेषु कथं प्रवेशो
घटेत । ननु तर्हि रूपान्तरेण प्रवेशोऽस्तु । यथा मृत्पिण्डविकारे घटे पुनरन्या चूर्ण-
रूपा मृत्प्रविशति । तथेश्वररूपेण प्रवेशाभावे जीवरूपेण प्रवेशः स्यात् । मैवम् ।
अद्वयस्य रूपद्वयाभावात् । तदङ्गीकारेऽपि प्रवेष्टव्यप्रदेशाभावात् । उपादानत्वेन
सर्वकार्येषु पूर्वमेवानुगतोऽवतिष्ठते । तथासति परमात्मशून्यप्रदेशाभावेन कुत्रायं
प्रविशेत् । अवस्थिते परमात्मन्येव प्रविशेदिति चेन्न । तदेवानुप्राविशदिति सृष्टे
कार्ये प्रवेशश्रवणात् । सृष्टं शरीररूपं कार्यं पुनर्जीवलक्षणकार्यान्तराकारेण परिणमते ।
सोऽयं परिणामः प्रवेश इति चेन्न । कुम्भकारपरिणामस्य पुनः शरीराकारपरिणा-
मादर्शनात् । जलसूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादिति चेन्मैवम् । अपरिच्छिन्न-
त्वादमूर्तत्वाद्विप्रकृष्टदेशावस्थितस्य प्रतिबिम्बाधारस्याभावाच्च । परिच्छिन्नो मूर्त्तश्च
सूर्यबिम्बो विप्रकृष्टदेशस्थे जलादौ प्रतिबिम्बितो भवति । ब्रह्म तु न परिच्छिन्नम्
नापि मूर्तम् । न च ब्रह्मणो विप्रकृष्टदेशवर्ती कश्चिदुपाधिरस्ति । तस्मान्न केनापि
प्रकारेण प्रवेश उपपादयितुं शक्यते । अत्रोच्यते । जगत्सृष्टिवदयं प्रवेश उपपाद-
नीयः । अचिन्त्यरचन,रूपं जगद्यथा परमेश्वरो मायाबलेन ससर्ज तथा मायाबले-
नैव प्रविशतु । अथोच्येत । येयमाकाशादिका मायामयी सृष्टिर्न तां वस्तुत्वबुद्ध्या
श्रुतिः प्रतिपादयति । किं तर्हि मृद्धटन्यायेन कार्यस्य कारणव्यतिरेकेणाभावं विव-
क्षित्वा ब्रह्मण आनन्त्यं पूर्वत्र प्रतिज्ञातमुपपादयितुं भ्रान्तिसिद्धा सृष्टिरनूद्यत १ इति
१ घ. ˚वेशानु˚ ।

[प्रपा०८ अनु०२] कृष्णयजुर्वेदाय तैत्तिरीयारण्यकम् । ६२३
तर्हि प्रतिज्ञातं गुहानिहितत्वं पञ्चकोशोपन्यासद्वारेण ब्रह्म पुच्छमित्युपपाद्य पुनरपि तदेव
दृढीकर्तुं भ्रान्तिसिद्धः प्रवेशोऽनूद्यताम् । यथा कश्चित्पुमान्गृहं निर्माय तत्र प्रविश्या-
भ्यन्तरे स्थित उपलभ्यते, एवं ब्रह्माप्याकाशादिकार्यं सृष्ट्वा तस्यान्तः प्रविष्टमिव हृदय-
पुण्डरीकेऽवस्थितायां बुद्धौ द्रष्टृ श्रोतृ विज्ञात्रित्येवं विशेषवदुपलभ्यते । सोऽयमस्य प्रवेश
त्युपचर्यते । वाजसनेयिभिरप्ययं प्रवेश आम्नायते— “ स एष इह प्रविष्ट आनखा-
ग्येभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलायः ” इति ।
एतस्य वाक्यार्थो वार्तिकसारे विस्पष्टमाख्यातः—
“ तच्छब्देन परामृष्टः साक्ष्यव्याकृतभासकः ।
एतच्छब्देन कार्यस्थः प्रत्यक्ष उपदिश्यते ॥
अद्वितीयमधिष्ठानं कार्यस्थः सद्वयस्तयोः ।
स एष इत्यभेदोक्तिर्दुष्करेति न चोद्यताम् ॥
अज्ञातवस्तुतत्त्वस्य दुष्करं नास्ति किंचन ।
नीलीकृतं नभः पश्येच्चक्षुषा नीलवस्त्रवत् ॥
योग्यायोग्यव्यपेक्षेयं मानव्यवहृतौ भवेत् ।
कल्पनामात्रनिष्पत्तेर्नापेक्षाऽज्ञानभूमिषु ॥
इहेत्यनेन सूत्रादिस्थाणुपर्यन्तविग्रहाः ।
उच्यन्ते तेषु जीवोऽयं विस्पष्टमुपलभ्यते ॥
प्रविष्ट इति शब्देन चिदाभासस्तमोन्विता ।
जीवत्वेनोपलब्धिर्या चितः सैषाऽभिधीयते ॥
चिदाभासप्रवेशस्तु प्रत्यङ्मोहे स्वतो भवेत् ।
तत्कार्येष्वनुवृत्तः सन्नुपाधिश्रितप्रवेशने ॥
जपाकुसुमरक्तत्वं स्फटिके कल्पितं यथा ।
चिदाभासप्रवेशोऽयं चित्यध्यारोप्यते तथा ॥
सूत्रादिस्थाणुपर्यन्तं जगत्सृष्ट्वाऽऽत्ममायया ।
स्वाभासैकस्वभावेन स एवं प्राविशत्परः ॥
आनखाग्रेभ्य इत्युक्ता मर्यादाऽस्य प्रवेशने ।
उष्णस्पर्शेन चैतन्यं नखाग्रावधि लक्ष्यते ॥

१ क. ख. ङ. °लक्ष्यते । २ घ. पश्येद्यक्षु° । ३ ख. 'तयोन्विता । ४ ग. 'र्याऽन्विता
ख. एव । ६ क. ख. ङ. °त्युक्त्या म° । ७ क. ख. ङ. उष्णं स्प° । ८ घ. लभ्यते ।

सामान्येन विशेषाच्च चिद्देहं व्याप्य वर्तते ।
दृष्टान्ताभ्यां द्वयी वृत्तिर्द्विविधाऽऽस्यामिहोच्यते ॥
दारु कृत्स्नमभिव्याप्य यथाऽग्निर्दारुणि स्थितः ।
संव्याप्य देहमखिलं तद्वदात्मा व्यवस्थितः ॥
तस्थावसंव्याप्य यथा क्षुरपौत्रं क्षुरस्तथा ।
श्रोत्रादिनाडीमध्यस्थस्तनुमव्याप्य संस्थितः ॥
क्षुरपात्रे स्थानभेदाद्भिद्यन्ते यथा क्षुराः ।
चैतन्यानि विभिद्यन्ते तथा नाडीविभेदतः ॥
प्राप्नोति वृत्तौ द्वे जीवः स्वप्नजाग्रदवस्थयोः ।
सामान्यवृत्तिमेवैकां सुषुप्ते प्रतिपद्यते ॥
सामान्यवृत्तिर्या साऽत्र जीवनायोपयुज्यते ।
विशेषवृत्तयो देहे शब्दाद्यालोचनोद्यताः ॥
प्रवेशवाक्यं पदशस्तात्पर्याच्च स्फुटीकृतम् ।
तदनुग्राहको न्याय इदानीं प्रविचार्यते ॥
किं देवदत्तगृहवत्प्र

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२५
आधाराधेयता सर्पशिलयोः फलबीजयोः ।
अंशांशितेति वैषम्यन्न तत्र पुनरुक्तता ॥
परिच्छिन्नो जीव एव देहेषु प्रविशत्यतः ।
न दोष इति चेन्नैवं स्रष्टुरेव प्रवेशनात् ॥
तत्सृष्ट्वाऽथ तदेवानुप्राविशत्स इति श्रुतेः ।
स्रष्टृप्रवेष्टोरेकत्वं स्याद्भुक्त्वा व्रजतीतिवत् ।
अतः केनाप्युपायेन प्रवेशो घटते न हि ॥
इति प्राप्ते पूर्वपक्षे प्रवेश उपपाद्यते ।
अप्रविष्टस्वभावोऽयं दिग्देशाद्यनभिप्लुतेः ॥
कल्पितोऽस्य प्रवेशः स्याज्जलपात्रार्कबिम्बवत् ।
विभागाद्यंशवैषम्येऽप्यस्ति साम्यं विवक्षितम् ॥
उपाधिस्थोपलब्ध्यादिसाम्यं केन निवार्यते ।
उपाधावुपलब्धत्वमन्यथात्वेन भासनम् ॥
बहुत्वमानमित्येतद्दृष्टदार्ष्टान्तयोः समम् ।
तेजोधिकं रवेर्बिम्बमशक्यं द्रष्टुमञ्जसा ॥
तथाऽपि जलमध्ये तद्बिम्बं सम्यगवेक्ष्यते ।
स्वयंप्रकाश आत्मैवं नोपलभ्योऽनुपाधिकः ॥
जडदेहाद्युपाधौ तु विस्पष्टमुपलभ्यते ।
दर्पणाभिहता दृष्टिः पर्यावृत्य स्वमाननम् ॥
व्याप्नुवत्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।
देहाद्युपप्लुतेयं धीरात्मानं व्याप्नुवत्यसौ ॥
अविक्रियं विक्रियाभिर्युक्त इत्यवभासयेत् ।
एकोऽप्यनेकधा भाति तरणिः पात्रभेदतः ॥
एवं नानादेहभेदाद्भात्यात्मैकोऽप्यनेकधा ।
निर्धूताशेषनानात्वं तद्धेतुरविभागवान् ॥
अनन्यसाक्षिकोऽपीदृक्कस्यात्प्रवेशभ्रमादयम् ।
दृशादिरूपरहितः प्रत्यगात्माऽभवत्पुरा ॥
नामरूपजनौ सत्यां द्रष्टृत्वादियुतो भवेत् ।
द्रष्टृश्रोत्रादिरूपो यो यश्च द्रष्ट्रादिवर्जितः ॥
१ क. ख. ङ. °शस्यतः । २ घ. °भिमुखा दृ° । ३ क. ङ. °वेशाद्भ्रमा° ।
७९

६२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा.८ अनु.१]
बुद्धितत्कारणोपाधी क्षेत्रज्ञेश्वरसंज्ञकौ ।
जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ॥
स सर्वसाक्षी पूर्वाभ्यामुपलक्षणमर्हति ।
अप्पात्रोत्थापिताद्भानोर्दिवि भानुर्यथेक्ष्यते ॥
सर्वसाक्षी तथा धीस्यात्कर्तृभोक्त्रादिलक्षणात् ।
प्रकाशात्मा यथा चन्द्रः शाखाग्रादतथाविधात् ॥
लक्ष्यस्तथा चिदात्माऽपि कारणोपाधितो जडात् ।
जीवत्वभ्रान्तिरेवैषा प्रत्यग्बोधोपयोगतः ॥
जलपात्रार्कसाम्येन प्रवेश इति कल्प्यते ।
दिग्देशकालशून्यस्य प्रवेशो बिलसर्पवत् ॥
न त्वञ्जसा परस्यास्ति तेनाविद्याप्रकल्पितः ।
अविद्यया तु साक्ष्यैव केवलॊऽप्यविवेकतः ॥
बुद्ध्यादिकार्यगैर्धर्मैः प्रतिबिम्बवदीक्ष्यते ।
अग्निः सूर्यो मरुच्चेति दृष्टान्ताः श्रुत्युदीरिताः ॥
अप्रविष्टस्वभावोऽतः कार्यमात्माऽविशज्जगत् ।
अग्निर्यथैको भुवनं काष्ठेकोष्ठादिरूपकम् ॥
प्रविष्टः प्रतिरूपोऽभूदप्रविष्टोऽपि सँस्स्वतः ।
वायुर्यथैको भुवनं नानाव्यञ्जनरूपकम् ॥
प्रविष्टो बहुरूपोऽभूदप्रविष्टोऽपि संस्स्वतः ।
सूर्यो यथोदपात्रेषु प्रविष्टो बहिरेव सन् ॥
तथाऽऽत्माऽप्यप्रविष्टः सँन्प्रविष्ट इव लक्ष्यते ।
यथा सृष्ट्यादयः कॢप्ताः प्रवेशोऽपि तथेष्यताम् ॥
युक्त्या नैवोपपद्यन्ते सृष्ट्याद्याः कल्पितास्ततः ।
नासतो जन्मना योगः सतः सत्त्वान्न चेष्यते ॥
कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ।
रूपं रूपमितीयं तु स्पष्टमृक्प्रत्यगात्मनः ॥
याथात्म्यदर्शनायैव सृष्ट्यादीन्यभ्यभाषत ।
क्षुरपात्राख्यदृष्टान्ताद्विशेषेण प्रवेशनम् ॥
इन्द्रियेष्वपि विस्पष्टमुपलभ्यत्वमात्मनः ।
यदग्निकाष्ठदृष्टान्तात्सामान्येन प्रवेशनम् ॥
१ ग. ॰क्ष्येतं के॰ । २ क. ख. ङ. 'ष्टलोष्टादि' । ३ ग. स स्वतः । ४ ग. स प्रवि'
५ ग. ॰नाप्त्येव ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२७

तदधिष्ठानरूपेण कार्यव्यापित्वमुच्यते ।
अधिष्ठानारोप्यभावमन्तरेण न कुत्रचित् ॥
व्याप्यव्यापकयोः कृत्स्नस्वरूपव्याप्तिरिष्यते ।
अत्यन्तभिन्नयोर्व्याप्तिर्नहि दृष्टा गवाद्वयोः ॥
नाप्यत्यन्तमभिन्नस्य व्याप्यव्यापकवर्जनात् ।
भेदाभेदौ वास्तवौ तु दुर्लभौ तेन शिष्यते ॥
अधिष्ठानारोपितयोरेवं व्याप्तिर्बलादियम् ।
तमस्यैव यथा सर्वं स्रक्प्रविष्टा न तु स्वतः ॥
प्रत्यग्ज्ञानकार्याणि स्वात्मैवं मायया बलात् ।
व्यापित्वमुपलभ्यत्वमिति द्वेधा प्रवेशनम् ॥
सिद्धं प्रवेशाद्ये दोषास्तान्निराचक्ष्महेऽधुना ।
पर एव प्रविष्टश्चेत्प्रविष्टानामेकतः ॥
तदनन्यत्वतः प्राप्ता महेशस्याप्यनेकता ।
नैष दोषोऽस्य चोद्यस्य विपरीतत्वसंभवात् ॥
बहूनामेकतादात्म्यादेकत्वं किं न चोद्यते ।
नियामकश्चाऽऽसंगमोऽत्र स च भेदं निवारयेत् ॥
कल्प्यैः सर्पादिभिर्भेदैर्न च रज्जुर्विभिद्यते ।
एको देवो निविष्टोऽत्र बहुधेति श्रुतीरणात् ॥
वियद्वदेक एवैष ईश्वरोऽभ्युपगम्यताम् ।
संसारित्वात्प्रविष्टानां परस्य तदभेदतः ॥
संसारित्वं प्रसक्तं चेन्न क्षुधाद्यत्ययश्रुतेः ।
सुखदुःखविमोहादिदर्शनान्नेति चेन्न तत् ॥
न लिप्यते लोकदुःखैर्लोकबाह्य इति श्रुतेः ।
उपाधिजनितो योऽयं चिदाभासोऽवभासते ॥
दुःखानुभवस्तत्र सावकाशो भविष्यति ।
दुःखी यदि भवेदात्मा कः साक्षी दुःखिनो भवेत् ॥
दुःखिनः साक्षिता नैव साक्षिणो दुःखिता तथा ।
नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ॥
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ।
शरीरेन्द्रियसंघात आत्मत्वेनाभिमानिनीम् ॥


१ क. ख. ग. ङ. प्रविष्टा ये दो० ।

(ya) with 'ै'? "यैक"?
Wait! Look at line 8 again:
मा त्म च्छा यै क क र्म क म् ।
Wait, is it 'यैक' (य with ऐ) or 'द्यैक'?
Look at 'य' in line 2: 'यथा', line 4: 'पराच्येव'.
Look at line 8: after 'च्छा', there is 'यै' or 'द्यै'?
Wait, look at 'यै': it's just 'य' with two matras on top: 'यै'!
Wait, then it is "आत्मच्छायैककर्मकम्"?!
"आत्मच्छाया" = reflection of Atman!
"आत्मच्छायैककर्मकम्" = having for its sole object the reflection of the Atman (चिदाभास / आत्मच्छाया)!
YES! "आत्मच्छाया"!
Because the very first verse (line 1) says:
"चिदाभासयुतां बुद्धिं विशिषन्ति सुखादयः ।"
चिदाभास IS आत्मच्छाया (the reflection/shadow of the Self)!
So the cognition "अहं दुःखी" has as its sole object the reflection of the Self: "आत्मच्छायैककर्मकम्"!
AND then:
"आत्मन्यारोप्यते भ्रान्तैर्विद्वद्भिश्श्रोपचर्यते ॥"
(It is superimposed on the pure Self by the deluded, and

प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२९
नवसंख्येयमावेक्षी दशमो विभ्रमाद्यथा ।
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥
निःशेषानात्मदृक्छब्दनिर्ज्ञातात्मतत्त्वकः ।
न वेत्त्येकात्म्यमस्तीति वीक्षमाणोऽप्यनात्मनः ॥
दशमोऽसीतिवाक्योत्थसम्यग्ज्ञानानलार्चिषा ।
प्लुष्टात्मदशमाज्ञानो दशमोऽस्मीति वीक्षते ॥
तथा तत्त्वमसीत्यादिवाक्योत्थज्ञानवह्निना ।
प्लुष्टानात्मतमस्तज्जं चैकात्म्यं प्रतिपद्यते ॥
प्रत्यग्ज्ञानहेतूत्थशास्त्राचार्यादिसाधनः ।
तद्विरुद्धं निजैकात्म्यं प्रत्यपद्यत मायया ॥
प्रविष्टमुपजीव्यापि दोषः कोऽपि न वादिभिः ।
इहाऽऽपादयितुं शक्यः प्रवेशस्तेन सुस्थितः " ॥ इति ।
अन्यान्यपि प्रवेशवाक्यान्येवं व्याख्येयानि । “पुरः पुरुष आविशत्” इति मधु-
ब्राह्मणवाक्यम् । “विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते
माययैव” इत्युत्तरतापनीयवाक्यम् । सर्वगतस्य देहे प्रवेशाय प्राणवायुरूपोपाधिः
साधनम् । तथा च मैत्रेयोपनिषदामनन्ति—“स वायुमिवाऽऽत्मानं कृत्वाऽभ्य-
न्तरं प्राविशत्” इति । तस्य वायोः प्रवेशनिर्गमावात्मन्यध्यरोप्य व्यवह्रियेते । तदे-
तदाथर्वणिकैः पठ्यते—“स ईक्षांचक्रे कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि
कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत” इति । यद्यपि लिङ्गदेहः
कृत्स्नोऽप्यात्मनः स्थूलशरीरे प्रवेशोपाधिस्तथाऽपि प्राणस्य तत्र प्राधान्यं द्रष्ट-
व्यम् । स च लिङ्गोपाधिः पादाग्रयोः प्रविश्योर्ध्वमारुह्योपरि स्थितयोरूर्वोरुदर
उरसि शिरसि च प्रतितिष्ठति । तदेतदैतरेयिणः—“तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं
पुरुषम् ” इत्यादिना समामनन्ति । ननु “स ईक्षत कतरेण प्रपद्यै” इति वाक्येन पर-
मा

[६३०] श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ८ अनु० २]

प्राणो भूत्वा नासिके प्राविशत्” इत्यादि । तत्र पादाग्रद्वारा देहे प्रविष्टस्य लिङ्गशरी-
स्यावयवा वागादयः स्वस्वदेवताभिरग्न्यादिभिरनुगृहीता मुखच्छिद्रादिगोलकेषु व्यवस्थिता
इत्येतावद्विवक्षितम् । यदपि च्छन्दोगैराम्नायते—“अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य
नामरूपे व्याकरवाणि” इति, । तत्र प्राणधारकत्वं जीवत्वं तेनोपाधिना युक्तः प्रविशति ।
तदेवं सर्वासामपि श्रुतीनां पर्यालोचनया परमात्मनो जीवत्वेन प्रवेश इति सिद्धम् ।
अथ मीमांसा । तत्र जीवस्य नामरूपस्रष्टृत्वाभावो द्वितीयाध्यायस्य चतुर्थपादे*
चिन्तितः—
“ नामरूपव्याकरणे जीवः कर्ताऽथवेश्वरः ।
अनेन जीवेनेत्युक्तेर्व्याकर्ता जीव इष्यते ॥
जीवान्वयः प्रवेशेन संनिधेः सर्वसर्जने ।
जीवोऽशक्तः शक्त ईश उत्तमोक्तिंस्तथेक्षितुः ॥
ईश्वरेण पञ्चभूतेषु सृष्टेषु भौतिकयोर्दृश्यमानयोर्महीधरादिनामरूपयोर्जीव एव स्रष्टा
स्यात् । कुतः । “ अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति
जीवरूपस्यैव सृष्टावन्वयश्रवणादिति प्राप्ते ब्रूमः—जीवेनानुप्रविश्येतिप्रवेशने जीवो-
न्वेति संनिहितत्वात् । जीवेन व्याकरवाणीत्युक्तौ व्यवहितान्वयः स्यात् । नहि
जीवस्य गिरिनदीनिर्माणे शक्तिरस्ति । ईश्वरस्तु सर्वशक्तियुक्तः “पराऽस्य शक्तिर्विविधा”
इति श्रवणात् । किंच व्याकरवाणीत्युत्तमपुरुषोऽपीश्वरपक्षे समजसः । तस्मादीश्वर
एव नामरूपयोः स्रष्टा । कथं तर्हि घटपटादौ कुलालादेर्निर्मातृत्वम्, ईश्वरप्रेरणादिति
ब्रूमः । तस्मादीश्वर एव सर्वकर्तेति सिद्धम् ” ।
तत्रैव तृतीयापादे दशमाधिकरणमारभ्य सप्तदशाधिकरणपर्यन्तरष्टाभिरधिकर-
णैर्जीवविचाराः प्रवर्तिताः । तत्र = दशमाधिकरणमारचयति—
“ जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते ।
जातो मे पुत्र इत्युक्तेर्जातकमादितस्तथा ॥
मुख्ये ते वपुषो भाक्ते जीवस्यैते अपेक्ष्य हि ।
जातकर्म च लोकोक्तिर्नीवापेतेतिशास्त्रतः ॥
लोके जातो मे पुत्र इति व्यवहाराच्छास्त्रे जातकमीदिसंस्कारोक्तेश्च जन्ममरणे
जीवस्येति प्राप्ते ब्रूमः—जीवस्य जन्ममरणाङ्गीकारे कृतनाशाकृताभ्यागमप्रसङ्गस्य


* संज्ञापूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्-ब्र० सू० अ० २ पा० ४ अ० ९ सू० २० । = चरा-
चरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ब्र०सू०अ० २ पा० ३ अ० १० सू० १६ ।
१ व प्रवेश इति । २ य. ॰क्तिरप्ये॰ ।

दुर्वारत्वाद्देहगते एव जन्ममरणे जीवस्योपचर्येते । औपचारिके एव ते अपेक्ष्य लोकव्य-
वहारकर्मशास्त्रयोः प्रवृत्तिः । उपनिषच्छास्त्रं तु जीवापेतं वाव किलेदं म्रियते न जीवो
म्रियत इति । जीवविमुक्तस्यैव शरीरस्य मुख्य¹मरणमभिधाय जीवस्य तन्निराचष्टे ।
तस्माद्गौणो जन्ममरणे ”

  • एकादशाधिकरणमारचयति—
    “ कल्पादौ ब्रह्मणो जीवो वियद्वज्जायते न वा ।
    सृष्टेः प्रागद्वयत्वोक्तेर्जायते विस्फुलिङ्गवत् ॥
    ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम् ।
    औपाधिकं जीवजन्म नित्यत्वं वस्तुतः श्रुतम् ॥
    “ एकमेवाद्वितीयम् ” इति सृष्टेः प्रागद्वयत्वं श्रूयमाणं ब्रह्मव्यतिरिक्तस्य जीव-
    स्यानुत्पत्तौ नोपपद्यते । श्रुतिश्च विस्फुलिङ्गदृष्टान्तेन जीवस्योत्पत्तिं प्रतिपादयति—
    “ यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः
    सर्वे देवाः सर्वाणि भूतानि सर्व एत² आत्मानो व्युच्चरन्ति ” इति । तस्मात्कल्पादौ
    वियदादिवद्ब्रह्मणो जीवो जायत इति प्राप्ते ब्रूमः—यदद्वयं ब्रह्म तदेव जातायां बुद्धौ
    जीवरूपेण प्रविशति । “ तत्सृष्ट्वा तदेवानुप्राविशत् ” इति श्रुतेः । अतो जीवानु-
    त्पत्तौ नाद्वयश्रुतिविरोधः । विस्फुलिङ्गश्रुतिस्त्वौपाधिकजन्माभिप्राया³ प्रवृत्ता । अन्यथा
    कृतनाशाकृताभ्यागमादिदोषः⁴ स्यात् । वस्तुतत्त्वाभिप्रायेण तु नित्यत्वं श्रुतिर्ब्रूते-“नित्यो
    नित्यानां चेतनश्चेतनानाम् ” इति । तस्मात्कल्पादौ जीवो नोत्पद्यते ” ।
  • द्वादशाधिकरणमारचयति—
    “ अभिन्नबोधश्चिद्रूपो जीवोऽचिद्रूप इष्यते ।
    चिद्भावात्सुषुप्त्यादौ जाग्रच्चिन्मनसा कृता ॥
    ब्रह्मत्वादेव चिद्रूपश्रुतिस्सुषुप्तौ न लुप्यते ।
    द्वैतादृष्टेर्द्वैतलोपान्न हि द्रष्टुरिति श्रुतेः ॥
    तार्किका मन्यन्ते--सुषुप्तिमूर्च्छासमाधिषु चैतन्याभावादचिद्रूपो जीवः । जागरणे
    त्वात्ममनःसंयोगाच्चैतन्याख्यो गुणो जायत इति । तदसत् । चिद्रूपस्य ब्रह्मण एव
    जीवरूपेण प्रवेशश्रवणात् । न च चैतन्यं सुषुप्त्यादौ लुप्यते सुषुप्त्यादिसाक्षित्वेना-
    वस्थानात् । अन्यथा सुषुप्त्यादिपरामर्शायोगात् । कथं तर्हि सुषुप्त्यादौ द्वैतौप्रतीति-
  • नाऽऽत्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः—ब्र० सू० अ० २ पा० ३ अ० ११ सू० १७ । + ज्ञोऽत .
    एव—ब्र० सू० अ० २ पा० ३ अ० १२ सू० १८ ।
    १ ख. मुख्यं म० । २ ग. एवाऽऽत्मा० । ३ क. ख ह. ०दात्प्रवृ० । ४ घ. ०शादि० ।
    . शादिदोषप्रसक्तत्वात् । ब० । ५ ख. ०ताप्रतीतिरि० ।

रिति चेदद्वैतलोपादिति ब्रूमः । तथा च श्रुतिः- " यद्वै तन्न पश्यति पश्यन्वै तन
पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्न तु तद्वितीयमस्ति ततोऽन्य-
द्विभक्तं यत्पश्येत् " इति । अस्यायमर्थः-तत्र सुषुप्तौ जीवः किमपि न पश्यतीति
यल्लौकिकैरुच्यते तदसत् । पश्यन्नेव जीवस्तदानीं न पश्यतीति भ्रान्त्या केवलं
व्यपदिश्यते । कथं तद्दर्शनमित्यत्र हेतुरुच्यते-द्रष्टुरात्मनः स्वरूपभूताया दृष्टेर्लोपो
नहि विद्यते विनाशरहितस्वभावत्वात् । अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य
लोपस्य वक्तुमशक्यत्वात् । कथं तर्हि लौकिकानां न पश्यतीतिभ्रम इत्यत्र हेतुरु-
च्यते-यद्ब्रह्मचैतन्यादन्यैत्क्रियाकारकफलरूपेण विभक्तं जगदाख्यं द्वितीयं वस्तु
तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जागरण इव द्रष्टृदृश्यदर्शनव्यवहाराणा-
मभावान्न पश्यतीति लौकिकानां भ्रम इति । तस्माच्चिद्रूपो जीवः " ।
*त्रयोदशाधिकरणमारचयति-
" जीवोऽणुः सर्वगो वा स्यादेषोऽणुरितिवाक्यतः ।
उत्क्रान्तिगत्यागमनश्रवणाच्चाणुरेव सः ॥
साभासबुद्धेरणुत्वेन तदुपाधित्वतोऽणुता ।
जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतः श्रुतम् ॥
" एषोऽणुरात्मा चेतसा वेदितव्यः " इत्यणुत्वं श्रुतम् । " अस्माच्छरीरादुत्क्रा-
मति " इत्युत्क्रान्तिः । " चन्द्रमसमेव ते सर्वे गच्छन्ति " इति गतिः । " तस्माल्लो-
कात्पुनरे(रै)ति " इत्यागमनम् । न ह्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते । मध्यमपरि-
माणस्य तदुपपत्तावप्यणुत्वश्रुतिर्विरुध्यते । अनित्यत्वं च दुर्वारम् । तस्मादणुर्जीव
इति प्राप्ते ब्रूमः-चैतन्यप्रतिबिम्बसहिता बुद्धिरसर्वगता तदुपाधिकत्वाज्जीवस्याप्युत्क्रो-
त्क्रान्त्यादय उपपन्नाः । स्वतस्तु जीवस्य ब्रह्मरूपत्वात्सर्वगतत्वम् । " स वा एष
महानज आत्मा "" सर्वव्यापी सर्वभूतान्तरात्मा " इत्यादौ सर्वगतत्वं श्रुतम् । तस्मा-
त्सर्वगतो जीवः " ।
=चतुर्दशाधिकरणमारचयति-
" जीवोऽकर्ताऽथवा कर्ता धियः कर्तृत्वसंभवात् ।
जीवकर्तृतया किं स्यादित्याहुः सांख्यमानिनः ॥

  • उत्क्रान्तिगत्यागतीनाम्-ब्र ०सू ०अ० २ पा० ३ अ० १३ सू० १९ । = कर्ता शास्त्रार्थ-
    वत्त्वात्-ब्र० सू० अ० २ पा० ३ अ० १४ सू० ३३ ।
    १ ग 'इत्यचेत' । २ व. 'थं दर्श' । ३ घ. ॰तथा' । ४ घ. 'ते ब्रह्म' । ५ घ.
    'दन्यात्क्रि' । ६ व. 'स्यं यद्विी' । ७ क. ख. ङ. 'तो मर' ।

[प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६३३

करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः ।
व्यापारा न विना कर्त्रा कस्माज्जीवस्य कर्तृता ॥
बुद्धेः परिणामित्वेन क्रियावेशात्मकं कर्तृत्वं संभवति न त्वसङ्गस्याऽऽत्मन इति
यत्सांख्यैरुक्तं तदसङ्गतम् । करणत्वेन क्लृप्तशक्तिकाया बुद्धेः कर्तृता कल्पयितुं न
शक्या । कुठारादावदर्शनात् । बुद्धेः कर्तृत्वेन करणान्तरस्य कल्पनीयत्वाच्च । न च
मा भूत्कर्तृतेति वाच्यम् । पूर्वकाण्डोक्तयागादिव्यापाराणामुत्तरकाण्डोक्तश्रवणादि-
व्यापाराणां लौकिककृष्यादिव्यापाराणां च कर्तृसापेक्षत्वात् । तस्माज्जीवः कर्ता ” ।
*पञ्चदशाधिकरणमारचयति—
“कर्तृत्वं वास्तवं किंवा कल्पितं वास्तवं भवेत् ।
यजेतेत्यादिशास्त्रेण सिद्धस्याबाधितत्वतः ॥
असङ्गो हीति तद्बाधात्स्फटिके रक्ततैव तत् ।
अध्यस्तं धीचक्षुरादिकरणोपाधिसंनिधेः ॥
पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधाभावाद्वास्तवं तदिति प्राप्ते ब्रूमः—
“ असङ्गो ह्ययं पुरुषः ” इति श्रुत्या कर्तृत्वसङ्गो बाध्यते । यथा जपाकुसुमसांनिधि-
वशात्स्फटिके रक्तत्वमध्यस्तं तथाऽन्तःकरणसंनिधिवशात्कर्तृत्वमात्मन्यध्यस्यते ” ।
✕षोडशाधिकरणमारचयति—
“प्रवर्तकोऽस्य रागादिरीशो वा रागतः कृषौ ।
दृष्टा प्रवृत्तिर्वैषम्यमीशस्य प्रेरणे भवेत् ॥
सस्येषु वृष्टिवज्जीवेष्वीशस्तथाविषमत्वतः ।
रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः ॥
लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ । तदनुसाराद्धर्माधर्मकर्तुर्जीवस्यापि
तावेव प्रवर्तकावभ्युपेयौ । ईश्वरस्य प्रवर्तकत्वे कांश्चिज्जीवान्धर्मे प्रवर्तयति कांश्चिदधर्म
इति वैषम्यं दुर्वारम् । तस्मान्नेश्वरः प्रवर्तक इति प्राप्ते ब्रूमः—न तावदीश्वरे वैषम्य-
दोषप्रसङ्गः । वृष्टिवत्साधारणनिमित्तत्वात् । यथा वृष्टेः सस्याभिवृद्धिहेतुत्वेऽपि व्रीहि-
यवादिवैषम्ये बीजानामेव निमित्तत्वम् । तथेश्वरस्य यथायथं जीवाः प्रवर्तन्तामित्यनु-

  • यथा च तक्षोभयथा—ब्र० सू० अ० २ पा० ३ अ० १५ सू० ४० । ✕ परात्तु तच्छ्रुतेः—
    ० सू० अ० २ पा० ३ अ० १६ सू० ४१ ।
    १ घ. कर्तृशक्तिर्न कल्पयितुं श । २ घ. ॰तेतिवत् । ३ घ. ॰णप॰ । ४ घ. ॰स्तष-
    ङ्गोति । ५ व. ॰त्वसंयोगो वा॰ । ६ व. ॰स्य जी॰ ।
    ८०