सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

तं मध्यमं पिण्डम् । जीर्णो गतरेताः । अत एव वायुपुराणं—
गतवीर्यस्तु यश्छागोऽनड्वांश्चैव तथाविधः ।
तयोः पिण्डः प्रदातव्यो ययोर्वीर्यं न रोहति ॥
आपस्तम्बोऽपि—
यदि पत्नी विदेशस्था उच्छिष्टा यदि वा मृता ।
दुरात्माऽननुकूला च तस्य पिण्डस्य का गतिः ॥
आकाशं गमयेत्पिण्डं जलस्थो दक्षिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणा दिक्तथैव च ॥
इति । जीर्णर्षभादावुक्ता वैकल्पिकी प्रतिपत्तिर्यथालाभं द्रष्टव्या ।
तीर्थश्राद्धे तु सर्वपिण्डानामप्स्वेव प्रतिपत्तिः । तथाच विष्णु-
धर्मोत्तरे—
तीर्थश्राद्धे सदा पिण्डान् क्षिपेत्तीर्थे समाहितः ।
दक्षिणाभिमुखो भूत्वा पित्र्या दिक् सा प्रकीर्तिता ॥
तीर्थश्राद्धमुदकसमीपे क्रियमाणं श्राद्धम् । तीर्थे क्षिपेत्
श्राद्धसमीपोदके क्षिपेत् । पिण्डप्रतिपत्त्यनन्तरं द्विजोच्छिष्टमा-
र्जनं कार्यमिति वचोभङ्ग्या दर्शयितुमाह याज्ञवल्क्यः—
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥
पिण्डानिति बहुवचनादेतदपि पुत्रार्थित्वाभावविषयं सत्सु
विप्रेषु विसर्जनात्प्रागुच्छिष्टं न शोधयेत् । किंतु विसर्जितेषु विप्रेषु
पिण्डप्रतिपत्तौ च कृतायां शोधयेदित्यर्थः । यत्तु वसिष्ठेनोक्तं—

श्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात् ।
श्च्योतन्ते वै स्वधाकाराः ताः पिबन्त्यकृतोदकाः ॥
इति । येषां मृतानामुदकदानं प्रतिषिद्धं ते अकृतोदकास्तेषा-
मुच्छिष्टनिश्च्योतो यतो भागः अतः आऽस्तमयादुच्छिष्टानिनो-
द्वासयेदित्यर्थः । यदपि व्यासेन—
उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः ।
इति, तदेतत् अनेकगृहसम्भवविषयं, तत्र गृहान्तरेष्वपि
बान्धवादिभिस्सह पितृसेवितशेषभोजनादिसम्भवात् । अत्रैव
प्रचेताः—
भृत्यवर्गवृतो भुङ्क्ते कव्यशेषं सगोत्रजैः ।
आसायं श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेत् ॥
सगोत्रजाः ज्ञातयः तैस्सह कव्यशेषं पितृभ्यो दत्तस्यान्नस्य
शेषं भुङ्क्ते मध्याह्नकृत्यशेषं कृत्वेति शेषः । तथाच मार्क-
ण्डेयः—
ततो नित्यक्रियां कुर्याद्भोजयेच्च तथाऽतिथीन् ।
ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥
नित्यक्रिया श्राद्धारम्भात्प्राक् अकृतदेवार्चनवैश्वदेवादिका ।
तां कुर्यात् । यत्तूक्तं भविष्यपुराणे—
कृत्वा श्राद्धं महाबाहो ब्राह्मणांश्च विसृज्य च ।
वैश्वदेवाधिकं कर्म ततः कुर्यान्नराधिप ॥
इति । वैश्वदेवादिकं वैश्वदेवबलिकर्मादिकम् । तदेतत् प्रात-

होमानन्तरकाले येन देवार्चनं न कृतं तद्विषयम् । यत्पु-
नरादित्यपुराणेऽभिहितं—
पितॄन् संतर्प्य विधिवत् बलिं दद्याद्विधानतः ।
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥
इति । तस्यायमर्थः—ब्राह्मणभोजनेन पितॄन् संतर्प्य सर्वान्नेन
विकिररूपं बलिं प्रदायानन्तरं वैश्वदेवं कृत्वा पश्चास्त्व-
स्तिवाचनादि ब्राह्मणविसर्जना(न्तं)नन्तरं कुर्यादिति । अमु-
मेवार्थं प्रकटयितुं तत्रैवानन्तरमुक्तं—
ये अग्निदग्धामन्त्रेण भूमौ यं निक्षिपेद्बुधः ।
जानीहि तं बलिं वीर श्राद्धकर्मणि निसदा ॥
इति । निसदा सर्वदेत्यर्थः । एवञ्च श्राद्धसमाप्त्यनन्तरं श्राद्धमध्ये
वा विकिरबलिदानान्तरं वैश्वदेवानुष्ठानं कार्यमित्यवगन्तव्यम् ।
श्राद्धस्यान्ते मध्ये वा यत्र वैश्वदेवानुष्ठानं तत्र तदनन्तरं बलि-
हरणं कर्तव्यम् ।
वैश्वदेवं प्रकुर्वीत नित्यकं बलिमेव च ।
इति मत्स्यपुराणे द्वयोर्नैरन्तर्येणाभिधानात् । अत एव स्मृत्यन्तरे
भूतयज्ञादेरेव श्राद्धान्ते कर्तव्यत्वं स्मृतं—
वैश्वदेवाहुतीरग्नावर्वाग्ब्राह्मणभोजनात् ।
जुहुयाद्भूतयज्ञादि श्राद्धं कृत्वा ततः स्मृतम् ॥
इति । अर्वाग्ब्राह्मणभोजनादित्यनेनाग्नौकरणानन्तरं वैश्वदेवा-
हुतीर्जुहुयादित्युक्तम् । श्राद्धं कृत्वा भूतयज्ञादि स्मृतमित्यनेना-

श्राद्धकाण्डे पिण्डप्रतिपत्त्यादि विषयाणि 407
र्थात् वैश्वदेवाहूत्यनन्तरमेव बलिहरणं कार्यमिति दर्शितम् । यत्तु
पुराणेऽभिहितं—
यदा श्राद्धं पितृभ्यस्तु दातुमिच्छति मानवः ।
वैश्वदेवं तदा कुर्यान्निवृत्ते श्राद्धकर्मणि ॥
इति, तत् श्राद्धात्प्राग्वैश्वदेवनिषेधपरं न तु मध्येऽपि, तथात्वे
पूर्वोक्तवचनविरोधापत्तेः । अत एव श्राद्धस्यादावेव वैश्वदेव-
करणे दोषस्तत्रैवानन्तरमुक्तः—
प्रतिवासरिको होमः श्राद्धादौ क्रियते यदि ।
देवा हव्यं न गृह्णन्ति कव्यं च पितरस्तथा ॥
इति । क्रियते पित्रर्थान्नात्समुद्धृयेति शेषः । अत एव
पैठीनसिः—
पितृपाकात्समुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
इति । एवञ्च श्राद्धादौ पृथक्पाकाद्वैश्वदेवकरणे न दोषः ।
श्राद्धमध्ये पितृपाकात्समुद्धृत्य वैश्वदेवकरणे पूर्वोक्तदोषप्रस-
ङ्गात्पृथक्पाकादेवाग्नौकरणानन्तरं वैश्वदेवादिकं कार्यम् । श्रा-
द्धान्ते तु पितृपाकात्समुद्धृत्य वैश्वदेवादिकं कुर्यात् । तथा-
चानन्तरमुक्तं तेनैव—
श्राद्धं निर्वर्त्य विधिवद्वैश्वदेवादिकं ततः ।
कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथा ॥
इति । ततः पितृपाकसमुद्धृतान्नाद्यादित्यर्थः । आदिशब्देन

408 स्मृतिचन्द्रिकायां
सर्वमन्नसाध्यं नैत्यकं कर्म गृह्यते । तेन नित्यश्राद्धमपि
पितृपाकात्समुद्धृतादन्नात्कार्यम् । अथवा नित्यश्राद्धं पृथक्
पाकेन कार्यं, तस्यापि श्राद्धात्मकत्वेन श्राद्धधर्मभूतपाकप्राप्तेः ।
अत एव नित्यश्राद्धमधिकृत्य मार्कण्डेयेनोक्तं—‘पृथक्पा-
केन नेत्यन्ये’ इति । पृथक्पाकेन नित्यश्राद्धं कार्यम् ।
नेत्यन्ये न पृथक्पाकेन कार्यं किंतु श्राद्धशेषेणैव कार्यमित्य-
न्ये मन्यन्त इत्यर्थः । एतच्च नित्यश्राद्धं श्राद्धान्तरे कृते सत्य-
नियतम् । यदाह स एव—
नित्यक्रियां पितॄणां च केचिदिच्छन्ति मानवाः ।
पितॄणां च तथैवान्ये शेषं पूर्ववदाचरेत् ॥
पितॄणां नित्यक्रियां नित्यश्राद्धम् । शेषं वैश्वदेवादिकं पूर्व-
वदाचरेत् नियमेनैव कुर्यादित्यर्थः । यत्तु लोकाक्षिणोक्तं—
पित्रर्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च ।
वैश्वदेवं न पित्रर्थं न दार्शं वैश्वदैविकम् ॥
दार्शं दर्शश्राद्धं अमावास्याश्राद्धमिति यावत् । तदर्थं नि-
रुप्तमन्नं कृतेऽपि श्राद्धे न वैश्वदेवार्थं भवतीत्यर्थः । तत् आग्नि-
मद्दर्शश्राद्धविषयम् । तस्य दर्शश्राद्धात्प्रागेव वैश्वदेवविधानेन
श्राद्धान्ते श्राद्धशिष्टेन वैश्वदेवायोगात् । दर्शश्राद्धात्प्रागेव वैश्व-
देवविधिश्च तेनैवाभिमतो दर्शितः ।
पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥

श्राद्धकाण्डे पिण्डप्रतिपत्त्यादि विषयाणि. 409
इति । पक्षान्तं कर्म अग्न्यन्वाधानम् । अन्वाहार्यक अमा-
वास्याश्राद्धम् । एवञ्च सान्निकामावास्याश्राद्धात्प्रागेव वैश्व
देवार्थं पृथगेव पाकः अन्यत्र तु न पृथक् पाकनियम-
इति मन्तव्यम् । येषां तु स्वगृहे वैश्वदेवं कृत्वा श्राद्धं
कर्तव्यमिति वचनमस्ति तेषामपि वैश्वदेवार्थं पृथगेव पाकः ।
वैश्वदेवार्थं पृथक्पाके कृतेऽपि पित्रर्थपाकादेव भोजनम् ।
प्रदाक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
इति याज्ञवल्क्यस्मरणात् । अनेन पितृसेवितमेव भुञ्जीत नान्य-
दिति नियम्यते तथा पित्रेसेवितं भुञ्जीतैव नोपवसेदिति च निय-
म्यते । अत एवाभोजने दोषमाह देवलः--
श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्ते च कथंचन ।
देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा ॥
एतच्च पितृसेवितभोजनं सर्वविधात् पितृसेवितात्किञ्चित्किञ्चिदु-
पादाय कर्तव्यम् । तथाच मत्स्यपुराणं--
ततश्च वैश्वदेवान्ते सभृत्यसुतबान्धवः ।
भुञ्जीतातिथिसंयुक्तस्सर्वं पितृनिषेवितम् ॥
यद्यपि क्षुन्न तथाऽपि शेषभोजनस्यावश्यकत्वात् सर्वमेव पितृसे-
वितं लेशतो भोक्तव्यम् । अत एवापस्तम्बः--
‘सर्वतस्समवदायोत्तरेण यजुषा शेषस्य ग्रासावरार्धं प्राश्नीयात्’
इति । ‘प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽमृ-
तत्वाय’ इत्युत्तरं यजुः । अनेन यजुषा यथासामर्थ्यं सर्व-
SMRITI CHA.—Vol V. 52

410 स्मृतिचन्द्रिकायां

प्रकारान्ततः समवदायातृप्तेरश्नीयात् । असामर्थ्ये ग्रासमात्रं
प्राश्नीयादित्यर्थः । एवमुक्तं शेषभोजनावश्यकत्वं निमन्त्रित-
ब्राह्मणैः श्राद्धशिष्टमन्नमिष्टैस्सहॊपभुज्यतामित्युक्ते सति द्रष्ट-
व्यम् । विप्रैरेव तु श्राद्धशिष्टान्ने गृहीते अन्नान्तरं संपाद्य
भोक्तव्यम् ‘कृते श्राद्धे पुत्री नोपवसेद्गृहे’ इति स्मरणात् ।
यत एव श्राद्धशिष्टान्नं इष्टैस्सह भुज्यतामित्युक्त एवायं
शेषभोजननियमः अत एव अनुज्ञापक एव शेषभोजननि-
यममाह शातातपः—
शेषमन्नमनुज्ञातं भुञ्जीत तदनन्तरम् ।
इष्टैस्सार्धं तु विधिवद्बुद्धिमान् सुसमाहितः ॥
बुद्धिमानिति वदन् मांसभक्षणप्रतिषेधकशास्त्रबलाबलविचारणेन
भोज्याभोज्ये निर्धार्य प्रवृत्तिनिवृत्ती कर्तव्ये इति दर्शयति ।
तेन माषमांसादिकं पितृसेवितमपि अन्वाधानदिने कृता-
न्वाधानेन न भक्षयितव्यं, ‘अमाषमांसं व्रतं व्रतयेत्’ इति
श्रुत्या प्रतिषेधात् । अकृतान्वाधानेनानग्निना च पञ्चदश्या-
मपि पितृसेवितं मांसं ‘भुञ्जीत पितृसेवितम्’ इत्येवंविधव-
चनैर्विहितत्वाद्भक्षयितव्यम् । ‘आसप्तमं कुलं हन्ति’ इत्यनु-
वृत्तौ ‘मांसादने पञ्चदशी’ इति पञ्चदश्यां मांसभक्षणनिषे-
धकवचनस्य रागप्राप्तमांसभक्षणविषयतया वैधमांसभक्षणाप्र-
तिषेधकत्वात् । यत्तु मधुमांसपायसादिकं द्रव्यं आषाढादिमा-
सचतुष्टयादौ न भक्ष्यामीति सङ्कल्प्य तत्पालननिष्ठो व्रती पुरुषः

तेनापि पितृसेवितं मधुमांसपायसादिकं भक्षयितव्यम् । कृतेऽपि
भक्षणे वैधत्वेन व्रतभङ्गाभावात् । तथाच बृहस्पतिः—
दैवे नियुक्तः श्राद्धे वा नियमं न विसर्जयेत् ।
निषिद्धं कुर्वतां दोषस्तद्वद्वैधमकुर्वताम् ॥
मांसाशनस्य वैधत्वान्न व्रतच्युतिरश्नताम् ।
इति ।
नियमं ‘परिविष्टं भुञ्जीरंस्तेऽपि वाग्यताः’ इति स्मृत्युक्तम् ।
नियुक्तग्रहणं श्राद्धकर्तुरपि प्रदर्शनार्थं, वैधमकुर्वतां दोषहेतो-
रुभयत्र समानत्वात् । यत्तु स्मृत्यन्तरं—
मधुमांसनिवृत्तानां श्राद्धकर्माणि कुर्वताम् ।
पात्रस्थगन्धमाघ्राय पितृणामनृणो भवेत् ॥
इति, तत् महाजनपरिग्रहाभावेन मूलप्रमाणानुमापकत्वादुपेक्ष-
णीयम् । केषांचित्परिग्रहेणापि समूलत्वे वानप्रस्थयतिब्रह्मचा-
रिविषयत्वात् न बार्हस्पत्यवचनविरोधः । यतश्चोभयथा विरोध-
परिहारसमर्थनं देवस्वामिना कृतम् । एवमेव पशुयागादा-
वपि न मांसभक्षणे व्रत

412 स्मृतिचन्द्रिकायां

पीडितः । निगमोप्यनुज्ञापक्ष एव पितृसेवितभोजननियम
इत्याह—'अनुज्ञातो गृह्यान् बालवृद्धांश्च परितोष्य भुञ्जीत'
इति । गृह्यान् गृहे स्वानुज्ञया वर्तमानान् । चशब्दो भगि-
न्यादेः परिग्रहार्थः । अत एवादिपुराणम्—
भगिन्यो बान्धवाः पूज्याः श्राद्धेषु च सदैव हि ।
दारिद्र्योपहता दीनाः भिन्नाङ्गाश्चाधिकाङ्गुळिः ॥
वृद्धाजातविरक्ताश्च व्याधिभारप्रपीडिताः ।
एते भोजनमर्हन्ति भोक्तुस्सर्वत्र सर्वदा ॥
वन्दिमागधसूताश्च तौर्यत्रिकविदस्तथा ।
अलब्धलाभाः श्राद्धेषु नाशयन्ति महद्यशः ॥
तस्मात्तेऽपि विभक्तव्याः स्वकळत्रं विभज्यता ।
इति । भोक्तुः सम्पन्नस्य गृहे इति शेषः । कळत्रग्रहणं पुत्रा-
देरपि प्रदर्शनार्थम् । अत एव बृहस्पतिः—
एवं देवान् पितॄंश्चैव तर्पयित्वा द्विजोत्तमः ।
पुत्रमित्रादिसहितो गृहस्थो भोक्तुमर्हति ॥
इति । दातृभोक्त्रोर्द्वयोरपि नियमान्तरमाह स एव—
तां निशां ब्रह्मचारी स्याच्छाद्धभुक्छाद्धकृत्सह ।
अन्यथा वर्तमानौ तु स्यातां निरयगामिनौ ॥
मत्स्यपुराणेऽपि—
पुनर्भोजनमध्वानं यानमायासमैथुनम् ।
श्राद्धकृच्छाद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥

413
स्वाध्यायं कलहं चैव दिवास्वापं तथेच्छया ।
इति । श्राद्धभोक्तारं प्रत्याह यमः—
पुनर्भाजनमध्वानं भाराध्ययनमैथुनम् ।
सन्ध्यां प्रतिग्रहं होमं श्राद्धभुक्त्वाष्ट वर्जयेत् ॥
होमं स्वयं न कुर्यात्तु अन्यमेव तु कारयेत् ।
यथाऽऽह कात्यायनः—
सूतके च प्रवासे च अशक्तौ श्राद्धभोजने ।
एवमादिनिमित्तेषु याजयेन्न तु हापयेत् ॥
इति । हावयेदिति यद्गोभिलादिभिरप्युक्तं तदेवमादिनिमित्तेषु
याजयेदित्यर्थः । होतुरन्यस्यालाभे भविष्यपुराणेऽभिहितं—
दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुग्द्विजः ।
ततस्सन्ध्यामुपासीत जपेच्च जुहुयादपि ॥
अन्येऽपि भोक्तृनियमाः निमन्त्रणप्रकरणोक्ताः इहाप्यनुसन्धे-
याः । एवं श्राद्धं कुर्वतः फलमाह हारीतः—
कृत्वाऽनेन विधानेन चतुरो लभते वरान् ।
धनमन्नं सुतानायुर्ददते पितरो भुवि ॥
याज्ञवल्क्योपि—
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ इति ॥
इति स्मृतिचन्द्रिकायां पिण्डप्रतिपत्त्यादिविषयाणि
समाप्तं च पार्वणश्राद्धविधानं

अथ यथाशक्ति पार्वणानुष्ठानविधिः.
तत्र शातातपः—
यथाकथञ्चिन्नित्यानि कुर्यादिन्दुक्षयादिषु ।
पात्रद्रव्यादिसम्पत्सु सर्वकामफलं लभेत् ॥
अमावास्यादिकालेषु चोदितानि नित्याधिकाराणि पार्वणश्राद्धा-
दीनि पात्रद्रव्यादिसम्पत्त्यलाभेऽपि यथाकथञ्चित् कुर्यात् यथा-
शक्ति कुर्यादिति पूर्वार्धस्यार्थः । तत्र पात्रासम्पत्तौ देवलेनोक्तं-
एकेनापि च विप्रेण षट्पिण्डं श्राद्धमाचरेत् ।
षडर्घ्यान् दापयेत्तस्मै षड्भ्यो दद्यात्तथाऽऽसनम् ॥
पिता भुङ्क्ते द्विजकरे मुखे भुङ्क्ते पितामहः ।
प्रपितामहस्तु तालौ च कण्ठे मातामहस्स्मृतः ॥
प्रमातामहस्तु हृदये वृद्धो नाभौ तु संस्थितः ।
इति । वृद्धः प्रमातामहस्य पिता । अत्र वसिष्ठः—
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥
देवतायतने कृत्वा ततश्श्राद्धं प्रवर्तयेत् ।
प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे ॥
इति । देवतायतनं वैश्वदैविकब्राह्मणोपवेशनस्थानम् । तत्र
ब्राह्मणार्चनात्पूर्वं स्थण्डिले विश्वान् देवानावाह्यासनकल्पना-
दिधूपदीपाच्छादनान्तमाराधनं कृत्वा पश्चात् पित्रर्थमुपविष्टं
ब्राह्मणमभ्यर्च्य अन्नपरिवेषणकाले प्रकृतस्य श्राद्धार्थं सम्पा-

दितस्य सर्वस्य सम्बन्धि किञ्चिदन्नं पात्रे समुद्धृत्याभिघा-
र्याराधितस्थाने पुरतो निधायान्नत्यागकाले पूर्वमेतदन्नं विश्वान्
देवानुद्दिश्य त्यक्त्वाऽनन्तरं श्राद्धं प्रवर्तयेत् । पितॄनुद्दिश्य
ब्राह्मणस्य पुरतः परिविष्टमन्नं त्यजेदित्यर्थः । एकस्यापि ब्राह्म-
णस्यालाभे देवलेनोक्तं—
पात्राभावे परं कृत्वा पितृयज्ञविधिं नरः ।
निर्दिश्याप्यन्नमुद्धृत्य यत्र पात्रं ततो गतिः ॥
निधाय वा दर्भवटूनासनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ॥
पात्राभावे क्षिपेदग्नौ गवे दद्यादथाप्सु वा ।
न तु प्राप्तस्य लोपोस्ति पैतृकस्य विशेषतः ॥
अस्यार्थः—पात्राभावेऽनुकल्पतयोक्तविप्रस्याभावे पितृयज्ञविधिं
पिण्डपितृयज्ञधर्मकमग्नौकरणं परं केलवं कृत्वा अवावास्याया-
मन्नं भाजनादावुद्धृत्य निर्दिश्य चतुर्थ्यन्तशब्देन देवान् पितॄ-
नुद्दिश्य उद्धृतमन्नं त्यक्त्वा यत्रात्यन्तानतिदूरे पात्रलक्षणान्वितो
विप्रोस्ति, तत्र नीत्वा तस्मै तदन्नं समर्पयेत् । यद्वा—पितृ-
यज्ञधर्मकमग्नौकरणं कृत्वा दर्भवटून कुशमयान् विप्रप्रतिनि-
धीन् वटूनसन्तालपपरिमाणानासनेषु संस्थाप्य देवे क्षणः
क्रियतां श्राद्धे क्षणः क्रियतामित्यादिप्रैषसंयुक्तमों तथेत्याद्यनु-
प्रैषसंयुक्तं कृत्स्नं श्राद्धविधानं कृत्वा देवपित्रर्थं त्यक्तमन्नं
पूर्ववत्पात्रलणयुक्ताविप्रेभ्यः प्रतिपादयेत्समर्पयेत् । अतिदूरस्थे

416
तु पात्रे पक्षद्वयेऽपि त्यक्तमन्नमग्नौ क्षिपेत् । अथवा गवे भक्ष-
णार्थं प्रयच्छेत् । नद्याद्युदके वा क्षिपेत् । न तु पात्राभाव-
मात्रेण कर्मणो लोपः कार्य इति । पक्वद्रव्यसम्पादनास-
म्भवे तु सुमन्तुः—
पाकाभावेऽधिकारस्स्याद्विप्रादीनां नराधिप ।
अपत्नीनां महाबाहो विदेशगमनादिभिः ॥
सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ।
आत्मनो देशकालाभ्यां विषमे समुपगते ॥
आपद्यनग्नौ तीर्थे च प्रवासे पत्न्यसम्भवे ।
चन्द्रसूर्यग्रहे चैव दद्यादामं विशेषतः ॥
इति । विप्रादीनां त्रैवर्णिकादीनां पत्नीरहितानां विदेशगमना-
दिभिश्च कारणैः पाकसम्पादनासम्भवे आमश्राद्धे अधिकारः
स्यात् । चन्द्रसूर्यग्रहेऽपि यस्य पाकासम्भवः स आमं दद्यात् ।
यस्य वा भोक्तुर्ब्राह्मणस्यालाभः सोप्यामं दद्यात् । शूद्रस्तु
सर्वश्राद्धेषु पार्वणविधानेनाममेव दद्यात् । तथाच मार्कण्डेयः—
सर्वं श्राद्धं तथा कार्यं शूद्रेणाप्येवमेव तु ।
मन्त्रवर्जं तु शूद्रस्य सर्वमेवं विधीयते ।
एवमेव पार्वणविधिनैव । तथाच प्रचेताः—
स्त्री शूद्रस्स्वपचश्चैव जातकर्मणि चाप्यथ ।
आमश्राद्धं तदा कुर्याद्विधिना पार्वणेन तु ॥
स्वयं पचतीति स्वपचः । वायुपुराणे—

न पक्वं भोजयेद्विप्रान् सच्छूद्रोपि कदाचन ।
भोजयेच्चश्नतां पापं तस्यापि प्रभवेत्सताम् ॥
सतां शूद्रान्नभोजने भोक्तॄणां शूद्रस्य च पापं भवेत् । कः
पुनस्सच्छूद्र इत्यपेक्षिते व्याघ्रः—
संस्कृतायां तु शूद्रायां ब्रह्मवीर्यसमुद्भवः ।
स्वकर्मनिरतश्चैव सच्छूद्रः संप्रकीर्तितः ॥
उशनसा तु लब्धक्रीतादिपक्वान्नसद्भावेऽप्यामश्राद्धमेव द्विजैः
कार्यमित्युक्तं—
अपत्नीकः प्रवासी च यस्य भार्या रजस्वला ।
सिद्धान्नेन न कुर्वीत आमं तस्य विधीयते ॥
सिद्धान्नेन कार्यान्तरार्थं यथाकथाञ्चित्सिद्धान्नेन । अपत्नीका-
दिग्रहणं पाकसामग्र्यादिरहितपुरुषोपलक्षणार्थम् । अत एव
जमदग्निः—
न भवेद्यस्य सामग्री दारा वा गृहमेव वा ।
आमश्राद्धं प्रकुर्वीत वृद्धो बालश्च यो भवेत् ॥
पाकसामग्रीसद्भावे कस्यचिदामश्राद्धं कर्तव्यमित्याह स एव—
यावत्स्यान्नाग्निसंयुक्तः उत्सन्नाग्निरथापि वा ।
आमश्राद्धं तदा कुर्यादृतेऽग्नौकरणं भवेत् ॥
पक्वेन श्राद्धं क्वचिदावश्यकमित्याह हारीतः—
श्राद्धविघ्ने द्विजातीनामा मश्राद्धं प्रकीर्तितम् ।
अमावास्याद्यनियतं माससंवत्सराहते ॥
SMRITI CHA.—Vol. V. 53

अनेन मासिकमाब्दिकं च श्राद्धमवश्यं पक्वान्नेन कार्यमिति
वचोभङ्ग्योक्तमिति मन्तव्यम् । यत्पुनर्जमदग्निनोक्तं—
श्राद्धज्ञः श्रद्धया श्राद्धं श्राद्धकाले यथाविधि ।
पक्वेन वाऽश्रितेनापि नूनं कुर्यात्पितुस्सुतः ॥
इति, तत् मासिके सांवत्सरिकेऽपि सर्वथा पक्वान्नासिद्धौ आ-
मद्रव्यविधानार्थमिति न पूर्वोक्तजमदग्निवचनेन गतार्थम् ।
आमश्राद्धे विशेषमाह व्यासः—
आमं तदनु कौन्तेय दद्यादन्नं चतुर्गुणम् ।
सिद्धान्ने तु विधिर्यस्स्यादामश्राद्धेऽप्यसौ विधिः ॥
आवाहनादि सर्वं स्यात्पिण्डदानं च भारत ।
दद्याच्च द्विजातिभ्यः शृतं वाऽशृतमेव वा ॥
तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ।
अन्नमामरूपं पुरुषापेक्षया चतुर्गुणं दद्यादित्यर्थः । अग्नौकर-
णमत्र पाणावेव,
आमश्राद्धं यदा कुर्याद्द्विजः श्राद्धदस्तदा ।
हस्तेऽग्नौकरणं कुर्याद्ब्राह्मणस्स्वविधानतः ॥
इति तेनैवोक्तत्वात् । षट्त्रिंशन्मतेऽपि—
आमश्राद्धं यदा कुर्यात्पिण्डदानं कथं भवेत् ।
गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा ॥
इति । पिण्डदानं भवेदिति शेषः । आमद्रव्यगृहपाकस्क्तु-
पायसेषु यथालाभं व्यवस्था । एतच्चामश्राद्धं पूर्वाह्ने कार्यं,

श्राद्धकाण्ड यथाशक्तिपार्वणानुष्ठानाविधिः 419

'आमश्राद्धं तु पूर्वाह्ने' इति शातातपस्मरणात् । यत्तु तेनै-
वोक्तं—
मध्याह्नात्परतो यत्तु कुतपस्समुदाहृतः ।
आममात्रेण तत्रैव पितॄणां दत्तमक्षयम् ॥
इति, तत् श्राद्धकर्तुः आमश्राद्धविषयमित्यपरार्केण साधितम् ।
आमद्रव्यासंभवे तु व्यासेनोक्तं—
द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥
अत्राप्यामश्राद्धविशेषो यथासम्भवमनुसन्धेयः । आमश्राद्धे
हेमश्राद्धे च भोजनप्रयुक्तापोशनकर्मादीनां 'यथासुखं जुष-
ध्वं तृप्तास्स्थ' इत्यादीनां च द्वारकार्यलोपान्निवृत्तिरवगन्त-
व्या । केषु चिन्मन्त्रेषूहोप्येवमवगन्तव्यः । तथाच मरीचिः—
आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने ।
अन्नकर्मण्यनूह्यास्स्युरामश्राद्धविधिः स्मृतः ॥
आवाहने आवाहनमन्त्रे । 'पितॄन् हविषे अत्तवे' इत्यत्र
अत्तव इति पदस्थाने स्वीकर्तव्य इत्यूहः कार्यः । स्वधाकारे
'नमो वः पितर इषे' इत्यादिमन्त्रे इष इति पदस्थाने आम
द्रव्यायेत्यूहः कर्तव्यः । विसर्जने विप्रविसर्जनमन्त्रे 'वाजे-
वाजे' इत्यादिके तृप्ता इति पदस्थाने उहृत्य आमेन
तर्पयन्त इत्यूहः कार्यः । अन्नकर्मणि ब्राह्मणाङ्गुष्ठनिवेशनादौ
'विष्णो हव्यं रक्षस्व' इत्यादयो मन्त्रा अनूह्यास्स्युः ।

420
आमश्राद्धविधिस्स्मृतः इत्यामश्राद्धग्रहणं हेमश्राद्धोपलक्षणार्थम् ।
हेमद्रव्यालाभेऽपि स्मृत्यन्तरोक्तं—
तृणानि वा गवे दद्यात्पिण्डान्वाऽथापि निर्वपेत् ।
तिलोदकैः पितॄन्वाऽथ तर्पयेत्स्नानपूर्वकम् ॥
अग्निना वादहेत्कक्षं श्राद्धकाले समागते ।
तस्मिंश्चोपवसेदह्नि जपेद्वा श्राद्धसंहिताम् ॥
इति । अत्रापि यथासम्भवं व्यवस्था । अङ्गसम्पादनास-
म्भवेऽपि स्मृत्यन्तरोक्तं—
अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
स तदा वाचयेद्विप्रान् सकला सिद्धिरस्त्विति ॥
पितृयज्ञस्य श्राद्धस्य सकला सिद्धिः सकलाङ्गसिद्धिरस्त्विति
भवन्तो ब्रुवन्तु इति प्रार्थनेति । निमन्त्रितान् विप्रान् स-
कलाङ्गसिद्धिरस्य श्राद्धस्यास्त्विति वाचयेदित्यर्थः—विस्मृत *
पार्वणानुष्ठानासम्भवे तु व्यासेनोक्तं—
सक्ताग्नेः पार्वणं नैव नैकोद्दिष्टं सपिण्डनम् ।
अत्यक्ताग्नेस्तु पिण्डोक्तिस्तस्मात्सङ्कल्प्य भोजयेत् ॥
अयमर्थः—त्यक्ताग्नेरविधिनोत्सृष्टाग्नेः पार्वणैकोद्दिष्टसपिण्डीक-
रणात्मकश्राद्धकर्मणि नैवाधिकारः । पिण्डोक्तिः श्राद्धं क-
र्त्तव्यमित्युक्तिः असक्ताग्नेः त्यक्ताग्निव्यतिरिक्तस्यैव अस-

  • विस्तृत.

श्राद्धकाण्ड 421
क्ताग्नेरेव श्राद्धाधिकार इति यावत् । तस्मात्त्यक्ताग्निरेव सङ्क-
ल्प्य भोजयेत् । सङ्कल्पविधानेन श्राद्धं कुर्यादिति ॥
सङ्कल्पविधानस्य पार्वणविधानात्को भेद इत्यपेक्षिते स
एवाह—
सङ्कल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् ।
नावाहिनाग्नौकरणं पिण्डांश्चैव न दापयेत् ॥
पात्रपूरणमर्घ्यदानम् । आवाहनस्य समन्त्रकस्य निषेधः, न-
त्वावाहनमात्रस्य * तदभावे देवपितृसान्निध्याभावात् । ततश्चा-
वाहनमन्त्रमनुक्त्वैव पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान्
आवाहयामीत्येतावन्मात्रमुक्त्वा देवावाहनं कार्यम् । पित्रा-
द्यावाहनेऽप्येवमेव । पिण्डांश्चैवेत्यत्र चैवशब्देन उच्छिष्टपिण्ड-
स्यापि निषेधः । अत एव स्मृत्यन्तरे—
सङ्कल्पं तु यदा श्राद्धं न कुर्यात्पात्रपूरणम् ।
विकिरं च न दातव्यम्
इति स्पष्टमुक्तम् ।
एवमनुकल्पानुष्ठानेऽपि शाठ्याभावे सति मुख्यकल्पानुष्ठान-
फलं भवति । तथा च स्मृत्यन्तरं—
श्राद्धानुकल्पं यः कुर्याज्जात्यवस्थाद्यपेक्षया ।
श्राद्धांशे सर्वमाप्नोति मुख्यकल्पफलं नरः ॥
इति । श्राद्धांशे श्राद्धप्रधानांशे ब्राह्मणभोजनमात्रे पिण्डप्रदा-

  • स्वरूपस्य.

'नमात्रेऽपि वा कृते, अङ्गांशे यथाशक्ति कतिपयानुष्ठानेऽपि कृत
इत्यर्थः ॥
इति स्मृतिचन्द्रिकायां यथाशक्तिपार्वणानुष्ठानविधिः.
एवं प्रतिमासं कर्तव्यं पार्वणश्राद्धमुक्तम्.
अथ प्रतिसंवत्सरं कर्तव्यं सांवत्सरिकश्राद्धमुच्यते । अत्र
लोकाक्षिः—
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृकस्स्वयम् ।
इन्दुक्षये मासिमासि वृद्धौ प्रत्यब्दमेव च ॥
स्वयंग्रहणमादरार्थं न पुनः पुत्रशिष्यर्त्विगादिनिवृत्त्यर्थम् ।
यजमानस्य पितः असावेतत्ते तत इत्यन्यकर्तृकपिण्डनिर्व-
पणदर्शनात् । असावेतत्ते तत इति मन्त्रेण यजमानस्य पित्रे
ऋत्विगादिः पिण्डान् दद्यादिति । तत्रामुकगोत्रामुकशर्मन्ने-
तत्ते तत इति मन्त्रमुक्त्वाऽमुकगोत्रायामुकशर्मणे यजमानस्य
पित्रे असावेतत्ते, इत्ययं पिण्डो न यजमानयजमानस्य ।
स्मृत्यन्तरे यजमानस्येत्युक्त्वा बर्हिषि पिण्डस्थापनमिति वि-
शेषोऽवगन्तव्यः । एतच्चान्यकर्तृकत्वं यजमानस्यासामर्थ्ये
गुरुतरकार्यान्तरव्यग्रत्वेन कालातिपत्तिविषये वा द्रष्टव्यम् । प्र-
त्यब्दं श्राद्धं कथं कर्तव्यमित्यपेक्षिते जातूकर्णः—
पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः ।
प्रत्यब्दं प्रतिमासं च विधिर्ज्ञेयस्सनातनः ॥

वत्सारकश्राद्ध
पितृगणस्थः सपिण्डितः तस्य प्रत्यब्दं प्रतिमासं च पार्वण-
वदाब्दिकं मासिकं च श्राद्धं सुतो मृताहे कुर्यादित्यर्थः ।
एतदुक्तं भवति—यथा अमावास्याश्राद्धे अर्घ्यदानादौ पितृ-
पितामहप्रपितामहानां त्रयाणामुद्देशः तथा पितुराब्दिकश्रा-
द्धेऽपि त्रयाणामुद्देशः कार्यः । इति ।
दर्शवत्स्यात् त्रयोद्देशः सपिण्डीकरणे कृते । इति । प्रति-
मासं चेति तावत्—
'तान्येवतु पुनः कुर्यात्' इति वचनात् सपिण्डीकरणा-
दूर्ध्वमपि प्रथमसंवत्सरे क्रियमाणानुमासिकेषु पार्वणवत्त्रिदे-
वताकं कुर्यादिति विधानार्थमुक्तमिति मन्तव्यम् । न च वाच्यं-
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
इति वचनात्पितृमृतामहे मातामहादीनामपि श्राद्धं कार्यमिति ।
यदाह पारस्करः—
पितुर्गतस्य देवत्वमौरसस्य त्रिपूरुषम् ।
इति । देवत्वं गतस्य सपिण्डीकरणेन पितृत्वं प्राप्तस्य ।
त्रिपूरुषग्रहणं षट्पुरुषनिवृत्त्यर्थं । तेन मृताहे मातामहश्राद्धं
न कार्यम् । कात्यायनोपि—
कर्षूसमन्वितं मुक्त्वा . तदाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकमशेषेषु* पिण्डास्स्युषदिति स्थितिः ॥
इति । कर्षूसमन्वितं सपिण्डीकरणम् । अनेनार्थात्कर्षूसमन्वि-

  • प्रत्याब्दिकं च शेषेषु.