सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

१३० शिवदृष्टिः [ आ०-४.
मुष्टिप्रसृततादेः । अत्र हि हस्तता तुल्या द्वयोरपि, तथा सद्‍रूपता अनयोः ।
एतच्चात्यन्तप्रसिद्धमेतद्‍व्युत्पादनार्थं प्रदर्शितम् । वस्तुतो मृदपि
पर्यालोच्यमानशब्दस्पर्शादितन्मात्रमयी जलादिविलक्षणा यावत्त्रैगुण्य-
तादवस्थ्यम्, तत्तावदवस्थेऽपि यानि कार्याणि महदादीनि पृथिव्यन्तानि घटा-
द्यन्तानि वा, तानि त्रैगुण्यमात्ररूपाणि विश्वस्यैकत्वापत्तेः । तदधिकत्वे तु
इदं शब्दतन्मात्रमयमाकाशः, इयं पृथिवी, अयं घटः, अयं पट इति विभागः ।
विभागोऽपि च तद्भेदाद्वास्तव एव । न च प्रकाशमानस्यावस्तुता युज्यते
त्रैगुण्यस्यापि तथा प्राप्तेः । प्रकाशनं च प्रतीयमानता प्रत्यक्षेणास्तु
अनुमानेन वा सर्वथा सद्‍रूपवत्ता स्यात् । एवं च मृत्पिण्डोऽन्य एव सति
यस्मिन् घटो भवति, घटश्चाप्यन्यो, मृदप्यन्या, या सर्वमृण्मयेष्वनुगता,
घटश्चाननुगतः । न च अनुगताननुगतयोरैक्यं घटते, ततश्च पटादेः करणं
न किमिति दोषः । दर्पणवत् विश्वप्रतिबिम्बयोगि त्रैगुण्यमित्यभ्युपगमेऽपि
यद्वशात् तथाप्रतिबिम्बयोगस्तदेव कारणम्, तत्रापि भेदाभेदपर्यालोचनाद-
नुपपत्तिरिति चिन्मयशिवरूपतैव सर्वकार्याणामीश्वरप्रत्यभिज्ञोक्तन्याये-
नेत्याह स्थितमेव हि सत्कार्यमिति । अत एव शिवरूपतया सत्त्वादविना-
शिता । न हि शिवस्य स्वसंविद्रूपस्य सतो विनाश इतीश्वरप्रत्य-
भिज्ञायामेवं चोक्तम् । मौलिनाशेऽपि हेमवदिति सर्वलोकानुसारेण
पूर्ववन्निदर्शनम् ॥ ५३ ॥
नाशः कटकरूपेण सद्भावः कुण्डलादिना ॥ ५४ ॥
सुवर्णत्वेऽपि न भ्रंशः संस्थानेऽपि विचार्यताम् ।
कटककुण्डलादिलौकिकनिदर्शनेन संस्थानमात्रभेद उक्तः। संस्थानेऽपि
भेदो विचार्यताम् ॥ ५४ ॥
तद्विचारेण च शिवकारणतामेव पर्यवसानयन्नाह--
किं शिवत्वेन तद्व्याप्तमव्याप्तं वाभिधीयताम् ॥ ५५ ॥
व्यापित्वे तद्विनाशित्वमव्याप्तौ स्यात्प्रदेशिता ।
मौलिशिवत्वव्याप्तौ मौलिविनाशे शिवविनाशः । शिवाव्याप्तत्वे
वा शिवस्य प्रदेशवृत्तित्ता मौलिघटपटादिस्वरूपदेशपरिहारेणावस्थाने
भिन्नस्वरूपदेशत्वं ततश्चाविभुत्वमिति संस्थाने उभयथाभिधीयमानो
दोषः ॥ ५५ ॥

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १३१
नैवं यतो हि भावानां विनाशोऽस्मासु नेष्टता ॥ ५६ ॥
अंशाभिव्यक्तिता नाशो न नाशः सर्वलोपिता ।
न उक्तदोषः। यतो भावानां विनाशो विषये नेष्टता अस्मा-
न्प्रति, भावा न विनाशिनोऽस्माभिरिष्यन्ते इति यावत्। अस्मद्दर्शने
हि मौलेः कटकोत्पादकाले अंशस्य हेममात्रस्याभिव्यक्तिः प्राक्तनस्य
मौलिपरिणामक्षणस्येति नाश उच्यते न तु सर्वांशादर्शनम्। ततो
न निरन्वयविनाशदोषः, नाप्यंशस्य निरन्वयता अनभिव्यक्तिमात्रस्य
नाशत्वात् ॥ ५६ ॥
अभिव्यक्तेर्विनाशित्वे तत्राप्यानन्त्यमापतेत् ॥ ५७ ॥
इन्द्रियाणामसामर्थ्यमात्रमत्र विनाशिता ।
असावेवानभिव्यक्तिः स प्रच्छन्नस्तदा स्थितः ॥ ५८ ॥
अथ स्थितानामेवार्थानं यथाभिव्यक्तिमात्रस्योत्पादस्तथा विनाशोऽपि
तस्यैवेति प्राक्तनांशमात्रस्यानभिव्यक्तिर्विनाश उक्त इति। एतन्न।
यतो यथाभिव्यक्तेरप्यसत्या उत्पत्तिरुत सत्या इत्यर्थोत्पादोक्तदोषोऽन-
वस्था च, तथैवार्थस्य विनाशो नोपपन्नः सतो विनाशाद्योगात् तथाभि-
व्यक्तेरपि। अथाभिव्यक्तिरेवाभिव्यक्तेर्विन्नश्यति, न सत्ता। तत्तस्या अपि
अभिव्यक्त्यभिव्यक्तेर्न सत्ता नश्यति, अपि तु अभिव्यक्तिरित्यानन्त्यं
स्यात्। अथत्रा अभिव्यक्तेर्विनाशोऽपि किमसन्नुत्पद्यते अथ सन् ? असत्ये
सत्कार्यवादहानिरनुपपत्तिश्च। सत्त्वे पूर्वमेव विनाशः स्यात्। अथाभि-
व्यक्तिविनाशस्य कारणेन क्रियते तत्पूर्वोक्ता अनवस्थेत्यानन्त्यम्।
एवमस्मद्दर्शन ईश्वरप्रत्यभिज्ञोक्तनीत्या यथोभयेन्द्रियवेद्यत्वं शिवाभेदा-
ख्यातिमयमर्थानां करणम्, तथा विनाश उभयेन्द्रियवेद्यत्वाभावः शिवाभेदः
शिवत्वेन प्रच्छादनं, तदेवोक्तम् -'इन्द्रियाणामसामर्थ्यं' 'तथासावेवानभि-
व्यक्तिः, स घटादिः शिवतया प्रच्छन्नस्तदा स्थित इति ॥ ५८ ॥
इतोऽपि नाशो नास्त्यस्य घटस्य करणात्पुनः ।
नाभावप्राप्तरूपस्य करणं युज्यते पुनः ॥ ५९ ॥
तस्माद्भावविनाशोऽपि शिवतत्त्वाविनाशिता ।
इतोऽपि हेतोर्नाशो नास्त्यस्य घटादेः पुनः करणात्। न हि यस्य
सर्वथा शशविषाणतुल्यभावं प्राप्तं रूपं तस्य अर्थस्य पुनः सत्ता भवेत्।

१३२ शिवदृष्टिः [ आ०-४

ननु पूर्वोऽन्य एव घटः शशविषाणतामेव च प्राप्तोऽयं चान्य एव क्रियते ।
तदेतन्नास्ति । न हि घटादन्यो घटः स्यात् महत्त्वलोहित्वोच्छ्रितत्वादि-
सामान्यान्तरसंपर्केऽन्तरवस्थित एव इन्द्रियवेद्योऽभेदाख्यातिमयः क्रियते इति
पूर्वमुक्तम् । तस्मादुक्तक्रमेण भावानां शिवतत्त्वनिमज्जनरूपेण तदभेदाख्याति-
विनाशोऽपि शिवतत्त्वाविनाशिता । एवमुत्पत्तिविनाशान्यथानुपपत्त्या
सर्वशिवता व्यवस्थिता ॥ ५६ ॥
इतश्च सर्वशिवतावयवेभ्यो न कुत्रचित् ॥ ६० ॥
व्यतिरेकोऽवयविनस्तदेवेदं विचार्यताम् ।
भिन्नेष्वैक्यभेदश्च यथा तत्र व्यवस्थितम् ॥ ६१ ॥
तथा तत्र परिज्ञेयं पत्युः सामर्थ्यमीदृशम् ।
अभिन्ने भेदता येन भिन्नेष्वप्यस्त्यभेदता ॥ ६२ ॥
यथावयवगं रूपं तथा सर्वपदार्थगम् ।
इतोऽपि च हेतोः सर्वशिवता । अवयवेभ्यो व्यतिरिक्तोऽवयवी न
क्वचित् ज्ञाने चाक्षुषे मानसे वा अवभासते । यैरपि व्यतिरिक्तोऽसौ प्रतिज्ञा-
तस्तैः प्रतीतिः समवायवशादभेदेनैव इष्यते । तच्च इदं विचार्यताम्-
यद्यपि विततावभासेऽवयवा भिन्ना व्यवस्थिताः परमाणुमात्रे ह्यभेदिनि
वैतत्याभावात्तथाप्येक एव देवदत्तसंज्ञोऽर्थो निःसन्धिबन्ध एकघनोऽ-
वभातीति भिन्नेष्वेवावयवेषु ऐक्यं भाति । तत्र यथैक्यं, तथा पत्युः
शिवस्य चिन्मयस्य तत्सामर्थ्यमीश्वरप्रत्यभिज्ञायामुक्तं येन सामर्थ्य-
नाभिन्ने देवदत्तेऽवयवभेदात्मता, अवयवेषु च भिन्नेषु एकैव देवदत्तता
युज्यते, यथा अवयवभेदगतमेकं रूपम् । एवं त्रैलोक्यवर्तिष्वपि सर्वेष्वेवार्थेषु
गतं शिवरूपम् ॥ ६२ ॥
तदेव व्यनक्ति--
क्व पाणिपादं क्व शिरो यथैक्यं भिन्नदेशगम् ॥ ६३ ॥
तद्वत्सर्वपदार्थानां जगत्यैक्ये स्थितः शिवः ।
अवयवभेदस्यापि अभिन्नावयविरूपता शिवरूपतयैवेति प्रतिपादि-
मीश्वरप्रत्यभिज्ञायामेवं जगत्यैक्ये शिवरूपतोपपादिका स्थिता ॥ ६३ ॥
शब्दादेर्ग्रहणं नास्ति पूर्वापरसहोदितैः ॥ ६४ ॥
मनसः प्रेरणं कस्मात्प्राग्ज्ञानेन विना स्थिता ।

श्लो. ७-४ ] उत्पलदेवकृतवृत्त्योपेता १३३
सर्वैकतात एवात्र तथा सौषुप्तबोधनम् ॥ ६५ ॥
घटते कथं निमित्तस्य प्राग्योगायोगचोदितैः ।
योगे जाग्रदवस्थैव तस्मात्सर्वं शिवात्मकम् ॥ ६६ ॥
अत एव चात्र जगति सर्वैकता स्थिता यतः शब्दस्पर्शरूपादेर्विषयस्य
सर्वस्य पूर्वापरसहोत्पन्नैर्ज्ञानैर्व्यतिरिक्तत्वाज्ज्ञानं नास्ति । तथाहि पूर्वं
तावज्ज्ञानं कथं विषयेण विना स्यात्, पश्चाच्च सहापि द्वयोः स्वात्मनि
स्थितयोः कथं ग्राह्यग्राहकभावः, अर्थाभिसन्धिज्ञानेन च विना कस्मा-
दात्मना मनसः प्रेरणं, तद्बाह्यार्थग्रहणार्थमस्ति चेत्पूर्वं ज्ञानं किं मनः-
प्रेरणेन । न चाभिसन्धिज्ञानेन बाह्योऽर्थो ज्ञातस्तदर्थं मनसः प्रेरणं न स्यात् ।
तस्माच्चिद्रूपशिवैक्ये सर्वदा संवेदने स्थिते प्रक्रियामात्रमिदं नियतिशक्ति-
कृतमीश्वरप्रत्यभिज्ञोक्तमभेदाभिधायिमयं द्रष्टव्यम् । तथा सौषुप्ते स्थितस्य
प्रबोधनमुच्चैः शब्दादिसमुच्चारणेन कथं घटेतैकतां विना । तथाहि उच्चैः-
शब्दादिज्ञानं प्रबोधनिमित्तं तस्य च प्राग्योगोऽथ न योग इति चोद्यैः कथं
घटनम्, तथाहि प्राक् शब्दादिज्ञानेन योगे जाग्रदवस्थैव स्यात् तस्या-
स्तथालक्षणत्वात्, प्राक् शब्दादिज्ञानस्य निमित्तस्य तु विरहे कथं प्रबोधः ।
तदेतदेव स्याद्द्विधैकत्वे शिवत्वाख्यातिप्रक्रियामात्रमेतत्स्यात् । तीव्रशब्दादि-
केनाज्ञानेनाप्यावरणे कृते सौषुप्तविनिवृत्तिरिति च परोक्तं कुतः,
प्रमाणात्सिद्धमिति च न निश्चायकम् ॥ ६६ ॥
सामान्यरूपता वास्ति सा चाभिन्ना विशेषतः ।
भिन्नाभिन्नात्मकः क्वापि पदार्थस्तादृगिष्यते ॥ ६७ ॥
सामान्यरूपता वा सर्वेषां शावलेयादीनां विशेषाणामैक्यात्मिकास्ति ।
सा चाभिन्ना तेभ्यो विशेषेभ्यः । भिन्नाभिन्नात्मको हि पदार्थः सांख्यार्हंतादि-
दर्शने यथा प्रतीयते तादृग्वास्तव इष्यते । स च तत्त्वस्यैक्यं विना न स्यादिति
वक्ष्यमाणेन संबन्धः ॥ ६७ ॥
बौद्धस्य चेन्न सामान्यमनुमानं निवर्तते ।
यथा सुवर्णभाण्डेषु न तथा हेमतान्वयोः ॥ ६८ ॥
सुवर्णमानयेत्युक्ते शून्यता किं प्रतीयते ।
विशेषस्पर्शविरहात्कदाचिदपि युज्यते ॥ ६९ ॥

१३४ शिवदृष्टिः [ आ०-४
तत्त्वस्यैक्यं विना न स्यादेकस्यैव विरुद्धता ।
सामान्येन विशेषेण कथमेकस्य योगिता ॥ ७० ॥
अथ सामान्यं बौद्धस्य नास्ति, तदनुमानं सामान्यविषयमभीष्टं
हीयते । तथा सामान्यं विना यथा सुवर्णमानयेत्युक्ते सौवर्णकटककेयूरादि-
ष्ठ्वर्थेषु प्रतीतिर्न तथा हेमताम्रयोः, ताम्रासंस्पर्शन हेम्न एव प्रतीतेः,
कटककेयूरादिषु तु न कस्यचित्परित्यागः । अन्यापोहस्यापि सामान्यत्वेऽ-
भ्युपगते किं सुवर्णमानयेति शून्यता प्रसज्यप्रतिषेधरूपा प्रतीयते विशेष-
स्पर्शविरहाद्धेतोः, अपि त्वसौवर्णाव्यावृत्ताः सुवर्णप्रत्यवमर्शकारिणः त एकता-
मापाद्यमाना विशेषा एवेति कदाचिदपि युज्यते इति काक्वा व्याख्येयम् ।
न कदाचिदप्येतद्युज्यते शून्यतापि भातीति । तदेतच्चित्तत्त्वस्य पदार्थैक्यं
विना न स्यादेकस्यैवार्थस्य परस्परविरुद्धत्वात् । अचिद्रूपस्य बाह्यस्यैतन्न
घटते, तद्व्यनक्ति सामान्येनेत्यभेदेन, विशेषेणेति भेदेन । चित्तत्त्वस्य पुनः
स्वच्छन्दत्वान्न विरोध इत्युक्तं प्रत्यभिज्ञायामेव ॥ ७० ॥
एकतत्त्वं विनैतच्च व्यवहारो न जायते ।
शब्दार्थयोर्न संबन्धो भिन्नयोर्भिन्नदेशयोः ॥ ७० ॥
विरुद्धरूपयोर्भिन्नकरणग्राह्ययोरपि ।
मुखे हि शब्दो भूमौ च विद्यतेऽर्थ क्व संगमः ॥ ७१ ॥
अमूर्त एको मूर्तश्च द्वितीयो योगिता कथम् ।
इतश्चैकत्वं, यत एकचित्त्वात्मतां विना व्यवहारो न जायते । यतः
शब्दार्थयोर्योऽयमेकपरामर्शमयो वाच्यवाचकलक्षणः संबन्धः, स कथं चित्तत्त्वे
भिन्नदेशत्वे भिन्नमूर्तामूर्तत्वादिखभावत्वे भिन्नेन्द्रियग्राह्यत्वे च सति स्यात्,
तदेव भिन्नदेशतादि व्यनक्ति मुखे हीति । योगिता संबन्धित्ता स चैकपरामर्शो
भिन्नयोरपि सतोः ॥ ७१ ॥
तथात्मादेरदृष्टस्य तच्छब्दैर्योगिता कथम् ॥ ७२ ॥
असतः शशशृङ्गादेः शशशृङ्गादिनान्वयः ।
घटते जातुचिन्नेवमसतां व्यवहार्यता ॥ ७३ ॥
शब्देन चेत्तदेवं हि सर्वसंसारनाशता ।
असत्यव्यवहारेण तादृगेव जगद्भवेत् ॥ ७४ ॥

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १.३५
अप्रत्यक्षस्यात्मादेः शशशृङ्गादेश्चासततः कथमात्मादिशब्देन शश-
शृङ्गादिशब्देन च खपुष्पस्यापि खपुष्पशब्देन योजनम् । नैवं दोषः, असता-
मेव हि शब्देन व्यवहार्यता शब्दानामसद्विषयत्वात् यदि, तदेवं हि सर्वस्य
संसारस्य नाशः प्राप्नोति । तद्व्यनक्ति असत्येन शब्दव्यवहारेण तादृशम-
सत्यमेव जगद्द्भवेत् जगतश्च प्रतिभासमानशब्द ॥ ❀
तथाभिनवजातस्य तन्नाम्ना संगमः कथम् ।
तत्संगमस्यासत्यत्वे यन्त्रवश्यादिकं कथम् ॥ ७५ ॥
तस्मादैक्येन तत्त्वस्य सर्वं तदपि युज्यते ।
व्यतिरिक्तेन शब्देन मन्त्रेणानतिरेकिणा ॥ ७६ ॥
कथं न देवदत्तस्य यज्ञदत्तवदाख्यया ।
अत्र संकेतितत्वाच्चेत् संकेतेनात्र किं कृतम् ॥ ७७ ॥
संयोगश्चेन्न दूरेषु मूर्तामूर्तेषु युज्यते ।
शब्दस्योच्चारितध्वंसान्नष्टानष्टद्वये न च ॥ ७८ ॥
वाच्यवाचकरूपश्चेत्तस एष नियमः कुतः ।
यत्तस्य वाचकत्वं हि वाच्यत्वमपरस्य तु ॥ ७९ ॥
वाच्यवाचकरूपत्वे वाच्यवाचकतान्वयः ।
इतश्चास्ति जगत्यैक्यं प्रत्यक्षाग्रहणादपि ॥ ८० ॥
स्वलक्षणेन योगित्वाद्व्यवहारस्य सर्वतः ।
लोके चानुपपत्तेश्च प्रमा च व्यवहारगा ॥ ८१ ॥
बालमूकादिविज्ञानसदृशी कीदृशी क्रिया ।
सविकल्पस्य योगित्वाद्यथावस्तु ग्रहः कथम् ॥ ८२ ॥
तेन ज्ञेयमेकमेव वस्तु भिन्ने ग्रहः कुतः ।
तथानुमानं न भवेद्धूमाग्न्योरन्वये क्वचित् ॥ ८३ ॥
❀ अतः परं व्याख्या न लभ्यते ।

१३६ शिवदृष्टिः [ आ०-४
अपूर्वयोगंगृहीतेऽपि तत्कालं गतयोर्द्वयोः ।
अगृहीते न गृहीतः सम्बन्धोऽग्निः प्रतीयते ॥ ८४ ॥
सामान्यमविशेषं चेदविशेषात्कुतः प्रमा ।
विशेषस्याप्यपूर्वत्वे कथं चास्ति समन्वयः ॥ ८५ ॥
सादृश्यादथ चेन्नास्ति याथात्म्येन समागमः ।
न च वात्रानुमानत्वं धूमतः केवलाद्भवेत् ॥ ८६ ॥
तत्सम्बन्धादथोच्येत सम्बन्धे द्विष्ठता न च ।
द्विनिष्ठत्वादेकतरग्रहणान्नापि तद्ग्रहः ॥ ८७ ॥
धूमदृष्ट्याथ कल्प्येत वह्निस्तद्योगितापि च ।
इतरेतरदोषोऽत्र दुर्নিবারः प्रसज्यते ॥ ८८ ॥
यावन्न वह्निकल्पना न योगकल्पना भवेत् ।
यावद्वा योगकल्पना न वह्निकल्पनाक्षमा ॥ ८९ ॥
आप्तवाक्यादथास्तोह तत्सत्यत्वेऽदृढा मतिः ।
न राजते ह्ययोवक्ता सत्यभाषी कदाचन ॥ ९० ॥
सोऽप्यन्यथा प्रदर्शयेताक्षयतो रागद्वेषयोः ।
पित्रादेरप्यसत्यत्वं तत्रान्यत्र न निश्चयः ॥ ९१ ॥
तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते ।
क्षणभंगपरामर्शादप्येतदुपपद्यते ॥ ९२ ॥
शक्ताशक्तविकल्पैर्हि दीपज्वालाद्युदाहृतैः ।
स्थिरता नोपपन्ना ते प्रत्यक्षेणापि च स्थिता ॥ ९३ ॥
स्थिरत्वं क्षणिकत्वं च प्रमाणां चिन्तया स्थितम् ।
अप्यसंवादरूपं च विरुद्धं तत्कथं भवेत् ॥ ९४ ॥

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १.३७
यावन्न सर्वभावानामेकत्वेन व्यवस्थितिः ।
परेण क्षणभंगस्य परामर्शगमः कुतः ॥ ९५ ॥
ततोऽप्येतच्छिद्वात्मत्वं भावानामुपपद्यते ।
तथार्थावगतिर्वाक्यात्पदाद्वा नोपपद्यते ॥ ९६ ॥
क्षणिकत्वेन शब्दानामनभिव्यक्तितोऽपि वा ।
स्फोटाभिव्यंग्यपक्षे तु तत्रापि क्रमता कथम् ॥ ९७ ॥
निर्भागत्वात्स्फोटतत्त्वे स्फोटतत्त्वात्मकात्कथम् ।
आभासरूपवस्तूनां शाब्दिकान्नो भवेद्ग्रहः ॥ ९८ ॥
तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः ।
तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥ ९९ ॥
मूर्तंचोदकवैकल्यान्मनश्चेत्प्रेरितास्य नो ।
एकत्वे पुनरीदृक् स्यात्सर्वत्रैव हि युक्तता ॥ १०० ॥
न चापि भेदे भावानां ग्रहणं ज्ञानमेव वा ।
संयोगेनोपपद्येत यदि दृष्ट्यादिना भवेत् ॥ १०१ ॥
नैवमक्षार्थसंयोगमात्रात् किं बोद्धुरुद्यमः ।
संयोगेऽन्यस्य सञ्जाते कथमन्यस्य बोद्धृता ॥ १०२ ॥
मनसोऽभिन्नकालत्वात् स्मृतिज्ञानमथोच्यते ।
प्रारब्धश्चासमाप्तश्च वर्तमानः क्रियामनु ॥ १०३ ॥
प्रक्रियामात्रमेवैतद्यतः पूर्वापरात्मता ।
क्रियायाः कारकाणां हि क्रमोऽस्त्येव स्वकर्मणि ॥ १०४ ॥
यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते ।
मनसा नीयते तस्य किं पदार्थस्वरूपता ॥ १०५ ॥

•१३८ शिवदृष्टिः [ आ०-४
साशक्या मूर्तरूपत्वाद्रूपं चेन्न कथं गुणः ।
गुणिनो नीयतेऽन्यत्र तृषार्तश्चाकृतिं प्रति ? ॥ १०६ ॥
अथ ज्ञानं न मनसस्तज्ज्ञानमुपपद्यते ।
करणत्वाज्जडत्वाच्च तस्य चेदात्मनात्र किम् ॥ १०७ ॥
करणे ज्ञानसम्बन्धाद्वाह्यार्थे किं न कल्प्यते ।
बुद्धेर्गुणत्वं मनसि प्राप्नुयादथ चेतसा ॥ १०८ ॥
एवंविधो घटोऽत्रास्ते इत्यात्मा प्रतिबोध्यते ।
तदेवं पूर्वदृष्टस्य वर्णनासदृशं भवेत् ॥ १०९ ॥
वर्णनेन च चैतन्यमेतावन्मनसो यदि ।
स्वात्मशक्तिसमावेशादमूर्तविशता कथम् ॥ ११० ॥
तेन वा सम्प्रतीतेऽर्थे क्रियते किं तदात्मना ।
तत्स्वरूपआत्मसंयोगः संयोगोऽभिन्नदेशयोः ॥ १११ ॥
मनसावेदितार्थस्य तद्देशित्वमथोच्यते ।
वर्णिते योगिता कस्य यदि वा तत्स्वरूपतः ॥ ११२ ॥
संस्करोति तदात्मानममूर्तेः संस्कृतिः कथम् ।
तद्रूपमात्मन्येतद्येनाश्लेषो यदि चोच्यते ॥ ११३ ॥
चैतन्येनाप्यमूर्तेन मिश्रतान्यस्य कीदृशी ।
किं स्वयं तत्प्रमेयत्वमस्य चेदतिरेकतः ॥ ११४ ॥
मनसा किं किमक्षेण तेन चेत्तत्परम्परा ।
एवं तदन्धपारम्पर्यत्वरूपमिदं स्फुटम् ॥ ११५ ॥
किमात्मप्रेरणेनात्र ज्ञातेऽज्ञातेऽथवा बहिः ।
ज्ञाते तु ज्ञानरूपत्वात् प्रेरणं केन हेतुना ॥ ११६ ॥

४. सप्तम आह्निक: सर्व-पदार्थ शिवत्व सिद्धि, समावेश एवं ग्रन्थ उपसंहार

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १३६
अज्ञातेऽमुत्र याहीति प्रेर्यते केन मानसम् ।
प्रेर्यप्रेरणतत्कर्तृ द्वयक्यिादुपपद्यते ॥ ११७ ॥
तस्माज्ज्ञेयं समग्रैक्यवस्तु शैवं व्यवस्थितम् ।
तथास्मरणयोगाच्च स्मर्यते किं तथाविधम् । ११८ ।
तादृग्दृष्टं दृष्टता स्यादथवा ज्ञानमेव तत् ।
दृष्टस्मरणयोरैक्ये स्थिते तदुपपद्यते ॥ ११९ ॥
तथा सा प्रत्यभिज्ञानात्स एवायमिति स्थितिः ।
युज्यते कथमत्रैव ज्ञानयोः कालभिन्नयोः ॥ १२० ॥
द्वयोरैक्यमनैक्यं वा तदैक्यं भिन्नयोः कथम् ।
अनैक्ये न स एवायमिति स्याद्घटदण्डयोः ॥ १२१ ॥
तस्मादैक्यमिह स्पष्टं संसारे समवस्थितम् ।
एषैव वार्ता संयोगे वस्तुरूपतया स्थिते ॥ १२२ ॥
परस्परेण चाप्यत्र तेषां रूपेण वान्यथा ।
तस्मात् समस्तभावानामैक्येनैवास्ति संगमः ॥ १२३ ॥
शिविकोद्वाहकानां च न्याय एषोऽनुवर्तताम् ।
परचित्तपरिज्ञानात्तस्माज्ज्ञैयैक्यया ततः ॥ १२४ ॥
सार्थसेना वनाद्यात्म जगत्यैक्यं स्फुटं स्थितम् ॥
इति श्रीशिवदृष्टौ अनुपपत्तिचोदनालक्षणं चतुर्थ-
माह्निकं सम्पूर्णम् ॥

अथ
पञ्चममाह्निकम्
अथ चेत् सर्वभावानां न विना तत्त्ववेककम् ।
समन्वयोऽस्ति तदिदं कथमैक्यं विभेदितम् ॥ १ ॥
तदपि सर्वदास्तीह तदर्थमिह वर्ण्यते ।
यथा सर्वेषु भावेषु समतास्त्येकरूपता ॥ २ ॥
न जातुचिद्विभेदित्वं तथा तदुपकर्णताम् ।
चित्त्वात् सर्वपदार्थानां विशेषः केन कथ्यताम् ॥ ३ ॥
विभेदेष्वपि तद्व्याप्त्याभेदेष्वप्येकता स्थिता ।
इच्छावन्तः सर्व एव व्यापकाश्च समस्तकाः ॥ ४ ॥
अमूर्ताश्च तथा सर्वे सर्वे ज्ञानक्रियात्मकाः ।
प्रभवश्च तथा सर्वे इच्छामर्शस्तथाखिलाः ॥ ५ ॥
सर्वे स्वात्मपरिच्छेदवन्तो नित्यमवस्थिताः ।
विकासाह्लादवन्तश्च सर्वे निर्वृतियोगिनः ॥ ६ ॥
घटादीनां समस्तानामिच्छादेरल्पतास्ति चेत् ।
अन्यत्र देहे सर्पादौ दीपादौ नाग्नितल्पके ॥ ७ ॥
स्वल्पतेजसि दाढ्र्चाद्वा सर्वत्र शिवतुल्यता ।
भवेदिच्छादिविषये सर्वत्र प्रविसारिणी ॥ ८ ॥
दुःखादिना विशेषश्चेत् तत्राप्यशिवता न च ।
दुःखेऽपि प्रविकासेन दुःखार्थे धृतिसंगमात् ॥ ६ ॥
दृश्यते बन्धनं तेषु धृतिः कीटादिके तथा ।
निर्वृत्या यत्र योगोऽस्ति तत्रैव शिवता स्फुटम् ॥ १० ॥
अथ चेच्चिद्वतामेतद्वक्तुं युक्तं कदाचन ।
पृथिव्यादेर्हि मूर्तस्य घटादेर्वा न युज्यते ॥ ११ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४५
नैवं घटस्य चैतन्यमस्ति ज्ञानात् स्वकर्मणि ।
नाज्ञात्वा कर्तुमिष्येत तथाचिदवबोधनात् ॥ १२ ॥
प्रकाशज्ञानजननाज्जनः कर्ता जडे कथम् ।
जडेन व्यज्यते नापि चैतन्यमजडात्मकम् ॥ १३ ॥
चेतनेच्छावशाद्बाह्यसम्पत्तेरजडः कथम् ।
तिष्ठत्यादिक्रियायां हि कर्तृत्वं न जडे भवेत् ॥ १४ ॥
कर्तृत्वमुपचाराच्चेत् क्रियाया अप्यसत्यता ।
प्रयोज्यत्वमथोच्येत प्रवृत्तं हि प्रवर्तते ॥ १५ ॥
जानन् कर्तारमात्मानं घटः कुर्यात् स्वकां क्रियाम् ।
अज्ञाते स्वात्मकर्तृत्वे न घटः सम्प्रवर्तते ॥ १६ ॥
स्वकर्मणि ममैतत्तदित्यज्ञानान्न चेष्टनम् ।
कूलं पिपतिषति गोर्व्यवहारः प्रसिद्धयति ॥ १७ ॥
घटादेर्भवता ज्ञातमाचैतन्यं कथं यदि ।
चेष्टोन्मेषाद्यभावात्तन्मूर्छिते किं करिष्यसि ॥ १८ ॥
प्राणाद्युन्मेषविरहादभिव्यक्तं नु कस्य तत् ।
सर्वचैतन्यवादे तु चार्वाकोऽत्र न सिद्ध्यति ॥ १९ ॥
प्रत्येकं परमाणौ चेच्चैतन्येऽनेकचेतनाः ।
घटादयः प्रसज्यन्ते परमाणुकथा न हि ॥ २० ॥
तथा वा शिवतत्त्वस्य सम्भूतेरथवा तथा ।
एकैकशोऽस्ति चैतन्यमनभिव्यक्तरूपकम् ॥ २१ ॥
इतश्च तेऽपि चिद्वन्तः स्वात्मनि ज्ञानयोगतः ।
स्वयमेव न चेज्ज्ञानमात्मन्येषां प्रजायते ॥ २२ ॥
नान्यथा ग्रहणं तेषां देवदत्तेन चेद्द्भवेत् ।
देवदत्तोऽत्र किं कुर्याच्चक्षुश्चेत् प्रेरयेद्घटे ॥ २३ ॥
गोलकं न प्रयातीह शक्तेरव्यतिरेकतः ।
शक्तिमद्भोगतायां वा तत्रैव यदि वेदनम् ॥ २४ ॥

आत्मनो व्यापकत्वेन शरीरे व्यर्थता भवेत् ।
जडत्वादथवा शक्तस्तच्छक्त्या तद्घटो भवेत् ॥ २५ ॥
पुरा शक्तेरानयते चक्षुः शक्तं न वेति वा ।
तस्यापि शक्तेः कल्प्यत्वे भवत्यानन्त्यसंगमः ॥ २६ ॥
प्राक्शक्तेरथ सामर्थ्यं शक्तेः शक्तत्वमापतेत् ।
मनसो न च बाह्येऽस्ति तस्यापि प्रसरः क्वचित् ॥ २७ ॥
शक्तिर्घटेऽत्र किं कुर्याद् गृहीत्वान्तरथाविशेत् ।
बुध्नोदरादिकं तत्तु गृहीत्वा न च युज्यते ॥ २८ ॥
तथाकारणगुणत्वान्न द्रव्याच्च चलनं पृथक् ।
शक्तेर्न चापि तज्ज्ञानं येन सा तन्निवेदयेत् ॥ २९ ॥
अन्तर्विशति चेच्छक्तिरन्तरप्युपलम्भनम् ।
अप्रवेशान्न मनसः सम्बन्धः उपपद्यते ॥ ३० ॥
विभुत्वेनेन्द्रियाणां ते किं वृथैव शरीरता ।
चक्षुषा चेदर्पितं मे मनसात्मन्यथार्यते ॥ ३१ ॥
तदात्मन्यपरोक्षत्वे भवेदाप्तवचः स्फुटम् ।
ये विकल्पाः शक्तिगतास्तेऽप्यायान्ति मनः प्रति ॥ ३२ ॥
चक्षूरश्मिगमत्वं चेत् स प्रत्यक्षोऽर्करश्मिवत् ।
भावान् प्रतिबिम्बत्व आत्मनोऽपि न युक्तता ॥ ३३ ॥
प्रतिबिम्बेऽवसत्यत्वादमूर्तेष्वेगोचरात् ।
तस्माद्घटः स्वमात्मानमवगच्छन्नवस्थितः ॥ ३४ ॥
तदैव्यातच्चचक्षुषैव प्रक्रिया चेत् कथं स्थिता ।
तथा शिवस्य सर्गाद्रा प्रक्रियायास्तथात्मनः ॥ ३५ ॥
अन्धादेरप्यदृष्टचात्र घटः किं प्रथते न चेत् ।
शिवत्वस्य तथा व्यक्तेर्घटस्येच्छा तथास्ति वा ॥ ३६ ॥
इच्छावत्त्वमनेनैव न्यायेनास्य निजां क्रियाम् ।
अनिच्छुर्न करोत्येवमत एवास्ति निर्वृतिः ॥ ३७ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४३
नानिवृत्तौ प्रवर्तेत स्फुटे ज्ञानक्रिये स्थिते ।
कर्मप्रभवणत्वात्तत्प्रभुत्वमवधार्यते ॥ ३८ ॥
स्वेच्छाकर्मविमर्शेन स्वेच्छाकर्मत्वमादृतम् ।
सर्वे पदार्थरूपेण सामान्येनार्थवत्तया ॥ ३६ ॥
व्यापका व्यपदिश्यन्ते स्वकार्यव्यापनादथ ।
यदि ते न स्वयंग्राह्या गृह्यन्ते नैव चक्षुषा ॥ ४० ॥
बाह्यावयवतद्योगात्तदन्तरवियोगतः ।
पटो गृहीतः सकल इति न स्यात् प्रमा क्वचित् ॥ ४१ ॥
सर्वज्ञत्वमप्रवेशाद्व्यवधानादियोगतः ।
न चान्यावयवत्वेन तदन्येष्वनुमानता ॥ ४२ ॥
न चान्यावयवैः सार्द्धं सम्बन्धग्रहणं पुरा ।
तस्मान्नान्येन गृह्यन्ते प्रत्यक्षेण कदाचन ॥ ४३ ॥
तत्तत्स्थान एव तज्ज्ञाना संविदेषा विमृश्यताम् ।
न चाप्यस्त्यनुमानेन परेषां ग्रहणं क्वचित् ॥ ४४ ॥
धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते ।
अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥ ४५ ॥
देशोऽपि न गृहीतोऽत्र धूमलेखानुरूपतः ।
न चापि निम्ने ह्रस्वे वा निश्चयोऽत्रावगम्यते ॥ ४६ ॥
अत्रापि क्वापि वास्तीति कल्पना कल्पनैव हि ।
यत्र यत्र भवेद्धूमस्तत्राग्निरित्यनिश्चयात् ॥ ४७ ॥
तत्राकाशे स्थितो धूमो न वह्नेः कणमात्रकम् ।
धूमेन व्यापितो देशो भवेदग्निमयोऽखिलः ॥ ४८ ॥
तद्बुध्नावयवैर्वाथ तेऽपि यान्त्यूर्ध्वतां क्षणात् ।
बुध्नस्तैर्न च सम्बद्धः कदाचिच्चक्षुषो भवेत् ॥ ४६ ॥
सम्बन्धो ग्रहकाले तु न चोर्ध्वावयवैर्भवेत् ।
वह्नेर्दूरतरस्थित्या वह्निश्लिष्टेष्वलक्ष्मता ॥ ५० ॥

१४४ शिवदृष्टिः [ आ०-५
न चापि वह्निर्जनकः काष्ठेष्वेव हि दर्शनात् ।
अत एव यत्र वह्निर्भास्वान्नो धूमिताऽत्र तु ॥ ५१ ॥
सन्निधानादथाग्नेश्च चुल्लयादेः सन्निधिर्न किम् ।
धूमेन जन्यते ज्ञानं वह्निरत्रेति ते यदि ॥ ५२ ॥
कुत्र तेऽन्यत्र दृष्टत्वात्तद्दृष्टेरग्निदृष्टता ।
अत्रेति धर्मिता कस्य पर्वतादौ समस्तके ॥ ५३ ॥
तत्सामस्त्यस्याग्रहणाददृष्टे धर्मिता कुतः ।
दृष्टश्चेत् सर्वघटवत्तदङ्गस्याग्निदर्शनम् ॥ ५४ ॥
स्वार्थानुमानं नैवं चेन्न शब्दैरन्तरे स्थितम् ।
अग्निरेषोऽत्र धूमो वा दर्शयेन्न ह्यदर्शने ॥ ५५ ॥
एष इत्यपदिश्येत तज्ज्ञानं जनयेत् कथम् ।
करणत्वे कर्त्रपेक्षा कर्तृत्वे तदपेक्षता ॥ ५६ ॥
वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् ।
यच्च यद्विषयं ज्ञानं तज्जन्यं तस्य दृष्टवत् ॥ ५७ ॥
धूमादग्निप्रतीतिश्च न चायं नियमः स्थितः ।
कक्षभूर्जादिजो वह्निर्गुहाकारे ज्वलन् गृहे ॥ ५८ ॥
महान्तं धूममुत्पाद्य तत्कालं वारिणा हतः ।
तत्र केवलधूमास्था न वह्निप्राप्तिरस्ति ते ॥ ५६ ॥
तस्मात्तद्व्यपदेशो न वह्निः स्वं विनिवेदयेत् ।
वीक्ष्यात्मना तथात्मानं विनीतवदवस्थितम् ॥ ६० ।,
एतयैव दिशा दूष्यं स्वभावाद्यमसंशयम् ।
परानुमाने पक्षादौ धर्मादेर्भेद्यभेदिता ॥ ६१ ॥
अनुमानस्यान्यथान्यैर्दूषणा प्रविधीयते ।
अवस्थादेशकालानामियादिभिरुदाहृतैः ॥ ६२ ॥
यत्र देशे च काले च प्रवृत्तिस्तत्र संगमः ।
तत्रैव व्यवहारित्वसम्बन्धान्तरतायतः ॥ ६३ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४५
न चापि स्थिरभावानां क्वाप्यस्ति व्यभिचारिता ।
सूर्यः प्रकाशकः क्वापि काले देशेऽन्यथा भवेत् ॥ ६४ ॥
शब्दैरर्थाः प्रतीयन्ते सर्वत्रैवं क्व निश्चयतः ।
स्फोटादर्थप्रतीतिश्चेद् व्यज्यते तैः क्व निर्णयः ॥ ६५ ॥
तस्यापि सर्वदेश्यत्वान्निश्चयः केन लभ्यते ।
भोजनादेरचेष्टत्वे व्यवहारविलोपिता ॥ ६६ ॥
अनुमानं न चास्तीति पक्षादिर्नोपयुज्यते ।
गोपालघटिकान्यैश्च घटिता न ह्यसम्भवात् ॥ ६७ ॥
न भांडे शक्यते धूमः प्रवेष्टुं वह्निवर्जिते ।
तस्माद्वर्णनिकैवेयं परस्यान्धाय कल्पिता ॥ ६८ ॥
यैरुक्तं सिद्धसाध्यत्वं सामान्ये तन्न दूषणम् ।
अत्रेति तत्प्रयोगत्वाद्विग्देशाद्यैर्विशेषिता ॥ ६६ ॥
न सर्वेषां विशेषाणां प्रत्यक्षेऽपि भवेद् ग्रहः ।
विशेषपूर्वताध्यक्षेऽविशेषोऽस्त्यनुमानतः ॥ ७० ॥
अतो नास्त्यनुमानस्य दूषणाद्यैः प्रतिभाषितैः ।
तेन पूर्वोक्तया नीत्या भावानां स्वग्रहः स्थितः ॥ ७१ ॥
नाप्याप्तवचनग्राह्यः सामान्याद्वा विशेषतः ।
सामान्यादनुमानोक्तदूषणं तद्विशेषतः ॥ ७२ ॥
प्रत्यक्षत्वं प्रसज्येत तथाप्तत्वेऽप्यनिश्चयात् ।
स्वातन्त्र्यं न च शब्दस्य रचनात्वेन युज्यते ॥ ७३ ॥
तत्रापि व्यञ्जकापेक्षा स्यात् परायत्ततैव हि ।
अर्थापत्त्यादिना नापि तदनर्होपयोगतः ॥ ७४ ॥
प्रतिभा च प्रमाणत्वे वर्ण्यमाना न शोभते ।
काकतालीयरूपत्वादश्वादेस्तरणादथ ॥ ७५ ॥
तदहर्जातकस्यापि वासना सान्यजन्मजा ।
तत्तज्जातीयधर्मो वा तथाज्ञानस्वभावता ॥ ७६ ॥
व्यापकत्वाच्छिवत्वस्य [सर्वज्ञत्वाद्भेदथ ।
तस्मादेतच्च संज्ञेयं सर्वः स्वात्मानमात्मना ॥ ७७ ॥
१०

१४६ शिवदृष्टिः [ आ०-५
जानन्नवस्थितो दूरे स्वर्गादौ निरयेऽथवा ।
प्रत्यक्षादिप्रक्रियायास्तथा शिवकृतस्थितेः ॥ ७८ ॥
नौतरभ्रान्तिनाशादौ सम्यग्दृष्टिसमुद्गमात् ।
यमर्सनिकसद्दृष्टिधरादेश्चलनोद्गमात् ॥ ७६ ॥
भूकम्पनाच्च शेषादिचलनाच्चेन्न सर्वतः ।
गमागमेन वाय्वादेः कान्त्या भवति चेतना ॥ ८० ॥
सर्वत्र देवतात्मत्वाज्जडेष्वप्युपवर्णिता ।
पोतादेश्चेदुपायेन दृष्टे दीपाद्युपायता ॥ ८१ ॥
तत्र चेत् सुप्रसिद्धत्वे तथा तत्र प्रसिद्धितः ।
तुल्यकालं द्वयोर्द्वैधं नैवं यत्तदलक्ष्यता ॥ ८२ ॥
तद्देशत्वं पुनः कस्मादिति चेत्तत्तथाग्रतः ।
भावा मूर्ताः सर्व एव सूक्ष्मसूक्ष्मतरादिता ॥ ८३ ॥
ज्ञेया अवयवेनैते यावद्यावददर्शनाः ।
अणूनामथ मूर्तत्वादेवं चेत् किं न दर्शनम् ॥ ८४ ॥
सूक्ष्मत्वात्तर्ह्यदृश्यत्वमस्पृश्यत्वममूर्तता ।
तैरदृश्यैर्यदारब्धं तत्तथैवाथ संहतेः ॥ ८५ ॥
दृश्यत्वं तेषु संघातात् किं तेषां रूपताक्षतिः ।
स्वरूपमिश्रीभावो वा नैवं चेत्तर्ह्यमूर्तता ॥ ८६ ॥
ये तत्र पृष्ठतो वृत्तास्ते प्रत्येकममूर्तकाः ।
अमूर्तत्वेन भावानां दर्शनं नान्यथा भवेत् ॥ ८७ ॥
ज्ञानस्वरूपग्रहाणां तद्ग्रहात्तद्ग्रहः किल ।
अतत्स्वरूपरूपत्वे नान्यस्यान्यग्रहाद्ग्रहः ॥ ८८ ॥
एवमिन्द्रियशक्तीनां ज्ञानमन्तःप्रवेशनात् ।
सामान्या मूर्तता व्याप्ता ह्यमूर्तत्वं तदग्रतः ॥ ८६ ॥
कथमाकारघटना व्योम्नि नित्येव नीलता ।
आत्मेच्छात्ः स्थिता भावाः स्थितैवासावमूर्तता ॥ ६० ॥
माययित्वे जगति वा प्राकृते वान्यथापि वा ।
अमूर्तकारणैर्योगात्तन्मूर्तत्वं निवार्यते ॥ ६१ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४७
अविद्यायोगतो वापि शाक्तरूपत्वतोऽपि वा ।
ज्ञानस्यापि बहिरूपे शब्दरूपेऽपि वा तथा ॥ ६२ ॥
एतदेव हि युक्तं तु घटादेर्बाह्यमेकतः ।
कुड्यादिनिर्गताच्चैव योगिनां क्वापि दर्शनात् ॥ ६३ ॥
अग्रकव्यवधानादेरथ चेत्कार्यनाशिता ।
पदार्थवित्प्रक्रियया प्रक्रिया प्रक्रियैव सा ॥ ६४ ॥
कार्यस्य नाशे तत्कार्यकार्ये तत्कार्यनाशिता ।
क्षणलक्षाणि जायन्ते क्रमात्तद्विनाशतः ॥ ६५ ॥
तथोत्पत्तौ क्षणानन्त्यमीश्वरेच्छावशादथ ।
क्षण एको न चैवं तच्चेश्वरेच्छाविरोधकृत् ॥ ६६ ॥
एकक्षणत्वं लक्ष्यस्य बहुकालस्य नार्हता ।
क्षणभङ्गान्तरं चैवं हि स निवार्य इहाग्रतः ॥ ६७ ॥
स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा ।
स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥ ६८ ॥
सर्वज्ञत्वादशेषस्य तदहर्जातदारके ।
क्षीरादिके निगलनात्तदा कालेऽप्यशिक्षिते ॥ ६६ ॥
उदरस्थस्य च ग्रासग्रहणान्मातुरन्तरे ।
अशिक्षितानां तरणात् प्राणिनां निम्नगाजलात् ॥ १०० ॥
सर्वज्ञत्वे न किं सर्वे सर्वज्ञाः स्युः शरीरिणः ।
सर्व एव हि सर्वज्ञा मनःसंकल्पनावशात् ॥ १०१ ॥
संकल्पकेन चित्तेन तत्तज्ज्ञानमसंशयम् ।
संकल्पानां च सत्यत्वं पुरस्तात्प्रतिपादितम् ॥ १०२ ॥
सर्वभावग्रहणतायोग्यत्वाद्वा क्रमस्थितेः ।
प्रत्यक्षाद्यैरुपायैर्वा निरुपायतयापि वा ॥ १०३ ॥
तत्तद्रूढिवशाद्वापि सर्वज्ञत्वप्रवर्तनात् ।
सर्वे सर्वात्मभावेन सर्वज्ञा वा व्यवस्थिताः ॥ १०४ ॥
सर्वे भावाः स्वमात्मानं जानन्तः सर्वतः स्थिताः ।
मदात्मना घटो वेत्ति वेद्म्यहं वा घटात्मना ॥ १०५ ॥

१४८ शिवदृष्टिः [ आ०-५
सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना।
शिवात्मना यज्ञदत्तो यज्ञदत्तात्मना शिवः॥ १०६॥
सदाशिवात्मना वेत्ति घटः स च घटात्मना।
सर्वे सर्वात्मका भावाः सर्वसर्वस्वरूपतः॥ १०७॥
सर्वस्य सर्वमस्तीह नानाभावात्मरूपकैः।
मद्रूपत्वं घटस्यास्ति ममास्ति घटरूपता॥ १०८॥
नानाभावैः स्वमात्मानं जानन्नास्ते स्वयं शिवः।
चिद्व्यक्तिरूपकं नानाभेदभिन्नमनन्तकम्॥ १०६॥
एवं सर्वेषु भावेषु सर्वसाम्ये व्यवस्थिते।
तेन सर्वगतं सर्वं शिवरूपं निरूपितम्॥ ११०॥
इति श्रीशिवदृष्टौ श्रीमत्सोमानन्दप्रभुपादविरचितायां
समताप्रतिपादकं नाम पञ्चममाह्निकम्।

अथ
षष्ठमाह्निकम्
अथ शक्तेः शक्तिमतो न भेदो द्रव्यकर्मवत् ।
स्थापितो द्रव्यतो भिन्ना क्रिया नो न च नास्ति सा ॥ १ ॥
एवं तथा शक्तिमतः शक्तस्य समवस्थिता ।
जगद्विचित्रता शैवे न पुनर्दर्शनान्तरे ॥ २ ॥
यथा प्रकल्पिता चित्रा चित्रब्रह्मादिवादिता ।
नानात्मवादितां यावत्तत्सर्वं प्रविचार्यंतम् ॥ ३ ॥
यत्र ब्रह्मोच्यते चित्रं कैश्चिद्वेदान्तवादिभिः ।
एकस्य चित्रता केन हेतुना ब्रह्मणो भवेत् ॥ ४ ॥
तथाविधा विभिन्नास्ते सर्वदा निजभावतः ।
विभिन्ना एव ते नैक्यं मृत्पिण्डात् प्रागवस्थितेः ॥ ५ ॥
घटादीनां द्विरूपत्वं न घटादेः सदास्थितेः ।
निमित्तकल्पना कल्प्या तर्ह्यविद्या तदुद्गमात् ॥ ६ ॥
भावा भवेयुस्तत्प्राप्ता ह्यस्माकं सर्वसत्यता ।
अविद्यादेरयोगश्चेत्तेनैतदतिरिक्कता ॥ ७ ॥
येऽन्ये वेदान्तविद्वांस आत्मब्रह्मैव विश्वताम् ।
यात्युपादानरूपत्वात्तथान्ये भ्रान्तिरूपताम् ॥ ८ ॥
विश्वं न सत्यरूपत्वं तथान्ये त्वात्मवादिनः ।
भूतजीवपरात्मत्वं ये चान्ये नेतिवादिनः ॥ ९ ॥
यस्यां प्रतीतौ नेत्यस्य प्रसरो न प्रवर्तते ।
तद्ब्रह्मेति वदन्त्येके ये स्फुलिङ्गात्मवादिनः ॥ १० ॥
प्रतिबिम्बतया चान्ये ये वा सर्गमुखे स्वयं ।
ब्रह्मैव गृह्णात्यात्मानं ततो भेदोपपादनम् ॥ ११ ॥
इत्याहुर्येऽपि क्रीडार्थमेवमात्मा व्यवस्थितः ।
इत्यूचुर्येऽप्रबुद्धत्वं पश्चाद्ब्रह्म प्रबुध्यते ॥ १२ ॥