शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 157, कुल 188 में से
संदर्भ में पढ़ेंअथ
पञ्चममाह्निकम्
अथ चेत् सर्वभावानां न विना तत्त्ववेककम् ।
समन्वयोऽस्ति तदिदं कथमैक्यं विभेदितम् ॥ १ ॥
तदपि सर्वदास्तीह तदर्थमिह वर्ण्यते ।
यथा सर्वेषु भावेषु समतास्त्येकरूपता ॥ २ ॥
न जातुचिद्विभेदित्वं तथा तदुपकर्णताम् ।
चित्त्वात् सर्वपदार्थानां विशेषः केन कथ्यताम् ॥ ३ ॥
विभेदेष्वपि तद्व्याप्त्याभेदेष्वप्येकता स्थिता ।
इच्छावन्तः सर्व एव व्यापकाश्च समस्तकाः ॥ ४ ॥
अमूर्ताश्च तथा सर्वे सर्वे ज्ञानक्रियात्मकाः ।
प्रभवश्च तथा सर्वे इच्छामर्शस्तथाखिलाः ॥ ५ ॥
सर्वे स्वात्मपरिच्छेदवन्तो नित्यमवस्थिताः ।
विकासाह्लादवन्तश्च सर्वे निर्वृतियोगिनः ॥ ६ ॥
घटादीनां समस्तानामिच्छादेरल्पतास्ति चेत् ।
अन्यत्र देहे सर्पादौ दीपादौ नाग्नितल्पके ॥ ७ ॥
स्वल्पतेजसि दाढ्र्चाद्वा सर्वत्र शिवतुल्यता ।
भवेदिच्छादिविषये सर्वत्र प्रविसारिणी ॥ ८ ॥
दुःखादिना विशेषश्चेत् तत्राप्यशिवता न च ।
दुःखेऽपि प्रविकासेन दुःखार्थे धृतिसंगमात् ॥ ६ ॥
दृश्यते बन्धनं तेषु धृतिः कीटादिके तथा ।
निर्वृत्या यत्र योगोऽस्ति तत्रैव शिवता स्फुटम् ॥ १० ॥
अथ चेच्चिद्वतामेतद्वक्तुं युक्तं कदाचन ।
पृथिव्यादेर्हि मूर्तस्य घटादेर्वा न युज्यते ॥ ११ ॥