शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 156, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता १३६
अज्ञातेऽमुत्र याहीति प्रेर्यते केन मानसम् ।
प्रेर्यप्रेरणतत्कर्तृ द्वयक्यिादुपपद्यते ॥ ११७ ॥
तस्माज्ज्ञेयं समग्रैक्यवस्तु शैवं व्यवस्थितम् ।
तथास्मरणयोगाच्च स्मर्यते किं तथाविधम् । ११८ ।
तादृग्दृष्टं दृष्टता स्यादथवा ज्ञानमेव तत् ।
दृष्टस्मरणयोरैक्ये स्थिते तदुपपद्यते ॥ ११९ ॥
तथा सा प्रत्यभिज्ञानात्स एवायमिति स्थितिः ।
युज्यते कथमत्रैव ज्ञानयोः कालभिन्नयोः ॥ १२० ॥
द्वयोरैक्यमनैक्यं वा तदैक्यं भिन्नयोः कथम् ।
अनैक्ये न स एवायमिति स्याद्घटदण्डयोः ॥ १२१ ॥
तस्मादैक्यमिह स्पष्टं संसारे समवस्थितम् ।
एषैव वार्ता संयोगे वस्तुरूपतया स्थिते ॥ १२२ ॥
परस्परेण चाप्यत्र तेषां रूपेण वान्यथा ।
तस्मात् समस्तभावानामैक्येनैवास्ति संगमः ॥ १२३ ॥
शिविकोद्वाहकानां च न्याय एषोऽनुवर्तताम् ।
परचित्तपरिज्ञानात्तस्माज्ज्ञैयैक्यया ततः ॥ १२४ ॥
सार्थसेना वनाद्यात्म जगत्यैक्यं स्फुटं स्थितम् ॥
इति श्रीशिवदृष्टौ अनुपपत्तिचोदनालक्षणं चतुर्थ-
माह्निकं सम्पूर्णम् ॥