सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 150, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 150

श्लो. ७-४ ] उत्पलदेवकृतवृत्त्योपेता १३३
सर्वैकतात एवात्र तथा सौषुप्तबोधनम् ॥ ६५ ॥
घटते कथं निमित्तस्य प्राग्योगायोगचोदितैः ।
योगे जाग्रदवस्थैव तस्मात्सर्वं शिवात्मकम् ॥ ६६ ॥
अत एव चात्र जगति सर्वैकता स्थिता यतः शब्दस्पर्शरूपादेर्विषयस्य
सर्वस्य पूर्वापरसहोत्पन्नैर्ज्ञानैर्व्यतिरिक्तत्वाज्ज्ञानं नास्ति । तथाहि पूर्वं
तावज्ज्ञानं कथं विषयेण विना स्यात्, पश्चाच्च सहापि द्वयोः स्वात्मनि
स्थितयोः कथं ग्राह्यग्राहकभावः, अर्थाभिसन्धिज्ञानेन च विना कस्मा-
दात्मना मनसः प्रेरणं, तद्बाह्यार्थग्रहणार्थमस्ति चेत्पूर्वं ज्ञानं किं मनः-
प्रेरणेन । न चाभिसन्धिज्ञानेन बाह्योऽर्थो ज्ञातस्तदर्थं मनसः प्रेरणं न स्यात् ।
तस्माच्चिद्रूपशिवैक्ये सर्वदा संवेदने स्थिते प्रक्रियामात्रमिदं नियतिशक्ति-
कृतमीश्वरप्रत्यभिज्ञोक्तमभेदाभिधायिमयं द्रष्टव्यम् । तथा सौषुप्ते स्थितस्य
प्रबोधनमुच्चैः शब्दादिसमुच्चारणेन कथं घटेतैकतां विना । तथाहि उच्चैः-
शब्दादिज्ञानं प्रबोधनिमित्तं तस्य च प्राग्योगोऽथ न योग इति चोद्यैः कथं
घटनम्, तथाहि प्राक् शब्दादिज्ञानेन योगे जाग्रदवस्थैव स्यात् तस्या-
स्तथालक्षणत्वात्, प्राक् शब्दादिज्ञानस्य निमित्तस्य तु विरहे कथं प्रबोधः ।
तदेतदेव स्याद्द्विधैकत्वे शिवत्वाख्यातिप्रक्रियामात्रमेतत्स्यात् । तीव्रशब्दादि-
केनाज्ञानेनाप्यावरणे कृते सौषुप्तविनिवृत्तिरिति च परोक्तं कुतः,
प्रमाणात्सिद्धमिति च न निश्चायकम् ॥ ६६ ॥
सामान्यरूपता वास्ति सा चाभिन्ना विशेषतः ।
भिन्नाभिन्नात्मकः क्वापि पदार्थस्तादृगिष्यते ॥ ६७ ॥
सामान्यरूपता वा सर्वेषां शावलेयादीनां विशेषाणामैक्यात्मिकास्ति ।
सा चाभिन्ना तेभ्यो विशेषेभ्यः । भिन्नाभिन्नात्मको हि पदार्थः सांख्यार्हंतादि-
दर्शने यथा प्रतीयते तादृग्वास्तव इष्यते । स च तत्त्वस्यैक्यं विना न स्यादिति
वक्ष्यमाणेन संबन्धः ॥ ६७ ॥
बौद्धस्य चेन्न सामान्यमनुमानं निवर्तते ।
यथा सुवर्णभाण्डेषु न तथा हेमतान्वयोः ॥ ६८ ॥
सुवर्णमानयेत्युक्ते शून्यता किं प्रतीयते ।
विशेषस्पर्शविरहात्कदाचिदपि युज्यते ॥ ६९ ॥