शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 149, कुल 188 में से
संदर्भ में पढ़ें१३२ शिवदृष्टिः [ आ०-४
ननु पूर्वोऽन्य एव घटः शशविषाणतामेव च प्राप्तोऽयं चान्य एव क्रियते ।
तदेतन्नास्ति । न हि घटादन्यो घटः स्यात् महत्त्वलोहित्वोच्छ्रितत्वादि-
सामान्यान्तरसंपर्केऽन्तरवस्थित एव इन्द्रियवेद्योऽभेदाख्यातिमयः क्रियते इति
पूर्वमुक्तम् । तस्मादुक्तक्रमेण भावानां शिवतत्त्वनिमज्जनरूपेण तदभेदाख्याति-
विनाशोऽपि शिवतत्त्वाविनाशिता । एवमुत्पत्तिविनाशान्यथानुपपत्त्या
सर्वशिवता व्यवस्थिता ॥ ५६ ॥
इतश्च सर्वशिवतावयवेभ्यो न कुत्रचित् ॥ ६० ॥
व्यतिरेकोऽवयविनस्तदेवेदं विचार्यताम् ।
भिन्नेष्वैक्यभेदश्च यथा तत्र व्यवस्थितम् ॥ ६१ ॥
तथा तत्र परिज्ञेयं पत्युः सामर्थ्यमीदृशम् ।
अभिन्ने भेदता येन भिन्नेष्वप्यस्त्यभेदता ॥ ६२ ॥
यथावयवगं रूपं तथा सर्वपदार्थगम् ।
इतोऽपि च हेतोः सर्वशिवता । अवयवेभ्यो व्यतिरिक्तोऽवयवी न
क्वचित् ज्ञाने चाक्षुषे मानसे वा अवभासते । यैरपि व्यतिरिक्तोऽसौ प्रतिज्ञा-
तस्तैः प्रतीतिः समवायवशादभेदेनैव इष्यते । तच्च इदं विचार्यताम्-
यद्यपि विततावभासेऽवयवा भिन्ना व्यवस्थिताः परमाणुमात्रे ह्यभेदिनि
वैतत्याभावात्तथाप्येक एव देवदत्तसंज्ञोऽर्थो निःसन्धिबन्ध एकघनोऽ-
वभातीति भिन्नेष्वेवावयवेषु ऐक्यं भाति । तत्र यथैक्यं, तथा पत्युः
शिवस्य चिन्मयस्य तत्सामर्थ्यमीश्वरप्रत्यभिज्ञायामुक्तं येन सामर्थ्य-
नाभिन्ने देवदत्तेऽवयवभेदात्मता, अवयवेषु च भिन्नेषु एकैव देवदत्तता
युज्यते, यथा अवयवभेदगतमेकं रूपम् । एवं त्रैलोक्यवर्तिष्वपि सर्वेष्वेवार्थेषु
गतं शिवरूपम् ॥ ६२ ॥
तदेव व्यनक्ति--
क्व पाणिपादं क्व शिरो यथैक्यं भिन्नदेशगम् ॥ ६३ ॥
तद्वत्सर्वपदार्थानां जगत्यैक्ये स्थितः शिवः ।
अवयवभेदस्यापि अभिन्नावयविरूपता शिवरूपतयैवेति प्रतिपादि-
मीश्वरप्रत्यभिज्ञायामेवं जगत्यैक्ये शिवरूपतोपपादिका स्थिता ॥ ६३ ॥
शब्दादेर्ग्रहणं नास्ति पूर्वापरसहोदितैः ॥ ६४ ॥
मनसः प्रेरणं कस्मात्प्राग्ज्ञानेन विना स्थिता ।