सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 148, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 148

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १३१
नैवं यतो हि भावानां विनाशोऽस्मासु नेष्टता ॥ ५६ ॥
अंशाभिव्यक्तिता नाशो न नाशः सर्वलोपिता ।
न उक्तदोषः। यतो भावानां विनाशो विषये नेष्टता अस्मा-
न्प्रति, भावा न विनाशिनोऽस्माभिरिष्यन्ते इति यावत्। अस्मद्दर्शने
हि मौलेः कटकोत्पादकाले अंशस्य हेममात्रस्याभिव्यक्तिः प्राक्तनस्य
मौलिपरिणामक्षणस्येति नाश उच्यते न तु सर्वांशादर्शनम्। ततो
न निरन्वयविनाशदोषः, नाप्यंशस्य निरन्वयता अनभिव्यक्तिमात्रस्य
नाशत्वात् ॥ ५६ ॥
अभिव्यक्तेर्विनाशित्वे तत्राप्यानन्त्यमापतेत् ॥ ५७ ॥
इन्द्रियाणामसामर्थ्यमात्रमत्र विनाशिता ।
असावेवानभिव्यक्तिः स प्रच्छन्नस्तदा स्थितः ॥ ५८ ॥
अथ स्थितानामेवार्थानं यथाभिव्यक्तिमात्रस्योत्पादस्तथा विनाशोऽपि
तस्यैवेति प्राक्तनांशमात्रस्यानभिव्यक्तिर्विनाश उक्त इति। एतन्न।
यतो यथाभिव्यक्तेरप्यसत्या उत्पत्तिरुत सत्या इत्यर्थोत्पादोक्तदोषोऽन-
वस्था च, तथैवार्थस्य विनाशो नोपपन्नः सतो विनाशाद्योगात् तथाभि-
व्यक्तेरपि। अथाभिव्यक्तिरेवाभिव्यक्तेर्विन्नश्यति, न सत्ता। तत्तस्या अपि
अभिव्यक्त्यभिव्यक्तेर्न सत्ता नश्यति, अपि तु अभिव्यक्तिरित्यानन्त्यं
स्यात्। अथत्रा अभिव्यक्तेर्विनाशोऽपि किमसन्नुत्पद्यते अथ सन् ? असत्ये
सत्कार्यवादहानिरनुपपत्तिश्च। सत्त्वे पूर्वमेव विनाशः स्यात्। अथाभि-
व्यक्तिविनाशस्य कारणेन क्रियते तत्पूर्वोक्ता अनवस्थेत्यानन्त्यम्।
एवमस्मद्दर्शन ईश्वरप्रत्यभिज्ञोक्तनीत्या यथोभयेन्द्रियवेद्यत्वं शिवाभेदा-
ख्यातिमयमर्थानां करणम्, तथा विनाश उभयेन्द्रियवेद्यत्वाभावः शिवाभेदः
शिवत्वेन प्रच्छादनं, तदेवोक्तम् -'इन्द्रियाणामसामर्थ्यं' 'तथासावेवानभि-
व्यक्तिः, स घटादिः शिवतया प्रच्छन्नस्तदा स्थित इति ॥ ५८ ॥
इतोऽपि नाशो नास्त्यस्य घटस्य करणात्पुनः ।
नाभावप्राप्तरूपस्य करणं युज्यते पुनः ॥ ५९ ॥
तस्माद्भावविनाशोऽपि शिवतत्त्वाविनाशिता ।
इतोऽपि हेतोर्नाशो नास्त्यस्य घटादेः पुनः करणात्। न हि यस्य
सर्वथा शशविषाणतुल्यभावं प्राप्तं रूपं तस्य अर्थस्य पुनः सत्ता भवेत्।