शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 154, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता १.३७
यावन्न सर्वभावानामेकत्वेन व्यवस्थितिः ।
परेण क्षणभंगस्य परामर्शगमः कुतः ॥ ९५ ॥
ततोऽप्येतच्छिद्वात्मत्वं भावानामुपपद्यते ।
तथार्थावगतिर्वाक्यात्पदाद्वा नोपपद्यते ॥ ९६ ॥
क्षणिकत्वेन शब्दानामनभिव्यक्तितोऽपि वा ।
स्फोटाभिव्यंग्यपक्षे तु तत्रापि क्रमता कथम् ॥ ९७ ॥
निर्भागत्वात्स्फोटतत्त्वे स्फोटतत्त्वात्मकात्कथम् ।
आभासरूपवस्तूनां शाब्दिकान्नो भवेद्ग्रहः ॥ ९८ ॥
तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः ।
तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥ ९९ ॥
मूर्तंचोदकवैकल्यान्मनश्चेत्प्रेरितास्य नो ।
एकत्वे पुनरीदृक् स्यात्सर्वत्रैव हि युक्तता ॥ १०० ॥
न चापि भेदे भावानां ग्रहणं ज्ञानमेव वा ।
संयोगेनोपपद्येत यदि दृष्ट्यादिना भवेत् ॥ १०१ ॥
नैवमक्षार्थसंयोगमात्रात् किं बोद्धुरुद्यमः ।
संयोगेऽन्यस्य सञ्जाते कथमन्यस्य बोद्धृता ॥ १०२ ॥
मनसोऽभिन्नकालत्वात् स्मृतिज्ञानमथोच्यते ।
प्रारब्धश्चासमाप्तश्च वर्तमानः क्रियामनु ॥ १०३ ॥
प्रक्रियामात्रमेवैतद्यतः पूर्वापरात्मता ।
क्रियायाः कारकाणां हि क्रमोऽस्त्येव स्वकर्मणि ॥ १०४ ॥
यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते ।
मनसा नीयते तस्य किं पदार्थस्वरूपता ॥ १०५ ॥