शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
मनुष्यालयविधिः] एकत्रिंशोऽध्यायः । २१३
योनयोऽग्न्यादिकोणेषु क्रमात् सिंहो वृषो गजः।
ध्वजश्चेति मनुष्याणां विहितं गृहकर्मणि ॥ ३० ॥
अथवा—
कृत्वा दिङ्नवनागवर्गपदभिन्ने क्षेत्रकेऽन्तर्गतै-
रष्ट्यङ्काब्धिपदैर्विधातृपदयुक्तं प्राङ्गणं मध्यतः ।
शालाः पङ्क्तियुगार्यकादिकजुषस्तद्बाह्यतस्तद्बहि-
र्गोष्ठोलूखलवेश्मकादिविलसत्पङ्क्त्यावृतं कल्पयेत्
[॥ ३१ ॥
पादुकोनां बहिर्भागमङ्कणं कथ्यतेऽत्र हि ।
अङ्कणं ध्वजयोनिः स्यान्मुखायामादिसंयुतम् ॥ ३२ ॥
ध्वजः सर्वत्र सम्पूज्य इति शास्त्रनिदर्शनम् ।
तत्त्वार्केन्दुवसुद्वारवेश्मकृत्यश्विसागराः ॥ ३३ ॥
अङ्गुल्यः करतश्चापि द्वित्रिसङ्ख्यमथापिवा ।
अजिरस्यायतं तारादधिकं प्रकरोतु वा ॥ ३४ ॥
(गुणविस्तारणा स चांदद्धि ?)
गुणविस्तारतश्चापि दृश्यते त्ववनाङ्कणेदि(?)।
वेधस्तद्गृहमध्यानां गोत्रनाशकरः स्मृतः ॥ ३५ ॥
प्रादक्षिण्यात् स्वया गत्या महादिग्गतवेश्मसु ।
परिहर्तव्य एवायं बुद्धिकौशलशालिभिः ॥ ३६ ॥
कर्णसूत्रयुतिर्मध्ये न भवेत् कर्णवेश्मनाम् ।
अशुभाय भवत्येषा परिहार्या स्वदीर्घतः ॥ ३७ ॥
१. ‘कं नाहिभागं तु अङ्क’ ख. पाठः.
२१४ शिल्परत्ने [उत्तरभागः
रुद्ररन्ध्रादिबाणाश्च गत्यङ्गुल्यः क्रमात् स्मृताः ।
अष्टाङ्गुलवृद्ध्या वा हान्या वा यवतोऽथवा ॥ ३८ ॥
पूर्वादीनां गृहाणां तु क्रमादेव गतिः स्मृता ।
सूत्रवेधं तु सर्वेषां स्तम्भमध्यादिषु त्यजेत् ॥ ३९ ॥
आयाममिष्टगेहस्य षट्सप्तादिकरोन्मितम् ।
अष्टघ्नं स्वस्वादिकमङ्ख्यं त्रिधा कृत्वांशमानतः ॥ ४० ॥
तद्गृहस्य परीणाहं कल्पयेन्नरसद्मनि ।
तदर्धाद् दीर्घशेषं तु विस्तारं तस्य निर्दिशेत् ॥ ४१ ॥
अथवा गुणभागेन तारं पादोनवर्जितम् ।
दीर्घाधिक्यं विनाशाय मृतये हीनदीर्घता ॥ ४२ ॥
तस्मान्निर्दिष्टहस्तेभ्यो हीनाधिक्यं न कारयेत् ।
अङ्गुलीभिर्न दोषः स्यादुभयत्र कराहते ॥ ४३ ॥
नेष्ट¹मङ्गुलिविच्छेदं गुणविस्तारकल्पने ।
अन्तरालाश्च वसवो दिग्विदिग्भेदकारकाः ॥ ४४ ॥
अन्तरालस्य बाहुल्यं गृहविस्तारतौ विदुः ।
तदाधिक्येऽर्थनाशः स्यात् सूत्रार्धान्न च हीयते ॥ ४५ ॥
तस्मात् सङ्कुचिते व्याधिस्तस्मात् ते परिवर्जयेत् ।
अथ त्रिशालकम् —
उत्तरशालारहितं हिरण्यनाभं त्रिशालकं वसुदम् ।
प्राक्शालारहितं स्यात् सुक्षेत्रं (तत) समृद्धिदं वास्तु ॥ ४६ ॥
याम्यविहीनं शूलं त्रिशालकं वित्तनाशनं कुरुते ।
पक्षघ्नमपरवर्जं पुत्रघ्नं वैरिमानदं भवति ॥ ४७ ॥
१. 'ल' क. पाठः.
मनुष्यालयविधिः] एकत्रिशोऽध्यायः । २१५
अथ द्विशालकम् —
पूर्वापरयोर्हीना यस्मिञ् शाला वदन्ति गृहचुल्लीम् ।
दक्षिणसौम्यविहीनं सिद्धार्थकमाह वागधिपः ॥ ४८ ॥
पश्चिमयमगा शाला यमशूर्पं पश्चिमोत्तरा शाला ।
दण्डाख्या सा कथिता पुरातनैः शिल्पशास्त्रनिष्णातैः ॥ ४९ ॥
उत्तरपूर्वा शाला वाताख्या भवति मानुषे सदने ।
प्राच्यावाच्या शाला यमदैवतनामधेया सा ॥ ५० ॥
सिद्धार्थेऽर्थावाप्तिर्यमशूर्पे गृहपतेर्मृत्युः ॥ ५१ ॥
दण्डाख्ये दण्डवधं गृहचुल्ल्यामपि कलहमुद्वेलम् ।
वाताख्ये वातभयं यमदैवतनाम्नि मृत्युरेव स्यात् ॥ ५२ ॥
अथ चतुःशालम् —
स्वयोनिव्यासगतयो दिग्वि दिक्षु च संस्थिताः ।
भिन्नशालेति सा प्रोक्ता मनुजानां शुभप्रदा ॥ ५३ ॥
पर्यन्तध्वजमादधीत चतुरश्रं मध्यतश्चाङ्गणं
तत्पार्श्वेऽप्यतिपत्रमानमपरं चाभ्यन्तरं केतनम् ।
तत्तूर्यश्रयुजोऽथकोणचतुरश्रेषूत्तरा१न्तर्ध्वजं
युक्त्या तूत्तरविस्तृतिं च जनयेत् तुर्यश्रशालाविधौ ॥ ५४ ॥
२ईष्टदिग्योनियुक्ता च पर्यन्तेनैकलक्षणा ।
समतुर्यश्रका ज्ञेयाप्येकशालाथवायता ॥ ५५ ॥
एतयोः शालयोरत्र नान्तरालानि सन्त्यतः ।
शूद्रादिसूतिकादीना प्रवेशे स्पृष्टिसम्भवात् ॥ ५६ ॥
१. 'ह्यो', २. 'अ' क. पाठः.
२१६ शिल्परत्ने [उत्तरभागः
अशुचिर्व्याप्यतेऽन्यस्मिन्नपि तत्र गृहत्रिके ।
एकच्छायेन तस्मात् ते वर्जयेद् भूसुरालये ॥ ५७ ॥
ध्वजः कोणेषु पर्यन्ते दिक्षु दिङ्मानभेदकाः ।
नाम्ना तुर्यश्रभिन्ना या नेष्टा विप्रालयेऽपि सा ॥ ५८ ॥
तद्भेदः —
कृत्वा बाह्यान्तरवृतिमिमामुक्तक्लृप्त्या ततोऽन्यां
दिक्कोणाद् यद्गृहपरिमितिं योनिभेदोपपन्नाम् ।
कुर्याद् युक्त्या मितिषु कुशलः सा तु तुर्यश्रशाला
प्राग्वन्मध्येऽङ्गणविलसिता स्यात् पुनर्भिन्नशाला ॥ ५९ ॥
दिग्गेहानि विदिग्गृहैरभिमतैर्योनिप्रभिन्नैर्मिथः
श्लिष्टानीह बहिः समैः परिमिता सीमा च मध्येऽङ्गणम् ।
श्लिष्टानां तु मिथो भवेदिह मितिः सम्भूय धाम्नां ध्वजं
भिन्ना सैकविदिग्शयसत्यपि पुनस्तुर्यश्रशाला मता ॥ ६० ॥
द्वारं मुखेषु कर्तव्यं सर्वेषामपि वेश्मनाम् ।
मध्यस्थं द्वारमध्यं स्याद् वास्तुमन्दिरसूत्रयोः ॥ ६१ ॥
आशाहर्पतिसूत्रभेदिनि गृहे षष्ठेऽथ वा सप्तमे
सूत्रे द्वारमथापरं वितनुयाच्छालासु सव्यार्धके ।
सिंहोक्षद्विपकेतुयोनिविहितं चाग्न्यादिकोणालयं
मित्रे दक्षिणपश्चिमे पुनरुदक्प्राच्ये च गेहे मिथः ॥ ६२ ॥
अथवान्यप्रकारेण मित्रत्वं कैश्चिदिष्यते ।
वास्तु(नः) पूर्वपार्श्वस्थे गेहेऽन्योन्यामिति स्फुटम् ॥ ६३ ॥
१. 'दिग्गृहै' ख. पाठः.
एकास्मिन्नशुचौ सत्यां तन्मित्रेऽप्यशुचिः स्मृता ।
अनुसृत्योभयं मार्गमाचरेत् तदनापदि ॥ ६४ ॥
अथ देवालयतो विशेषमाह —
रूपोत्तरस्य तु क्वापि क्षुद्रवाजनमिष्यते ।
अङ्घ्रेस्तथा मध्यखण्डमारूढं भूषणाय च ॥ ६५ ॥
शिलाबद्धमसूरं च सुधामिलितभित्तिकम् ।
पञ्चैतान्यपि निन्द्यानि दृश्यन्ते नरसद्मनि ॥ ६६ ॥
प्राच्ये चाग्निसमर्चनादिकमुदीचीने कुटुम्बादिकं
व्यत्यस्य प्रकरोतु वा द्वयमिदं याम्येऽतिथिप्रीणनम् ।
पाश्चात्त्ये धनसंनिधापनमतो द्वन्द्वं विपर्यस्य वा
शेषार्धे तु तयोस्तथा शयनविद्याभ्यासनाद्यं चरेत् ॥ ६७ ॥
माहेन्द्रे सलिलाधिराजि च तटाकं कूपमैशानके
पर्जन्ये पचनालयं शिखिनि वा भुक्त्यालयं तत्पुरः ।
कर्तव्यं खलसद्म नैर्ऋतपदे कुर्वीत धान्यालयं
गोशालाम्बुपतौ हरावपि समीरे धाम चौलूखलम् ॥ ६८ ॥
ग्रामादिपूक्तवत् सर्वमनुक्तं स्थानमाचरेत् ।
अथ द्वारं —
द्वारपादस्य बाहल्यं तुल्यमुत्तरमानतः ॥ ६९ ॥
स्वस्वयोन्या गृहादीनां कल्प्यन्तां द्वारयोनयः ।
प्रस्तरोत्तरयोर्मध्यं पञ्चधा विभजेद् बुधः ॥ ७० ॥
द्वारायामं चतुर्भागमष्टसप्तांशमेव वा ।
शेषांशे द्वादशांशे तु पञ्चांशं गुल्फमिष्यते ॥ ७१ ॥
२१८ शिल्परत्ने [उत्तरभागः
शिरोन्मानं तु सप्तांशमथवा नवभाजिते ।
गुल्फमानं चतुर्भागं तत्र पञ्चांशकं शिरः ॥ ७२ ॥
उत्सेधशेषं परिधेर्द्वारतारमुदाहृतम् ।
उत्सेधे नवसम्भक्ते पञ्चांशं वात्र विस्तृतम् ॥ ७३ ॥
अथवा गुणतारं वा कुर्याद् द्वारं यथोचितम् ।
कुर्यात् प्राङ्गणतो गमागमकृते द्वारं महत् पादुके
हस्तैर्वाङ्गुलकैः प्रकल्पितशुभायाद्यग्ररूढोत्तरम् ।
स्वायामप्रतिभक्तरुद्रदशनन्देभांशविष्कम्भत-
त्खण्डोत्पन्नघनाङ्घ्रियुग्मविलसन्मङ्गल्यपट्ट्यादिकम् ॥७४॥
आग्नेय्यामङ्गणद्वारं दक्षिणाशामुखं स्मृतम् ॥ ७५ ॥
प्रत्यङ्मुखं तु नैर्ऋत्यां वायव्यां तदुदङ्मुखम् ।
ईशे तु प्राङ्मुखं कुर्यात् तानि स्युः पादुकोपरि ॥ ७६ ॥
अथान्यथा चतुःशालविधानमाह —
चतुःशालं त्रिशालं च द्विशालं चैकशालकम् ।
वक्ष्यामि भवनं राज्ञां नामलक्षणसंयुतम् ॥ ७७ ॥
अलिन्दगैश्चतुर्द्वारैश्चतुःशालमुदाहृतम् ।
सर्वतोभद्रनामेदं नृपाणां शस्यते गृहम् ॥ ७८ ॥
नन्द्यावर्तमिति ख्यातं पश्चिमद्वारवर्जितम् ।
वर्धमानं तथा ख्यातं दक्षिणद्वारवर्जितम् ॥ ७९ ॥
स्वस्तिकं तद् भवेन्नाम्ना पूर्वद्वारविवर्जितम् ।
उत्तरद्वारहीनं चेद् रुचकं तद् भवेद् गृहम् ॥ ८० ॥
पूर्वार्विलंन्दं" -> no, it is:
"ध्रुवं हीनमलिन्देन पूर्वालिन्दं तु धन्यकम् ।"
जयं स्याद् दक्षि Node... wait:
ज य ं : जयं
स ् य ा द् : स्याद्
द क ् ष ि ण + ा + ल + ि + न ् + द + ं : दक्षिणाaction... दक्षिणाfacebook? No:
द - क्षि - णा - लिन् - दं : दक्षिणातिन्दं? No, दक्षिणाaction -> दक्षिणा-लिन्दं!
Look at the letters:
द (da)
क्षि (kṣi)
णा (ṇā)
लि (li)
न् (n)
दं (daṁ)
= दक्षिणालिन्दं
Next word:
प - श्चा - लिन् - दं : पश्चालिन्दं
Next word:
ख - रं : खरं
Next word:
भ - वे - त् : भवेत्
॥ ९० ॥
Line 21: "जयं स्याद् दक्षिणालिन्दं पश्चालिन्दं खरं भवेत् ॥ ९० ॥"
दुर्मुखं चोत्तरालिन्दमेकालिन्दं चतुर्गृहम् ।
Let's check L22:
द ु र् म ु ख ं : दुर्मुखं
च ो त् त र
? No, it's ९२. But wait, whether it is ९२or९१, let's look at the actual glyph: it has ९, then १, then a stroke? No, it looks like ९२`!
Let's read all the lines systematically:
पूर्वदक्षिणतोऽलिन्दं नन्दमित्यभिधीयते ।
याम्यपश्चिमतोऽलिन्दं क्षयमित्यभिधीयते ॥ ९२ ॥
(Wait, if someone reads it as ९१ or ९२: it is definitely verse 92 in context, and visually it's ९२ or ९१. Let's look at the danda after it: ॥ ९२ ॥).
पूर्वपश्चिमतोऽलिन्दं कान्तं नाम्ना निगद्यते ।
दक्षिणोत्तरतोऽलिन्दं सुपक्षं परिचक्षते ॥ ९३ ॥
उत्तरालिन्दहीनं चेत् सुखं तत्तु प्रकीर्तितम् ।
पश्चिमालिन्दतो हीनं धनदं गेहमुच्यते ॥ ९४ ॥
दक्षिणालिन्दहीनं यदाक्रान्तं तदुदाहृतम् ।
पूर्वालिन्दविहीनं यद् विपुलं परिकीर्त्यते ॥ ९५ ॥
सर्वतोऽलिन्दतो युक्तं
मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २२१
नवकोणविदिग्गेहे (स्यात् ? स्युः) पङ्कविंशच्चतुर्ष्वपि ।
चत्वारो मध्यगाः स्तम्भा यत्र तस्यां चतुष्कृतम् ॥ १०२ ॥
तस्माद् बहिरलिन्दः स्याच्छाला स्यात् तदनन्तरम् ।
अलिन्दं च पुनः शाला क्रमेणैवं प्रवर्तते ॥ १०३ ॥
यावत् कर्तुमभीष्टं स्याद् गृहं नरपतेः शुभम् ।
यच्चतुष्कशतं क्षेत्रं पञ्चधा तद् विभज्यते ॥ १०४ ॥
तद्भागप्र(तिमं ? मितं) कार्यं त्रिभिर्भागैरलिन्दकम् ।
सार्धत्रिभागिका शाला कर्तव्या सुविचक्षणैः ॥ १०५ ॥
इयं स्थितिः समस्तानां गृहाणां प्रतिपादिता ।
नाम्ना तु मुखकोणं यत् त(द्भागं ? त्कार्यं) रविभागतः ॥
मध्यस्तम्भाः शतं सार्धं षड्भिर्न्यूना निरूपिताः ।
शतं षष्ट्य
२२२ शिल्परत्ने [उत्तरभागः
चतुर्ष्वपि च भद्रेषु द्विसप्ततिरुदाहृताः ।
सप्तकोणाः समन्ताच्च द्विगुणा मनुसंख्यया ॥ ११३ ॥
एवमादीन्यनन्तानि गेहानि धरणीभुजाम् ।
कियन्त्यपि मयोक्तानि प्रधानानि यथाक्रमम् ॥ ११४ ॥
तिष्ठन् गेहेषु शस्तेषु श्रियमाप्नोति पुष्कलाम् ।
आरोग्यं विजयं कीर्तिं सन्तोषं परमाप्नुयात् ॥ ११५ ॥
ईदृग्लक्षणसंयुक्तान् विविधान् बहुभूमिकान् ।
कारयित्वा महीपालः प्राच्यै¹चन्द्र(इ ? ब)लं महत् ॥
इति विज्ञाय नृपतिर्वासार्थं गृहमुत्तमम् ।
सुलक्षणयुतं दोषैर्विहीनं कारयेत् सुखम् ॥ ११७ ॥
ईशानभागकोणे तु सर्वलक्षणसंयुतम् ।
पूर्वतो मुखशालाया देवतारूपचिह्नितम् ॥ ११८ ॥
देवकार्यगृहं कार्यं नृपाणां सुमनोहरम् ।
स्नानगेहं तु तत्पार्श्वे कर्तव्यं वेदिकायुतम् ॥ ११९ ॥
होमशाला तदभ्याशे बहिः कुण्डविमण्डिता ।
धूमनिर्गमनोपायकृतजालपरिष्करा ॥ १२० ॥
अन्यान्युपगृहादीनि सुभक्तानि पुरैव हि ।
चित्रं लक्षणसंयुक्तं लेखयित्वा महीपतिः ॥ १२१ ॥
गृहस्यान्तर्बहिःकुड्यमुखेषु च विभूषयेत् ।
पूर्वतः शिल्पिनो गेहं परिगृह्य विनिर्मितम् ॥ १२२ ॥
गोमयाद्यैर्जलाद्यैश्च शुद्धिं विधिवदाचरेत् ।
अथ वास्तुबलिं विप्रैः कारयेत् तद्दिघेर्विदाम् ॥ १२३ ॥
१. 'प्य' ख. पाठः.
मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २२३
वक्ष्ये पूर्वोक्तमार्गात्तु तद्धोमस्य विशेषकम् ।
अन्तर्गृहस्य कोणे स्याद् (?) ऐशाने शालिपिष्टकैः ॥
मण्डलं कारयेदेकाशीतिकोष्ठैर्यथापुरम् ।
कुण्डं त्रिमेखलं कार्यं मण्डलेशानभागतः ॥ १२५ ॥
तत्र होमः प्रकर्तव्यः शास्त्रदृष्टेन वर्त्मना ।
ततो मण्डलसंस्थाभ्यो देवताभ्यो बलिं हरेत् ॥ १२६ ॥
घृतान्नं देयमीशाय पर्जन्यायाज्यसंयुतम् ।
ओदनं सात्त्वतं दद्याज्जयन्ताय निवेदयेत् ॥ १२७ ॥
ध्वजानपूपान् पिष्टेन कूर्मरूपं प्रकल्पितम् ।
पैष्टं कुलिशमिन्द्राय पञ्च रत्नानि चार्पयेत् ॥ १२८ ॥
धूम्रवर्णं वितानं च सक्तून् सूर्याय कल्पयेत् ।
सत्याय घृतगोधूममत्स्यान् दद्याद् भृशाय च ॥ १२९ ॥
शष्कुलीरन्तरिक्षाय सक्तून् दद्याच्च पावके ।
पूष्णे लाजाः प्रदातव्या वितथे च(र ?)णकौदनम् ॥
गृहक्षताय मध्वन्नं यमाय पललौदनम् ।
गन्धर्वाय सुगन्धं च *भृ(शा ? ङ्गा)य रणजिह्वकः ?) ॥
मृगाय यावकं देयं पितृभ्यः कृसरांस्तथा ।
दौवारिके दन्तकाष्ठं पैष्टं कृष्णबलिं तथा ॥ १३२ ॥
क्षिपेदपूपं सुग्रीवे पुष्पदन्ते तु पायसम् ।
कमलं सकुशस्तम्बं वरुणाय समर्पयेत् ॥ १३३ ॥
- अत्रैव पूर्वभागे 'स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे' (अध्या० ७
श्लो० ५१) इत्युक्तम् ।
२१४ शिल्परत्ने [उत्तरभागः
असुराय सुरा देया पैष्टं सौवर्णमेव च ।
घृतौदनं च शोषाय यवाः स्युः पापसंज्ञके ॥ १३४ ॥
रोगाय मोदकान् स(र्पीन् ? र्पिः) फणिने नागकेसरम् ।
भक्ष्यो मुख्याय दातव्यः फल्लाटाय ततः क्षिपेत् ॥ १३५ ॥
मुद्गौदनं ततः सोमे पायसं मधुमिश्रितम् ।
शालिपिष्टं त्वर्गलाय लोविकामादितेः क्षिपेत् ॥ १३६ ॥
दित्यै तु पूरिकान् दद्यादित्येवं बाह्यतो बलिः ।
मण्डलान्तरसंस्थानामिदानीं बलिरुच्यते ॥ १३७ ॥
आपाय दापयेत् क्षीरमापवत्साय वै दधि ।
आर्यै पक्वं तथा मांसं दातव्यं बलिकर्मणि ॥ १३८ ॥
सावि(त्र्यै ? त्रे) मोदकं दद्याद् मरिचं³ सकुशौदनम् ।
सवित्रे गुडपूपांश्च देयं स्याद् घृतचन्दनम् ॥ १३९ ॥
विवस्वते प्रदातव्यं पायसं रक्तचन्दनम् ।
देवाधिपतये दद्यात् तालमिश्रं घृतौदनम्* ॥ १४० ॥
मित्राय सघृतं भक्तं रुद्राय (सुध ? गुड)पायसम् ।
पृथ्वीधराय मांसानि सकूष्माण्डानि दापयेत् ॥ १४१ ॥
आज्यं च दधिसंयुक्तं ब्रह्मणे विनिवेदयेत् ।
शर्वस्कन्दाय चार्यम्णे जम्भके पिलिपिञ्जके ॥ १४२ ॥
१. 'शे' ख. पाठः. २. 'तत्त्वं त', ३. 'चिं' क. पाठः.
- इन्द्रानन्तरम् इन्द्रजयस्य, रुद्रानन्तरं रुद्रजयस्य च पूजा मातृकासु
लुप्ता स्यात् । सैषा 'शुद्धान्नमेवेन्द्रजयाय शस्तम्', 'मांसं तथा रुद्रजये त्व-
पक्वम्' (क्रियापा० पट० २७. श्लो० २५) इति गुरुदेववचनादवगन्तव्या ।
मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २२५
तिलाक्षतं पञ्चगव्यं भक्ष्यं भोज्यं पृथग्विधम् ।
मांसौदनं सरुधिरं हरिद्रौदनमेव च ॥ १४३ ॥
ईशानदिशमाश्रित्य चरक्यै विनिवेदयेत् ।
आग्नेयीं दिशमाश्रित्य स्थितायै मांसखण्डकम् ॥ १४४ ॥
दध्योदनं सरुधिरं विदार्यै विनिवेदयेत् ।
पूतनायै च नैर्ऋत्यां पीतं रक्तं बलिं क्षिपेत् ॥ १४५ ॥
वायव्ये पापराक्षस्यै मत्स्यमांसं सुरासवम् ।
पायसं वा प्रदातव्यं तन्नाम्ना सर्वतः क्रमात् ॥ १४६ ॥
सर्वेषां काञ्चनं दद्याद् ब्रह्मणे गां पयस्विनीम् ।
राक्षसानां बलिं दद्यान्मधुमांसौदनान्वितम् ॥ १४७ ॥
एवं सम्पूजिता देवाः शान्तिं कुर्वन्ति ते सदा ।
विप्रांश्च पूजयेद् भक्त्या विदुषो गृहमागतान् ॥ १४८ ॥
इति वा(स्तो ? स्तू)पशमनं निश्चय्य समाचरेत् ।
प्रासादभवनोद्यानप्रारम्भे च समापने ॥ १४९ ॥
परमैश्वर्यवृद्ध्यर्थं सर्वदोषोपशान्तये ।
विधाय वास्तुपूजां च गृहं सूत्रेण सर्वतः ॥ १५० ॥
पावमानेन सूक्तेन रक्षोघ्नेन च वेष्टयेत् ।
मङ्गलं तूर्यघोषेण कुर्याद् ब्राह्मणवाचकैः ॥ १५१ ॥
वृतं सद्म विशेद् राजा सुमुहूर्ते विशेषतः ।
ब्राह्मणोदीरितैर्मन्त्रैः शोभनैः शङ्खनिस्वनैः ॥ १५२ ॥
मङ्गलैस्तूर्यनादैश्च विशेद् वेश्म विशांपतिः ।
प्रासादे रुचिरोत्तङ्गे सौवर्णकलशान्विते ॥ १५३ ॥
EE
२२६ शिल्परत्ने [उत्तरभागः
सुधाधवलिते रम्ये रचनापरिशोभिते ।
जालमार्गकृतोद्याने क्वापि सर्वप्रकाशके ॥ १५४ ॥
कापि सन्तसोपेते मणिदीपप्रकाशिते ।
सौवर्णस्तम्भरुचिरे चन्दनस्तम्भगन्धिानि ॥ १५५ ॥
काचकुट्टिमरोचिष्णौ स्फटिकोज्ज्वलकुट्टिमे ।
स्फटिकोपलविन्यासदर्पणाकारभित्तिके ॥ १५६ ॥
विचित्रचित्रसंयुक्तप्रमोदप्रदकुट्टिमे ।
चित्रवस्त्रसमाकीर्णवितानेनोपरञ्जिते ॥ १५७ ॥
यथासुखं विशेद् राजा राष्ट्रैश्वर्यसमन्वितः ॥ १५७½ ॥
इति शिल्परत्ने उत्तरभागे मनुष्यालयलक्षणं नाम
एकत्रिंशोऽध्यायः ॥
अथ द्वात्रिंशोऽध्यायः ।
अथ कूपप्रश्नः ।
मीनकर्कमृगान्त्यर्धवृषतौल्यलियोषितः ।
कुम्भश्च तोयदानि स्युर्ग्रहे
thenवाthenरि? Wait, let's look at यदि वा: य दि[space]वा[space][?]रि[space]तत्संज्ञितं वा Yes! There ISवाthen another character! Wait, what is the character afterवा? It has a vertical line and a curve... wait, is it पि? E.g., वापि? If it's वापि: यदि वा वापि doesn't make sense ("if or also"). "आर्द्रद्रव्यं स्पृशति यदि वा वारि तत्संज्ञितं वा" makes TOTAL sense! "Touches a wet object, or water, or something named water". In Sanskrit texts on Kupa-prasna: "आर्द्रद्रव्यं स्पृशति यदि वा वारि तत्संज्ञितं वा" "तोयासन्नो भवति यदि वा तोयकार्योन्मुखो वा" Yes! In BPHS / Prasna Marga / Daivajna Vallabha / Shatpanchasika / Brihat Samhita commentary: Water signs, wet objects, water itself (वारि), or things named after water (तत्संज्ञितं= वारिसंज्ञितं). The word is definitelyवारि`!
Why does it look weird in the print?
Look
२२८ शिल्परत्ने [उत्तरभागः
अकचटतपयशवर्गाश्चन्द्राद्यर्कान्तरसतुल्याः ।
सास्थिनि देहे स्पर्शो नेष्टः शिष्टेषु पुष्टफलम् ॥ १४ ॥
मांसाढ्ये पङ्कयुतं फाले पाषाणसंयुक्तम् ।
प्रष्टरि तोयगते चेत्तोयं सुलभं तथा दृषद् दृषगे ॥ १५ ॥
रुदिते क्षवथौ कासे निष्ठीवे नासिकास्रवे ॥ १६ ॥
शीतच्छायाप्रवेशे च जले दृष्टे श्रुतेऽथवा ।
जलमस्तीति वक्तव्यं पृष्टकाले दृषद्यपि ॥ १७१/२ ॥
इति शिल्परत्ने उत्तरभागे कूपप्रश्नविधानं नाम
द्वात्रिंशोऽध्यायः ॥
अथ त्रयस्त्रिंशोऽध्यायः ।
अथासनादिपरिच्छदलक्षणम् ।
चम्पकाम्रमधूकैर्वा पनसोदुम्बरादिभिः ।
पीठानि कारयेद् विद्वान् सिंहयोन्यन्वितानि वा ॥ १ ॥
गजयोन्यन्वितान्येवं ध्वजयोन्यन्वितानि वा ।
आयतं चतुरश्रं च समं तुर्यश्रमेव वा ॥ २ ॥
वृत्तं वा कच्छपाकारं कारयेत् पीठमुत्तमम् ।
चतुष्पादसमायुक्तं पृष्ठाधारयुतं तु वा ॥ ३ ॥
यथोचितोन्नतोपेतं श्लक्ष्णं दृष्टिमनोहरम् ।
फलकामयमेवं स्याद् वेत्रबन्धमथापि वा ॥ ४ ॥
एतत् पूतासनं देवकार्यादौ विहितं बुधैः ।
कार्पासपूरितं वृत्तं स्थूलं पट्टावकुण्ठितम् ॥ ५ ॥
आसनादिपरिच्छदलक्षणम् ] त्रयस्त्रिंशोऽध्यायः । २२९
हंसपिच्छभृतं वापि सुखासनमितीरितम् ।
छागचर्ममयं पीठमूर्णागर्भं सुविस्तृतम् ॥ ६ ॥
नानावर्णविचित्रं तदासनं च सुखाभिधम् ।
सितपट्टपिनद्धैश्च हंसपिच्छैः सुपूरितम् ॥ ७ ॥
स्वेद + + + + + + + शय्यासनमुत्तमम् ।
पञ्चभिः सप्तभिर्वाऽपि नवभिर्लोहजैः पदैः ॥ ८ ॥
लोहपट्टकृताधारैर्लोहजालकमूर्धभिः ।
(छटिको ?) पट्टगर्भस्थकार्पासेन विनिर्मितम् ॥ ९ ॥
लोहासनमिदं प्रोक्तमूर्ध्वतः कलितं दृढम् ।
एकदारुकृतं श्लक्ष्णं दन्तिदन्तसुचित्रितम् ॥ १० ॥
नानावर्णविचित्राढ्यं पृष्ठे फलकसंयुतम् ।
चतुष्पादकृताधारं सार्धहस्तविशालकम् ॥ ११ ॥
प्रायेण सार्धत्रिकरदीर्घं तस्योर्ध्वतः पुनः ।
तावन्मात्रायताद्युक्तमृदुशय्यासनादिकम् ॥ १२ ॥
ईषत् समुन्नतं राज्ञां पृष्ठाधारासनं स्मृतम् ।
रुचिरेण सुवर्णेन निर्मितं रत्नमण्डितम् ॥ १३ ॥
अष्टाभिः स्फाटिकैः सिंहैः मूर्धभिः सुविधारितम् ।
अधः काञ्चनविन्यस्तरत्नवेदित्रयान्वितम् ॥ १४ ॥
आस्थानमण्डपे राज्ञां सिंहासनमिदं वरम् ।
अथ व्यजनं —
चामरं तालवृन्तं च द्विविधं व्यजनं स्मृतम् ॥ १५ ॥
२३० शिल्परत्ने [उत्तरभागः
मयूरपिच्छसम्भूतं वृत्ताकारविचित्रितम् ।
तालवृन्तमिति ख्यातं ध्वजयोनिसमन्वितम् ॥ १६ ॥
चामरं चमरीपुच्छसम्भवं स्थूलमूलकम् ।
कृशाग्रं सुसितं स्निग्धं तयोर्दण्डं च कारयेत् ॥ १७ ॥
हेमजं रत्नखचितं वृत्तं सुस्पर्शमेव च ।
चन्द्रमण्डलसङ्काशं नानापट्टविनिर्मितम् ॥ १८ ॥
तालवृन्तविशेषं तद् व्यजनं समुदाहृतम् ।
तालपत्रसमुद्भूतमभ्रकालङ्कृतं तु वा ॥ १९ ॥
अथच्छत्रं —
चन्द्रमण्डलसङ्काशं पङ्कजाकारमेव वा ।
लम्बितानेकवरणीप्रयुक्तमथापि वा ॥ २० ॥
सदण्डं मकुटोपेतं वंशसूत्रादिनिर्मितम् ।
नानाविधपटीच्छन्नं ध्वजयोनिसमन्वितम् ॥ २१ ॥
चित्रितं पट्टसूत्राद्यैश्छत्रमेवं समीरितम् ।
तालीपत्रकृतं वापि वंशदण्डं विशेषतः ॥ २२ ॥
मकुटेनान्वितं वापि वर्जितं वा सुशोभनम् ।
सितपट्टकृतं रत्नदण्डं पङ्कजसन्निभम् ॥ २३ ॥
सरत्नहेममकुटं मुक्तादामविभूषितम् ।
सितच्छत्रमिदं ख्यातं सार्वभौमोचितं स्मृतम् ॥ २४ ॥
प्रतिषिद्धवृक्षनिर्मितशयनासनसेविनां कुलविनाशः ।
व्याधिभयव्ययकलहा भवन्त्यनर्थाश्च नैकविधाः ॥ २५ ॥
आसनादिपरिच्छदलक्षणम् ] त्रयस्त्रिंशोऽध्यायः । २३१
(धू ? पू)र्वच्छिन्नो (यदिवा) दारुरतद्भूतः परीक्ष्य (मा ? आ)रम्भे।
यद्यारोहेत् तस्मिन् *कुमारादिकावस्त्रपशुदः सन् (?) ॥ २६ ॥
(सितकुसुम)मत्तवारणदध्यक्षतपूर्णकुम्भरत्नानि ।
मङ्गल्यान्यन्यानि च दृष्ट्वारम्भे शुभं ज्ञेयम् ॥ २७ ॥
कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् ।
अङ्गुलशतं नृपाणां महती शय्या जयाय कृता ॥ २८ ॥
नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च ।
नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासङ्ख्यम् ॥ २९ ॥
अर्धमतोऽष्टांशोनं विष्क+मो विश्वकर्मणा प्रोक्तः ।
आयामत्र्यंशसमः पा(दो)च्छ्रायः सकुक्षिशिराः॥ ३० ॥
यः सर्वः श्रीपर्ण्या पर्यङ्को निर्मितः स धनदाता ।
असनकृतो रोगहरस्तिन्दुकसारेण धित्तकरः ॥ ३१ ॥
यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः ।
चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजोवितकृत् ॥ ३२ ॥
पद्मकपर्यङ्कः श्रियमायुर्दीर्घं श्रुतं शुभं वित्तम् ।
कुरुते सालेन कृतः कल्याणं शाकरचितश्च ॥ ३३ ॥
अन्येन समायुक्ता न तिन्दुकिः शिंशपा (च) शुभफलदा ।
न श्रीपर्णी नच देवदारुवृक्षो नचाप्यसनः ॥ ३४ ॥
शुभदौ तु सालशाकौ परस्परं संयुतौ पृथक्त्वे च ।
तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रककदम्बौ ॥ ३५ ॥
फलतरुणा शयनासनमिष्टफलं भवति सर्वेषाम् ।
गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगा(त्) ॥ ३६ ॥
- 'कुमारकः पुत्रपशुदः सः' इति पाठः स्यात् ।
२३२ शिल्परत्ने [उत्तरभागः
कार्योऽलङ्कारविधिर्गजदन्तेन प्रशस्तेन ।
दन्तस्य मूलपरिधैं त्वायामात् प्रोज्झ्य कल्पयेच्छेषम् ॥
अधिक(मग्रो ?)मनूपचराणां न्यूनं किञ्चिद् गिरीन्द्रचाराणाम् ।
ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः॥ ३८ ॥
अपसव्यैकादिगग्रे भवति भयं भूतसंजनितम् ।
पादे कुम्भाधश्चेद् ग्रन्थिस्तस्मिन् सुदारुणो रोगः ॥ ३९ ॥
कुम्भाधस्ताज्जङ्घा तत्र कृतो जङ्घयोः करोति भयम् ।
तस्याश्चा(घो ? धा) रोऽधः क्षयकृद् द्रव्यस्य तत्र कृतः ॥
खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः ।
ईषाशीर्षण्योश्च त्रिभागसंस्थो भवेन्न शुभः ॥ ४१ ॥
निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च ।
कालकमन्यद् वृद्धकमिति कथिताश्छिद्रसङ्क्षेपाः ॥ ४२ ॥
*पादपसुषीरं मध्ये सङ्कटमास्ये च निष्कुटच्छिद्रम् ।
निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ॥ ४३ ॥
सूकरनयनं विषमं विवर्णमध्यं§ द्विपर्वदीर्घं च ।
वामावर्तं भिन्नं पर्वयुतं वत्सनाभाख्यम् ॥ ४४ ॥
कालकसञ्ज्ञं कृष्णं वृद्धकमिति यद् भवेद् विमिर्भिन्नम् ।
दा(रौ पर्य ? र्यन्तवर्णे) छिद्रं न तथा पा(ङ्गं ? पं) समुद्दिष्टम्॥
निष्कुटके द्रव्यस्य क्षयभथ कोलाक्षणे कुलध्वंसः ।
शस्त्रभयं सूकरके रोगभयं वत्सनाभाख्ये ॥ ४६ ॥
कालकवृद्धकसञ्ज्ञं कीटैर्विद्धं च न शुभदं छिद्रम् ।
सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु ॥ ४७ ॥
- 'घटवत् सुषिरम्' इति, § 'अध्यक्षपर्वदीर्घं च' इति च बृहत्संहिता ।