सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 234, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 234

मनुष्यालयविधिः] एकत्रिशोऽध्यायः । २१५
अथ द्विशालकम् —
पूर्वापरयोर्हीना यस्मिञ् शाला वदन्ति गृहचुल्लीम् ।
दक्षिणसौम्यविहीनं सिद्धार्थकमाह वागधिपः ॥ ४८ ॥
पश्चिमयमगा शाला यमशूर्पं पश्चिमोत्तरा शाला ।
दण्डाख्या सा कथिता पुरातनैः शिल्पशास्त्रनिष्णातैः ॥ ४९ ॥
उत्तरपूर्वा शाला वाताख्या भवति मानुषे सदने ।
प्राच्यावाच्या शाला यमदैवतनामधेया सा ॥ ५० ॥
सिद्धार्थेऽर्थावाप्तिर्यमशूर्पे गृहपतेर्मृत्युः ॥ ५१ ॥
दण्डाख्ये दण्डवधं गृहचुल्ल्यामपि कलहमुद्वेलम् ।
वाताख्ये वातभयं यमदैवतनाम्नि मृत्युरेव स्यात् ॥ ५२ ॥
अथ चतुःशालम् —
स्वयोनिव्यासगतयो दिग्वि दिक्षु च संस्थिताः ।
भिन्नशालेति सा प्रोक्ता मनुजानां शुभप्रदा ॥ ५३ ॥
पर्यन्तध्वजमादधीत चतुरश्रं मध्यतश्चाङ्गणं
तत्पार्श्वेऽप्यतिपत्रमानमपरं चाभ्यन्तरं केतनम् ।
तत्तूर्यश्रयुजोऽथकोणचतुरश्रेषूत्तरा१न्तर्ध्वजं
युक्त्या तूत्तरविस्तृतिं च जनयेत् तुर्यश्रशालाविधौ ॥ ५४ ॥
२ईष्टदिग्योनियुक्ता च पर्यन्तेनैकलक्षणा ।
समतुर्यश्रका ज्ञेयाप्येकशालाथवायता ॥ ५५ ॥
एतयोः शालयोरत्र नान्तरालानि सन्त्यतः ।
शूद्रादिसूतिकादीना प्रवेशे स्पृष्टिसम्भवात् ॥ ५६ ॥


१. 'ह्यो', २. 'अ' क. पाठः.