सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 248, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 248

आसनादिपरिच्छदलक्षणम् ] त्रयस्त्रिंशोऽध्यायः । २२९
हंसपिच्छभृतं वापि सुखासनमितीरितम् ।
छागचर्ममयं पीठमूर्णागर्भं सुविस्तृतम् ॥ ६ ॥
नानावर्णविचित्रं तदासनं च सुखाभिधम् ।
सितपट्टपिनद्धैश्च हंसपिच्छैः सुपूरितम् ॥ ७ ॥
स्वेद + + + + + + + शय्यासनमुत्तमम् ।
पञ्चभिः सप्तभिर्वाऽपि नवभिर्लोहजैः पदैः ॥ ८ ॥
लोहपट्टकृताधारैर्लोहजालकमूर्धभिः ।
(छटिको ?) पट्टगर्भस्थकार्पासेन विनिर्मितम् ॥ ९ ॥
लोहासनमिदं प्रोक्तमूर्ध्वतः कलितं दृढम् ।
एकदारुकृतं श्लक्ष्णं दन्तिदन्तसुचित्रितम् ॥ १० ॥
नानावर्णविचित्राढ्यं पृष्ठे फलकसंयुतम् ।
चतुष्पादकृताधारं सार्धहस्तविशालकम् ॥ ११ ॥
प्रायेण सार्धत्रिकरदीर्घं तस्योर्ध्वतः पुनः ।
तावन्मात्रायताद्युक्तमृदुशय्यासनादिकम् ॥ १२ ॥
ईषत् समुन्नतं राज्ञां पृष्ठाधारासनं स्मृतम् ।
रुचिरेण सुवर्णेन निर्मितं रत्नमण्डितम् ॥ १३ ॥
अष्टाभिः स्फाटिकैः सिंहैः मूर्धभिः सुविधारितम् ।
अधः काञ्चनविन्यस्तरत्नवेदित्रयान्वितम् ॥ १४ ॥
आस्थानमण्डपे राज्ञां सिंहासनमिदं वरम् ।
अथ व्यजनं —
चामरं तालवृन्तं च द्विविधं व्यजनं स्मृतम् ॥ १५ ॥