शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
DevanagariSanskritpublished280 पृष्ठ
पृष्ठ 241, कुल 280 में से
संदर्भ में पढ़ेंपृष्ठ 241२२२ शिल्परत्ने [उत्तरभागः
२२२ शिल्परत्ने [उत्तरभागः
चतुर्ष्वपि च भद्रेषु द्विसप्ततिरुदाहृताः ।
सप्तकोणाः समन्ताच्च द्विगुणा मनुसंख्यया ॥ ११३ ॥
एवमादीन्यनन्तानि गेहानि धरणीभुजाम् ।
कियन्त्यपि मयोक्तानि प्रधानानि यथाक्रमम् ॥ ११४ ॥
तिष्ठन् गेहेषु शस्तेषु श्रियमाप्नोति पुष्कलाम् ।
आरोग्यं विजयं कीर्तिं सन्तोषं परमाप्नुयात् ॥ ११५ ॥
ईदृग्लक्षणसंयुक्तान् विविधान् बहुभूमिकान् ।
कारयित्वा महीपालः प्राच्यै¹चन्द्र(इ ? ब)लं महत् ॥
इति विज्ञाय नृपतिर्वासार्थं गृहमुत्तमम् ।
सुलक्षणयुतं दोषैर्विहीनं कारयेत् सुखम् ॥ ११७ ॥
ईशानभागकोणे तु सर्वलक्षणसंयुतम् ।
पूर्वतो मुखशालाया देवतारूपचिह्नितम् ॥ ११८ ॥
देवकार्यगृहं कार्यं नृपाणां सुमनोहरम् ।
स्नानगेहं तु तत्पार्श्वे कर्तव्यं वेदिकायुतम् ॥ ११९ ॥
होमशाला तदभ्याशे बहिः कुण्डविमण्डिता ।
धूमनिर्गमनोपायकृतजालपरिष्करा ॥ १२० ॥
अन्यान्युपगृहादीनि सुभक्तानि पुरैव हि ।
चित्रं लक्षणसंयुक्तं लेखयित्वा महीपतिः ॥ १२१ ॥
गृहस्यान्तर्बहिःकुड्यमुखेषु च विभूषयेत् ।
पूर्वतः शिल्पिनो गेहं परिगृह्य विनिर्मितम् ॥ १२२ ॥
गोमयाद्यैर्जलाद्यैश्च शुद्धिं विधिवदाचरेत् ।
अथ वास्तुबलिं विप्रैः कारयेत् तद्दिघेर्विदाम् ॥ १२३ ॥
१. 'प्य' ख. पाठः.