शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
DevanagariSanskritpublished280 पृष्ठ
पृष्ठ 240, कुल 280 में से
संदर्भ में पढ़ेंपृष्ठ 240
मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २२१
नवकोणविदिग्गेहे (स्यात् ? स्युः) पङ्कविंशच्चतुर्ष्वपि ।
चत्वारो मध्यगाः स्तम्भा यत्र तस्यां चतुष्कृतम् ॥ १०२ ॥
तस्माद् बहिरलिन्दः स्याच्छाला स्यात् तदनन्तरम् ।
अलिन्दं च पुनः शाला क्रमेणैवं प्रवर्तते ॥ १०३ ॥
यावत् कर्तुमभीष्टं स्याद् गृहं नरपतेः शुभम् ।
यच्चतुष्कशतं क्षेत्रं पञ्चधा तद् विभज्यते ॥ १०४ ॥
तद्भागप्र(तिमं ? मितं) कार्यं त्रिभिर्भागैरलिन्दकम् ।
सार्धत्रिभागिका शाला कर्तव्या सुविचक्षणैः ॥ १०५ ॥
इयं स्थितिः समस्तानां गृहाणां प्रतिपादिता ।
नाम्ना तु मुखकोणं यत् त(द्भागं ? त्कार्यं) रविभागतः ॥
मध्यस्तम्भाः शतं सार्धं षड्भिर्न्यूना निरूपिताः ।
शतं षष्ट्य