सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 236, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 236

एकास्मिन्नशुचौ सत्यां तन्मित्रेऽप्यशुचिः स्मृता ।
अनुसृत्योभयं मार्गमाचरेत् तदनापदि ॥ ६४ ॥
अथ देवालयतो विशेषमाह —
रूपोत्तरस्य तु क्वापि क्षुद्रवाजनमिष्यते ।
अङ्घ्रेस्तथा मध्यखण्डमारूढं भूषणाय च ॥ ६५ ॥
शिलाबद्धमसूरं च सुधामिलितभित्तिकम् ।
पञ्चैतान्यपि निन्द्यानि दृश्यन्ते नरसद्मनि ॥ ६६ ॥
प्राच्ये चाग्निसमर्चनादिकमुदीचीने कुटुम्बादिकं
व्यत्यस्य प्रकरोतु वा द्वयमिदं याम्येऽतिथिप्रीणनम् ।
पाश्चात्त्ये धनसंनिधापनमतो द्वन्द्वं विपर्यस्य वा
शेषार्धे तु तयोस्तथा शयनविद्याभ्यासनाद्यं चरेत् ॥ ६७ ॥
माहेन्द्रे सलिलाधिराजि च तटाकं कूपमैशानके
पर्जन्ये पचनालयं शिखिनि वा भुक्त्यालयं तत्पुरः ।
कर्तव्यं खलसद्म नैर्ऋतपदे कुर्वीत धान्यालयं
गोशालाम्बुपतौ हरावपि समीरे धाम चौलूखलम् ॥ ६८ ॥
ग्रामादिपूक्तवत् सर्वमनुक्तं स्थानमाचरेत् ।
अथ द्वारं —
द्वारपादस्य बाहल्यं तुल्यमुत्तरमानतः ॥ ६९ ॥
स्वस्वयोन्या गृहादीनां कल्प्यन्तां द्वारयोनयः ।
प्रस्तरोत्तरयोर्मध्यं पञ्चधा विभजेद् बुधः ॥ ७० ॥
द्वारायामं चतुर्भागमष्टसप्तांशमेव वा ।
शेषांशे द्वादशांशे तु पञ्चांशं गुल्फमिष्यते ॥ ७१ ॥