शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 243, कुल 280 में से
संदर्भ में पढ़ें२१४ शिल्परत्ने [उत्तरभागः
असुराय सुरा देया पैष्टं सौवर्णमेव च ।
घृतौदनं च शोषाय यवाः स्युः पापसंज्ञके ॥ १३४ ॥
रोगाय मोदकान् स(र्पीन् ? र्पिः) फणिने नागकेसरम् ।
भक्ष्यो मुख्याय दातव्यः फल्लाटाय ततः क्षिपेत् ॥ १३५ ॥
मुद्गौदनं ततः सोमे पायसं मधुमिश्रितम् ।
शालिपिष्टं त्वर्गलाय लोविकामादितेः क्षिपेत् ॥ १३६ ॥
दित्यै तु पूरिकान् दद्यादित्येवं बाह्यतो बलिः ।
मण्डलान्तरसंस्थानामिदानीं बलिरुच्यते ॥ १३७ ॥
आपाय दापयेत् क्षीरमापवत्साय वै दधि ।
आर्यै पक्वं तथा मांसं दातव्यं बलिकर्मणि ॥ १३८ ॥
सावि(त्र्यै ? त्रे) मोदकं दद्याद् मरिचं³ सकुशौदनम् ।
सवित्रे गुडपूपांश्च देयं स्याद् घृतचन्दनम् ॥ १३९ ॥
विवस्वते प्रदातव्यं पायसं रक्तचन्दनम् ।
देवाधिपतये दद्यात् तालमिश्रं घृतौदनम्* ॥ १४० ॥
मित्राय सघृतं भक्तं रुद्राय (सुध ? गुड)पायसम् ।
पृथ्वीधराय मांसानि सकूष्माण्डानि दापयेत् ॥ १४१ ॥
आज्यं च दधिसंयुक्तं ब्रह्मणे विनिवेदयेत् ।
शर्वस्कन्दाय चार्यम्णे जम्भके पिलिपिञ्जके ॥ १४२ ॥
१. 'शे' ख. पाठः. २. 'तत्त्वं त', ३. 'चिं' क. पाठः.
- इन्द्रानन्तरम् इन्द्रजयस्य, रुद्रानन्तरं रुद्रजयस्य च पूजा मातृकासु
लुप्ता स्यात् । सैषा 'शुद्धान्नमेवेन्द्रजयाय शस्तम्', 'मांसं तथा रुद्रजये त्व-
पक्वम्' (क्रियापा० पट० २७. श्लो० २५) इति गुरुदेववचनादवगन्तव्या ।