सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 244, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 244

मनुष्यालयविधिः ] एकत्रिंशोऽध्यायः । २२५
तिलाक्षतं पञ्चगव्यं भक्ष्यं भोज्यं पृथग्विधम् ।
मांसौदनं सरुधिरं हरिद्रौदनमेव च ॥ १४३ ॥
ईशानदिशमाश्रित्य चरक्यै विनिवेदयेत् ।
आग्नेयीं दिशमाश्रित्य स्थितायै मांसखण्डकम् ॥ १४४ ॥
दध्योदनं सरुधिरं विदार्यै विनिवेदयेत् ।
पूतनायै च नैर्ऋत्यां पीतं रक्तं बलिं क्षिपेत् ॥ १४५ ॥
वायव्ये पापराक्षस्यै मत्स्यमांसं सुरासवम् ।
पायसं वा प्रदातव्यं तन्नाम्ना सर्वतः क्रमात् ॥ १४६ ॥
सर्वेषां काञ्चनं दद्याद् ब्रह्मणे गां पयस्विनीम् ।
राक्षसानां बलिं दद्यान्मधुमांसौदनान्वितम् ॥ १४७ ॥
एवं सम्पूजिता देवाः शान्तिं कुर्वन्ति ते सदा ।
विप्रांश्च पूजयेद् भक्त्या विदुषो गृहमागतान् ॥ १४८ ॥
इति वा(स्तो ? स्तू)पशमनं निश्चय्य समाचरेत् ।
प्रासादभवनोद्यानप्रारम्भे च समापने ॥ १४९ ॥
परमैश्वर्यवृद्ध्यर्थं सर्वदोषोपशान्तये ।
विधाय वास्तुपूजां च गृहं सूत्रेण सर्वतः ॥ १५० ॥
पावमानेन सूक्तेन रक्षोघ्नेन च वेष्टयेत् ।
मङ्गलं तूर्यघोषेण कुर्याद् ब्राह्मणवाचकैः ॥ १५१ ॥
वृतं सद्म विशेद् राजा सुमुहूर्ते विशेषतः ।
ब्राह्मणोदीरितैर्मन्त्रैः शोभनैः शङ्खनिस्वनैः ॥ १५२ ॥
मङ्गलैस्तूर्यनादैश्च विशेद् वेश्म विशांपतिः ।
प्रासादे रुचिरोत्तङ्गे सौवर्णकलशान्विते ॥ १५३ ॥
EE