शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
DevanagariSanskritpublished280 पृष्ठ
पृष्ठ 235, कुल 280 में से
संदर्भ में पढ़ेंपृष्ठ 235२१६ शिल्परत्ने [उत्तरभागः
२१६ शिल्परत्ने [उत्तरभागः
अशुचिर्व्याप्यतेऽन्यस्मिन्नपि तत्र गृहत्रिके ।
एकच्छायेन तस्मात् ते वर्जयेद् भूसुरालये ॥ ५७ ॥
ध्वजः कोणेषु पर्यन्ते दिक्षु दिङ्मानभेदकाः ।
नाम्ना तुर्यश्रभिन्ना या नेष्टा विप्रालयेऽपि सा ॥ ५८ ॥
तद्भेदः —
कृत्वा बाह्यान्तरवृतिमिमामुक्तक्लृप्त्या ततोऽन्यां
दिक्कोणाद् यद्गृहपरिमितिं योनिभेदोपपन्नाम् ।
कुर्याद् युक्त्या मितिषु कुशलः सा तु तुर्यश्रशाला
प्राग्वन्मध्येऽङ्गणविलसिता स्यात् पुनर्भिन्नशाला ॥ ५९ ॥
दिग्गेहानि विदिग्गृहैरभिमतैर्योनिप्रभिन्नैर्मिथः
श्लिष्टानीह बहिः समैः परिमिता सीमा च मध्येऽङ्गणम् ।
श्लिष्टानां तु मिथो भवेदिह मितिः सम्भूय धाम्नां ध्वजं
भिन्ना सैकविदिग्शयसत्यपि पुनस्तुर्यश्रशाला मता ॥ ६० ॥
द्वारं मुखेषु कर्तव्यं सर्वेषामपि वेश्मनाम् ।
मध्यस्थं द्वारमध्यं स्याद् वास्तुमन्दिरसूत्रयोः ॥ ६१ ॥
आशाहर्पतिसूत्रभेदिनि गृहे षष्ठेऽथ वा सप्तमे
सूत्रे द्वारमथापरं वितनुयाच्छालासु सव्यार्धके ।
सिंहोक्षद्विपकेतुयोनिविहितं चाग्न्यादिकोणालयं
मित्रे दक्षिणपश्चिमे पुनरुदक्प्राच्ये च गेहे मिथः ॥ ६२ ॥
अथवान्यप्रकारेण मित्रत्वं कैश्चिदिष्यते ।
वास्तु(नः) पूर्वपार्श्वस्थे गेहेऽन्योन्यामिति स्फुटम् ॥ ६३ ॥
१. 'दिग्गृहै' ख. पाठः.