षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
प्रथमोऽध्यायः (६) ५३
राज्ञो ह मितस्य मर्कटोऽशूनादाय वृक्षमपुप्लुवे ॥ ९ ॥
मितस्य मुष्टिभिः परिमितस्य राज्ञः सोमस्य अंशून् अवयवान् आदाय
मर्कटः मर्कटवेषधारी इन्द्रः । उत्तरत्र मघवन्निति मर्कटस्य संबोध्यमानत्वात् ।
वृक्षमपुप्लुवे उदपतत् ॥ ९ ॥
ततः किमित्यत्राह—
स हारुणिराहुतिमुद्यत्योवाच पुनः वैनान्निवप्स्यस्यतो
वाव मृतोऽवपप्स्यस इति ॥ १० ॥
पश्चाव् आरुणिः उद्दालकः प्रायश्चित्तं कर्तुम् आहुतिमुद्यत्य एवम्
उवाच—हे मर्कट ! त्वम् एनान् अंशून् पुनः निवप्स्यसि प्रक्षेप्स्यसि वा,
अथवा मृतः सन् अतो वृक्षाद् अवपप्स्यसे अवपत्स्यसीति ॥ १० ॥
मर्कटस्योत्तरं दर्शयति—
स होवाच किं होष्यसीति ॥ ११ ॥
पुनरारुणेर्वचनं दर्शयति—
प्रायश्चित्तमिति ॥ १२ ॥
प्रायश्चित्तं होष्यामीति ॥ १२ ॥
पुनर्मर्कटस्य प्रश्नमाह--
किं प्रायश्चित्तमिति ॥ १३ ॥
आरुणिरुत्तरमाह—
सर्वप्रायश्चित्तमिति ॥ १४ ॥
- K Bh MT आपुप्लुवे for अपुप्लुवे.
- R. ०रूपः, MK. ०रूपी for ०वेषधारी.
- Bh MTSK. om. ह; T. आहुतीः for आहुतिम् ; Bh निवप्स्य
ह्यवः प्रपश्यते, for निवप्स्यस्यतो. - MJSTK. om. प्रायश्चित्तं.
- RJS add क्त्वा before निवप्स्यति; Bh MJ. om. प्रक्षेप्स्यसि.
- J om. अवपत्स्यसीति.
- J मर्कटः for मर्कटस्य and om. प्रश्नम्.
५४ षड्विंशब्राह्मणम्
पुनर्मर्कटः पृच्छति--
किं सर्वप्रायश्चित्तमिति ॥ १५ ॥
आरुणिरुत्तरमाह--
महाव्याहतीरेव मघवन्निति ॥ १६ ॥
हे मघवन् ! महाव्याहतीरेव प्रायश्चित्तार्थं होष्यामीति शेषः ॥ १६ ॥
पुनः आरुणिं मर्कटः पृच्छति--
स होवाचोम् आरुणे यदाहुतिमनूचिषे कथं नु विदां-
चकर्थ मर्कटोऽशूनादत्तेति ॥ १७ ॥
सः मर्कटः ओमिति अङ्गीकृत्य एवमुवाच ह — हे आरुणे! आहुतिमन् !
उद्यताहुतियुक्तस्त्वं, मर्कटोऽशून् आदत्त आजहार अतः सर्वप्रायश्चित्तं
होष्यामीति, यदूचिषे कथं नु कथमिव तत् विदांचकर्थ अस्येदं प्रायश्चित्तमिति
कथमज्ञासीरित्यर्थः ॥ १७ ॥
पुनरारुणेरुत्तरमाह—
स होवाच यच्चावगतं यच्चानवगतं सर्वस्यैषैव
प्रायश्चित्तिरिति ॥ १८ ॥
स एवमुवाच ह यत् कर्मणो न्यूनत्वमधिकत्वं वा अवगतं ज्ञातं
यदपि चानवगतं तस्य सर्वस्य ज्ञातस्याज्ञातस्याविहितविशेषप्रायश्चित्तस्यैषैव
महाव्याहतिरेव प्रायश्चित्तिरिति शास्त्रतोऽवगच्छामीति ॥ १८ ॥
अस्तु, प्रस्तुते किमायातम् ! इत्यत्राह—
तस्मादेतामेव जुहुयात् ॥ १९ ॥
३. M. adds पुनः before आरुणिः.
५. Bh MJ. om. होष्यामीति...पृच्छति.
७. T. आहुतिमान for आहुतिमन्.
९. JTM आहुतिमान् for आहुतिमन्.
१०. RS उद्यताहुतिः यत् यतः तत्स्त्वं, KI. उद्यताहुतियत्तस्त्वं for
उद्यताहुतियुक्तस्त्वं.
११. Bh TJ कथमिति for कथमिव; Bh J कस्य for अस्य.
१२. RSI अविज्ञासी० for अज्ञासी०.
१७. M Bh SI. om. (अ)ज्ञातस्य; T. विहित० for (अ)विहित.
१८. MSI. ०व्याहृती० for ०व्याहृति०.
प्रथमोऽध्यायः (६) ५५
यस्मादेवं तस्मात् एतां महाव्याहृतिमेव सर्वप्रायश्चित्तार्थं
जुहुयात् । १९ ॥
तत्रैव प्रायश्चित्तान्तरमाह—
अपि वाज्ञातं यदनाज्ञातं यज्ञस्य क्रियते मिथुवग्ने
कल्पय त्वम् । हि वेत्थ यथायथं स्वाहेति । अपि वा
प्राजापत्यां प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता
बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो
रयीणां स्वाहेति । तद्द्वा आत्मानं च यजमानं च स्वेन
रसेन समर्द्धयति ॥ २० ॥
अपि वा अथवा आज्ञातम् अवगतं यन्न्यूनत्वम् अधिकत्वं वा यदपि च
अनाज्ञातं यज्ञस्य संबन्धि मिथु मिथः क्रियते हे अग्ने अस्य यज्ञस्य संबन्धि
तद् उभयं कल्पय फलसमर्थं कुरु । हि यस्मात् त्वं यथायथं कर्मणः स्वरूपं
वेत्थ जानासि स्वाहा सुहुतमस्तु इति अनेन मन्त्रेण जुहुयात् । अपि वा
अथवा हे प्रजापते ! यान्येतानि विश्वा विश्वानि जातानि भुवनानि [त्वत् ]
त्वत्तोऽन्यो न परिता बभूव । त्वमेव परिभवसीत्यर्थः । वयं यत्कामाः
यदभीष्टं कामयमानाः ते तुभ्यं जुहुमः नः अस्माकं तद् अभीष्टम् अस्तु ।
किं च, वयं रयीणां धनानां पतयः स्याम स्वाहेति अनेन मन्त्रेण प्राजापत्यां
प्रजापतिदेवताकाम् आहुतिं जुहुयात् । तद्वै तेनैव आत्मानं च यजमानं च
स्वेन अभीष्टेन रसेन यज्ञफलेन समर्द्धयति समृद्धं करोति इति ॥ २० ॥
10. RSI. om. यन्० ; RSIT om. वा after अधिकत्वं; Bh. यावद्
for यद्; J. वा for च.
11. J. adds ऋत्विग्भिः after मिथु.
12. MSK ०तथं for यथं.
13. M. om. मन्त्रेण.
14. Bh J. om. अथवा; Bh J. प्राजापत्यां प्रजापत इत्यस्य व्याख्यानं
त्यक्तं भवतीत्यर्थः for हे प्रजापते...०भवसीत्यर्थः ।
15. RSI. परिता भवसि for परिभवसि.
16. J. यदित्थं for यदभीष्टं ; R adds इति after अस्तु.
19. SIK समर्थं, Bh समृद्धि for समृद्धं; RKSI. om. इति.
द्वितीय प्रपाठक (त्रिवृत् स्तोम एवं सोमयाग विधि)
५६ षड्विंशब्राह्मणम्
अथ यज्ञे मृण्मयपात्रभेदने प्रायश्चित्तं दर्शयति—
अथ यद्वै किंच यज्ञे मृन्मयं भिद्येत तदभिमृशेत् ,
भूमिर्भूमिमगान्म्राता मातरमप्यगाद् । भूयाम पुत्रैः पशुभि-
र्योऽस्मान् द्वेष्टि स भिद्यतामिति । तद्वा आत्मानं च यजमानं
च स्वेन रसेन समर्धयति ॥ २१ ॥
अथ पुनः यद्वै किंच यदपि शरावोदञ्चनादिकं मृन्मयं पात्रं यज्ञे
भिद्येत तद् भिन्नं पात्रं भूमिर्भूमिम् इत्यादिना मन्त्रेण अभिमृशेत् । अस्य
मन्त्रस्य अयमर्थः—भूमिः विकारात्मिका भूमिः प्रकृतिभूतां भूमिं पृथिवीम्
अगात् । अपि च, माता सर्वस्य जगतो निर्मात्री पृथिवी मातरं
पृथिवीमेवागात् । द्यौः पिता पृथिवी माता (तै. ब्रा. 2.8.6.5) इति श्रुतेः ।
वयं तु पुत्रैः पशुभिश्च समृद्धा भूयाम भूयास्म । यः शत्रुः अस्मान् द्वेष्टि
स भिद्यतां विदीर्यताम् इति । तद्वै तेनैव तदभिमर्शनेन आत्मानं च यजमानं च
स्वेन रसेन यज्ञफलेन समर्धयति इति ॥ २१ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥
- Bh MI. भेदेन for भेदने; RS add इति after दर्शयति.
- RS मृण्मयं for मृन्मयं.
- M. सर्वमृदां K. समृदाभोगतां for सर्वस्य जगतो; MKI निर्मा
for निर्मात्री.
निनेदुः । कथं नु तेषां शर्करा अक्ष्सु
Line 20: 6. Bh. प्रदीव्य० for दीप्य०; T ओषधीपति for ओषध्यधिपति.
Line 21: 7. RSIK. add इति after प्रमीयते; M. इति प्रभवतीति for इव
Line 22: भवति ; Bh MSIT. एवं for एनं.
Line 23: 14. R. तद्देवताभ्यः, K. एताभ्यां for यदेवाभ्यां.
Looks very precise and complete.सप्तमः खण्डः
अर्थवादपुरःसरं सौम्यं चरुं विधत्ते--
घ्नन्तीव वा एतत्सोमं राजानं प्रेव मीयते ।
यदेनमभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यं
चरुम् । तस्मात् पुरुषाय पुरुषायानुस्तरणी क्रियते ॥ १ ॥
राजानं दीप्यमानमोषध्यधिपतिं वै सोमं घ्नन्तीव हिंसन्तीव । स च
सोमः तेन प्रमीयते इव भवति । यद् यस्माद् एनं सोमम् अभिषुण्वन्ति ।
तस्याभिषुत
५८ षड्विंशब्राह्मणम्
जायेरन् यास्त्वं विद्या इति । तेभ्य एतत्सौम्ये चरौ
श्यावमाज्यं प्रायच्छत् । तदवेक्षन्त । ते प्रापश्यन् । प्रपश्यत्य-
नन्धो भवति य एवं विद्वान्सौम्यं चरुम् अवेक्षते ॥ २ ॥
पुरा सत्रं बहुकर्तृकं द्वादशाहादिबहुदिनसाध्यं यागम् आसीनानाम्
अनुतिष्ठतां साध्यानाम् एतन्नामकानां देवानाम् अक्षसु चक्षुषु शर्कराः
सिक्ता जज्ञिरे जाताः । ते देवा इन्द्रमुपनिषेदुः उपागमन् । गत्वा
चैवमवोचन् । तेषां सत्रमासीनानाम् अस्माकं चक्षुषु शर्कराः कथं नु
जायेरन् । हे इन्द्र ! त्वं याः चक्षुषु उत्पन्नाः शर्करा विद्या जानीषे इत्येवंपृष्ट
इन्द्रः तत्परिहाराय तेभ्यो देवेभ्यः सौम्ये चरावेतत् प्रसिद्धं श्यावम् आज्यं
प्रायच्छत् । ततस्ते तदाज्यमवेक्षन्त । तदवेक्षणेन ते देवाः प्रापश्यन् । तेषां
चक्षूंष्यपनीतशर्कराण्येभूवन्नित्यर्थः । अतो यः कश्चित् पुमानेवं विद्वान् जानन्
सौम्यं चरुमाज्यपूर्णमवेक्षते स प्रपश्यति सम्यक् पश्यति, अनन्धश्च
भवति । तस्माद्धुतशिष्टम् ज्यपूर्णं चरुमवेक्षेतेत्यर्थः । अत्र विशेषो बह्वृचब्राह्मणे
श्रूयते—प्रतिगृह्य सौम्यं होता पूर्वं छन्दोगेभ्योऽवेक्षेत तं हैके पूर्वं
छन्दोगेभ्यो हरन्ति तत्तथा न कुर्यात् । वषट्कर्ता प्रथमं सर्वभक्षान्
भक्षयतीति ह स्माह तेनैव रूपेण तस्माद्वषट्कर्तैव पूर्वोऽवेक्षेताथैनं
छन्दोगेभ्यो हरन्ति (ऐ. ब्रा. 3. 32. 5. 6) इति ॥ २ ॥
प्रशंसापूर्वकं सेतिकर्तव्यताकं सौम्यचरुप्राशनं विधत्ते —
- Bh SI. ०हादिकं for ०हादि०.
- BJ. पृष्टमात्र for पृष्ट इन्द्रः.
- Bh J. ०गत० for ०नीत०.
- Bh J. आज्यं पुनर् for आज्यपूर्णम् ; Bh SJ. om. स प्रपश्यति... अवेक्षेतेत्यर्थः ।; R om. सम्यक्पश्यति.
- M. ०शेषम् for शिष्टम् ; RJ. अवेक्षते for अवेक्षेत.
- RSJ ०वैक्षत for ०वेक्षेत; SlK. हैव for हैके; Bh. पूर्वार्धे for पूर्वं.
- RJ प्रथमः for प्रथमं; M. ०भक्षणात् for भक्षान्.
- M. यं for अथैनं.
- PM. प्रशंसनं for प्राशनं see CN·
प्रथमोऽध्यायः (७) ५९
योऽलमन्नाद्याय सन्नथान्नं नाद्याद्दक्षिणार्धं सदसो
गत्वैतं सौम्यातिशेषं प्राश्नीयात् । जनं वा एतस्मादन्नाद्यं
क्रामति । योऽलमन्नाद्याय सन्नथान्नं नात्ति जनोऽस्मात्पितरो
जन्येनैवान्नेनान्नमत्ति । अन्नादो भवति ॥ ३ ॥
यः पुमान् अन्नाद्याय अन्नादिभक्षणाय अलं समर्थः सन्नपि ।
अथशब्दोऽप्यर्थे । अन्नं नाद्यात् वागिन्द्रियात् (!) सदसो दक्षिणार्धं
दक्षिणदिगर्घभागं गत्वा एतं सौम्यातिशेषं हुतशिष्टं सौम्यं चरुं प्राश्नीयाद्
उद्गाता । तस्मादेव चरुभक्षणादन्नाद्यं जनं क्रामति प्राप्नोति । यो
जनोऽलमन्नाद्याय समर्थः सन्नपि अन्नं नात्ति । किं च, अस्मात् प्राशनात्
पितरोऽपि तृप्ता भवन्तीति शेषः । अतो जन्येन जनहितेन अन्नेन
भक्षणयोग्येन एव अनेन अन्नमत्ति । हितान्नादनसामर्थ्येनैव अन्नमत्तीत्यर्थः ।
न केवलम् इह लोके, किं तु परत्रापि अन्नादो भवतीति ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये सप्तमः खण्डः ॥ ७ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण
सायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणव्याख्याने
प्रथमोऽध्यायः समाप्तः ॥ १ ॥
- Bh वारिशूगीत्या, J. वालिशरीत्या, K. वारीन्द्रियात् for वागिन्द्रियात्
see CN. - J. द्विजादिगम्यत्वात्, Bh. दक्षिणदिगादिगम्यत्वा for दक्षिणदिगर्घ-
भागम् ; Bh एव होमावशि... एतं सौम्यातिशेषं. - RSI तमर्हादेव for तस्मादेव ; JBh. om. एव चरु० ; Bh. ०(अ)-
भक्षणात् for ०भक्षणात् ; J adds तं after अन्नाद्यम . - M. अन्नादी for अन्नाद्याय; R. समृद्धः for समर्थः, M.Bh SI.
om. समर्थः. - om. तत्क्षणात् सौम्येन, J भक्षणात् सौम्येन for भक्षणयोग्येन ; Bh.
JM om. अनेन ; Bh. दानादन्न० for हितान्नादन०.
द्वितीयोऽध्यायः
प्रथमः खण्डः
अथाग्निष्टोमे बहिष्पवमानधर्माः कथ्यन्ते । तत्र तावत् उपास्मै गायता
नरः (सा. 651) इत्येतामाद्यामृचं साम्ना प्रच्छन्नां गायेदिति प्रशंसा-
पूर्वकं विधत्ते—
प्रजापतिरकामयत बहुः स्यां प्रजायेयेति । स एतां
रेतस्यामृचं साम्ना प्रच्छन्नामगायत् । यदृचमसाम्नीमगास्य-
दस्थ्यमांसमजनिष्यत । यत्सामानृचं मांसमनस्थिकमज-
निष्यत ऋचं साम्ना प्रच्छन्नां गायति । तस्मात् पुरुषः प्रच्छन्नो
मांसेन त्वचा लोम्ना जायते ॥ १ ॥
प्रजापतिः विधाता पुरैवम् अकामयत बहुः स्यां स्थावरजङ्गमात्मकत्वेन
नानाविधोऽहं भवेयम् । तस्यैव विवरणं प्रजायेय इति । स एवं कामयित्वा
रेतस्यां रेतस्या प्रथमा वधूः । तदन्वयादृगपि रेतस्या । तामुपास्मै गायता
नरः (सा. 651) इत्येतामृचं साम्ना प्रच्छन्नां व्याप्ताम् अगायत् । यत् यदि
कश्चित् ऋचम् असाम्नीं सामरहितामगास्यत् तर्हि तस्याम् ऋचि अमांसं
मांसरहितम् अस्थि अजनिष्यत । ऋचमपुष्टामकरिष्यदित्यर्थः । किं च यद्
यदि साम अनृचम् ऋग्वर्जितमगास्यत् तर्हि अनस्थिकम् अस्थिरहितं मांसम्
अजनिष्यत । तत् साम निराधारमजनिष्यतेत्यर्थः । तस्मात् आद्यामृचं
3. K. om. अथ; Bh J ०माने for ०मान०.
4. M. गायति for गायेद्.
6. M. Bh I बहु for बहुः.
11. M. वेधाः सः for विधाता.
15. RSI. om. अमांसं.
16. SI add तद् before ऋचम्; RSJ. अजनयद् for अकरिष्यद्.
17. R. ऋत्विग्वर्जितं, Bh J अशितम् for ऋग्वर्जितम्.
18. R. om, तत्.
द्वितीयोऽध्यायः (१) [पृ. ६१]
साम्ना प्रच्छन्नां गायति गायेदित्यर्थः । यस्मोदवं तस्मात् लोके पुरुषो
मांसेन त्वचा लोम्ना च प्रच्छन्नः सन् जायत इति ॥ १ ॥
रेतस्यायां त्रिरुद्ग्रहणं विधत्ते—
त्रिरुद्गृह्णाति ॥ २ ॥
पवमानायेन्दवे (सा. ६५१) इत्यत्र पकारवंकारमकारेषु त्रिष्वक्षरेषु
प्रत्येकं प्लुतं कुर्यादित्यर्थः । तथा च द्राह्यायणः—रेतस्यायास्त्रिरुद्गृह्णातीति
ब्राह्मणं भवति । पावामानायेन्दावा (21.3.15; ला. 7.12.3) इति ॥ २ ॥
तत्प्रशंसति—
त्रय इमे लोका एषां लोकानामवरुद्ध्यै त्रिभ्यश्च
रेतः सिच्यते ॥ ३ ॥
इमे प्रसिद्धाः पृथिव्यन्तरिक्षद्युलोकाः त्रयः एषां लोकानामवरुद्ध्यै
प्राप्त्यर्थं त्रिरुद्गृह्णीयात् । अत एव च त्रिभ्यो रेतः सिच्यते ॥ ३ ॥
तत्र च हिंकारं निषेधति—
न हिंकुर्यात् ॥ ४ ॥
हिंकारनिन्दया तद्वर्जनं प्रशंसति—
वज्रो वै हिंकारो बलमिव रेतो यद्धिंकुर्याद्वज्रेण
हिंकारेण रेतः सिक्तं विच्छिन्द्यात् ॥ ५ ॥
निगदसिद्धमेतत् ॥ ५ ॥
- Bh. प्रतिच्छन्नां for प्रच्छन्नां.
- M. om. च प्रच्छन्नः सन्.
- R. रेतस्यायाः for रेतस्यायां; M. om. उद्ग्रहणं विधत्ते.
- M. om. पवमानायेन्दवे.
- Bh सवाष्टमासनायेन्दवे, T वास्वासमासनायेन्दवे, S पप्रेवाप्रेमाप्रेयेन्दवे,
I पाअ उवा अउमा अउवा for पावामानायेन्दावा. - M. ०रिक्षं दिवः for ०रिक्षद्यु.
- RKS. प्राप्त्यै for प्राप्त्यर्थं.
- R. om. च; Bh J तत्रत्यं for तत्र च.
- K. वज्र्यों० for वज्रो०; Bh. एव for इव.
६२ षड्विंशब्राह्मणम्
नियमान्तरमाह—
रेतस्या [गायत्री] छन्दसा। प्राजापत्या देवतया।
सर्वमेतया ध्यायन् गायेत्। सर्वं हीदं रेतः॥ ६॥
रेतस्या प्रथमा ऋक्। छन्दसा गायत्री। देवतया प्राजापत्या।
प्रजापतिना गीतत्वात्। इत्येतत् सर्वं ध्यायन् एतया रेतस्यया गायेत्। हि
यस्माद् इदं सर्वं रेतः। तथा च श्रूयते—प्रजापते रेतो देवाः। देवानां
रेतो वर्षम्। वर्षस्य रेत ओषधयः (ऐ. आ. २१.३.१) इत्यादि॥ ६॥
रेतस्यायां सेतिकर्तव्यताकं गानं विधायेदानीं द्वितीयायाम् अभि
ते मधुना पयः (सा. ६५२) इत्यस्यां गीयमानं विधत्ते—
द्वितीयां गायति॥ ७॥
गायेदित्यर्थः॥ ७॥
तत्र विशेषमाह—
तस्या द्वे अक्षरे सशयनी व्यतिषजति। मध्यमस्य
च पादस्योत्तममुत्तमस्य च प्रथमम्॥ ८॥
तस्या ऋचो द्वे अक्षरे सशयनी सह शयाते इति सशयनी व्यतिषजति
व्यतिषक्ते कुर्यात्। ते के अक्षरे इत्यत उक्तम् मध्यमस्य पादस्य इति। अथर्वाणो
अशिश्रियुः (सा. ६५२ᵇ) इत्यस्य पादस्य उत्तमम् अन्त्याक्षरम्। उत्तमस्य
देवं देवाय देवयुः (सा. ६५२ᶜ) इत्यस्य च प्रथमम् अक्षरम्। तथा च
२. [गायत्री] See CN.
५. RKSI. गीयमानत्वात् for गीतत्वात् ; M. adds प्राजापत्या after
गीतत्वात्; RJ. इत्येवं, M. इत्येतया, T कृत्येतत्, SI प्रत्येत्तत् for इत्येतत्.
६. MTKI om. देवाः.
७. Bh om. वर्षे.
८. J रेतस्यायाः for रेतस्यायां ; M. ०कर्तव्यतां गानं च. for ०कर्त
व्यताकं गानं.
१५. R. तस्यामृचि for तस्या ऋचः; Bh. om. ऋचो...शिश्रियुरित्यस्य;
R. om. सशयनी; MT शयनी for सशयनी; J om. सह शयाते इति सशयनी.
१६. RTJK. om. इति; M. उत्तमम् for उक्तम् ; SIK. om. पादस्य;
K. adds यया before अथर्वाणो०.
१७. M. पदस्य for पादस्य; M मध्यमस्य च for इत्यस्य; BhJ.
अन्त्यमक्षारम् for अन्त्या०.
द्राह्मायणो गानेन व्यतिषङ्गं दर्शितवान् । अथर्वाणो आश्रश्वदे३युर्वन्दे वायदा
(सा. ६५२bc) (२१.३.१९; ला. ७.१२.४) इति ॥ ८ ॥
एतत्प्रशंसति—
व्यतिषक्तौ प्राणापानौ प्रजा दधतः ॥ ९ ॥
स्पष्टोऽर्थः ॥ ९ ॥
गाने नियमं दर्शयति —
गायत्री छन्दसाग्नेयी देवतया । पृथिवीमेतया ध्यायन्
गायेत् ॥ १० ॥
छन्दसा गायत्री देवतया आग्नेयीति । अग्न्यधिष्ठानरूपां पृथिवीं च
ध्यायन् एतया गायेत् ॥ १० ॥
अथ स नः पवस्व शं गवे (सा. ६५३) इत्यस्यां तृतीयायां
गानं विधत्ते —
तृतीयां गायति ॥ ११ ॥
गायेदित्यर्थः ॥ ११ ॥
गानविशेषमाह —
तां बलवदिवोरसेव गायति ॥ १२ ॥
ताम् ऋचं बलवदिव प्रयत्नवदिव उरसा स्थानेनैव
गायेदित्यर्थः १२ ॥
विशेषान्तरमाह —
तस्या द्वे उत्तमार्धेऽक्षरे द्योतयति ॥ १३ ॥
तस्या ऋचः उत्तमार्धे द्वे अक्षरे द्योत॑यति । एतद् ब्राह्मणमनूद्य
द्राह्मायणो मतभेदेन व्याचकार । तस्या द्वे उत्तमार्धे अक्षरे द्योतयतीति
4. Bh. प्रत्यक्षा for प्रजा.
5. RJS. स्पष्टा० for स्पष्टोऽ०.
17. MTK प्रबल० for बल० ; MBhK. उरसः for उरसा; J उरः-
स्थानेनेव for उरसा स्थानेनैव.....
18. Bh J. उद्गायेद् for गायेद् .
21. SI om. तस्या ऋचः...द्योतयति Bh उत्तमार्धेति सार्धे चे द्वे, M
उत्तरार्धेति सार्द्धे द्वे द्वे for उत्तमार्धे द्वे ; MTSIK. तद् for एतद् ; M अनुगानाद्,
SI. अनु K Bh अनुगं for अनूद्य.
६४ षड्विंशब्राह्मणम्
ब्राह्मणं भवति ये ऊर्ध्वं हिंकारात्ते निर्ब्रूयादिति गौतमः षाधा इति
धानंजय्यः (२१.३.२१.२३ ; ला ७.१२.६९) इति । शं राजन्
(सा. ६५३ᶜ) इत्यर्धे हिंकारादूर्ध्वं यदक्षरद्वयं तन्निरुक्तं गेयमिति गौतमस्य
मतम् । हिंकारात् पूर्वं षाधा इत्यक्षरद्वयं निरुक्तं गेयमिति
धानंजय्यमतमिति ॥ १३ ॥
तत्प्रशंसति—
चक्षुरेव तद्युनक्ति तस्माद्युक्तं चक्षुः ॥ १४ ॥
तत् तेन अक्षरद्वयद्योतनेन चक्षुरेव प्राणत्वेन युनक्ति । तस्मात्
तत एव चक्षुः युक्तं संबद्धमेव भवति ॥ १४ ॥
अत्रापि गाने नियममाह—
त्रिष्टुप् छन्दसैन्द्रीदेवतयान्तरिक्षमेतया ध्यायन्
गायेत् । १५ ॥
पूर्ववद्व्याख्येयम् ॥ १५ ॥
अथ दविद्युतत्या रुचा (सा. ६५४) इत्यस्यां गानं विधत्ते—
चतुर्थीं गायति ॥ १६ ॥
अत्र गाने विशेषमाह—
तस्याश्चत्वारि चत्वार्यक्षराणि निक्रीडयन्निव गायत्या
द्वादशेभ्योऽक्षरेभ्यः ॥ १७ ॥
- Bh MTJ om. शं राजन्.
- M ० रूपं for द्वयं; J Bh. ०क्षरं निरुक्तं for ०क्षरद्वयं तन्निरुक्तं.
- TI. धानंजय्यस्य for धानंजय्य०.
- RSI. युक्तम् for ततः; M. युक्तसंबन्धः for युक्तं संबद्धम ... ;
RSI. संबन्धम् for संबद्धम्. - KT. गान० for गाने; J. om. गाने.
- Bh MT निक्रीडन् for निक्रीडयन्.
द्वितीयोऽध्यायः (१) ६५
द्वादशाक्षरपर्यन्तं तस्या ऋचः चत्वारि चत्वार्यक्षराणि निक्रीडयन्निव
नितरां क्रीडयन्निव विरम्य गायेदित्यर्थः ॥ १७ ॥
ततः स्तौति—
द्वादशाक्षरपदा जगती । पशवो वै जगती । पशुष्वेव
प्रतितिष्ठति ॥ १८ ॥
जगती द्वादशाक्षरपदा । स्पष्टमन्यत् ॥ १८ ॥
तत्र एव विशेषान्तरमाह—
तस्याश्चत्वार्युत्तमार्धेऽक्षराणि द्योतयति ॥ १९ ॥
तदेतदनूद्य मतभेदेन व्याचष्टे सूत्रकारः—तस्याश्चत्वार्युत्तमार्धेऽ-
क्षराणि द्योतयतीति ब्राह्मणं भवति । द्वे पुरस्ताद्धिंकारात् तथोपरिष्टादिति
गौतम इति । सोमः शुक्रा इति धानंजय्यः (द्रा. २१.३.२४, २६; ला.
७.१२.१०-१२) इति । स्पष्टोऽर्थः ॥ १९ ॥
तत्प्रशंसति—
श्रोत्रमेव तद्युनक्ति । तस्माद्युक्तं श्रोत्रम् । श्रोत्रे द्वे
प्रतिश्रवणे द्वे । तस्मात् पुरुषः सर्वा दिशः शृणोति । अपि
पराङ् यन् प्रत्यङ् शृणोति ॥ २० ॥
तत् तेनाक्षरचतुष्टयद्योतनेन श्रोत्रमेव प्राणत्वेन युनक्ति । तस्मात्
तत एव श्रोत्रं युक्तं चतुष्ट्वसंख्यया । कथम् ? द्वे श्रोत्रे उपाधिभेदेन तथा
- J. om. चत्वारि चत्वार्यक्षराणि; Bh MT. निक्रीडन् for निक्रीडयन्.
- MTI निरन्तरं for नितरां; Bh om. नितरां क्रीडयन्निव; S. om. नितरां...गायेदित्यर्थः ।
RI after गायेदित्यर्थः add:—तदाह सूत्रकारः—तस्याश्चत्वारि चत्वार्य-क्षराणि निक्रीडयन्निव गायत्या द्वादशभ्योऽपरेभ्य इति ब्राह्मणं भवति परिष्टो भान्ताया (I. भ्रां आ उन्तायां) कृपा (I. ०पा अ) इति. - M. पदाक्षरा for अक्षरपदा.
- M तदत्र for तत्र.
- R J om. इति after गौतमः.
- RTJ. स्पष्टा० for स्पष्टो०.
- Bh adds तद् after तेन.
- RSI युक्तम् for ततः; Bh I श्रोत्रत्व for श्रोत्रं; RSI चतुर्षु चतुः-संख्यादिकं for चतुष्ट्वसंख्यया । कथम्?.
५० ऽ
[Header] ६६ षड्विंशब्राह्मणम्
प्रतिश्रवणे प्रतिध्वनी इत्येवम् । यत एवं तस्मात् पुरुषः सर्वा दिशः शृणोति ।
सर्वासु दिक्षु वर्तमानान् शब्दान् शृणोतीत्यर्थः । तस्य विवरणम् — पराङपि
यन् गच्छन् प्रत्यङ्ङपि सर्वतः शृणोति ॥ २० ॥
गाने नियममाह—
जगती छन्दसा । सौरी देवतया । दिवमेतया ध्यायन्
गायेत् ॥ २१ ॥
पूर्ववद्व्याख्येयम् ॥ २१ ॥
अथ हिन्वानो हेतुभिर्हितः (सा. ६५५) इत्यस्यां गानं विधत्ते—
पञ्चमीं गायति ॥ २२ ॥
तत्र विशेषमाह—
तां निनर्द्दन्निव गायति ॥ २३ ॥
तां चतुर्धा व्यावृत्य गायेदिति वचनाच्चतुःखण्डां पञ्चमीं कुर्यात् ।
हिंकारादूर्ध्वमेकः । त्रयः पूर्वे खण्डाः । तत्र पूर्वेषु त्रिष्वपि खण्डेषु अन्त्य-
मक्षरं निनर्देदित्यर्थः ॥ २३ ॥
तत्प्रशंसति—
आह बहुतमात्पुरुषादन्नमत्ति । अन्नादो भवति । य
एवं वेद ॥ २४ ॥
- RJ तस्यैव for तस्य; M पराञ्चि प्रत्यञ्चि विषूगपि, J परागपि यन्
गच्छन् प्रत्यङ्शब्दानपि for पराङपि...सर्वतः. - Bh J om. पूर्ववद्व्याख्येयम् .
- J om. तत्र विशेषमाह...वचनात् (L. 12).
- Bh M. चतुर्षु for चतुः; J नानाचतुरखनर्दा for चतुःखण्डा ;
Bh JT पञ्चमी for पञ्चमीं; Bh J. कार्या for कुर्यात् · T om. कुर्यात्. - M. एकं for एकः, M. om. पूर्वे खण्डा ;
M. om. तत्र and अपि; M. अपरखण्डेषु, J अत्रनर्देषु for खण्डेषु; R. om. खण्डेषु - Bh. किं च य एवं वेद सोऽप्यन्नादो भवति य एवं वेदेत्याह for तत्प्रशंसति.
द्वितीयोऽध्यायः (१) ६७
आह य एवं निनर्दन् गायति स बहुतमात् पुरुषात् बहुसंततिपर्यन्त-
मन्नमत्तीत्यर्थः । किं च, य एवं वेद सोऽपि अन्नादो भवति ॥ २४ ॥
तत्रैव विशेषान्तरमाह—
निरुक्तं चानिरुक्तं गायति ॥ २५ ॥
तामृचमंशभेदेन निरुक्तामनिरुक्तां च गायेत् । अयमर्थः । अस्य
चत्वारो गीतिखण्डाः । तान् क्रमेण निरुक्तमनिरुक्तमित्येवं व्यत्यासं गायेदिति ।
तथा च द्राह्यायणः—तस्याः द्वितीयं पादं निर्ब्रूयात् । तृतीये चाक्षरे
पञ्चमषष्ठे (ला. श्रौ. सू. ७. १३. ३.) इति । अस्यार्थः--अस्याः द्वितीयं
पादं निरुक्तं गायेत् । तृतीये पादे प्रथमं चतुरक्षरमनिरुक्तं पुनः पञ्चमषष्ठे
निरुक्ते गायेत् । हिंकारादूर्ध्वं पुनरप्यनिरुक्तमित्येवं व्यत्यासं गायेदिति ॥ २५ ॥
तत्प्रशंसति—
निरुक्तेन वै वाचो भुञ्जतेऽनिरुक्तमस्या उपजीवन्ति ।
भुङ्क्ते वाचमुपैनां जीवति । य एवं वेद ॥ २६ ॥
अस्या ऋचो निरुक्तेनैव वाचो वाक्फलं भुञ्जते । किं च, अस्या
अनिरुक्तं तत्कार्यम् उपजीवन्ति । यश्चैवं वेद सोऽपि वाचं भुङ्क्ते ।
एनामुपजीवति च ॥ २६ ॥
- M. एवं निनर्दे for एवं निनर्दन्; RSI. add बहु before पुरुषात् .
- RK निरुक्तं...रुक्तं for निरुक्तां...रुक्तां.
- J om. अंशभेदेन ; RI. अथ, Bh J तस्य for अस्य.
- Bh गाति०, T गार्थी०, SI उद्गीथे for गीति०; J गीतेरवनर्दाः ।
तान्निनर्दयन् for गीतिखण्डाः । तान् ; R om. इति; Bh J om. एवं. - TSI पदं for पादं.
- Bh. om. निरुक्ते; Bh om. इत्येवं व्यत्यासं गायेद् ; MTI om. गायेद् .
- Bh. om. जीवति.
- RI om. वाक्फलं; J अस्याम् ऋचि निरुक्तत्वेनैव अत्रत्योक्तं
निरुक्तनैरुक्तनैर्वाक्यालग्रवनं, Bh. अस्यान्वयो निरुक्त्या(!)—क्त्यनैव for अस्या...
वाक्फलं ; S. वाचो भुञ्जते वाक्फलं भुञ्जते for वाचो...भुञ्जते ; R Bh J KT
अस्यानिरुक्तं for अस्या अनिरुक्तं.
15; J. तत्कार्येषु for तत्कार्यम् . - Bh MT add यः before एनाम् .
अत्र नियममाह—
अनुष्टुप् छन्दसा । प्राजापत्या देवतया । सर्वमेतया
ध्यायन् गायेत् । सर्वं हीदं प्राजापत्यम् ॥ २७ ॥
एषा छन्दसा अनुष्टुप् । खण्डचतुष्टुं पादचतुष्टुमिति चतुष्टुमाम्नात् ।
देवतया प्राजापत्या । सर्वम् एव ध्यायन् एतया गायेत् । हि यस्मात् इदं सर्वं
जगत् प्राजापत्यं प्रजापतिसंबन्धीति ॥ २७ ॥
अथ ऋधक् सोम स्वस्तये (सा. ६५६) इत्यस्यां गानं विधत्ते—
षष्ठीं गायति ॥ २८ ॥
अत्र विशेषं दर्शयति—
तस्या द्वे द्वे अक्षरे उदासं गायत्या षड्भ्योऽ-
क्षरेभ्यः ॥ २९ ॥
तस्या ऋचो द्वे द्वे अक्षरे आ षड्भ्योऽक्षरेभ्यः षडक्षरपर्यन्तम् उदासं
गायेत् । तदेव मतभेदेन दर्शितवान् सूत्रकारः—संजाग्मानोदाइवाका३ा
इति धानंजय्यः इति । कावा इति शाण्डिल्यः इति (२१. ४. ७; ला. ७.
१२.५.६) ॥ २९ ॥
तदक्षरसंख्यां प्रशंसति—
षडृतव ऋतुष्वेव प्रतितिष्ठति ॥ ३० ॥
षट्सु एव वसन्तादिषु ऋतुषु सर्वं प्रतितिष्ठति । ऋतूरूपेण विभिन्नस्य
कालस्य सर्वोत्पत्तिनिमित्तकारणत्वात् ॥ ३० ॥
4. TRSI. एषां छन्दसाम् for एषा छन्दसा; Bh J छन्दः for खण्ड;
RSI ॰चतुष्टयं M. ॰चतुष्कं for ॰चतुष्टुं; J adds भूतभविष्यद्वर्तमानतया after
॰खण्डचतुष्टुं ; RSI चतुष्टय॰, M चतुष्क॰ for चतुष्टु॰; K च त्रिषुष्टुप्
[...] प्राजापत्या for चतुष्टु. . .प्राजापत्या.
5. T एवं, JI एतया for एव; RJ om. एतया.
13. TJ ॰दायि॰ for ॰दाइ॰; MK. कवा for कावा.
14. TJSI. कवा for कावा.
16. Bh J गायति for प्रशंसति and J adds तत् प्रशंसति thereafter.
18. RSI विभिन्न for विभिन्नस्य; M. विभिन्नाकारस्य for विभिन्न-
कालस्य.
द्वितीयाऽध्यायः (१) ५९
अत्रापि नियममाह—
पङ्क्तिश्छन्दसा । सौमी देवतया । दिश एतया
ध्यायन् गायेत् ॥ ३१ ॥
पूर्ववद्व्याख्येयम् ॥ ३१ ॥
एवं सर्वासृक्षु गानं विधाय क्वचित्तदनूद्य फलदर्शनेन स्तौति— ५
इहेव च वा एष इहेव च मनसा गच्छति । यो
गायत्रे प्रातःसवने त्रिष्टुभं गायति जगतीं गायत्यनुष्टुभं
गायति पङ्क्तिं गायति । आस्ते ॥ ३२ ॥
यो गायत्रे गायत्रीछन्दोयुक्ते प्रातःसवने त्रिष्टुभं तृतीयामृचं गायति
जगतीं चतुर्थीं गायति अनुष्टुभं पञ्चमीं गायति षष्ठीं पङ्क्तिं गायति । एष १०
सोऽयं इहैव इहैव । चकारात् परत्रापि । द्विरुक्तिरादरार्था । मनसा गच्छति
संकल्पेनैव चाभीष्टानि प्राप्नोतीत्यर्थः । अन्ते (आस्ते ?) प्रतितिष्ठति
चेत्यर्थः ॥ ३२ ॥
गायत्रे द्वे इति दर्शयति—
गायत्रे द्वे गायति ॥ ३३ ॥ १५
तत्फलं दर्शयति—
प्राणमेव तदभ्येति । प्राणो हि गायत्रम् । पन्थानमेव
तदभ्येति । पन्था हि गायत्रम् ॥ ३४ ॥ १८
6. MS इहैव for इहेव.
8. J takes आस्ते to the next Sutra.
11. RSI. साम, K. सोमम् for सोऽयम्; KSI. आदरात् for आदरार्था.
12. Bh J. om. अन्ते प्रतितिष्ठति चेत्यर्थः ।
14. RI गायत्र्यो निदर्शयति J Bh. गायत्रे (Bh गायत्र्ये) गानं
दर्शयति, T. गायत्र्योर्गानं दर्शयति for गायत्रे द्वे ...
15. J. adds आस्ते before गायत्रे; BhMSI. गायत्रं for गायत्रे.
7
।
Wait, let's look at "रथन्तरवद्प्रकारैरभिष्टोभेद्": yes, no space.
तत्प्रशंसति—
इयं वै रथन्तरमस्यामेव प्रतितिष्ठति ॥ ३६ ॥
इयमेव ऋक् रथन्तरम् । तद्धर्मकत्वात् । किं च, अस्यामेव ऋचि
सामनि च प्रतितिष्ठतीति । यद्वा, अस्यां गीयमानायाम् एव यजमानः
प्रतितिष्ठति यज्ञफलं लभत इति ॥ ३६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
द्वितीयाध्याये प्रथमः खण्डः
Footnotes separator line:
- M. तत्त्वेन च यो for तत् तेन च द्वयोर् ; M. om. हि यस्मात्...
गायत्रम् ; J. om. प्राणो...हि यस्मात् . - R. गायत्रम् for गायत्रीति; R adds गायत्रं after पन्थानं.
- Bh J add अपि after ०माने.
- RSI गायेत् for गायति.
[L2
द्वितीयः खण्डः
अथैतास्वृक्षु विधास्यमाने धूर्गाने बहिष्पवमाने तासामानुलोम्यं विधत्ते—
ता वा एता देवलोकाय युज्यन्ते यत्पराच्यः ॥ १ ॥
ता एवैता ऋचो देवलोकाय युज्यन्ते समर्था भवन्ति । यत् येन
पराच्यः आनुलोम्येन गीयन्ते इत्यर्थः ॥ १ ॥
अथ आज्यस्तोत्रेषु तासां प्रातिलोम्यं विधत्ते—
प्रतीच्यो मनुष्यलोकाय ॥ २ ॥
येन प्रतीच्यः प्रत्यङ्मुखाः प्रातिलोम्ययुक्ता भवन्ति तेन मनुष्य-
लोकाय युज्यन्ते । देवलोकापेक्षया मनुष्यलोकस्य प्रत्यग्भूतत्वात् ॥ २ ॥
प्रशंसापूर्वकं धूर्गानं विधत्ते—
एष वाव जात एषोऽवलुप्तजरायुरेष आर्त्विजीनो यस्य
धुरो गीयन्ते यश्चैवं विद्वान् धुरो गायति । जातमेवैनमन्नाद्याय
परिवृणक्ति । उभावन्नमत्त उद्गाता च यजमानश्च ॥ ३ ॥
यस्य बहिष्पवमानस्य संबन्धिनो धुरो येन गीयन्ते । गायत्रगीतेरेव
केवलविकाराः धुरः तद्योगादृचोऽपि धुर इत्युच्यन्ते । एष वाव अयमेव
जातः जन्मफलवान् एषोऽवलुप्तजरायुः । जरायुर्गर्भवेष्टनं तद्रहितः । अज्ञान-
रहित इत्यर्थः । अत एष एव आर्त्विजीन ऋत्विकर्मार्हः । किं च । एवं
विद्वान् जानन् धुरो गायति तं जातम् एवमन्नाद्याय परिवृणक्त्येव ।
तद्धानमन्नभक्षणाय समर्थं करोतीत्यर्थः । किं च उद्गाता यजमानश्चेत्यु-
भावप्यन्नमत्तः ॥ ३ ॥
2. SRI. ०मान, M. ०मानं for माने; M. ०ष्पवमानेन सामानु० for
०ष्पवमाने तासामानु०; RSI. ०लोमं for ०लोम्यं.
4. Bh I. om. ता एवैता...युज्यन्ते ; SIRM ययेना:, Bh T यद्येनं
पराच्यम for यत् येन पराच्यः.
5. R Bh SI. गीयते for गीयन्ते.
षड्विंशब्राह्मणम्
तत्र प्रथमाया गाने विशेषमाह—
या प्रथमा तामन्नाद्यं ध्यायन् गायेत् ॥ ४ ॥
तत्र या प्रथमा ऋक्तामन्नाद्यं भूयादिति ध्यायन् गायेत् ॥ ४ ॥
तत्प्रशंसति--
रेतस एव तत्सिक्तायान्नाद्यं प्रतिदधाति ॥ ५ ॥
तत् तेन ध्यानपूर्वकेण गानेन रेतसस्सिक्ताय सेकायैव प्रजोत्पत्त्यर्थमे-
वेत्यर्थः । अन्नाद्यं प्रतिदधाति धारयतीत्यर्थः ॥ ५ ॥
तत्र हिंकारं प्रतिषेधति—
न हिंकुर्यात् ॥ ६ ॥
हिंकारनिन्दया तद्वर्जनं प्रशंसति—
यद्धिंकुर्याद्वज्रेण हिंकारेण रेतस्सिक्तं विच्छिन्दद्यात् ॥ ७ ॥
व्याख्यातमेतत् ॥ ७ ॥
तस्याः छन्दःप्राणौ दर्शयति--
रेतस्या छन्दो युज्यते । मनो धीयते ॥ ८ ॥
छन्दो रेतस्या प्रथमा गायत्री युज्यते । मनश्च प्रजापतिना प्राणत्वेन
धीयते ॥ ८ ॥
अस्य द्वितीयायामृचि गाने विशेषमाह—
या द्वितीया तां गायत्रीमागां गायंस्तस्या द्वे अक्षरे
सशयनी व्यतिषजति । मध्यमस्य च पदस्योत्तममुत्तमस्य च
- J. रेतसे for रेतसः; R J add रेतः before सेकाय; MBh ॰पत्तिम् ,
J ॰पत्तये for ॰पत्त्यर्थम् . - Bh तस्यां for तस्याः; J छन्दोरेतस्यां for छन्दःप्राणौ.
- Bh रेतस्यां for रेतस्या.
- MT. रेतस्याः, K. रेतस्यां for रेतस्या.
- RSI. निधीयते for धीयते.
- KRSI अद्य. J अथ for अस्य.