सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 61, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 61

द्वितीयोऽध्यायः (१) [पृ. ६१]

साम्ना प्रच्छन्नां गायति गायेदित्यर्थः । यस्मोदवं तस्मात् लोके पुरुषो
मांसेन त्वचा लोम्ना च प्रच्छन्नः सन् जायत इति ॥ १ ॥
रेतस्यायां त्रिरुद्ग्रहणं विधत्ते—
त्रिरुद्गृह्णाति ॥ २ ॥
पवमानायेन्दवे (सा. ६५१) इत्यत्र पकारवंकारमकारेषु त्रिष्वक्षरेषु
प्रत्येकं प्लुतं कुर्यादित्यर्थः । तथा च द्राह्यायणः—रेतस्यायास्त्रिरुद्गृह्णातीति
ब्राह्मणं भवति । पावामानायेन्दावा (21.3.15; ला. 7.12.3) इति ॥ २ ॥
तत्प्रशंसति—
त्रय इमे लोका एषां लोकानामवरुद्ध्यै त्रिभ्यश्च
रेतः सिच्यते ॥ ३ ॥
इमे प्रसिद्धाः पृथिव्यन्तरिक्षद्युलोकाः त्रयः एषां लोकानामवरुद्ध्यै
प्राप्त्यर्थं त्रिरुद्गृह्णीयात् । अत एव च त्रिभ्यो रेतः सिच्यते ॥ ३ ॥
तत्र च हिंकारं निषेधति—
न हिंकुर्यात् ॥ ४ ॥
हिंकारनिन्दया तद्वर्जनं प्रशंसति—
वज्रो वै हिंकारो बलमिव रेतो यद्धिंकुर्याद्वज्रेण
हिंकारेण रेतः सिक्तं विच्छिन्द्यात् ॥ ५ ॥
निगदसिद्धमेतत् ॥ ५ ॥


  1. Bh. प्रतिच्छन्नां for प्रच्छन्नां.
  2. M. om. च प्रच्छन्नः सन्.
  3. R. रेतस्यायाः for रेतस्यायां; M. om. उद्ग्रहणं विधत्ते.
  4. M. om. पवमानायेन्दवे.
  5. Bh सवाष्टमासनायेन्दवे, T वास्वासमासनायेन्दवे, S पप्रेवाप्रेमाप्रेयेन्दवे,
    I पाअ उवा अउमा अउवा for पावामानायेन्दावा.
  6. M. ०रिक्षं दिवः for ०रिक्षद्यु.
  7. RKS. प्राप्त्यै for प्राप्त्यर्थं.
  8. R. om. च; Bh J तत्रत्यं for तत्र च.
  9. K. वज्र्यों० for वज्रो०; Bh. एव for इव.