सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 59, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 59

प्रथमोऽध्यायः (७) ५९

योऽलमन्नाद्याय सन्नथान्नं नाद्याद्दक्षिणार्धं सदसो
गत्वैतं सौम्यातिशेषं प्राश्नीयात् । जनं वा एतस्मादन्नाद्यं
क्रामति । योऽलमन्नाद्याय सन्नथान्नं नात्ति जनोऽस्मात्पितरो
जन्येनैवान्नेनान्नमत्ति । अन्नादो भवति ॥ ३ ॥
यः पुमान् अन्नाद्याय अन्नादिभक्षणाय अलं समर्थः सन्नपि ।
अथशब्दोऽप्यर्थे । अन्नं नाद्यात् वागिन्द्रियात् (!) सदसो दक्षिणार्धं
दक्षिणदिगर्घभागं गत्वा एतं सौम्यातिशेषं हुतशिष्टं सौम्यं चरुं प्राश्नीयाद्
उद्गाता । तस्मादेव चरुभक्षणादन्नाद्यं जनं क्रामति प्राप्नोति । यो
जनोऽलमन्नाद्याय समर्थः सन्नपि अन्नं नात्ति । किं च, अस्मात् प्राशनात्
पितरोऽपि तृप्ता भवन्तीति शेषः । अतो जन्येन जनहितेन अन्नेन
भक्षणयोग्‍येन एव अनेन अन्नमत्ति । हितान्नादनसामर्थ्येनैव अन्नमत्तीत्यर्थः ।
न केवलम् इह लोके, किं तु परत्रापि अन्नादो भवतीति ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये सप्तमः खण्डः ॥ ७ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण
सायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणव्याख्याने
प्रथमोऽध्यायः समाप्तः ॥ १ ॥


  1. Bh वारिशूगीत्या, J. वालिशरीत्या, K. वारीन्द्रियात् for वागिन्द्रियात्
    see CN.
  2. J. द्विजादिगम्यत्वात्, Bh. दक्षिणदिगादिगम्यत्वा for दक्षिणदिगर्घ-
    भागम् ; Bh एव होमावशि... एतं सौम्यातिशेषं.
  3. RSI तमर्हादेव for तस्मादेव ; JBh. om. एव चरु० ; Bh. ०(अ)-
    भक्षणात् for ०भक्षणात् ; J adds तं after अन्नाद्यम .
  4. M. अन्नादी for अन्नाद्याय; R. समृद्धः for समर्थः, M.Bh SI.
    om. समर्थः.
  5. om. तत्क्षणात् सौम्येन, J भक्षणात् सौम्येन for भक्षणयोग्‍येन ; Bh.
    JM om. अनेन ; Bh. दानादन्न० for हितान्नादन०.