सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 47, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 47

तदधिष्ठितद्युलोके(कं ?) चेति । तृतीयं गगनं, त्रित्वसंख्यापूरकत्वात् । एवमन्यदपि
व्याख्येयम् ॥ १२ ॥
तत्र प्रायश्चित्तं विधत्ते—
तदभिमृशेद्दे॒वान् दि॒वं य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑ण-
मष्टु । अ॒न्तरि॑क्षं मनु॒ष्या॒न्य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । पृथि॒वीं
पि॒तॄन् य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । यत्र॑ क्व च
य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । इति । तद्वा आ॒त्मानं॑ च॒
यज॑मानं च॒ स्वेन॒ रसे॑न॒ समर्ध॑यति ॥ १३ ॥
देवान् इन्द्रादीन् दिवं च यज्ञोऽगात् अगमत् । ततः तत्सकाशात्
मा मां द्रविणम् अष्टु प्राप्नोतु । एवमन्यदपि व्याख्येयम् । देवानित्यारभ्य यत्र
क्व च यज्ञोऽगात्ततो मा द्रविणमष्ट्वित्यन्तेन मन्त्रेण तत् स्कन्नं हविर्बर्हिः
च पात्रादिकमभिमृशेत् । तद्वै तेनैव अभिमर्शनेन आत्मानं च यजमानं च
स्वेन रसेन यज्ञफलेन समर्द्धयति ॥ १३ ॥
यज्ञहविरुल्बणे वैष्णववारुण्यार्चा अपामुपनिनयनं प्रायश्चित्तत्वेन
विधातुं तदर्थवादत्वेनेदमाम्नायते—
वरुणो वा एतद्विष्णौ यज्ञमुपार्पयति ॥ १४ ॥
वरुणो वै अपां पतिः वरुण एव । एतत्,--लिङ्गव्यत्ययः,--
विष्णावुपार्पयति स्थापितवानिति ॥ १४ ॥

  1. ISK. तदधिष्ठितद्विलोके, R Bh MTIA तदधिष्ठितद्युके यदधिष्ठितं
    for तदधिष्ठितद्युलोकं See CN; MTSK त्रिक० for त्रित्व०.
  2. Bh MTJA om. इन्द्रादीन् Bh JA उदगमत्, M अक्रामत् for
    अगमत्; T Bh तत्काशाच्च मां, JA तत्कारणं मा मां, RSI तत्सकाशात् आत्मा
    for तत्सकाशात् मा मां.
  3. BhA add ततः and J तद् after द्रविणं.
  4. Bh JA om. तत्; M. एतत for तत्.
  5. R Bh JA om. first च; SIK om. एव.
  6. Bh JA ०हविषाम् for हविः; Bh JA om. उल्बणे; M.
    ०वारुण्याभ्याम्, for ०वारुण्यार्चा; Bh JA. नयनं for नि नयनम्.
  7. IS. om. एव; MT तल्लि० for एतल्लि०; Bh. adds दृष्ट्वा
    after यज्ञम्.