सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 52, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 52

५१ षड्विंशब्राह्मणम्

अध्वर्युर्यजुषा यजुर्वेदविहितं कर्म करोति तावदध्वर्युष्वेव यज्ञस्तिष्ठति ।
यावदुद्गाता साम्ना स्तोत्रादिकं पठति तावदुद्गातृष्वेव यज्ञस्तिष्ठति । यत्र
यस्मिन् काले उपरता होत्रादयः कर्मरहितास्तिष्ठन्ति तावद् ब्रह्मण्येव यज्ञ-
स्तिष्ठतीति ॥ ५ ॥
अस्त्वेवम्, ततः किम्? तत्राह—
तस्मात्तस्मिन्नन्तर्धौ ब्रह्मा वाचंयमो बुभूषेत् ॥ ६ ॥
यस्मादेवं तस्मात्तस्मिन्नन्तर्धौ होत्रादीनां व्यापाराभावकाले ब्रह्मा
वाचंयमो बुभूषेत् सावधानो भवेदेवेत्यर्थः ॥ ६ ॥
एवं वाग्यमनं विधाय तल्लोपे प्रायश्चित्तमाह—
स यदि प्रमत्तो व्याहरेदेता वा व्याहतीर्मनसानु-
द्रवेत् । भूर्भुवःस्वरिति ॥ ७ ॥
यदि ब्रह्मा प्रमत्तः अनवहितः सन् व्याहरेत् मौनं परित्यजेत् तर्हि
भूर्भुवःस्वरिति एता व्याहृतीः मनसा अनुद्रवेत् चिन्तयेत् ॥ ७ ॥
वाशब्दसूचितं प्रायश्चित्तान्तरमाह—
वैष्णवीं वर्चम् ‘इदं विष्णुर्विचक्रमे’ (सा. २२२) ॥ ८ ॥
यदि प्रमादाद् ब्रह्मा तदा व्याहरेत्तर्हि इदं विष्णुर्विचक्रमे (सा. 222)
इति वैष्णवीमृचं वा मनसा अनुद्रवेदित्यनुषङ्गः ॥ ८ ॥
अथ सर्वप्रायश्चित्ततया महाव्याहृतिभिः होमं विधातुम् उपक्रमते—

  1. J adds करोति after साम्ना.
  2. Bh MI. om. तावद्.
  3. R. किं तत इत्यत्राह for ततः किं ? तत्राह...
  4. SI. om. यस्मादेवं; Bh T. ०भावात् for ०भाव०.
  5. Bh एवेत्यवधारणो, M साधारणो० J एवेत्यवधारणं, T अवधारणे
    for सावधानो०.
  6. M. तस्य लोपे for तल्लोपे.
  7. M प्रमादेन सः for अनवहितः सन .
  8. MKSI. om. ब्रह्मा तदा.
  9. TJ ०व्याहृत्या होमं SK ०व्याहृति होमं for ०व्याहृतिभिः होमं,
    Bh JR add होमम् after विधातुम्.