षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
१६ षड्विंशब्राह्मणम्
तद्वा एतत्सुब्रह्मण्यामाहूय यजमानं वाचयति
रक्षसामपहत्यै ॥ ८ ॥
सुब्रह्मण्यामाहूय तत् तदा एतद् वक्ष्यमाणं यजुः यजमानं वाचयति
वाचयेत् । रक्षांसां सुब्रह्मण्यादेवताधिष्ठितेष्टकेषु संचरतामपहत्यै अपहननाय ।
यजमानवचनं स्तुत्यर्थम् ॥ ८ ॥
वाचनीयमन्त्रभागाननूद्यानूद्य व्याचष्टे—
सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पाद इत्याह ।
यान्येव पृथिव्यामसुररक्षांसि तान्येव तेनापहते । सासि
सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पाद इत्याह । यान्येवान्तरिक्षे-
ऽसुररक्षांसि तान्येव तेनापहते । सासि सुब्रह्मण्ये तस्यास्ते
द्यौः पाद इत्याह । यान्येव दिव्यसुररक्षांसि तान्येव
तेनापहते । सासि सुब्रह्मण्ये तस्यास्ते दिशः पाद इत्याह ।
यान्येव दिक्ष्वसुररक्षांसि तान्येव तेनापहते । परोरजास्ते
पञ्चमः पाद इत्याह । परं रजसो वै ब्रह्मणः स्थानम् । तदेतदाह
सा न इषमूर्जं धुक्ष्वेत्याह । इषमेवास्मा ऊर्जं दुग्धे । वीर्यमन्नाद्यं
धेहीत्याह । वीर्यमेवास्मा अन्नाद्यं दधाति ॥ ९ ॥
- RSIKM. तद्वैतदेव एतत् सर्वात्मकां सुब्रह्मण्याम् इन्द्रं सुब्रह्मण्य-
शब्दवाच्यम् आहूय सुब्रह्मण्य (M. om. hereafter) ऋत्विक् यजमानं वाचयति
सासीत्यादिवक्ष्यमाणान् मन्त्रान् । for सुब्रह्मण्यामाहूय...वाचयेत्; Bh A om.
तत्, J वा for तदा; J Bh A. om. यजुः. - KSI om. ॰देवताधिष्ठितेष्टकेषु संचरता०; RJA ॰धिष्ठितेषु for
॰धिष्ठितेष्टकेषु. - J Bh तत्सर्वम् for मन्त्रभागान् ; R. om. one अनूद्य; A om.
मन्त्रभागान्...व्याचष्टे. - M. om. सासि सुब्रह्मण्ये...वीर्यमन्नाद्यं धेहि. (ll. 8-16)
- BSIKM परां for परं.
प्रथमोऽध्यायः (२) १७
हे सुब्रह्मण्ये त्वं सा प्रसिद्धा सर्वदेवतात्मकेन्द्ररूपा असि भवसि ।
तस्यास्ते पृथिवी प्रथमः पाद इति यजुर्भागम् आह यजमानः पठेत् । तेन
मन्त्रपाठेन यान्येव असुररक्षांसि असुराश्च रक्षांसि च पृथिव्यां सन्ति तानि
सर्वाण्येवापहते विनाशयति । एवमन्यदपि व्याख्येयम् । तत्ते तव परोरजाः
रजसो लोकात् परः उत्कृष्टो ब्रह्मणो लोकः स परोरजाः । स एव पञ्चमः
पादः इति तदाह । रजसः परं ब्रह्मणः स्थानम् । तदेतत् स्थानं परोरजाः
इत्येतत् पदमाह । तथा सा प्रसिद्धा त्वं नः अस्मभ्यम् इषम् अन्नम् ऊर्जं
तद्रसं च धुक्ष्व प्रपूरय इति यदाह तेन सा देवता अस्मै यजमानाय
इषमूर्जं च दुग्धे । किं च वीर्यं बलम् अन्नाद्यम् अन्नादिकं धनं च धेहि
प्रयच्छेति यदाह तेन सा अस्मै यजमानाय वीर्यम् अन्नाद्यं च दधाति ॥ ९ ॥
निगदप्रशंसापूर्वकं सुब्रह्मण्याह्वानस्य कालं दर्शयति—
ब्रह्मश्रीर्वै नामैतत् साम यत्सुब्रह्मण्या तस्मात् प्रात-
रनुवाक उपाकृते विसंस्थिते च यज्ञे सुब्रह्मण्यः सुब्रह्मण्या-
माह्वयति ॥ १० ॥
अयं सुब्रह्मण्यानिगदो ब्रह्मश्रीर्वै ब्रह्मणा वेदेन श्रीयते । ब्रह्म वेदं
श्रयतीति वा ब्रह्मश्रीरेव । किंच । सुब्रह्मण्येति यत् [एतत्]त्साम नाम । नाम
प्रसिद्धं साम । सामगैः क्रियमाणत्वात् । यस्मादेवं तस्मात् प्रातरनुवाके
उपाकृते प्रारब्धे विसंस्थिते असमाप्ते च यज्ञे प्रत्यहमहर्गणेषु सुब्रह्मण्यः
सुब्रह्मण्यामाह्वयति ॥ १० ॥
प्रशंसापूर्वकं सुब्रह्मण्याय अनडुद्युक्तस्य अनसो दानं विधत्ते—
2. Bh JA नाम TM. भागः for भागम्.
3. B. मन्त्रेण for मन्त्रपाठेन; M. om. असुररक्षांसि.
4. BR सर्वाण्येवास्यैव०, M सर्वाण्येव तना०, SI सर्वाण्येवाह्यैवा०
for सर्वाण्येवा०; Bh JA व्याख्यायते for व्याख्येयम्.
5. Bh. ब्राह्मलोकः for ब्रह्मणो लोकः.
6. R om. तदेतत् स्थानं.
7. Bh JA परम् for पदम् ; BI. तदा for तथा.
9. Bh JA add च after बलं ; RSI add गाः after धनं.
20. I om. सुब्रह्मण्याय; BIS अनडुहस्तद्युक्तस्य M. अनडुहं तस्य for
अनडुद्युक्तस्य.
प० 2
१८ षड्विंशब्राह्मणम्
एष वै ब्रह्म सुब्रह्म चाप्नोति य एतदनो युक्तं
सुब्रह्मण्याय ददाति ॥ ११ ॥
एष वै अयमेव यजमानः ब्रह्म अग्निं सुब्रह्म इन्द्रं च आप्नोति । यो
युक्तम् अनडुद्द्वयम् एतदनः सुब्रह्मण्याय ददाति ॥ ११ ॥
यथोक्तलक्षणायाः सुब्रह्मण्याया वेदितारं स्तौति—
ब्रह्मणा चैवास्य श्रिया च यज्ञं समर्द्धयति य एवं वेद ॥ १२ ॥
यः सुब्रह्मण्य एवं यथोक्तप्रकारेण वेद जानाति सोऽस्य यजमानस्य
यज्ञं ब्रह्मणा ऋग्यजुःसामात्मकेन वेदेनैव च श्रिया अन्नपशुपुत्रादीनां
समृद्ध्या च समर्द्धयति समृद्धं करोति ॥ १२ ॥
पुनरपि सुब्रह्मण्यां प्रशंसति—
अथो खल्वाहुर्यच्चावगतं यच्चानवगतं सर्वस्यैषैव प्रायश्चित्तिरिति
तस्मादेवंविदं सुब्रह्मण्यं कुर्वीत नानेवंविदम् ॥ १३ ॥
अथो इत्यवान्तरवाक्योपक्रमार्थम् । आहुः खलु प्रायश्चित्तविदः । यद् -
यज्ञे यच्च यदपि अवगतम् अन्यथा ज्ञातम् । यच्च अनवगतम् अपरिज्ञातम् ।
तस्य सर्वस्यैषैव प्रायश्चित्तिः । विदुषा सुब्रह्मण्येन कृतं सुब्रह्मण्याह्वानमेव
प्रायश्चित्तम् । तस्मादेवंविदं यथोक्तप्रकारेण ज्ञातारं ब्राह्मणं सुब्रह्मण्यं कुर्वीत
यजमानः । अनेवंविदं न कुर्वीत इति ॥ १३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
3. Bh JA. om. अयमेव.
4. BIS. अनो० for यो०, M. च एतदनो युक्तम् for यो युक्तम्.
10. Bh MT सुब्रह्मण्यं for सुब्रह्मण्यां.
12. Bh. ०विधं for ०विदं.
13. RTIJSA ०क्रमार्थः for ०क्रमार्थम् ; JA om. यद्यज्ञे.
14. R. यद्यपि for यदपि; JA. परिज्ञातं for अन्यथा ज्ञातं; R adds
परिज्ञातं after अन्यथा ज्ञातं; Bh om. अपरिज्ञातं; KM. परिज्ञातं for अपरिज्ञातं.
16. ( Bh T ०विधं for ०विदं; Bh. om. सुब्रह्मण्यं.
17. R. अन्यथा एवं, Bh AT. अन्यथैवंविदं for अनेवंविदं; SK add
अन्यम् before अनेवं.
तृतीयः खण्डः
अथ सर्वयज्ञाव्याप्तानि विज्ञातव्यानि दर्शयितुं प्रथमं प्रातःसवने
विज्ञेयं दर्शयति—
एकच्छन्दः प्रातःसवनं तस्मादेकपात् पुरुषो हरत्यन्यं
प्रत्यन्येन तिष्ठति ॥ १ ॥
प्रातःसवनमेकच्छन्दः एकं गायत्रमेव छन्दो यस्य तत् तथोक्तम् ।
बहिष्पवमानीयानाम् आज्यस्तोत्रीयाणां च ऋचां सर्वांसामपि गायत्रच्छन्दस्कत्वात् ।
तस्मात् तत एव पुरुष एकपाद् भवति । कथमेकपात् पुरुषः ? द्विपाद्धि
सर्वत्र दृश्यते । श्रूयते च द्विपाद्वै पुरुषः (ऐ. ब्रा. ५. २३. २) इति ।
अत[एवम]उक्तम् यद्यपि द्विपात् पुरुषः तथापि पथि गच्छन् अन्यमेकं
पादमन्यत्र पुरोदेशे हरति क्षिपति अन्येनैकेन पादेन भूमौ प्रतितिष्ठति । अत
एकपात् पुरुष इति ॥ १ ॥
अथ माध्यंदिने सवने विज्ञेयं दर्शयति—
त्रिच्छन्दा माध्यंदिनः पवमानस्तस्मात् त्रयोऽधःप्राणाः॥ २ ॥
माध्यंदिनो मध्यंदिनसवनसंबन्धी पवमानः त्रिच्छन्दाः त्रीणि
गायत्रीबृहतीत्रिष्टुबाख्यानि छन्दांसि यस्य सः तथोक्तः । तस्मात् तत एव
2. BK Bh ०यज्ञस्याप्तानि, RJA ०यज्ञस्य for ०यज्ञाव्याप्तानि;
RJA. विज्ञेयानि for विज्ञातव्यानि.
4. M. एकं for एक०.
6. M. om. एकं; M. एकं for एव.
7. BMAK बहिष्पवमानिनाम्, बहिष्पवमानम् for बीहष्पवमानी-
यानाम; Bh A add भवति after सर्वासां; MIS ०च्छन्दस्त्वात्, K. ०छन्दत्वात्
for ०छन्दस्कत्वात् .
10. RB Bh JA add इति after अतः; JA अयुक्तम् for उक्तम्;
RSI. अन्यम् for अग्रम् .
11. Bh (ऐ) कैकेन पादेन for (ए) केन पादेन.
15. Bh MJA माध्यं० for मध्यं०.
16. Bh JA om. तस्मात्...अधः.
पुरुषस्य अधः अवाञ्चः प्राणास्त्रयः । एको मूत्रविसर्जनस्य हेतुः । अपरः
पुरीषविसर्जनस्य । अन्यो रेतोविसर्जनस्य इति । त्रयोऽवाञ्चो रेतस्यो
मूत्र्यः पुरीष्य (ऐ. ब्रा. १. ४. ३.) इति श्रुतेः ॥ २ ॥
तत्रैव विज्ञेयान्तरमाह--
द्वे गायत्र्यां सामनी । तस्माद् द्वयमधरेण प्राणेन
करोति ॥ ३ ॥
माध्यंदिने पवमाने गायत्र्यां गायत्रीछन्दस्कायाम् ऋचि द्वे सामनी
गायत्र्यामहीयवनामधेये क्रियेते । तस्मात् तत एव द्वयं मूत्रविसर्जनं
पुरीषविसर्जनं चेत्येतद् द्वयम् अधरेण अधोवर्तिना प्राणेन करोति पुमान् ।
यद्यपि रेतोविसर्जनं तृतीयमपि कर्म अधरेण प्राणेन करोति तथापि
रेतोमूत्रयोरेकीकरणेन द्वयमधरेण करोतीत्युच्यते ॥ ३ ॥
तत्रैव विज्ञेयान्तरमाह—
द्वे बृहत्यां सामनी । तस्माद् द्वयमुत्तरेण ॥ ४ ॥
बृहत्यां बृहतीछन्दस्कायामृचि द्वे सामनी रौरवयौधाजयनामधेये
क्रियेते । तस्मात् तत एव द्वयं प्राणनमपाननं चेत्येतद् द्वयम् उत्तरेणो-
र्ध्ववर्तिना प्राणेन करोति पुमान् ॥ ४ ॥
- T. अथ अर्वाञ्चः for अधः अवाञ्चः; T. adds एव after त्रयः
- Bh JA (अ)र्वाञ्चो० for (अ)वाञ्चो०; Bh JA रेतसः मूत्रपुरीषः
for रेतस्यो... - M. मूत्रीयः for मूत्र्यः.
- Bh JA विज्ञाना० for विज्ञेया०.
- M. adds करोतीत्युच्यते । after अधरेण.
- R Bh J नामनी for ०नामधेये; AM प्राणनमपाननं, Bh.
प्रीणनमवयाननं for मूत्रविसर्जनं पुरीषविसर्जनं. - Bh A चेत्येव च द्वयमुत्तरेणोध्र्ववर्तिना प्राणं for चेत्येतद् ०...
करोति; S आसन०, BI आसवन० for अधो०; Bh om. पुमान्. - BI विसर्जनीयं for विसर्जनं M. om. तथापि.
- M. एकं सामौशनाख्यं क्रियते for द्वे सामनी...क्रियते.
- M. om. तत एव द्वयं...तत एव (p. 21 L. 4) T. प्रीणनम् for
प्राणनम्.
प्रथमोऽध्यायः (३)
विज्ञेयान्तरमाह—
एकं त्रिष्टुभि साम । तस्मादेकैव नाभिः ॥ ५ ॥
तत्रैव त्रिष्टुभि त्रिष्टुप्छन्दस्कायाम् ऋचि एकं सामौशनाख्यं क्रियते ।
तस्मात् तत एव एकैव नाभिः । नाभिरिव मध्यवर्ती प्राणः । नव वै पुरुषे
प्राणाः । नाभिर्दशमी (तै. ब्रा. १. ३. ७. ४) इति श्रुतेः । स तु एक एव । 5
इतरप्राणवत्तस्य वृत्तिभेदाभावात् ॥ ५ ॥
नाभेः किं कर्मेत्यत्राह—
प्राणानामिव तु विधृतिः ॥ ६ ॥
नाभिस्तु प्राणानामूर्ध्वाधोभागवर्तिनामुभयेषामपि विधृतिर्विधारिका ।
यथा इतरप्राणानां प्राणधारणादन्यत् कर्मास्ति तद्वदस्य कर्मान्तरं नास्ति । 10
किंतु प्राणधारणमेकमेव कर्मेत्यभिप्रायः ॥ ६ ॥
एवं पुरुषविधस्य यज्ञस्य प्रातःसवनं पादस्थानीयम् । प्राणस्थानीयो
माध्यंदिनः पवमानः एत्र इत्यभिहितम् । अथेदानों तत ऊर्ध्वं क्रियमाणानि
चत्वारि स्तोत्रीयाणि किमात्मकानीत्यत्राह—
अथ यदेव तत ऊर्ध्वं तानि पृष्ठानि ॥ ७ ॥ 15
अथ पुनः ततो माध्यंदिनात् पवमानात् ऊर्ध्वं यदेव स्तोत्रं क्रियते ।
यच्छब्देन सर्वस्तोत्राणां सामान्येन निर्देशात् यानि स्तोत्राणि क्रियन्ते इत्यर्थः ।
तानि पृष्ठानि—पृष्ठं मध्यदेहस्य पश्चाद्भागः । तत्स्थानीयानि ॥ ७ ॥
कथमित्यत्राह—
बार्हतान्येकगायत्रीकाणि । तस्माद् बृहत्य एव 20
पर्शवो बृहत्य एव कीकसाः पृष्ठमभिसमायन्ति ॥ ८ ॥ 21
- Bh. विज्ञातव्या० for विज्ञेया०
- Bh JA om. नाभिरिव; MT. add नाभिः after (इ)व; M. मध्यं
प्राण [न]म् for मध्यवर्ती प्राणः. - BT om. ०भाग०.
- Bh. प्रमाणम् for प्राणधारणम् .
- T. om. प्रातःसवनं; Bh KT. ०सवनीयं for ०सवनं; Bh JA.
om. पादस्थानीयं. - Bh T. om. बृहत्य एव पर्शवो०.
- RSh परिशवो० for पर्शवो०.
२२ षड्विंशब्राह्मणम्
तानि पृष्ठानि बार्हतानि बृहतीषु भवन्ति । तत्र बृहद्रथन्तरयोर्बृहती-
प्रमुखत्वात् श्यैतनौधसकालेयानां पुनर्बृहतीष्वेवोत्पन्नत्वात् । किंच ।
तान्येकगायत्रीकाणि । वामदेव (व्य ?) नामकस्यैकस्य साम्नो गायत्र्यामुत्पन्नत्वात् ।
यस्मादेवं तस्मात् पुरुषे पर्शवः पार्श्वस्थीनि बृहत्य एव भूयस्यो बृहत्यः
पार्श्वस्थिस्थानीयाः । तथा बृहत्य एव कीकसाः पृष्ठास्थ्यवयवाः तत्स्थानीयाः ।
पृष्ठमभिसमायन्ति । पृष्ठस्थानीयामेकां गायत्रीं समागच्छन्ति ॥ ८ ॥
तत ऊर्ध्वं क्रियमाणं किमात्मकमित्यत्राह—
अथ यदेव तत ऊर्ध्वं स आर्भवः पवमानः ॥ ९ ॥
अथ पुनः ततो माध्यंदिनात् पवमानादूर्ध्वं यदेव क्रियमाणं स्तोत्रं स
आर्भवः पवमानः । पुरुषविधस्य यज्ञस्य मुखं भवति । मुखे संभूत-
त्वादित्यर्थः ॥ ९ ॥
मुख्यानां गायत्र्यादीनां प्राणादिरूपतामाह—
प्राणो गायत्री श्रोत्रे उष्णिक्ककुभौ वागनुष्टुप्
चक्षुर्जगती ॥ १० ॥
मुखरूपे आर्भवपवमाने विद्यमाना गायत्री प्राणस्थानीया । प्राणापान-
व्यानैस्त्रिवृत्प्राणः । गायत्र्यपि त्रिपदेति गायत्र्याः प्राणसाम्यम् । उष्णिक्ककुभौ
श्रोत्रे । अनुष्टुप् वाक्स्थानीया । वाग्वा अनुष्टुप् (श. ब्रा. १.३.२.१६)
इति श्रुतेः । जगती चक्षुः ॥ १० ॥
यदत्रानुदाहृतमक्षरपङ्क्त्यादिकं विकृतिषु क्रियमाणं छन्दस्तत् किमात्म-
कमित्यत्राह—
3. R Bh JA add: बृहत्य एव कीकसाः पृष्ठमभिसमायान्तीति तानि
पृष्ठानि बार्हतानि after ०गायत्रीकाणि.
4. T. परिशवः for पर्शवः; Bh. om. बृहत्य एव...तत्स्थानीयाः.
5. JA. पार्श्वस्थीनि for पार्श्वस्थिस्थानीयाः; R Bh KSJB पृष्ठस्या०
for पृष्ठास्थ्य०.
9. R. दिन० for ०दिनात्, Bh. ०दिनः पवमानः पवमानात्,
TJA ०दिनपवमानात् for ०दिनात् पवमानात् •
12. BSI. ०रूपताद्या० for रूपता०.
15. SI. आर्भवे for आर्भव०.
19. R. अतो० for अत्रा०; RA add अनुक्तम् before अनुदाहृतं;
R. ०पङ्क्त्यादि, Bh पङ्क्त्यादिषु for पङ्क्त्यादिकं.
प्रथमोऽध्यायः (३) २२
पुष्टिय॑दन्यत् ॥ ११ ॥
यदन्यदुदाहृतेभ्यो व्यतिरिक्तमक्षरपङ्क्त्यादि तत् पुष्टिः गायत्र्यादीनां
मुख्यानामपि पुष्टिहेतुः ॥ ११ ॥
एवं छन्दोविभागं दर्शयित्वा इदानीं साम्नां विभागं दर्शयति—
द्वे गायत्र्यां सामनी । तस्माद् द्वयं प्राणेन करोति ।
प्राणिति चापानिति च । एकं छन्दः ककुबुष्णिहौ द्वे सामनी ।
तस्मात् समानं सत् श्रोत्रं द्वेधैव शृणोति । द्वे अनुष्टुभि
सामनी । तस्माद् द्वयं वाचा करोति । सत्यं चानृतं च
वदति । एकं जगत्यां साम । तस्माद् द्वे अक्षिणी सती
समानं पश्यतो न हि पश्चादायन्तं पश्यति ॥ १२ ॥
गायत्र्याम् ऋचि द्वे गायत्रसंहिताख्ये सामनी क्रियेते। तस्मात् पुरुषः
प्राणेन द्वयं प्राणनमपाननं च करोति । तस्यैव विवरणम् । प्राणिति
चापानिति चेति । ककुबुष्णिहौ द्वे अपि एकमेव छन्दः । द्वयोरपि
अष्टाविंशत्यक्षरात्मकत्वात् । तत्र ककुभि द्वौ प्रथमतृतीयौ पादाव-
ष्टाक्षरौ मध्यमः पादो द्वादशाक्षरः । उष्णिहि तु प्रथमद्वितीयावष्टाक्षरौ तृतीयो
द्वादशाक्षर इति विशेषः । तत्र द्वे सफपौष्कलाख्ये सामनी क्रियेते । तस्मात्
पुमान् समानम् ऐक्ये सत् श्रोत्रम् एकेनैव श्रोत्रेन्द्रियेण द्वेधैव द्विधैव
पुरस्तात् पश्चाच्च शृणोति । अनुष्टुभि द्वे श्यावाश्वान्धीगवनामके सामनी
भवतः । तस्मात् पुरुषो द्वयं सत्यमनृतं चैकया वाचा करोति वदति ।
- BTSI om. अपि.
5 6&8. TSK साम्नी for सामनी. - Sh K एक० for एकं.
- Bh. समानसस्थं for समानं सत् श्रोत्रं; RT. द्वेधेव for द्वेधैव.
- A Bh. repeat द्वे अपि एकमेव.
- KM ऐक्यं, JA Bh. अन्येन for ऐक्ये; R. द्वेधेव द्विधेव for द्वेधैव द्विधैव.
- B पुरस्ताच्च for पुरस्तात् ; Bh MK. ०गवानामेके for गवनामके.
- Bh MJA om. (ए)कया.
२४ षड्विंशब्राह्मणम्
तस्यैव विवरणम् । सत्यं चानृतं च वदतीति । जगत्यां कावाख्यम् एकं
साम भवति । तस्माद् अधिष्ठानभेदाद् अक्षिणी द्वे सती समानम् अवैलक्षण्येन
पुरस्तादायन्तं पदार्थं पश्यतः । करणे कर्तृत्वोपचारः । न तु पश्चात् पृष्ठत
आयन्तं भावं चक्षुषा पुमान् पश्यति । श्रोत्रेण यथा पृष्ठतः शब्दं
शृणोति न तद्वदित्यर्थः ॥ १२ ॥
अवशिष्टस्य यज्ञायज्ञीयस्य मूर्धात्मकत्वं दर्शयति—
अथ यदेव तत ऊर्ध्वं मूर्धा तद्यज्ञायज्ञीयम् ॥ १३ ॥
अथ पुनः ततो यथोक्तेभ्यो गायत्र्या(त्रा?)दिभ्यः सामभ्यः ऊर्ध्वं
यदेव साम भवति तद्यज्ञायज्ञीयम् मूर्धा पुरुषविधस्य यज्ञस्य शिरस्थानीयम् ।
उत्तमत्वात् ॥ १३ ॥
यथोक्तं यज्ञायज्ञीयविदं स्तौति—
मूर्धा स्वानां भवति य एवं वेद ॥ १४ ॥
यः पुमान् एवं यज्ञायज्ञीयं मूर्धानं वेद स स्वानां ज्ञातीनां मध्ये
मूर्धा श्रेष्ठो भवति ॥ १४ ॥
एतदेव विवृणोति—
अध इव वा अन्यान्यङ्गान्युपरीव मूर्धा अध इवास्मादन्ये
स्वा भवन्त्युपरीव स्वानां भवति । य एवं वेद ॥ १५ ॥
मूर्ध्नोऽन्यान्यङ्गानि अध इव वै अधस्तादेव भवन्ति खलु । मूर्धा तु
एषामुपरीव उपर्येव भवति । यः पुमानेवं यज्ञायज्ञीयं मूर्धानं वेद अस्माद्
- Bh. om. एव.
- JA. तस्याधिष्ठानम्। तदा अक्षिणी for तस्माद. . .अक्षिणी.
- J. om. पदार्थं.
- RBSIK add: नहि पश्चादायन्तं पश्यतीति after इत्यर्थः
- RS मूर्धात्मतां for मूर्धात्मकत्वं.
- J. तथान्ते, Bh A तथान्तो० M. तथा for ततो०.
- Bh JA om. एव; T संभवति for भवति.
- RSTK यथोक्त for यथोक्तं; J. ०विदः for विदं.
- S. adds. यः पुमानेवं वेदेति after एवं वेद.
- MTSIK. अथ० for अध० Bh MSK. अथ० for अध०.
- M. om. तु.
प्रथमोऽध्यायः (३) २५
एवंविदुषोऽन्ये स्वा ज्ञातयोऽध इव अधरा एव भवन्ति । विद्वांस्तु स्वानां
ज्ञातीनामुपरीव श्रेष्ठ एव भवति ॥ १५ ॥
अथ यज्ञप्रतिपादकस्य वेदस्यार्थतो विज्ञानं तत्प्रवचनं च प्रशंसति—
यज्ञो वा अथ जज्ञ इत्याहुरेष वाव जात एषोऽव-
लुप्तजरायुरेष आर्त्विजीनो य एतं वेदमनुब्रूते यदा वा एतं
वेदमनुब्रूते, अथ हैनं शृण्वन्त्यसावन्ववोचतेति तद्धै स
जायते ॥ १६ ॥
अथशब्दो वाक्यादौ समवैति । यज्ञो वै जननहेतुत्वाज्जज्ञः । अयमेव
यज्ञ इति परोक्षं नाम आहुः । तद्विदः व्यवहरन्ति । यः पुमान् एतं यज्ञप्रति-
पादकं वेदं विदित्वा अनुब्रूते प्रवचनं करोति एष वाव अयमेव खलु जातः
सफलजन्मा भवति । अन्यस्तु जातोऽप्यजातप्राय इत्यभिप्रायः । किं च
एषोऽयमेव अवलुप्तजरायुः अवलुप्तं जरायुः गर्भवेष्टनं तत्स्थानीयमाच्छादकं
वेद । तदर्थविषयमज्ञानं जरायुशब्देन विवक्षितम् । तदवलुप्तं यस्य स
तथोक्तः । किं च । एषोऽयमर्त्विजीनः ऋत्विकर्मार्हः । अनुष्ठानस्य ज्ञान-
पूर्वकत्वात् । अपि च यदा वै यस्मिन् एव काले एवं यज्ञप्रतिपादकं वेदमनु-
ब्रूते । अथ ह तदैव एतमनुब्रुवाणं शृण्वन्ति । असावन्ववोचतेति सम्यगनु-
- R BBh JA एव for एवं.
- R Bh BJIA अध for अथ; R BBh JSIA Sh Ms. यज्ञो० for जज्ञः
- Bh. यज्ञ० for वेद०.
- Bh JA om. है.
- RSI समन्वेति for समवैति ; BBh JA यज्ञः; for जज्ञः.
- JA यज्ञम for परोक्षं नाम; M परोक्ष० for परोक्षं ; BBh. MSIA एवं for एतं.
- MTIJ वा for वाव.
- R. तत्स्थानम्, Bh A तत्संस्थानम् for तत्स्थानीयम्.
- B वेदार्थ०, M वैतदर्थे, I वेदार्थ for वेद तदर्थ०.
- Bh JA एष त्वेव० for एषोऽय०
- Bh JA om. एवं.
- R. तथैव, BMIK तदेव for तदैव; Bh A एवम् for एतम्.
वचनमकार्षीदिति । प्रसूतकीर्तिर्भवतीत्यर्थः । तद्वै यदा अयं विख्यातो
भवति तदा खलु सोऽनुवक्ता जायते पुण्यजन्मा भवति ॥ १६ ॥
यज्ञेषु प्रातःसवनादिषु बहुषु प्रदेशेषु गायत्र्यादीनां छन्दसां
न्यूनाक्षरत्वमस्ति । तत्र प्रातःसवने सामान्येन गायत्र्या ऊनाक्षरत्वं स्तौति—
ऊनाक्षरा गायत्री प्रातःसवने प्रजानां प्रजात्या
ऊनादिव हि प्रजाः प्रजायन्ते ॥ १७ ॥
प्रातःसवने गायत्री ऊनाक्षरा । तद्यथा—बहिष्पवमाने उपास्मै
गायत नरः (सा. ६५१) इत्येषा गायत्री ऊनाक्षरा । पवमानायेन्दवे
(सा. ६५१ᵇ) इति द्वितीयपादस्य सप्ताक्षरत्वात् तथा तत्रैव दविद्युतत्या
रुचा (सा. ६५४) इत्येषा गायत्री न्यूनाक्षरा । तथा आज्येष्वपि
होतुराज्ये तं त्वा समिद्भिरङ्गिरः (सा. ६६१) इत्येषा गायत्री । तत्र
बृहच्छोचा यविष्ठ्यः (सा. ६६१ᶜ) इति तृतीयः सप्ताक्षरः । तथा आनो
मित्रावरुणा (सा. ६६३) इत्ययं पादः सप्ताक्षरः । अच्छावाकान्त्येऽपि
इन्द्राग्नी आगतं सुतम् (सा. ६६९) इत्येषा गायत्री । तत्र गीर्भिर्नभो
वरेण्यम् (सा. ६६९ᵇ) इति द्वितीयः पादः सप्ताक्षरः । एवमन्यदपि
उदाहार्यम् । एतद् गायत्र्या ऊनाक्षरत्वं प्रजानां प्रजात्यै प्रजननाय भवति ।
तथा हि लोके प्रजाः सर्वाः ऊनादिव न्यूनादेव देशात् परिच्छिन्नदेशात्
प्रजायन्ते १७ ॥
3. Bh MJA om. प्रातःसवनादिषु बहुषु; Bh MJA add य० before
प्रदेशेषु
4. RBJ ऊना० for न्यूना०; MA सवन० for सवने.
7. M. om. बहिष्पवमाने.
8. Bh JA add प्रातःसवने प्रजानां प्रजात्यै before पवमानायेन्दवे.
12. RBSI add तथा स नः पृथु श्रवाय्यं बृहदग्ने सुवीर्यं (सा. 662 a&c) after सप्ताक्षरः ।
13. Bh MT. मैत्रा० for मित्रा० ; JA अच्छावकस्यापि for अच्छावकान्त्येऽपि.
15. BM¹S. om. पादः.
16. BIS उदाहरणीयम for उदाहार्यम् .
17. RJA add गुह्यप्रदेशात् after ऊनादिव.
प्रथमोऽध्यायः (३) २७
एवं सामान्यतः प्रातःसवने गायत्र्या न्यूनाक्षरत्वं प्रदर्श्य इदानीं
तत्रैवामहीयवे गायत्र्या न्यूनाक्षरत्वं स्तौति—
ऊनाक्षरा गायत्र्यामहीयवे प्रजानां प्रजात्या
ऊनादिव हि प्रजाः प्रजायन्ते ॥ १८ ॥
आमहीयवे साम्नि गायत्री न्यूनाक्षरा । तद्यथा—उच्चा ते जातमन्धसः
(सा. ४६७) इत्येषा गायत्री न्यूनाक्षरा । दिवि सद्भूम्या ददे (सा. ४६७b)
इति द्वितीयस्य सप्ताक्षरत्वात् । तथा एना विश्वान्यर्य आ (सा. ५९३)
इत्येषापि । आद्यद्वितीययोः सप्ताक्षरत्वात् । प्रजानाम् इत्यादि पूर्ववत् ॥ १८ ॥
माध्यंदिने सवने पृष्ठेषु वामदेव्ये गायत्र्या ऊनाक्षरत्वं स्तौति —
ऊनाक्षरा गायत्री पृष्ठेषु वामदेव्ये यजमानलोक
एव स मध्ये हि यज्ञस्य यजमानः ॥ १९ ॥
पृष्ठेषु स्तोत्रेषु वामदेव्ये साम्नि अभीषुणः सखीनाम् (सा. ६८४)
इत्येषा गायत्री न्यूनाक्षरा । त्रयाणामपि पदानां सप्ताक्षरत्वात् । तथा सति
यजमानलोक एव यजमानस्थान एव न्यूनता भवेत् । अन्यैश्चानाक्रान्ते एव
हि देशे यजमानस्तिष्ठति । न त्वन्यैराक्रान्ते । अतः तत्स्थाने गायत्र्या
न्यूनाक्षरत्वं गुण एव । वामदेव्यस्य यजमानस्थानत्वोपपादनम् । तथा हि—यदा
यज्ञस्य मध्ये वामदेव्यं क्रियते स यजमानश्च तदानीं यज्ञस्य मध्ये [हि]
एव वर्तत इति ॥ १९ ॥
तृतीयसवन आर्भवपवमाने संहितसाम्नि गायत्र्या न्यूनाक्षरत्वं प्रशंसति—
ऊनाक्षरा गायत्री संहिते प्राणापानयोः उच्चार
ऊनादिव हि प्राणापानावुच्चरतः ॥ २० ॥
- Bh JA प्रशस्य for प्रदर्श्य.
- JA तत्रैवामहीयवं for तत्रैवामहीयवे; J गायत्र्यां साम भवति; A
गायत्र्यां यौधाजयं च साम भवति for गायत्र्या...स्तौति - R. om. पृष्ठेषु...न्यूनता भवेत् (L. 14)
- RBMSI अन्यैरना० for अन्यैश्चना०.
- Bh. ०रज्ञाते for ०राक्रान्ते.
- R. ०चारः for ०पादनम्; Be. MJA om यदा.
संहितनामधेये साम्नि वरिवोधातमो भुवः (सा. ६९.१) इत्येषा
गायत्री न्यूनाक्षरा । पर्षि राधो मघोनाम् (सा. ६९१.c) इति तृतीयस्य
सप्ताक्षरत्वात् । यदेतन्न्यूनाक्षरत्वं गायत्र्यास्तत् प्राणापानयोरुच्चारे संचरणे
तन्निमित्तमेव भवतीत्यर्थः । तथा हि—प्राणापानावूनादिव परिच्छिन्नादेव
नासाविवराद् उच्चरतः संचरतः । अतो न्यूनाक्षरत्वं प्रशस्तम् इत्यर्थः ॥ २० ॥
तत्रैव यज्ञायज्ञीये, सतो बृहत्या न्यूनाक्षरत्वं स्तौति—
ऊनाक्षरं यज्ञायज्ञीयं प्राणानामुत्सृष्ट्यै ॥ २१ ॥
यज्ञायज्ञीयं साम ऊनाक्षरम् । तदीयप्रगाथे ऊर्जो नपातम् (सा.
७०४) इत्येषा सतो बृहती न्यूनाक्षरा । तृतीयपादस्यैकादशाक्षरत्वाच्चतुर्थस्य
सप्ताक्षरत्वात् । ततः तत्र गीयमानं यज्ञायज्ञीयं न्यूनाक्षरमित्युच्यते ।
तदेतन्न्यूनत्वं प्राणानामुत्सृष्ट्यै भवति । स्वावकाशप्रदेश एव प्राणानां
गतिर्नान्यत्रेति न्यूनाक्षरत्वं गुण एव ॥ २१ ॥
तदेतत्सोदाहरणमुपपादयति—
यो हि पूर्णमुपधमेद्यदि प्रतीयाद्विपदेद् यदि न
प्रतीयाद्विष्यन्देत ॥ २२ ॥
यो हि पुमान् लोके नालाद्यन्तर्गततृणाद्यपनयनायोदकपूर्णं करकादिकं
यद्युपधमेत् यदि च तदुपधमनं प्रतीयात् प्रतिगच्छेत् तर्हि स उपधमाता
2. RJA add अत्र after इति.
3. RSM रुच्चारः for ०रुच्चारे; MTK संचरेण for संचरणे.
8. BMIA ०प्राणार्थे, S ०प्राणनार्थे; Bh ०प्रमाथो, T ०प्रमाणार्थे
for प्रगाथे.
10. Bh JA न्यूनम्, MT न्यूनाक्षरत्वम् for न्यूनाक्षरम्.
11. M. न्यूनाक्षरत्वं for न्यूनत्वं; R सावकाश० for स्वावकाश०,
Bh य एवकार प्रकारा, KT. [स्वा]वकाशप्रकश०, JA एवंप्रकारा for
स्वावकाशप्रदेश०; Bh adds च and J यत् after एव.
14. T पुण्यं० for पूर्णं०; MT ०यमे०, SK ०यन्ये० for ०धमे०.
16. J om. यो हि पुमान्...गायेदित्यर्थः (p. 29. L. 5)
17. Bh A न हि for तर्हि.
प्रथमोऽध्यायः (३) २९
विदेपत् विपन्नो भवति । व्यर्थप्रयासो भवतीत्यर्थः । यद्युपधमनं न प्रतीयात् ।
न कुर्यादित्यर्थः । तर्हि विष्यन्देत करकादिनालशुद्धेरभावादभीष्टादुदपाना-
द्धीयेतेत्यर्थः । तस्मादपूर्णमेव करकादिकं तृणापनयनायोपधमेत् । तथा
सति वायोः संचरणात् तृणापनयो भवति । तद्वदत्रापि न्यूनाक्षरमेव यज्ञा-
यज्ञीयं प्राणानामुत्सृष्टयै गायेदित्यर्थः ॥ २२ ॥
त्रिष्वपि सवनेषु गायत्र्या न्यूनाक्षरत्वं समानं प्रशंसति —
तदाहुः सवनानां च वा एत उदानाः प्राणानां
चोत्सृष्टिरिति ॥ २३ ॥
तत्रैतमाहुर्ब्रह्मवादिनः—सवनानां वै सवनानामेव खलु एते गायत्र्यादि-
रूपाः प्राणाः उदानाः संचारहीनास्तिष्ठन्ति । तेषां सवनत्रयसंबन्धिनां
गायत्र्यादीनां न्यूनाक्षरत्वेन प्राणानामुत्सृष्टिरेव भवतीति ॥ २३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥
- R om. व्यर्थप्रयासो भवति; A यथो० for यद्यु०.
- Bh A न हि for तर्हि; B विष्ण०, Bh M विश्व०, T विव्व०,
A विष्ट० for विष्य० ; BS ०ध्माते० for ०शुद्धे० ; Bh A नालशु (A श्व)
राद्धे (A द्धे) मावर्त (A र्ते) for नालशुद्धेरभावा०. - MTK ०हीयते for ०हीयेत.
- M. गायत्र्यां for गायत्र्या.
चतुर्थः खण्डः
ज्योतिष्टोमे सुत्येऽहनि प्रातरनुवाकात् पूर्वं विश्वरूपगानं विधातुं तत्र
किंचित् प्रकारमादौ विधत्ते—
अध्वर्यवित्याहोद्गाता मा स्म मेऽनिवेद्य होत्रे प्रातरनु-
वाकमुपाकरोरिति ॥ १ ॥
हे अध्वर्यो ! मे मह्यमुद्गात्रे मानिवेद्य निवेदनमामन्त्रणमकृत्वा होत्रे
प्रतारनुवाकं शस्त्रं मा स्मोपाकरोः उपाकरणं मा कार्षीरित्युद्गाताध्वर्युं प्रति
आह वदेदित्यर्थः । इतिशब्दोऽवान्तरवाक्यपरिसमाप्तिद्योतनार्थः । तथा च
द्राह्मायणः—न मामनामन्त्र्य प्रातरनुवाकमुपाकुर्यादित्यध्वर्युं ब्रूयात्
(२. ४. ७; ला. १. ८. ६) इति ॥ १ ॥
ततः किमित्यत्राह —
सोऽध्वर्युः प्राह ॥ २ ॥
स एवमुद्गात्रोक्तोऽध्वर्युः प्राह प्रातरनुवाकोपकरणात् पूर्वम्
एवामन्त्रयेदित्यर्थः ॥ २ ॥
ततः किं कुर्यादुद्गातेत्यत्राह—
स हूतो व्रजति स पूर्वया द्वारा हविर्धाने प्रपद्यते ॥३॥
स उद्गाता हूतः अध्वर्युणामन्त्रितः सन् व्रजति हविर्धानमण्डपं
गच्छेत् । गत्वा च स पूर्वया द्वारा हविर्धानमण्डपस्य पूर्वेण द्वारेण
हविर्धाने सोमात्मकस्य हविषः आधारभूते द्वे शकटे प्रपद्यते प्रपद्येत ॥ ३ ॥
2. K. ०वाकपूर्वे for ०वाकात् पूर्वं.
8. KTMS om. ०परि०.
14. J एनम् for एव; Bh तमाश्रयेत, J. आश्राक्येत, A [ए]नमाश्रयेत्
MT. मन्त्रयेत् for (आ)मन्त्रयेत्.
17. R. trans व्रजति after ०मण्डपं; Bh IS om. हविर्धान०...द्वारेण.
19. R. om. प्रपद्यते; R. प्रपद्येते for प्रपद्येत; Bh MJSI om. प्रपद्येत.
अत्र हविर्धानद्वयं प्रातस्योद्गातुः सनियमं विश्वरूपगानं विधत्ते—
स दक्षिणस्य हविर्धानस्योत्तरं चक्रमभ्यपश्रयमाण
उदङ्ङासीनो विश्वरूपा गायति ॥ ४ ॥
ततः स उद्गाता दक्षिणस्य दक्षिणतः स्थितस्य हविर्धानस्य शकटस्य
उत्तरं चक्रम् अभ्यपश्रयमाणः उदङ्ङासीनः उदङ्मुखो मन्त्रवर्जमुपविष्टो
विश्वरूपाः विश्वरूपशब्दवतीः युञ्जे वाचं शतपदीं (सा. १८२९) इत्येतस्यां
पङ्क्तौ गायत्रीकारं प्रगाथगानेनोत्पन्नास्तिस्रः स्तोत्रीयाः गायति । तथा च
द्राह्मायणः—पूर्वया द्वारा प्रपद्यान्तरेण हविर्धाने पूर्वेण चक्रे उदङ्मुख
उपविशेत्तूष्णीम् (२. ४. ९. ला. १. ८ ७.) इति । अस्यार्थः—पूर्वया
द्वारा हविर्धानं प्रपद्य अन्तरेण हविर्धाने शकटयोर्मध्ये पूर्वेण चक्रे चक्रयोः
पुरस्तादुदङ्मुखस्तूष्णीं स्तोत्रीयधर्ममात्रम् आस्ते । उपदेशनं हित्वा
उपविशेदिति । विश्वरूपगानविधिर्न नित्यः । किंतु, षोडशिग्रहविधिवद्
वैकल्पिकः । तथा चोपपादितं द्राह्मायणेन पूर्वोत्तरपक्षोपन्यासेन—विश्वरूपाणां
गानं ज्योतिष्टोमे यजमानेनोक्तं प्रत्याचक्षीत । चतुष्टोमस्तोम संपदति-
रेकाद्ग्रहशस्त्राभावाच्च । वसतीवर्यो ग्रहः प्रातरनुवाकः शस्त्रमासां न च
संपत्कोपो यथान्यैः परिसामभिः गायेति चेत् ब्रूयात् (२.४.६-७.)
इति । अस्यार्थः—यजमानेन चोदितोऽपि उद्गाता विश्वरूपाणां गानं
- JA अतः, M तद् for अत्र.
- JA om. दक्षिणस्य.
- Bh A मित्र० for मन्त्र०; JA ०विश्य for ०विष्टो.
- Bh. गायत्रीप्रणवप्रग्रथनेन, M. गायत्रीगारं प्रगीयते नोत्पन्नाः, JA
गायत्रीप्रगाथप्रप (A ०ग०) थनेन for गायत्रीकारं... ; JA Bh. ०त्पन्नानि
स्तोत्रीयाणि for ०त्पन्नास्तिस्रः स्तोत्रीयाः. - Bh A प्रपद्योत्तरेण, SK. प्रतिपाद्यान्तरेण for प्रपद्यान्तरेण.
- S. ०र्धाने for ०र्धानं; Bh SK प्रपाद्य for प्रपद्य; I. om.
हविर्धानं प्रपद्यान्तरेण; M. पूर्वेण च तयोः for पूर्वेण...; TISK om. चक्रे. - R. स्तोत्रधर्मे मन्त्रवदुपवेशनं for स्तोत्रीयधर्ममात्रम्...देशनं; MTS.
स्तोत्रीयं for स्तोत्रीय०. - JA om. ज्योतिष्टोमे.
- Bh M. ०वर्योर्ग्रहः for ०वर्यो ग्रहः.
- KR. गायेवेति Bh MTA गायेवेति for गायेति.
३२ षड्विंशब्राह्मणम्
प्रत्याचक्षीत न कुर्यात् । अन्यथा चतुष्टोमस्याग्निष्टोमस्य स्तोमानां त्रिवृत्पञ्चदश-
सप्तदशैकविंशानां तस्य नवतिशतं स्तोत्रीयाः (तां. ब्रा. १६. १. ८) इति
ब्राह्मणेऽभिहितायाः संख्यायाः संपत्तेरतिरेकप्रसङ्गाद्विश्वरूपगाने तिस्रः स्तोत्रीया
अतिरिच्येरन् इति । किं च । गानपक्षे ग्रहं वा गृहीत्वा चमसं वोन्नीय
स्तोत्रमुपाकुर्यात् (तै. सं. ३.१.२.४) इति । स्तुतम(स्तुतमेव तद्०?)नुशं-
सति (तां. ब्रा. ४. ९. १३) इति ग्रहशस्त्रयोरनावश्यकत्वात् तयोरत्राभावा-
द्विश्वरूपगानं न कुर्यादिति गाननिषेधः । अथ तदुपपादनम् । वसतीवर्य एव
ग्रहः । प्रातरनुवाक एव शस्त्रम् । आसामामिर्विश्वरूपाभिः संपन्नत्वाद्विरोधोऽपि
नास्ति । सोमस्य तद्देवतानां वा स्तुतेरभावात् । यथान्यैः संपद्विरोधो नास्ति
तद्वत् । तस्मात् , हे उद्गातः त्वं विश्वरूपा गायेति यदि यजमानो ब्रूयात् तदा
गायेदेव । न ह्यत्र यजमाननियोगः प्रधानम् , किंतु, यथोक्तग्रहशस्त्रक्लृप्तिः । तथा
सति यदीच्छेत् तर्हि यजमानेनानुक्तोऽपि गायेदिति विवक्षितार्थोऽपि । अतो
विधिप्रतिषेधयोरुभयोरपि सूत्रकारेण दर्शितत्वात् वैकल्पिकोऽयं विधिरित्य-
वगम्यते ॥ ४ ॥
विश्वरूपगानं प्रशंसति—
3. Bh TIA संख्यासं० for संख्यायाः सं०; RS add इति after
०गाने; K. त्रिस्रिः for तिस्रः; JA. तु for तिस्रः.
4. Bh JA. प्रातरनुवाकमेकसृजासामाभिर्विश्वरूपाभिः संपन्नत्वादिव for
गानपक्षे ग्रहं ; Bh JA अगृहीत्वा for गृहीत्वा.
6. RK. (ए)कस्यापि for (अ)त्र ; MT. (आ)दौ for (अ)भावात्.
7. JA तदनुप० for तदुप०
8. Bh आसाविति, JA आसाभिति for आसामाभिः.
9. R. adds परिसामभिः after यथान्यैः.
10. Bh. ते, JA तद् for हे; JA उद्गातारं for उद्गातः; Bh. om. त्वं.
MT तं for त्वं; Bh. गानं नयतीति for गायेति ; Bh JA. om. यदि ; JA.
तदीयगाने for तदा गायेदेव.
11. M om. एव; Bh JA न तत्र for न ह्यत्र ; RSIK. शस्त्रादिकमपि
for शस्त्रक्लप्तिः ; RTKSI add च after तथा.
12. R Bh TJSIAK यदि for यदी०.
13. R Bh MJA ०निषेधयो० for प्रतिषेधयो०.
क्षत्रं वै स्तोत्रं विट् शस्त्रं क्षत्रेणैवास्मै विशमनु
वीर्यमनु वर्त्मानं करोत्यथो स्तुतशस्त्रयोरेव समारम्भायाव्यव-
संसाय संतत्यै ॥ ५ ॥
प्रगीतमन्त्रसाध्या स्तुतिः स्तोत्रं, क्षत्रं वै क्षत्रमेव । यागरक्षाहेतुत्वात् ।
अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रं विट् । यागसंपद्धेतुत्वात् । यद् विश्वरूपा
गायति इति, तत् अस्मै यजमानाय क्षत्रेण विशमनु पुष्टिमनुसृत्य वीर्यमनु
वर्त्मानं संततगामिनं करोति । अथो अपि च स्तुतशस्त्रयोरेव
समारम्भाय सम्यगुत्पत्तये एव अव्यवसंसाय अविच्छेदाय संतत्यै च
विश्वरूपागानं भवति ॥ ५ ॥
विश्वरूपागानस्य कर्तृविशेषप्रदर्शनात् परीक्षया कर्तव्यतां द्रढयति—
एतद्ध स्माह ग्लावो मैत्रेयः प्राह्ने वा अद्याहं
पापवसीयसं व्याकरिष्यामीति स ह स्म सदस्येवोपवसथ्येऽ-
हन्युदङ्ङासीनो विश्वरूपा गायति ॥ ६ ॥
मित्रायुसुतो ग्लावो ग्लावनामा कश्चिदृषिः एतद्वक्ष्यमाणमाह उक्तवान्
किल । अद्य प्राह्ने वै प्रातरेव । पापवसीयसं व्याकरिष्यामीति इदं श्रेष्ठमिदम-
श्रेष्ठमिति विभागं करोमीति । एवमुक्त्वा स ग्लावः उपवसथ्ये अग्नीषोमीयेऽहनि
5. Bh KJA यदि, MT यद्यपि, S यदपि for यद्.
6. R Bh JA गायेत् MT गायत्रे for गायति; TJA om. इति;
R. यत् for तत्; JA ०सृज्य for ०सृत्य.
7. Bh MSI ०गामी for ०गामिनं; Bh. माङ्गीकरोति for करोति;
M. om. करोति
8. S. adds अस्य after सम्यग्; A उपपत्तये for उत्पत्तये; MSI add
च after अविच्छेदाय.
10. RSI ०दर्शनेन, for ०दर्शनात्; RSI प्रशंसया, A परीक्ष्या
for परीक्षया.
12. TSIK om. स ह स्म...व्याकरिष्यामीति (L. 15)
15. Bh JA अश्रेष्ठमन्यत् for इदं श्रेष्ठम्; R. श्रेष्ठम् for अश्रेष्ठम्;
M. अत्र एतच्छ्रेष्ठम् for इदं श्रेष्ठमिदमश्रेष्ठम्.
16. MIK अग्निषोमीये for अग्नीषोमीये.
प० ३
पञ्चविंशब्राह्मणम्
अपररात्रे प्रातरनुवाकात् पूर्वमित्यर्थः । सदस्येवोदङ्मुख आसीन उपविष्टो
विश्वरूपा गायति । अगासीत् । सदसीत्येतत् समीपस्थं हविर्धानमण्डपं
लक्षयति । स पूर्वया द्वारा हविर्धाने प्रपद्यत (ष. वि. ब्रा. १. ४. ३)
इति पूर्वत्र विधानात् । सदसि हविर्धानयोरभावात् ॥ ६ ॥
विश्वरूपगाने ज्योतिर्गानं दर्शयितुं कंचिदुपवादं दर्शयति—
तदुपवादोऽस्त्यध्वर्यो किं स्तुतं स्तोत्रं होता प्रातरनु-
वाकेनान्वशंसीदिति स ब्रूयादकार्षमहं तद्यन्मम कर्म होतारं
पृच्छतेति । होतः किं स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशंसीरिति
स ब्रूयादकार्षमहं तद्यन्मम कर्म उद्गातारं पृच्छतेति ।
उद्गातः किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीदिति स
ब्रूयादकार्षमहं तद्यन्मम कर्मागासिषं यद्ध्येयमिति ॥ ७ ॥
तत्रोपवादोऽन्योन्यस्य संवादः कश्चित् अस्ति । तस्यैव प्रदर्शनम् —
हे अध्वर्यो ! स्तुतं स्तोत्रमनु होता प्रातरनुवाकेन शस्त्रेण किमन्वशंसीत् इति
शंसनमकार्षीदिति । एवमुपवक्तृभिः पृष्टः सोऽध्वर्युः ब्रूयात् यन्मम कर्म
तदहमकार्षं तद् होतारं पृच्छतेति । तेन प्रयुक्ता उपवक्तारो हे होतः किं स्तुतं
स्तोत्रमनु प्रातरनुवाकेन शस्त्रेण त्वमशंसीरिति अपृच्छन् । ततः सः होता
ब्रूयात् यन्मम कर्म तदहमकार्षम् । तदुद्गातारं पृच्छतेति । तेन प्रयुक्ताः
- RJA प्राक् for पूर्वम् .
- MIJK किंचिद् for कंचिद्; R. ०वादनं for ०वादं.
- R Bh JA. अन्योन्यसंवादः for अन्योन्यस्य संवादः.
- Bh. त्वयोक्तं for स्तुतं.
- RJ add ततः before तेन; RJ add वदेयुः after ०वक्तारो०.
- Bh. A add होता before प्रात० ; MKSI om. शस्त्रेण; Bh T तं,
RK किम् for त्वम्; R. किमकार्षीरिति, T किंत्वसाविति, I. किमन्वशंसारिति for
त्वमशंसीरिति; RJA om. अपृच्छन्; IS अपृच्छत for अपृच्छन्; RJ पृष्टः,
A तैरूदित् for ततः; Bh om. किमशंसीरिति...किमशंसीदिति (P. 35. L. 2)• - A om. ब्रूयात्...तैरूदितः स (P. 35. L. 2); R. एवं होत्रा,
for तेन.
सन्तः उद्गातारं पृष्टवन्तः हे उद्गातः स्तुतं स्तोत्रमनु होता प्रातरनुवाकेन
शस्त्रेण किमशंसीदिति । तैरूदितः स उद्गाता ब्रूयात् यन्मम कर्म तदहम-
कार्षम् । तस्यैव प्रदर्शनम् — यद्ध्येयं तदगासिषमिति ॥ ७ ॥
ततः किमित्यत्राह—
तं चेद् ब्रूयुस्तमो वै त्वमगासीर्न ज्योतिरिति ॥ ८ ॥
तम् उद्गातारं चेत् उपवक्तारः एवं ब्रूयुः—हे उद्गातः! त्वं तमो वै
तम एव ज्योतिरहितमेव सामगासीः ज्योतिर्नागासीरिति ॥ ८ ॥
तत्रोद्गात्रा यद्वक्तव्यं तदाह—
स ब्रूयाज्ज्योतिस्तेन येन ज्योतिः ज्योतिस्तेन येन-
र्ग् ज्योतिस्तेन येन गायत्री ज्योतिस्तेन येन च्छन्दो ज्योतिस्तेन
येन साम ज्योतिस्तेन येन देवता ज्योतिरेवाहमगासिषं
न तमो युष्माँस्तु पाप्मना तमसा विध्यानीत्याह
पाप्मनैवैनाँस्तत्तमसा विध्यति ॥ ९ ॥
सः एवं तैः पर्यनुयुक्तः उद्गाता, एवं ब्रूयात् । तेन प्रसिद्धेन येन
ज्योतिषा । ज्योतिः सूर्यात्मकं तेज। ज्योतिः प्रकाशकमभूत् । तेन येन ऋग्
ज्योतिः ऋगपि ज्योतिः अभिव्यक्ताक्षरा भवति । यद्वा, ऋक्शब्देन तदधिष्ठाना-
ग्रिर्लक्ष्यते । किं च, तेन येन गायत्री ज्योतिः । अपि च तेन येन छन्दः
छन्दोमात्रं ज्योतिः । तथा तेन येन सामापि ज्योतिः । तेजो वै सामरूपम्
(तै. सं. ३. २. ९. ३) इति श्रुतेः । यद्वा साम्नामधिष्ठाता सूर्यो लक्ष्यते ।
- R. ते for सन्तः.
- RKIS उक्तः for उदितः.
- Bh T. om. एव.
- S. तत्र तत् for ततः.
- Bh A add तेन प्रसिद्धेन after ब्रूयुः.
- RTSIK om. ऋग् ; M. येन वार्कज्यो० for येनर्ग्ज्यो०.
- Bh MTJA. om. first ज्योतिः ; K रगपि, M. वागपि for ऋगपि ; R तत् ऋक् ०, SI तच् ० for ऋक् .
- JA किंच for अपि च.
- K सामाधिष्ठाता, M. साम्नोऽधिष्ठाता, J साम्नां तद्विशिष्टतया, A साम्नां तदविद्यतया for साम्नामधिष्ठाता ...