सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

११४ षड्विंशब्राह्मणम्
देवयजनात् प्रच्युतान् निर्गतान् अपः उदकानि अप्राप्तान् देवान्
एतस्मिन्नवकाशे मध्ये मार्गे रक्षांसि राक्षसाः अजिघांसन् अपीडयन् । तत्र
स यः प्रसिद्धो रक्षोहा रक्षांसां हन्ता अग्निः, एतत् अग्निष्टपति (ग्रा. गे. १२.१२.
४६५. ३) इत्यस्यामृचि गेयं सामापश्यत् । ततस्तानि रक्षांसि एतेन साम्ना
अग्निरपाहत अवधीत् । तानि रक्षांसि अमुर्हि संग्रामे अपहतानि सन्ति
अभूवन्निति देवा अकुर्वन् मनसि [अ] मन्यन्तेत्यर्थः । इत्येव अत एवैतद्दि-
दानीमपि रक्षांस्यपसेधति तेन साम्ना हिनस्ति इत्यर्थः ॥ ९ ॥
तत्र गाने किंचिद्विशेषमाह—
तस्याहावोऽहाव इति स्तोभान्त्स्तोभयति । अहावो-
स्त्वहावोऽस्त्वित्येवैतद्रक्षांस्यपसेधति ॥ १० ॥
तस्य साम्नः अहावोहाव इत्येवंरूपान् स्तोभान् स्तोभयति कुर्या-
दित्यर्थः । अत एवैतदिदानीम् अहावोऽस्त्वहावोऽस्त्वित्येवंवाक्यैः
रक्षांस्यपसेधति निराकरोति ॥ १० ॥
सामाश्रयस्य मन्त्रस्य प्रथमपादमनूद्य व्याचष्टे—
अग्निष्टपति प्रतिदहतीत्याह । रक्षांस्येव तत्
प्रतिदहति ॥ ११ ॥
अग्निष्टपति भृशं प्रकाशते तेन रक्षांसि प्रतिदहति इत्याह । तेन
रक्षांस्येव तत् प्रतिदहति भस्मसात् करोति ॥ ११ ॥
2. RKISM मध्य० for मध्ये; T. मार्गं for मार्गे; M. adds एव
after मार्गे; RIS. om. राक्षसाः; JT. अपाघ्नन् for अजिघांसन्.
3. RI om. यः.
4. TSK. अपश्यन् for अपश्यत्.
5. SRI om. अमुर्हि; M अमूनि, TK समुर्द्धि for अमुर्हि.
6. R. अभवन् for अभूवन्; SRI तस्मिन् यज्ञ इति, J अभिमन्यन्त
इति, for मनसि अमन्यन्त इति; RJIS om. अत एव.
8. J. स्तोमे for गाने.
17. J द्रुतं for भृशं; J. om. रक्षांसि...तेन.
18. RIS. तर्हि for तत्; K. om. तत्.

तृतीयोऽध्यायः (४) १५५

प्रतिपादं स्तोभानुवृत्तिं दर्शयति—
पादाय पादाय स्तोभा अनुवर्तन्ते रक्षसाम-
पहत्यै ॥ १२ ॥
यथोक्तस्तोभाः पादाय पादाय प्रतिपादम् अनुवर्तन्ते रक्षसाम-
पहननाय ॥ १२ ॥
तस्यैव पादान्तरमनूद्य व्याचष्टे—
विश्वं समत्रिणं दह विश्वं समत्रिणं दहेत्यत्रिणो वै
रक्षांसि पाप्मानोऽत्रिणोऽत्रिण एवैतद्रक्षांसि पाप्मान-
मपसेधति । १३ ॥
विश्वं सर्वम् अत्रिणं मांसादेरत्तारं राक्षसं संदह । द्विरुक्तिरा-
वृत्तिद्योतनार्था । इति यदा तेन पाप्मान एवात्रिणोऽत्रिण एव रक्षांसि
रक्षसामेतद्रूपं पाप्मानमेवापसेधति ॥ १३ ॥
यथोक्तसाम्नो निधने त्रिरावृत्तिं दर्शयति—
तस्य त्रिर्निधनमाहुः ॥ १४ ॥
तस्य साम्न इति यन्निधनं तत् त्रिखिवारम् आवर्तयेदित्याहुः
ब्रह्मवादिनः ॥ १४ ॥
उक्तां त्रिरावृत्तिं स्तौति—
इयं वै सुहतं घ्नन्ति न स पुनरुद्विङ्क्ते यथाह
पुनः पुनरादाय सुहतं हन्यात्तादृगेतत् ॥ १५ ॥
इयं वै इयं निधनत्रिरावृत्तिरेव राक्षसं सुहतं घ्नन्ति हन्ति ।
वचनव्यत्ययश्छान्दसः । अथ स राक्षसः पुनर्नोद्विङ्क्ते । नोत्तिष्ठेदित्यर्थः । यथा ह


पादटिप्पण्यः (Footnotes):

  1. K. प्रतिपदं for प्रतिपादं.
  2. MHK. पदाय पदाय for पादाय पादाय.
  3. T. after साम्न adds एव; M. after इति adds यन्निधनमाहुरिति.
    18&20. K Sh MS यं for इयं; J उद्रुक्ते, M उद्रक्ते, I उद्रिक्ते for उद्विङ्क्ते.
  4. K. उत्तिष्ठेत् for नोत्तिष्ठेत्.

११६ षड्विंशब्राह्मणम्

यथा खलु लोके दुष्टं सुष्ठु हन्तव्यम् उपद्रवकारिणं पुनःपुनरायुधम्
आदाय कं न हन्यात् ? एतत् त्रिनिधनोच्चारणं हि तादृग् राक्षस-
हननायेत्यर्थः ॥ १५ ॥
तस्य साम्नोऽतिच्छन्दसि गानं दर्शयति—
तद्वा अतिच्छन्दःसु भवति ॥ १६ ॥
तदेतत् साम अतिच्छन्दःसु भवति । बहुवचनम् अध्वर्युप्रैष-
भेदायत्तावृत्त्यपेक्षया, न तु स्वरूपेण । एकत्वादृचः ॥ १६ ॥
यथोक्तातिच्छन्दः प्रशंसति—
वारणमिव वा एतच्छन्दो यदतिच्छन्दा वारणानीव
रक्षांस्यरण्यायतनानि । तद्यथा स्वमरण्यमभयेनातिक्रामेत्ता-
दृगेतत् ॥ १७ ॥
एतच्छन्दः वारणमिव वै रक्षसां निवारकमेव खलु । यत् येन
अतिच्छन्दा अयं मन्त्रः । यत एव रक्षांसि वारणानीव निवारणीयान्येव
अरण्यायतनानि अरण्यगृहाणि भवन्ति । तत् तस्माद्रक्षोवर्गः स्वं
स्वीयमरण्यम् अभयेन स्वारस्येन यथातिक्रामेत् गच्छेत् एतदतिच्छन्दोऽपि
तादृक् तथा रक्षसामरण्यप्रापकम् ॥ १७ ॥
किं तदतिच्छन्दः यस्मिन् अतिच्छन्दस्येतदवभृथसाम गायेदित्यत्राह—
तद्वै सप्तपदासु भवति ॥ १८ ॥
सप्तपदासु सप्तपदोपेतासु ऋक्षु एतत्साम भवति । बहुवचनं
गानावृत्त्यपेक्षया ॥ १८ ॥


  1. J adds पुरुषं after ०कारिणं.
  2. J. किं तु, M किं for कं.
  3. M अध्वर्युं प्रति प्रैषभेदाय त्रिरा० for अध्वर्युभेदायत्ता०.
  4. J. भेदायर्थम् for भेदायत्ता०, R. om. ०भेद०; J om. न तु.
  5. RIS. रक्षोवत् for रक्षोवर्गः.
  6. J om. अतिच्छन्दसि ; R. om. अवभृथसाम.
  7. S. ०पादास्वेवैतासु for ०पदोपेतासु.
  8. M. गानादिविवक्षया, I गानप्रत्यपेक्षया for गानावृत्त्यपेक्षया...

तृतीयोऽध्यायः (४) ११७
यथोक्तां संख्यां स्तौति—
सप्त वै छन्दांसि चतुरुत्तराणि तद्यथा सर्वैः
छन्दोभिरभयेनातिक्रामेत्तादृगेतत् ॥ १९ ॥
चतुरुत्तराणि उत्तरोत्तराधिक्येनाक्षरचतुष्टयोपेतानि गायत्र्यादीनि
छन्दांसि सप्त वै सप्तैव । तत् तेन यथा लोके सर्वैः छन्दोभिरभयेन
भयराहित्येनातिक्रामेत् सर्वं दुरितम् । एतदपि तादृक् रक्षोनिवारकम् ॥ १९ ॥
प्रशंसापूर्वकमवभृथसाम्नः त्रिर्गानं दर्शयति—
तस्य त्रिवचन एकविंशतिः पदानि त्रिः सामाह
तच्चतुर्विंशतिः ॥ २० ॥
अग्निं होतारम् (सा. ४६५) इत्यस्यामृचि साम त्रिराह त्रिर्गायेत् ।
तस्य त्रिवचने सति पदानि पादा एकविंशतिः सामानि त्रीणि भवन्ति ।
तत् तथा सति चतुर्विंशतिसंख्या संपद्यते । अतस्त्रिर्गानं प्रशस्तमित्यर्थः ॥ २० ॥
यथोक्तां संख्यामुपजीव्य पुनस्तत्सवंत्सरात्मना स्तौति—
चतुर्विंशतिरर्धमासाः संवत्सरः । संवत्सरः साम ॥२१॥
संवत्सरश्चतुर्विंशतिरर्धमासाः । अतः सामापि चतुर्विंशतिसंख्या-
साम्यात् संवत्सरः ॥ २१ ॥
संवत्सरसाम्यं साम्न उपपादयति—
तस्य ह वा एतस्य संवत्सरस्य साम्नोऽहो-
रात्राणि हिंकारोऽर्धमासाः प्रस्तावो मासा आदिर्ऋतव
10. J अग्निष्टपति, T अष्टपदी for अग्निं होतारम् .
11. RIS. om. तस्य; SRI. त्रिरावृत्तौ प(SI पा०)दानाम् for त्रिवचने
सति पदानि पादा; M. om. तस्य...पदा; M. ०विंशतिपदानि निधनानि for
०विंशतिः सामानि.
13. R. यथोक्त० for यथोक्तां; R. ०त्मकं for ०त्मना.
15. M. ०विंशतिपदसंख्यं संख्यासाम्यात् for ०विंशतिसंख्यासाम्यात् ...
16. K. साध्यात् for साम्यात् .

उद्गीथः पौर्णमास्यः प्रतिहारोऽष्टका उपद्रवोऽमावास्या
निधनम् ॥ २२ ॥
तस्यैतस्य संवत्सरस्य संवत्सरात्मकस्य च साम्नो हिंकार एवा-
होरात्राणि । प्राथम्यसाम्यात् । प्रस्ताव एवार्धमासाः । प्रस्तूयमानत्व-
साम्यात् । आद्याख्या भक्तिरेव मासाः । श्रेष्ठत्वसाम्यात् । उद्गीथ एव
ऋतवो वसन्तादयः । मुख्यत्वसाम्यात् । प्रतिहारभक्तिरेव पौर्णमास्यः ।
प्रतिहरणसाम्यात् । उपद्रवाख्या भक्तिरेवाष्टकाः । निधनमेवामावास्याः ।
समाप्तिसाम्यात् ॥ २२ ॥
एवं साम्नः सप्तभक्तिपक्षे संवत्सरसाम्यमुपपाद्य इदानीं पञ्चभक्तिपक्षे
तत्साम्यमुपपादयति—
तस्य ह वा एतस्य संवत्सरस्य साम्नो वसन्तो
हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो
हेमन्तो निधनम् ॥ २३ ॥
तस्यैतत्तस्य संवत्सरात्मकस्य साम्नो हिंकारादय एव वसन्तादय
इत्यर्थः ॥ २३ ॥
हेमन्तस्य निधनसाम्यं दर्शयति—
तस्माद्धेमन्तं प्रजा निधनकृता इवासते निधन-
रूपमेवैतर्हि ॥ २४ ॥
तस्मात् अत एव हेमन्तम् ऋतुं प्रजाः सर्वा निधनकृता निधन-
कारिण्य उपसंहृतव्यापारा इवासते एतर्हि एवं च सति निधनरूपमिव
हेमन्तस्य रूपम् । व्यापारोपरतिसाम्यात् ॥ २४ ॥


  1. KTI पौर्णमास्याः for पौर्णमास्यः.
  2. M. after हिंकारः adds एवादौ क्रियमाण.
  3. J. अर्धमासाः प्रस्तावः for प्रस्ताव एवा०...०साम्यात् .
  4. MT. आद्या for आद्याख्या; M. आद्या भवन्ति ओंकाराः for
    आद्याख्या भक्तिरेव.
  5. J एतं for अत एव.
  6. RK अस्योप० for व्यापारोप०.

तृतीयोऽध्यायः (४) ११९
एवं रक्षोधनमवभृथसाम दर्शयित्वा इदानीं प्राच्यादिषु चतसृषु दिक्षु
ऐच्छिकविकल्पेन प्रश्नपूर्वकदवभृथगमनं दर्शयितुं वृद्धानां प्रश्नं
तावदुपक्षिपति—
तदाहुः कां दिशमवभृथमभ्यवेयुरिति ॥ २५ ॥
तदाहुः कां दिशमभिलक्ष्य अवभृथमभ्यवेयुः । ऋत्विजः ५
प्रयन्तीति ॥ २५ ॥
तत्र प्रथमं कल्पं सप्ररोचनमाह—
प्राञ्चोऽभ्यवेयुर्देवानां वा एषा दिग् यत्प्राची । या
देवानां दिक् तां नोऽनु यज्ञः संतिष्ठाता इति ॥ २६ ॥
प्राञ्चः प्रागभिमुखाः सन्तोऽभ्यवेयुः अवभृथार्थम् अपः प्रतिगच्छेयुः । १०
एषा दिक् देवानां संबन्धिनी खलु । यत् या प्राची । या देवानां दिक्
नोऽस्माकं यज्ञः तां दिशमनुसंतिष्ठातै । तिष्ठतेर्लेटि एत ऐ (पा. ३.४.९३)
इत्यैकारः । प्रतिष्ठितो भवत्विति । प्राचीमेनम (०मनु ?) इत्यर्थः ॥ २६ ॥
द्वितीयं कल्पं सप्ररोचनं दर्शयति—
दक्षिणाभ्यवेयुः पाप्मानं हैष हन्ति यो यजते १५
तमिमं पाप्मानं हतं दक्षिणा हराणीति पितॄणां वा एषा
दिग् यद्दक्षिणा । या पितॄणां दिक् तां नोऽनु यज्ञः
संतिष्ठाता इति ॥ २७ ॥ १८

  1. J. om. चतसृषु; J after दिक्षु adds एकैकम् .
  2. RI ०गानं for ०गमनं.
  3. J. ०शिक्षति for ०क्षिपति.
  4. RIS om. तदाहुः; M. व्रतिनः प्रशंसति for तदाहु...प्रयन्तीति;
    T क्षादिनः पृच्छन्ति K क्षादिनः प्रशन्ति (!) for ऋत्विजः प्रयन्ति.
  5. J. एव for अपः.
  6. J adds सा before एषा; M. तां नोऽनुयज्ञः संतिष्ठता इति for प्राची.
  7. M. ०र्लिटि, TIK ०लेटि for ०लैटि.
  8. RJ ०गमनम् , IS. एनाम् for प्राचीमेनम् (०मनु?).
  9. TSK हि for ह.
  10. T हतनिष्पापं यजमानं for हतं.

१२० षड्विंशब्राह्मणम्
दक्षिणा दक्षिणातोऽभ्यवेयुः अत एव एष यजमानः पाप्मानमेव
हन्ति यो यजते तमिमं पाप्मानं हतं निष्पापं यजमानं दक्षिणा हराणि
नयानीति प्रस्तोता ब्रवीति । एषा दिक् पितॄणां संबन्धिनी खलु । यत् या
दक्षिणा । तथा च श्रुत्यन्तरं—देवमनुष्या दिशो व्यभजन्त । प्राचीं देवाः,
५ दक्षिणां पितरः, प्रतीचीं मनुष्या इति । स्पष्टमन्यत् ॥ २७ ॥
कल्पान्तरं सप्ररोचनमाह—
प्रत्यञ्चोऽभ्यवेयुर्मनुष्याणां वा एषा दिक् यत्
प्रतीची । या मनुष्याणां दिक् तां नोऽनु यज्ञः संतिष्ठाता
इति ॥ २८ ॥
१० पूर्ववद्व्याख्येयम् ॥ २८ ॥
पक्षान्तरं सप्ररोचनमाह—
उदञ्चोऽभ्यवेयुर्नक्षत्राणां वा एषा दिग् यदुदीची । या
नक्षत्राणां दिक् तां नोऽनु यज्ञः संतिष्ठाता इति ॥ २९ ॥
उदङ्मुखा अवभृथमभ्यवेयुः । एषा दिक् नक्षत्राणां स्वभूता या
१५ उदीची । नक्षत्राधिपतेः सोमस्य संबन्धित्वात् । स्पष्टमन्यत् ॥ २९ ॥
यथोक्तानां दिशां मध्ये यस्यां दिशि भूयिष्ठा आपो भवन्ति तत्रैव
गच्छेयुरिति नियमं दर्शयति—
अतो वाव यतमथैव कतमथा चापः स्युः
१९ तदभ्यवेयुः ॥ ३० ॥
2. J या पितॄणां दिक् तां नोऽनु यज्ञः संतिष्ठता इतीति दक्षिणा
हारिणी नयानीति प्रस्तोता ब्रवीति । सा एषा दिक् पितॄणां संबन्धिनी खलु या
दक्षिणा for हराणि नयानीति...व्यभजन्त.
6. J before कल्पान्तरं adds तृतीयं कहं; J दर्शयति for आह.
11. J कल्पा० for पक्षा०.
14. R. ०भृथार्थम् for भृथम्.
18. SK अथो for अतो.

तृती॒योऽध्यायः (४) १२१
अतो वाव यतमथा कतमथा यस्यां कस्यां दिशि । बहूनां दिशां
प्रकृतत्वात् । निर्धारणे डतमप् । आपो भूयिष्ठाः स्युः तत्राभ्यवेयुः गच्छेयुः ।
न तत्र प्राच्यादिदिङ्नियम इत्यर्थः ॥ ३० ॥
यथोक्तार्थविदं प्रशंसति—
यद्वै विद्वान् कर्म करोत्यस्मादिदमिति वसीयानेव
तेन भवति ॥ ३१ ॥
अस्मात् कर्मणः इदं श्रेयो भवतीति विद्वान् जानन् यत् कर्म करोति ।
तेन कर्मणा वसीयान् अतिशयेन वसुमानेव भवति ॥ ३१ ॥
नद्यादिषु वा तटाकादिषु वा अवभृथगमनमिति विचारपूर्वकं व्यवस्थित-
विकल्पं दर्शयितुं विचारं तावदाह—
तदाहुः स्रवन्तीष्वभ्यवेयू३स्स्थावरासू ३ इति ॥ ३२ ॥
तदाहुः तत्र ब्रह्मवादिन आहुः स्रवन्तीषु चलास्वप्सु अभ्यवेयुः
अवभृथार्थं गच्छेयुः । स्थावरासु अचलासु वेति । प्लुतौ विचारार्थौ ॥ ३२ ॥
तत्राद्यं पक्षं सप्रशंसं दर्शयति—
स्रवन्तीष्वभ्यवेयुः । पाप्मानं हैष हन्ति यो यजते
तमिमं पाप्मानं हतमपः प्रवहतामिति ॥ ३३ ॥
स्रवन्तीषु अप्सु अभ्यवेयुः । एष पाप्मानं हन्त्येव यस्तत्र यजते ।
तमिमं पाप्मानं हतं हतपाप्मानं अपः प्रति [प्र]वहताम् । यज्ञः प्रापयत्विति
स्रवन्तीषु गमनमित्यर्थः ॥ ३३ ॥

  1. TSK अथो for अतो०; RSI यतमथव for यतमथा; RI add च
    and S वा after कथमथा.
  2. R इति for इदं; J जानानः for जानन्.
  3. J. तदाहुः for तत्र.
  4. RMISK om. अभ्यवेयुः; J पाप्मानं हैष हन्ति यो for एष...यस्तत्र.
  5. JT हतं पापं for हतपाप्मानं; MI ०पाप्मानः for ०पाप्मानं; T.
    अतः for अपः ; M. यज्ञ अपः सन्ति तास्वभ्यवेयुः । अवभृथार्थमन्त्यर्थ(मित्यर्थः ?)
    for यज्ञः...गमनमित्यर्थः.

सप्रशंसं पक्षान्तरमाह—
स्थावरा याः शीपल्यास्तास्वभ्यवेयुः । इतो मा यज्ञो
विक्षुब्धः प्रत्युपतिष्ठाता इति ॥ ३४ ॥
याः स्थावराः अचलाः [शीपल्याः] शैवलयुक्ताश्च आपः सन्ति
तास्वभ्यवेयुरवभृथार्थम् । इतोऽस्मात् कृतोऽद्ध्र्यो यज्ञो विक्षुब्धः सन् मा
प्रत्युपतिष्ठातै । मा गच्छत्विति । शैवलास्वप्सु गमनमित्यर्थः । अत्र
संभवासंभावाभ्यां विकल्पो व्यवस्थितो द्रष्टव्यः ॥ ३४ ॥
नदीतटाकयोर्मध्ये यत्रापो भूयिष्ठास्तत्रैव गच्छेयुरिति नियममाह—
अतो वाव यतरथैव कतरथा चापः स्युस्तद-
भ्यवेयुः ॥ ३५ ॥
अतो वाव अपि च यतरथा कतरथा चैव यत्रकुत्रचित् । पक्षद्वयस्य
पूर्वमुपन्यस्तत्वात् द्वयोरेकतरस्य निर्धारणार्थे तरप् । आपो भूयिष्ठाः स्युः ।
तत्रैव अभ्यवेयुरिति ॥ ३५ ॥
उक्तार्थविदं प्रशंसति—
यद्वै विद्वान् कर्म करोत्यस्मादिदमिति वसीयानेव
तेन भवति ॥ ३६ ॥
व्याख्यातचरमेतत् ॥ ३६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥
2. TIS. शैवल्या० for शीपल्या०
4. J. शैवल्याः, RTISK शैवलवत्यः for शीपल्याः.
5. RTISK om. इतः; and कस्मात् for अस्मात्; RIS तेभ्यो,
M. कुतो हेतोर् for कृतोऽद्ध्र्यो०
12. JMTIK तरच् for तरप्.

पञ्चमः खण्डः
अथाभिचरणीययज्ञेषु एकस्यै हिंकरोतीत्याद्याः पञ्चानुवाकाः त्रिवृदादीनां
त्रिणवपर्यन्तानां विष्टुतिचोदनाः । तत्र त्रिवृत्स्तोमस्येषुसंज्ञिके द्वे विष्टुती स्त
इति तद्विधायकं ब्राह्मणमेवमाम्नायते—
एकस्यै हिंकरोति स प्रथमया । तिसृभ्यो हिंकरोति
स मध्यमया । पञ्चभ्यो हिंकरोति स उत्तमया । एकस्यै हिंकरोति
स प्रथमया । तिसृभ्यो हिंकरोति स पराचीभिः । पञ्चभ्यो
हिंकरोति स एकया स एकया स तिसृभिः । इषुस्त्रिवृतो
विष्टुतिः ॥ १ ॥
प्रथममुद्गाता एकस्यै एकासृचं गातुं हिंकरोति हिंकारं कुर्यात् ।
क्रियार्थोपपदस्य च कर्मणि (पा. २. ३ १४) इति सर्वत्र चतुर्थी । सः
हिंकर्ता प्रथमया ऋचा गायेदिति शेषः । ततः तिसृभ्यः तिस्र ऋचो गातुं
हिंकरोति । स मध्यमया द्वितीया त्रिर्गायेत् । पञ्चभ्यो हिंकरोति । स हिंकर्ता
उत्तमया तृतीयया ऋचा पञ्चकृत्वो गायेदित्येका विष्टुतिः। अथ एकस्यै हिंकरोति।
स प्रथमयेति पूर्ववद्व्याख्येयम् तिसृभ्यो हिंकरोति । स पराचीभिस्तिसृभिः
ऋग्भिः आनुलोम्येन गायेदित्यर्थः । पञ्चभ्यो हिंकुर्यात् । स प्रथममेकया गायेत् ।
ततः स एकया द्वितीया गायेत् । स हिंकर्तोद्गाता तिसृभिः तृतीयया ऋचा
त्रिर्गायेदिति । एवं त्रिवृत इषुसंज्ञिका विष्टुतिर्द्वितीयेत्यर्थः ॥ १ ॥
अनया कर्तव्यतां दर्शयति—
अभिचरन्त्स्तुवीत ॥ २ ॥
3. M JRSIK ०संज्ञके for ०संज्ञिके.
10. J adds सः before प्रथमम् .
13. J. Subst मध्यमयेति मध्यमया ऋचा for मध्यमया; J.
for द्वितीया.
14. J अतः for अथ.
17. RSIK अतो for ततः and om. स एकया
द्वितीया; RSIK सकृत् for गायेत् .

एतया द्विविधया विष्टुत्या अभिचारकर्म कुर्वाणः स्तुवीतेत्यर्थः ॥ २ ॥
अस्या विष्टुतेरिषुणा साम्यं दर्शयति--
अनीकं प्रथमा । इषुर्घनुर्ज्या यत्तिस्रः संदधाति, व्येव
पञ्चभिः सृजते ॥ ३ ॥
उभयत्राद्ये पर्याये प्रथमा ऋक् अनीकम् इषुधारास्थानीयम् । मध्यमे पर्याये
यत् यास्तिस्रो गीतिनिष्पन्ना ऋचः संदधाति [संधानं] करोति ता इषुः शरः
धनुश्च ज्या मौर्वी चेति तिस्र एतत्स्थानीया इत्यर्थः । एताभिः द्विविधाभिः
शरं शरासने संदधाति खलु । एवमेव पञ्चभिः, उक्ताः पर्यायास्ताभिः सृजते ।
धनुषि संहितमिषुं लक्ष्यदेशं प्रति विसृजति । अत्रानीकादिविसर्जनान्ताः
पञ्च संख्याः शरे विवर्तन्त इति तत्साम्यं द्विविधाया विष्टुतेर्युक्तमित्यर्थः ॥ ३ ॥
तत्प्रशंसति--
स्तृणुते भ्रातृव्यं वसीयानात्मना भवति य एतया स्तुते ॥ ४॥
य एतया विष्टुत्या स्तुते स भ्रातृव्यं सपत्नं स्तृणुते हिनस्ति ।
स्तृ-हिंसायाम् इति धातुः । आत्मना स्वेनैव अन्यनिरपेक्षेण वसीयान्
अतिशयेन वसुमान् भवतीति ॥ ४ ॥
इति सायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥

३. MIK इषुधनुर् for इषुर्घनुर्.
५. MTK add इति after ऋक् ; RI इषुः रणस्थानीयां for इषुधारा-
स्थानीयम्; M ॰स्थानीया, T ॰प्रस्थानीयां K ॰स्थानीयान् for ॰स्थानीयम्.
६. J तदासन्नं for शरः धनुश्च.
७. RIS. om. च after धनुश् ; KTM. Subst. द्विशरं for
द्विविधाभिः शरं.
८. J ॰सनं ड्यां संदधाति for ॰सने संदधाति; RIS परम्, KT पवम्
for एवम्; J एभिरुक्तैः अपशव्यां आयामस्रथाभिः, R. उत्तमपर्यायस्ताभिः KT
उक्ता पर्यायस्ताभिः for उक्ताः पर्यायास्ताभिः.
९. RJS. धनुःषु for धनुषि; RJTKSI संहिताम् for संहितम् ; RISK
इषु० for इषुं.
१०. TRJI. शरेऽपि for शरे वि०.
१३. MRIS हिंसति for हिनस्ति.

षष्ठः खण्डः
पञ्चदशस्तोमस्य विष्टुतिविधायकं ब्राह्मणमेवमाम्नायते--
तिसृभ्यो हिंकरोति । स पराचीभिस्तिसृभ्यो
हिंकरोति । स पराचीभिर्नवभ्यो हिंकरोति । स तिसृभिः
स तिसृभिः स तिसृभिः ॥ १ ॥
आद्यावुभौ पर्यायौ पराचीभिरानुलोम्येन पठिताभिस्तिसृभिः ऋग्भिः
कार्यौ । तृतीयः पर्याय एकैकस्या ऋचस्त्रिरावृत्त्या कार्य इत्यर्थः ।
पञ्चदशस्य विष्टुतिरिति ॥ १ ॥
अथास्यां कर्तव्यत्वं दर्शयति—
अभिचरन्स्तुवीत ॥ २ ॥
उक्तं पञ्चदशं स्तौति—
वज्रो वै त्रिवृत् । वज्रस्त्रिणवः । यत्त्रिवृत्त्रिणवाभ्यां
पञ्चदशं विदधाति । वज्रमेव तत्सम्यक् संदधाति ॥ ३ ॥
वज्रो वै वज्र एव त्रिवृत्स्तोमः । त्रिणवस्तोमोऽपि वज्रः । तस्य
त्रयस्त्रिवृत एवेति । त्रिणवस्य वज्रत्वं त्रिवृत्स्वसद्भावात् । एतावता किं
कृतमित्यत उक्तं यद्येवं त्रिवृत्त्रिणवाभ्यां उभाभ्यां स्तोमाभ्यां पञ्चदशस्तोमं
विदधाति [तर्हि] वज्रमेव तत्सम्यक् संदधातीति । तिसृभिस्त्रिवृतो विधानं
9. JMTK. om. अस्यां ; I. अस्य for अस्यां.
14. MTK वज्रम for वज्रः• J adds वज्रस्य after तस्य.
15. RJ om. त्रयः; J adds वज्रस्य after त्रिणवस्य; J त्रिवृत्स्वभावात् ,
M. तृवत्त संभवात् for त्रिवृत्स्वसद्भावात् .
16. TISK om. अतः; J M om. उभाभ्यां; T om. पञ्चदश.
17. JTRIS. om. वज्रमेव...संदधाति. See CN; M. विधानात्
for विधानं

नवभिः त्रिणवस्येति । तत् तेन वज्रमेव सम्यक् समीचीनं संदधाति ।
अवयविनं वज्रं वज्रावयवे संदधातीत्यर्थः ॥ ३ ॥
वज्रस्य त्रिवृत्त्रैणवसादृश्यं दर्शयति—
एवमिव वै वज्रः साधुः । यदारंभणतोऽणीयान्
प्रहरणतः स्थवीयान् ॥ ४ ॥
एवमिव वै एवमेव खलु वज्रः साधुः शत्रूणां साधको भवति । यद्
यस्मादयं वज्रः आरम्भणतः प्रथमतः ग्रहणप्रदेशे अणीयान् अणुत्तरो
भवति । प्रहरणतः प्रहरणप्रदेशे शल्ये स्थवीयान् । स्थूलतरो भवति ।
अत्रापि प्रथमसंख्या नवसंख्यापेक्षया अल्पा । नवसंख्या अधिका ।
अन्यसंख्याया अभिहितत्वात् ॥ ४ ॥
तत्प्रशंसति—
तेन पाप्मानं भ्रातृव्यं स्तृणुते । वसीयानात्मना
भवति य एतया स्तुते ॥ ५ ॥
य एतया स्तुते तेन पाप्मानं भ्रातृव्यं स्तृणुते हिनस्तीति ।
शिष्टं स्पष्टम् ॥ ५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥


१. M. नवति for नवभिः.
९. RI प्रथमं त्रिवृतो for प्रथमसंख्या; TK. प्रथमत्वसंख्यापेक्षया for
प्रथमसंख्या नवसंख्या...पेक्षया; RSI अल्पत्वं, M. अनल्पा for अल्पा;
KMT ०संख्याधिका RIS. संख्याया अधिकाया for ०संख्या अधिका.
१४. L. यत एवं for य एतया. MTK एव for एतया. TMT ...

सप्तमः खण्डः
सप्तदशस्तोमविष्टुत्या कर्तव्यतां दर्शयति—
एतयैवाभिचरन्स्तुवीत ॥ १ ॥
एतया वक्ष्यमाणया विष्टुत्या अभिचरन् शत्रून् जिघांसुः स्तुवीत ॥ १ ॥
सप्तदशं स्तौति—
वज्रो वै त्रिवृत् । वज्रः पञ्चदशः । वज्रः त्रिणवः ।
यत् त्रिवृत्पञ्चदशत्रिणवैः सप्तदशं विदधाति वज्रमेव
तत्सम्यक् संदधाति ॥ २ ॥
वज्रस्य त्रिवृत्वं सुप्रसिद्धम् । वज्रः पञ्चदशः । एतस्यैन्द्रत्वात् ।
वज्रस्त्रिणवः । यत् यस्मात् त्रिवृदादिभिः सप्तदशं विदधाति । तिसृभिः
त्रिवृतो विधानम् , पञ्चभिः पञ्चदशस्य नवभिः त्रिणवस्य । एतदुक्तं भवति ।
तिसृभिः पराचीभिः प्रथमः पर्यायः । पञ्चभिः मध्यमो नवभिरुत्तम इति । तत्
तेन वज्रमेव वज्रावयवे सम्यक् संदधातीति ॥ २ ॥
वज्रस्य त्रिवृदादिसादृश्यं दर्शयति —
एवमिव वै वज्रः साधुः यदारम्भणतोऽणीयान्
प्रहरणतः स्थवीयान् ॥ ३ ॥
अत्र पञ्चदशापेक्षया त्रिवृतोऽल्पसंख्या । तस्यापि त्रिणवापेक्षयेति ।
शिष्टं व्याख्यातम् ॥ ३ ॥
तत्प्रशंसति—
तेन पाप्मानं भ्रातृव्यं स्तृणुते । वसीयानात्मना
भवति । य एतया स्तुते ॥ ४ ॥
एतया सप्तदशविष्टुत्या । समानमन्यत् ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये सप्तमः खण्डः ॥ ७ ॥
2. J adds अथ before सप्त; RIS. ०विष्टुत्याः for ०विष्टुत्या•
9. J (ए)व तथास्वात् for (ऐ)न्द्रत्वात् .
10. MIK add इति after विदधाति.

अष्टमः खण्डः
अथैकविंशतिस्तोमस्य विष्टुतिविधायकं ब्राह्मणमेवाम्नायते--
तिसृभ्यो हिंकरोति । स पराचीभिर्नवभ्यो हिंकरोति ।
स तिसृभिः स तिसृभिः स तिसृभिर्नवभ्यो हिंकरोति । स
तिसृभिः स तिसृभिः स तिसृभिरभिचरन्स्तुवीत ॥ १ ॥
तिसृभ्यः तिस्रो गातुं हिंकुर्यात् । सः हिंकर्ता पराचीभिरानुलोम्येन
पठिताभिः आद्यं पर्यायं कुर्यादिति शेषः ! उत्तरौ एकैकस्या ऋचः त्रिरावृत्त्या
कार्यावित्यर्थः । अनया एकविंशस्तोमविष्टुत्या अभिचरन् पुरुषः स्तुवीतेति
शेषः ॥ १ ॥
उक्तमेकविंशं स्तौति--
वज्रो वै त्रिवृद् । वज्रः त्रिणवः । यत्त्रिवृत्तिणवाभ्या-
मेकविंशं विदधाति वज्रमेव तत्सम्यक् संदधाति ॥ २ ॥
यत् येन त्रिवृत्तिणवाभ्यां स्तोमाभ्याम् एकविंशं विदधाति ।
तिसृभिः त्रिवृतो विधानम् । नवभिः त्रिणवस्येति ॥ २ ॥
वज्रस्य त्रिवृदादिसादृश्यं प्रशंसां च करोति--
एवमिव वै वज्रः साधुः । यदारम्भणतोऽणीयान्
प्रहरणतः स्थवीयाँस्तेन पाप्मानं भ्रातृव्यं स्तृणुते । वसीयाना-
त्मना भवति । य एतया स्तुते ॥ ३ ॥
एतया एकविंशस्तोमविष्टुत्या स्तुते । शिष्टं व्याख्यातचरम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये अष्टमः खण्डः ॥ ८ ॥
6. J. subst. हिंकरोति सः for तिस्रो गातुं हिंकुर्यात् । सः हिंकर्ता.
7. JT add ऋग्भिः after पठिताभिः; J. गायेत् for कुर्यात्.
10. RI. उत्तमम् for उक्तम्.
15. M अपि for च.

नवमः खण्डः
अथ त्रिणवस्य विष्टुतिविधायकं ब्राह्मणमेवमाम्नायते—
नवभ्यो हिंकरोति । स तिसृभिः स तिसृभिः स
तिसृभिः । नवभ्यो हिंकरोति । स तिसृभिः स तिसृभिः स
तिसृभिः । नवभ्यो हिंकरोति । स तिसृभिः स तिसृभिः स
तिसृभिः । अभिचरन्स्तुवीत ॥ १ ॥
उद्गाता नवभ्यो नव ऋचो गातुं हिंकुर्यात् । स हिंकर्ता त्रीनपि
पर्यायान् एकैकस्या ऋचस्त्रिरावृत्त्या तिसृभिः ऋग्भिः कुर्यादित्यर्थः ।
अनया त्रिणवस्तोमविष्टुत्या अभिचरन् स्तुवीतेति शेषः ॥ १ ॥
उक्तं त्रिणवं वज्रसादृश्येन प्रशंसति—
वज्रो वै त्रिणवः वज्रमेव तत्पराञ्चं प्रवर्तयति
स्तुत्यै । तेन पाप्मानं भ्रातृव्यं स्तृणुते । वसीयानात्मना
भवति य एतया स्तुते ॥ २ ॥
त्रिणव एव वज्रः । तिसृभिः त्रिवृद्भिः निष्पन्नत्वात् । त्रिवृतो वज्रत्वं
प्रसिद्धम् । तत् तस्मात् वज्रमेव पराञ्चं परागञ्चनं प्रवर्तयति । भ्रातृव्यस्तृत्यै
हिंसायै । ऋचामानुलोम्येन गीयमानत्वात् पराक्त्वमित्यर्थः । तेन पाप्मानं
6. MK. om. अभिचरन्स्तुवीत.
7. M. नवर्चं उद्गातुं for नव ऋचो गातुं.
9. I. विशेषः for शेषः.
14. J. त्रिणवत्वात् for त्रिवृद्भिः निष्पन्नत्वात् ; J. subst. वज्र एव
प्रसिद्धः for वज्रत्वं प्रसिद्धम् .
15. J. om. परागञ्चनं ; J. om. भ्रातृव्यस्तृत्यै...हिनस्ति.
16. M. परार्थं०, RIS. पराङ्क्त्व० for पराक्त्व०
५० 9

१३० षड्विंशब्राह्मणम्
भ्रातृव्यं हिनस्ति । यः पुमानेतया त्रिणवविष्टुत्या स्तुते । आत्मनैव वसीयान्
बहुमत्तमो भवतीति ॥ २ ॥
इति षड्विंशब्राह्मणे तृतीयाध्याये
नवमः खण्डः ॥ ९ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीराजाधिराजराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्य-
धुरंधरेण सायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे
षड्विंशब्राह्मणभाष्ये तृतीयोध्यायः समाप्तः ॥ ३ ॥
3. J. इति आभिचारार्थविष्टुतः समाप्तः ॥ for इति षड्विंश...खण्डः ॥

चतुर्थोऽध्यायः
प्रथमः खण्डः
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ चतुर्थाध्यायस्य प्रथमानुवाके पञ्चविंशब्राह्मगोक्ताद् द्वादशाहाद्
विविक्तस्य व्यूढद्वादशाहस्य धर्मा निरूप्यन्ते । तत्र प्रथमम् आद्यन्तयोः
प्रायणीयोदयनीययोर्द्वोः सर्वयज्ञसाधारणत्वात् अवशिष्टानामह्नां मध्ये दशमस्या-
प्यतिक्रियत्वात् तत्रापि न किंचिद्वक्तव्यमस्तीत्यतोऽवशिष्टस्य नवरात्र-
स्यैवात्र भेदा अनुवर्ण्यन्ते ॥
तत्र प्रथमं प्रथमत्रिरात्रस्य धर्मविशेषमाह—
स्वरान्तः प्रथमस्त्रिरात्रो गायत्री ॥ १ ॥
प्रथमस्त्रिरात्रः स्वरान्तः स्वरितमक्षरम् अन्ते यस्य सः, तथोक्तः ।
त्रिरात्रसंबन्धी पवमानः स्वरान्त इति भावः । तथा च पञ्चविंशब्राह्मणे
आर्भवपवमाने सामविध्यन्तरमाम्नायते— स्वारमु स्वरेण (तां.ब्रा. ११.५.२६)
इति । तथा छन्दो गायत्री । तत्रत्यं छन्दो गायत्रीप्रमुखमित्यर्थः ॥ १ ॥
3. M. om. यस्य...महेश्वरम्.
5. J. om. अथ; M. om. चतुर्थाध्यायस्य प्रथमानुवाके; RIS.
०वाकेन for ०वाके; RJIS. ब्राह्मणोक्त० for ब्राह्मगोक्ताद्; M. ०हद्विविधोक्तस्य
for ०हाद्विविक्तस्य.
8. RIS ०कृतत्वात्, MK ०क्रयत्वात् for ०क्रियत्वात्; JM. om. अतः;
J. ०रात्रस्य धर्म०, MK. ०रात्रस्यैव न for ०रात्रस्यैवात्र; S ०रात्रभेदा for
रात्रस्यैवात्र भेदा.
10. RJM. om. प्रथम०.
13. J ०संबन्धिनः, KSIT ०संबन्धः for ०संबन्धी; J. पवमानाः
स्वरान्ताः for पवमानः स्वरान्तः.
14. K. अभ्यव० for आर्भव०; KJS ०मान for ०माने; MK. ०समा०
for ०साम०; J. स्वारमुख्येन, MT. स्वरमुख्येण for स्वारमु स्वरेण.
15. RIS तत्र for तत्रत्यं.

[Header]
१३२ षड्विंशब्राह्मणम्

प्रायशो गायत्रत्वात् प्रातःसवनस्य तदुभयं प्रशंसति—
प्राणो वै गायत्री । प्रजापतिः स्वरः । प्रजापति-
मेवाप्नोति ॥ २ ॥
गायत्री प्राण एव । प्राणापानव्यानैः त्रिवृत्प्राणः । गायत्र्यपि त्रिपदा ।
अतो गायत्र्याः प्राणसाम्यम् । अथवा मुखे प्राणो गायत्र्यपि मुखादुत्पन्नेति
प्राणसाम्यं द्रष्टव्यम् । तस्मात् तेन च्छन्दसा यजमानः सर्वमायुरेतीति शेषः ।
स्वरः प्रजापतिरेव । तयोस्तादात्म्यं शास्त्रसिद्धमेव । तेन स्वरेण देहान्ते
यजमानः प्रजापतिमेवाप्नोति ॥ २ ॥
द्वितीयत्रिरात्रधर्ममाह—
निधनान्तो द्वितीयस्त्रिष्टुप् ॥ ३ ॥
द्वितीयः त्रिरात्रेः निधनान्तः निधनम् अन्ते यस्य सः, तथोक्तः ।
द्वितीयाः पवमाना निधनान्ता इत्यर्थः । तथोक्तं पञ्चविंशब्राह्मणे—निधनान्ताः
पवमाना भवन्ति (तां.ब्रा. १३.५.२८) इति । तथा त्रिष्टुप् तदीयच्छन्दोव्यूहेन
त्रिष्टुप्प्रमुखम् ॥ ३ ॥
तदुभयं प्रशंसति—
वीर्यं वै त्रिष्टुप् । त्रैष्टुभः पुरुषः [निधनम्] ।
पुरुषमेवाप्नोति ॥ ४ ॥
त्रिष्टुब् वीर्यमेव । इन्द्रेण सहोत्पन्नत्वात् । पुरुषस्त्रैष्टुभः । चतुष्पाद्भ्यो
वीर्यवत्तमत्वात् । निधनं निधानं तदास्थितः पुमान् । तेनाश्रयाश्रयिसंबन्धेन
पुरुषशब्देन निधनं लक्ष्यते । तथा च निधनं त्रैष्टुभमित्यर्थः । तेन यजमानः
पुरुषं पुत्रपौत्रादिकमेवाप्नोति ॥ ४ ॥


पादटिप्पण्यः (Footnotes):

  1. J. om. प्रायशो०.. प्रशंसति.
  2. J प्राणो वै प्राण एव गायत्री for गायत्री प्राण एव.
  3. RIS. om. यजमानः.
  4. KMT ०विरुद्धम् for ०सिद्धम्.
  5. J जगती० for तदीय०.
  6. MK. प्राङ्मुखम् for प्रमुखम्.
  7. निधनं See CN.
  8. MK. विर्य(M. वीर्ये) वर्तमान for वीर्यवत्तमत्वात्; J तदाश्रितः for तदास्थितः; MITSK श्रयाश्रयिसंबन्धेन for ०श्रयाश्रयिसंबन्धेन.

[Header] चतुर्थोऽध्यायः (१) १३३

तृतीयत्रिरात्रधर्ममाह—
इडान्तस्तृतीयो जगती ॥ ५ ॥
तृतीयत्रिरात्र इडान्तः इडा अन्ते यस्य सः, तथोक्तः । तदीयाः
पवमाना इडान्ता इत्यर्थः । तथा चोक्तं पञ्चविंशब्राह्मणे—इडान्ताः पावमानाः
भवन्ति (तां. ब्रा. १४. ५. ३१.) इति । जगती तदीयच्छन्दोव्यूहेन जगती-
प्रमुखमित्यर्थः ॥ ५ ॥
तदुभयं प्रशंसति—
पशवो वा इडा । पशवो जगती । जागताः पशवः ।
पशूनेवाप्नोति ॥ ६ ॥
अतिरोहितार्थमेतत् ॥ ६ ॥
ननु यदि गायत्रः प्रथमत्रिरात्रः तर्हि प्रथमे विनियुक्ताया एव गायत्र्या
द्वितीयतृतीययोरप्यह्नोः प्रयोगात् तस्य यातयामत्वं भवेदित्यत आह—
प्रसृतच्छन्दाः प्रथमस्त्रिरात्रः। तेन सोऽयातयामा ॥ ७ ॥
सत्यम् । तथापि प्रथमत्रिरात्रः प्रसृतच्छन्दाः प्रसृतानि विस्तीर्णानि
गायत्र्यादीनि च्छन्दांसि यस्मिन्निति स तथोक्तः । प्रातःसवनस्य गायत्रत्वात् ।
माध्यंदिनसवनस्य त्रैष्टुभत्वात् । तृतीयसवनस्य जागतत्वाच्च । तेनैव च्छन्दो-
भेदेन सोऽयं त्रिरात्रोऽयातयामः । गतसारो न भवतीत्यर्थः ॥ ७ ॥
अथ द्वितीयत्रिरात्रस्य च्छन्दोविभागेनायातयामत्वं दर्शयति—
अथोत्तरस्य च्छन्दांसि व्यूहन्ति । त्रिष्टुभः प्रतिपदो
भवन्ति । त्रिष्टुभां लोके जगत्यो जगतीनां गायत्र्यस्तेन
सोऽयातयामा ॥ ८ ॥
अथशब्दो वाक्योपक्रमे । उत्तरस्य द्वितीयत्रिरात्रस्य च्छन्दांसि
व्यूहन्ति । व्यूहेन विभिन्नानि कार्याणि कुर्युः । तस्यैव विवरणम् । त्रिष्टुभः


३. MTK अन्तो for अन्ते.
१९. Sh Ms. जगत्यः प्रतिपदो भवन्ति । जगतीनां लोके त्रिष्टुभस्त्रिष्टुभां
for त्रिष्टुभः...जगतीनां.
11