षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
DevanagariSanskritpublished226 पृष्ठ
पृष्ठ 124, कुल 226 में से
संदर्भ में पढ़ेंपृष्ठ 124एतया द्विविधया विष्टुत्या अभिचारकर्म कुर्वाणः स्तुवीतेत्यर्थः ॥ २ ॥
एतया द्विविधया विष्टुत्या अभिचारकर्म कुर्वाणः स्तुवीतेत्यर्थः ॥ २ ॥
अस्या विष्टुतेरिषुणा साम्यं दर्शयति--
अनीकं प्रथमा । इषुर्घनुर्ज्या यत्तिस्रः संदधाति, व्येव
पञ्चभिः सृजते ॥ ३ ॥
उभयत्राद्ये पर्याये प्रथमा ऋक् अनीकम् इषुधारास्थानीयम् । मध्यमे पर्याये
यत् यास्तिस्रो गीतिनिष्पन्ना ऋचः संदधाति [संधानं] करोति ता इषुः शरः
धनुश्च ज्या मौर्वी चेति तिस्र एतत्स्थानीया इत्यर्थः । एताभिः द्विविधाभिः
शरं शरासने संदधाति खलु । एवमेव पञ्चभिः, उक्ताः पर्यायास्ताभिः सृजते ।
धनुषि संहितमिषुं लक्ष्यदेशं प्रति विसृजति । अत्रानीकादिविसर्जनान्ताः
पञ्च संख्याः शरे विवर्तन्त इति तत्साम्यं द्विविधाया विष्टुतेर्युक्तमित्यर्थः ॥ ३ ॥
तत्प्रशंसति--
स्तृणुते भ्रातृव्यं वसीयानात्मना भवति य एतया स्तुते ॥ ४॥
य एतया विष्टुत्या स्तुते स भ्रातृव्यं सपत्नं स्तृणुते हिनस्ति ।
स्तृ-हिंसायाम् इति धातुः । आत्मना स्वेनैव अन्यनिरपेक्षेण वसीयान्
अतिशयेन वसुमान् भवतीति ॥ ४ ॥
इति सायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥
३. MIK इषुधनुर् for इषुर्घनुर्.
५. MTK add इति after ऋक् ; RI इषुः रणस्थानीयां for इषुधारा-
स्थानीयम्; M ॰स्थानीया, T ॰प्रस्थानीयां K ॰स्थानीयान् for ॰स्थानीयम्.
६. J तदासन्नं for शरः धनुश्च.
७. RIS. om. च after धनुश् ; KTM. Subst. द्विशरं for
द्विविधाभिः शरं.
८. J ॰सनं ड्यां संदधाति for ॰सने संदधाति; RIS परम्, KT पवम्
for एवम्; J एभिरुक्तैः अपशव्यां आयामस्रथाभिः, R. उत्तमपर्यायस्ताभिः KT
उक्ता पर्यायस्ताभिः for उक्ताः पर्यायास्ताभिः.
९. RJS. धनुःषु for धनुषि; RJTKSI संहिताम् for संहितम् ; RISK
इषु० for इषुं.
१०. TRJI. शरेऽपि for शरे वि०.
१३. MRIS हिंसति for हिनस्ति.