सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

प्रसङ्गाद्देवयजनस्य दक्षिणभागे तद्योग्यदेशस्थितौ न दोष इत्याह—
कामं दक्षिणत आगामुका हैनं दक्षिणा भवन्ति ॥ १४ ॥
दक्षिणतः कामं यथेष्टमतिरेचयेयुः । तर्हि एनं यजमानं दक्षिणा
आगामुका भवन्तीति ॥ १४ ॥
पश्चिमभागे तावदवशेषणे पुनः प्रत्यवायमाह—
कामं पश्चादपरपुरुषा हास्माच्छ्रेयांसो भवन्ति ॥१५॥
कामम् इच्छया पश्चाद्भागे यदि तावन्मात्रदेशमवशेषयेयुः अस्मादपर-
पुरुषाः श्रेयांसो भवन्ति ॥ १५ ॥
उत्तरभागे तावन्मात्रदेशावशेषणे श्रेयःप्राप्तिं दर्शयति—
काममुत्तरत उत्तरा हैनं देवयज्योपनामुका भवति ।
उत्तरोत्तरणी हास्य श्रीर्भवति ॥ १६ ॥
उत्तरतः कामम् इच्छयातिरेकः कार्यः तर्हि एनं यजमानम् उत्तरा
अपि देवयज्योपनामुका भवति । प्राप्नोतीत्यर्थः । किं च अस्य श्रीः
उत्तरोत्तरणी परंपरयापि वृद्धा भवति ॥ १६ ॥
धर्मान्तरं दर्शयति—
यस्य पुरस्तात् त्रीणि ज्योतींषि दृश्येरन् ।
अग्निरप आदित्यस्तद्देवयजनं तत्त्रिशुक्रियम् ॥ १७ ॥
यस्य देशस्य पुरस्तादग्निरप आदित्य इति त्रीणि ज्योतींषि दृश्येरन्
तदेव देवयजनं कार्यम् । एवं सति तत् त्रिशुक्रियं शुक्लं ज्योतिः त्रिज्योतिष्कं

  1. RS. प्रसङ्गादेव for प्रसङ्गादेव०; RKMIS. om. ०देश०.
  2. M. प्राशस्त्यम् for प्रत्यवायम्.
  3. M. पापीयांसो० for श्रेयांसो०; M. अवर० for अपर०.
  4. M. अवर० for अपर०.
  5. MK. ०यज्ञो० for ०यज्यो०.
  6. RIS (उ)त्तरिणी for (उ)त्तरणी.
  7. J. कामम for कार्यः.
  8. J अन्यापि, M अत्रापि for अपि; J adds पुनर्यागप्राप्तिः after अपि.
  9. IS. ०त्तरिणी for ०त्तरणी; IRS विवृद्धा, M ०भिवृद्धा, K. विरूद्धा for ०पि वृद्धा.
  10. RT om. ज्योतिः त्रि; RKMIS. om. त्रि.

भवतीत्यर्थः । तत्र देवयजनस्य पुरस्ताद्भागेऽपामेवावस्थानं विधीयते ।
अग्न्यादित्ययोरवस्थानमनूद्यते । पुरस्ताद्भागे आहवनीयस्यावस्थाननियमात्
आदित्यावस्थानस्य प्रत्यक्षसिद्धत्वात् ॥ १७ ॥
अपामभावे न्यग्रोधादिनापि भवितव्यमिति दर्शयति—
पुरस्ताच्चित्रं देवयजनम् ॥ १८ ॥
देवयजनं पुरस्तात् पुरोभागे चित्रं चित्रश्चित्रियो वनस्पतिः न्यग्रोधादिः,
तद्युक्तमेव कार्यम् । तथा च द्राह्मायणः—अपामभावे महावृक्ष उदपानो
महापथो वा (१.१.१७) इति । अस्यार्थः । नदीतटाकादीनामभावे
महावृक्ष उदपानः कूपः महापथो वा ग्राह्यः ॥ १८ ॥
पश्चाद्भागे महावृक्षावस्थाने प्रत्यवायमाह—
पश्चाच्चित्रं श्मशानकरणम् ॥ १९ ॥
यदि देवयजनं पश्चात् चित्रं भवेत् तर्हि श्मशानकरणमेव
स्यात् ॥ १९

श्मशानकरणं निन्दति—
यथा सव्यस्तथा श्मशानकरणम् ॥ २३ ॥
यथा सव्यः पाणिः पुण्यकर्मसु गर्हितः एवं पश्चाच्चित्रत्वादिलक्षणं
श्मशानकरणम् अप्रशस्तमित्यर्थः ॥ २३ ॥
आभिचारयेषु देवयजनलक्षणमाह—
यथा श्मशानकरणं तथाभिचरणीयानां देव-
यजनम् ॥ २४ ॥
अभिचरणीयानां श्येनादीनां यागानां देवयजनं यथा श्मशानकरणं
पश्चाच्चित्रत्वादियुक्तं भवति तथा कुर्यात् । तथा च द्राह्मायणः—विपर्यस्य
अभिचरणीयेषु स्थलादन्यद्देवयजनमात्राच्च (1. 1. 20; ला. 1. 1. 19)
इति । अस्यार्थः । अभिचारार्थेषु क्रतुषु स्थलादुन्नताद्देवयजनमात्रात् पुरस्तात्
देवयजनमात्रावशेषाच्च अन्यत् सर्वमनूषरत्वादिकं विपर्यस्य कुर्यादिति ।
एतदुक्तं भवति । ऊषरं विषमं पुरस्ताज्जलशून्यं पश्चाच्चित्रं दक्षिणाप्रत्यक्प्रवणं
देवयजनं कार्यमिति ॥ २४ ॥
यथोक्तलक्षणदेशासंभवे किं याग एव परित्यज्यः ? नेत्याह —
अप्यु हैक एवमाहुर्यस्मिन्नेव कस्मिंश्चिद् देशे
श्रद्दधानो यजत ऋध्नोत्येवेति ॥ २५ ॥
अपिशब्दस्त्वर्थे । एके अन्ये तु एवमाहुः । यस्मिन् कस्मिंश्चिद्देशे
श्रद्दधानः अनेन फलं भवत्येवेत्यास्तिकः सन् यः यजते स ऋध्नोति यथोक्तफलं
प्राप्नोत्येवेति ॥ २५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥
8. MTK आभिचारिणां for अभिचरणीयानां.
11. J ०चरणीयेषु for ०चारार्थेषु; M स्थलमुन्नतत्वात्, T ०स्थला[त्]
उन्नतत्वात् for स्थलादुन्नतात्.
12. RIK add विपर्यासं after विपर्यस्य.
13. K तद्दक्षिणाप्रवणं, T प्रदक्षिणा०...for दक्षिणाप्रत्यक्प्रवणं.
15. J देशाभावे for देशासंभवे.
19. J. अत्र for अनेन.

तृतीय एवं चतुर्थ प्रपाठक (अभिचार कर्म एवं प्रायश्चित्त विधि)

चतुर्थः खण्डः
अथावभृथधर्मा उच्यन्ते । तत्र प्रथमं यज्ञावशिष्टस्य द्रव्यस्यान्यत्र
विनियोगाभावप्रदर्शनपुरःसरमपः प्रति नयनं विधत्ते—
यावान् यज्ञे रसो भवति तेनात एव प्राचीनं
प्रचरन्ति । अथैतद्यातयामं परिशिष्यते ऋजीषन्तन्ना[मा]ह । 5
न तस्मै यद्वृधैवापास्येयुर्नो तस्मै यदग्नावनुप्रहरेयुस्तेनाप
एवाभ्यवयन्ति ॥ १ ॥
यज्ञे यावान् रसः सारभूतं यल्लव्धं द्रव्यं स्थितं तेन द्रव्येण अतोऽव-
भृतात् पूर्वमेव प्राचीनं प्राङ्मुखतया प्रचरन्ति चोदितानुसारेण प्रक्षिपन्ति
जुह्वतीत्यर्थः । अथ पुनर्यद्यातयामं गतरसं तदेतत् परिशिष्यतेऽवशिष्टं भवति । 10
तत् परिशिष्टं द्रव्यम् ऋजीषन्ना[मा]ह विद्वान् । तृतीयसवनस्यापि समाप्तत्वेन
रसग्रहणार्थाभावात् । किं च वृधैव अपास्येयुस्त्यजेय

११२ षड्विंशब्राह्मणम्

सर्वस्य आप एव शान्तिः शान्तिकारणम् । किं च सर्वस्य जगत
एव प्रतिष्ठा । अद्भ्यः पृथिवी (तै. सं. २.१.१) इति श्रुतेः ॥ २ ॥
तत्रैव प्रस्तोतृकृत्यं दर्शयति—
पाप्मानं हैष हन्ति यो यजते । तमिमं पाप्मानं
हतमपो हराणीति ॥ ३ ॥
यो यजमानो यजते एष स्वयं पाप्मानमेव हन्ति । अतस्तमिमं
पाप्मानं हतं पापस्य हन्तारं यजमानमपः प्रतिहराणीति प्रस्तोता
मन्वीतेत्यर्थः ॥ ३ ॥
अवभृथगमने गन्तॄणां कंचिन्नियमं दर्शयति—
तेनान्तरेण प्रतिपद्यन्ते चात्वालं चोत्करं च ॥ ४ ॥
चात्वालम् चोत्करं चान्तरेण चात्वालोत्करयोर्मध्ये तेन पथा प्रति-
पद्यन्ते अपः प्रतिगच्छेयुः ॥ ४ ॥
यथोक्तं मार्गं प्रशंसति—
एतद्वै देवानां तीर्थम् ॥ ५ ॥
एतद्वै एतदेव यथोक्तं मार्गस्वरूपं देवानां तीर्थम् । सर्वपाप-
निवारकत्वात् ॥ ५ ॥
उक्तार्थे मन्त्रसंमतिमाह--
तदेतदृषिराहाप्मानं तीर्थं क इह प्रवोचद्येन देवाः
पथा प्र पिबन्ते सुतस्येति ॥ ६ ॥


पादटिप्पण्यः (Footnotes):

  1. R. ०कारणं, J ०कारिण्यः for कारणं; M. श्रान्तिः कारुण्यं, T शान्तिः कारुण्यं for शान्तिकारणम्
  2. J प्रशंसापूर्वक० for प्रस्तोतृ०.
  3. MTK स्वीयम् for स्वयम्.
  4. R प्रस्तोतारमन्विते for प्रस्तोता मन्वीते०.
  5. M पिबेत्, K. दृश्येत for मन्वीत.
  6. MK. मन्त्रिणां for गन्तॄणां; KR. किंचित्, T. कंचन for कंचित्.
  7. RKI. उत्करं चात्वालं for चात्वालं चोत्करं.
  8. K adds यद्, M यदि before उक्तार्थे.

ऋषिः अतीन्द्रियार्थदर्शी सध्रीनामा ऋषिः घर्मो वा आह
आत्मानं व्यापकं तीर्थम् इह लोके कः प्रवोचत् तस्य महिमानं को वा
वदेदित्यर्थः । येन तीर्थरूपेण पथा मार्गेण आगत्य सुतस्य तस्य सुतं सोमं
देवाः प्रपिबन्ते प्रकर्षेण पिबन्ति । इतिशब्दो मन्त्रसमाप्तियोतनार्थः ॥ ६ ॥
प्रकारान्तरेण तदेव प्रशंसति—
एतद्वै देवानां तीर्थम् । अतीर्थं ह्येव
यज्ञस्यातोऽन्यत् ॥ ७ ॥
एतदेव देवानां संबन्धि तीर्थम् । अतोऽस्मादन्यत् यद्यज्ञस्य
संबन्धि तदतीर्थमेव ॥ ७ ॥
यथोक्तमर्थमुपसंहरति—
तस्मादेतेनैव प्रसृते प्रपद्येत । एतेन निष्क्रामेत् ॥ ८ ॥
यस्मादेवं तस्मात् यथा तेन मार्गेणैव प्रसृते प्रवेशे प्रपद्येत गच्छेत्
तथा एतेनैव पथा निष्क्रामेत् अवभृथार्थं निर्गच्छेत् ॥ ८ ॥
तन्निर्गमनकाले रक्षोघ्नमवभृथसाम गेयमिति दर्शयितुमाख्यायिकया
तत् प्रशंसति—
तान् प्रच्युतान् देवयजनादप्राप्तानप एतस्मिन्नवकाशे
रक्षांस्यजिघांसन् । स एतदग्नी रक्षोहा सामापश्यत् । तान्येतेना-
पाहत । तान्यमुर्ह्यपहतानि सन्तीति देवा अकुर्वन् । इत्येव
रक्षांस्यपसेधति ॥ ९ ॥

  1. RI समृद्ध० K. स्मृद्ध०, T. समृद्धि० for सध्री०.
  2. J वदति, M. वेद for वदेत्; MST तीर्थेन for तीर्थ०.
  3. Sh Ms J प्रसुते for प्रसृते ; MT add एव before निष्क्रामेत् .
  4. J. मन्त्रेण for मार्गेण; J प्रसुते for प्रसृते; J. om. प्रवेशे; J. प्रविशेत्
    for गच्छेत् ; RISK प्रतिपद्येत for प्रपद्येत.
  5. TK तानन्तराप० for तान्येतेनापा०.
  6. M तान्यमून्यप, TK तान्विमृद्धया वा for तान्यमुर्ह्यप ; M adds
    इति after ०हतानि.
    प० 8

११४ षड्विंशब्राह्मणम्
देवयजनात् प्रच्युतान् निर्गतान् अपः उदकानि अप्राप्तान् देवान्
एतस्मिन्नवकाशे मध्ये मार्गे रक्षांसि राक्षसाः अजिघांसन् अपीडयन् । तत्र
स यः प्रसिद्धो रक्षोहा रक्षांसां हन्ता अग्निः, एतत् अग्निष्टपति (ग्रा. गे. १२.१२.
४६५. ३) इत्यस्यामृचि गेयं सामापश्यत् । ततस्तानि रक्षांसि एतेन साम्ना
अग्निरपाहत अवधीत् । तानि रक्षांसि अमुर्हि संग्रामे अपहतानि सन्ति
अभूवन्निति देवा अकुर्वन् मनसि [अ] मन्यन्तेत्यर्थः । इत्येव अत एवैतद्दि-
दानीमपि रक्षांस्यपसेधति तेन साम्ना हिनस्ति इत्यर्थः ॥ ९ ॥
तत्र गाने किंचिद्विशेषमाह—
तस्याहावोऽहाव इति स्तोभान्त्स्तोभयति । अहावो-
स्त्वहावोऽस्त्वित्येवैतद्रक्षांस्यपसेधति ॥ १० ॥
तस्य साम्नः अहावोहाव इत्येवंरूपान् स्तोभान् स्तोभयति कुर्या-
दित्यर्थः । अत एवैतदिदानीम् अहावोऽस्त्वहावोऽस्त्वित्येवंवाक्यैः
रक्षांस्यपसेधति निराकरोति ॥ १० ॥
सामाश्रयस्य मन्त्रस्य प्रथमपादमनूद्य व्याचष्टे—
अग्निष्टपति प्रतिदहतीत्याह । रक्षांस्येव तत्
प्रतिदहति ॥ ११ ॥
अग्निष्टपति भृशं प्रकाशते तेन रक्षांसि प्रतिदहति इत्याह । तेन
रक्षांस्येव तत् प्रतिदहति भस्मसात् करोति ॥ ११ ॥
2. RKISM मध्य० for मध्ये; T. मार्गं for मार्गे; M. adds एव
after मार्गे; RIS. om. राक्षसाः; JT. अपाघ्नन् for अजिघांसन्.
3. RI om. यः.
4. TSK. अपश्यन् for अपश्यत्.
5. SRI om. अमुर्हि; M अमूनि, TK समुर्द्धि for अमुर्हि.
6. R. अभवन् for अभूवन्; SRI तस्मिन् यज्ञ इति, J अभिमन्यन्त
इति, for मनसि अमन्यन्त इति; RJIS om. अत एव.
8. J. स्तोमे for गाने.
17. J द्रुतं for भृशं; J. om. रक्षांसि...तेन.
18. RIS. तर्हि for तत्; K. om. तत्.

तृतीयोऽध्यायः (४) १५५

प्रतिपादं स्तोभानुवृत्तिं दर्शयति—
पादाय पादाय स्तोभा अनुवर्तन्ते रक्षसाम-
पहत्यै ॥ १२ ॥
यथोक्तस्तोभाः पादाय पादाय प्रतिपादम् अनुवर्तन्ते रक्षसाम-
पहननाय ॥ १२ ॥
तस्यैव पादान्तरमनूद्य व्याचष्टे—
विश्वं समत्रिणं दह विश्वं समत्रिणं दहेत्यत्रिणो वै
रक्षांसि पाप्मानोऽत्रिणोऽत्रिण एवैतद्रक्षांसि पाप्मान-
मपसेधति । १३ ॥
विश्वं सर्वम् अत्रिणं मांसादेरत्तारं राक्षसं संदह । द्विरुक्तिरा-
वृत्तिद्योतनार्था । इति यदा तेन पाप्मान एवात्रिणोऽत्रिण एव रक्षांसि
रक्षसामेतद्रूपं पाप्मानमेवापसेधति ॥ १३ ॥
यथोक्तसाम्नो निधने त्रिरावृत्तिं दर्शयति—
तस्य त्रिर्निधनमाहुः ॥ १४ ॥
तस्य साम्न इति यन्निधनं तत् त्रिखिवारम् आवर्तयेदित्याहुः
ब्रह्मवादिनः ॥ १४ ॥
उक्तां त्रिरावृत्तिं स्तौति—
इयं वै सुहतं घ्नन्ति न स पुनरुद्विङ्क्ते यथाह
पुनः पुनरादाय सुहतं हन्यात्तादृगेतत् ॥ १५ ॥
इयं वै इयं निधनत्रिरावृत्तिरेव राक्षसं सुहतं घ्नन्ति हन्ति ।
वचनव्यत्ययश्छान्दसः । अथ स राक्षसः पुनर्नोद्विङ्क्ते । नोत्तिष्ठेदित्यर्थः । यथा ह


पादटिप्पण्यः (Footnotes):

  1. K. प्रतिपदं for प्रतिपादं.
  2. MHK. पदाय पदाय for पादाय पादाय.
  3. T. after साम्न adds एव; M. after इति adds यन्निधनमाहुरिति.
    18&20. K Sh MS यं for इयं; J उद्रुक्ते, M उद्रक्ते, I उद्रिक्ते for उद्विङ्क्ते.
  4. K. उत्तिष्ठेत् for नोत्तिष्ठेत्.

११६ षड्विंशब्राह्मणम्

यथा खलु लोके दुष्टं सुष्ठु हन्तव्यम् उपद्रवकारिणं पुनःपुनरायुधम्
आदाय कं न हन्यात् ? एतत् त्रिनिधनोच्चारणं हि तादृग् राक्षस-
हननायेत्यर्थः ॥ १५ ॥
तस्य साम्नोऽतिच्छन्दसि गानं दर्शयति—
तद्वा अतिच्छन्दःसु भवति ॥ १६ ॥
तदेतत् साम अतिच्छन्दःसु भवति । बहुवचनम् अध्वर्युप्रैष-
भेदायत्तावृत्त्यपेक्षया, न तु स्वरूपेण । एकत्वादृचः ॥ १६ ॥
यथोक्तातिच्छन्दः प्रशंसति—
वारणमिव वा एतच्छन्दो यदतिच्छन्दा वारणानीव
रक्षांस्यरण्यायतनानि । तद्यथा स्वमरण्यमभयेनातिक्रामेत्ता-
दृगेतत् ॥ १७ ॥
एतच्छन्दः वारणमिव वै रक्षसां निवारकमेव खलु । यत् येन
अतिच्छन्दा अयं मन्त्रः । यत एव रक्षांसि वारणानीव निवारणीयान्येव
अरण्यायतनानि अरण्यगृहाणि भवन्ति । तत् तस्माद्रक्षोवर्गः स्वं
स्वीयमरण्यम् अभयेन स्वारस्येन यथातिक्रामेत् गच्छेत् एतदतिच्छन्दोऽपि
तादृक् तथा रक्षसामरण्यप्रापकम् ॥ १७ ॥
किं तदतिच्छन्दः यस्मिन् अतिच्छन्दस्येतदवभृथसाम गायेदित्यत्राह—
तद्वै सप्तपदासु भवति ॥ १८ ॥
सप्तपदासु सप्तपदोपेतासु ऋक्षु एतत्साम भवति । बहुवचनं
गानावृत्त्यपेक्षया ॥ १८ ॥


  1. J adds पुरुषं after ०कारिणं.
  2. J. किं तु, M किं for कं.
  3. M अध्वर्युं प्रति प्रैषभेदाय त्रिरा० for अध्वर्युभेदायत्ता०.
  4. J. भेदायर्थम् for भेदायत्ता०, R. om. ०भेद०; J om. न तु.
  5. RIS. रक्षोवत् for रक्षोवर्गः.
  6. J om. अतिच्छन्दसि ; R. om. अवभृथसाम.
  7. S. ०पादास्वेवैतासु for ०पदोपेतासु.
  8. M. गानादिविवक्षया, I गानप्रत्यपेक्षया for गानावृत्त्यपेक्षया...

तृतीयोऽध्यायः (४) ११७
यथोक्तां संख्यां स्तौति—
सप्त वै छन्दांसि चतुरुत्तराणि तद्यथा सर्वैः
छन्दोभिरभयेनातिक्रामेत्तादृगेतत् ॥ १९ ॥
चतुरुत्तराणि उत्तरोत्तराधिक्येनाक्षरचतुष्टयोपेतानि गायत्र्यादीनि
छन्दांसि सप्त वै सप्तैव । तत् तेन यथा लोके सर्वैः छन्दोभिरभयेन
भयराहित्येनातिक्रामेत् सर्वं दुरितम् । एतदपि तादृक् रक्षोनिवारकम् ॥ १९ ॥
प्रशंसापूर्वकमवभृथसाम्नः त्रिर्गानं दर्शयति—
तस्य त्रिवचन एकविंशतिः पदानि त्रिः सामाह
तच्चतुर्विंशतिः ॥ २० ॥
अग्निं होतारम् (सा. ४६५) इत्यस्यामृचि साम त्रिराह त्रिर्गायेत् ।
तस्य त्रिवचने सति पदानि पादा एकविंशतिः सामानि त्रीणि भवन्ति ।
तत् तथा सति चतुर्विंशतिसंख्या संपद्यते । अतस्त्रिर्गानं प्रशस्तमित्यर्थः ॥ २० ॥
यथोक्तां संख्यामुपजीव्य पुनस्तत्सवंत्सरात्मना स्तौति—
चतुर्विंशतिरर्धमासाः संवत्सरः । संवत्सरः साम ॥२१॥
संवत्सरश्चतुर्विंशतिरर्धमासाः । अतः सामापि चतुर्विंशतिसंख्या-
साम्यात् संवत्सरः ॥ २१ ॥
संवत्सरसाम्यं साम्न उपपादयति—
तस्य ह वा एतस्य संवत्सरस्य साम्नोऽहो-
रात्राणि हिंकारोऽर्धमासाः प्रस्तावो मासा आदिर्ऋतव
10. J अग्निष्टपति, T अष्टपदी for अग्निं होतारम् .
11. RIS. om. तस्य; SRI. त्रिरावृत्तौ प(SI पा०)दानाम् for त्रिवचने
सति पदानि पादा; M. om. तस्य...पदा; M. ०विंशतिपदानि निधनानि for
०विंशतिः सामानि.
13. R. यथोक्त० for यथोक्तां; R. ०त्मकं for ०त्मना.
15. M. ०विंशतिपदसंख्यं संख्यासाम्यात् for ०विंशतिसंख्यासाम्यात् ...
16. K. साध्यात् for साम्यात् .

उद्गीथः पौर्णमास्यः प्रतिहारोऽष्टका उपद्रवोऽमावास्या
निधनम् ॥ २२ ॥
तस्यैतस्य संवत्सरस्य संवत्सरात्मकस्य च साम्नो हिंकार एवा-
होरात्राणि । प्राथम्यसाम्यात् । प्रस्ताव एवार्धमासाः । प्रस्तूयमानत्व-
साम्यात् । आद्याख्या भक्तिरेव मासाः । श्रेष्ठत्वसाम्यात् । उद्गीथ एव
ऋतवो वसन्तादयः । मुख्यत्वसाम्यात् । प्रतिहारभक्तिरेव पौर्णमास्यः ।
प्रतिहरणसाम्यात् । उपद्रवाख्या भक्तिरेवाष्टकाः । निधनमेवामावास्याः ।
समाप्तिसाम्यात् ॥ २२ ॥
एवं साम्नः सप्तभक्तिपक्षे संवत्सरसाम्यमुपपाद्य इदानीं पञ्चभक्तिपक्षे
तत्साम्यमुपपादयति—
तस्य ह वा एतस्य संवत्सरस्य साम्नो वसन्तो
हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो
हेमन्तो निधनम् ॥ २३ ॥
तस्यैतत्तस्य संवत्सरात्मकस्य साम्नो हिंकारादय एव वसन्तादय
इत्यर्थः ॥ २३ ॥
हेमन्तस्य निधनसाम्यं दर्शयति—
तस्माद्धेमन्तं प्रजा निधनकृता इवासते निधन-
रूपमेवैतर्हि ॥ २४ ॥
तस्मात् अत एव हेमन्तम् ऋतुं प्रजाः सर्वा निधनकृता निधन-
कारिण्य उपसंहृतव्यापारा इवासते एतर्हि एवं च सति निधनरूपमिव
हेमन्तस्य रूपम् । व्यापारोपरतिसाम्यात् ॥ २४ ॥


  1. KTI पौर्णमास्याः for पौर्णमास्यः.
  2. M. after हिंकारः adds एवादौ क्रियमाण.
  3. J. अर्धमासाः प्रस्तावः for प्रस्ताव एवा०...०साम्यात् .
  4. MT. आद्या for आद्याख्या; M. आद्या भवन्ति ओंकाराः for
    आद्याख्या भक्तिरेव.
  5. J एतं for अत एव.
  6. RK अस्योप० for व्यापारोप०.

तृतीयोऽध्यायः (४) ११९
एवं रक्षोधनमवभृथसाम दर्शयित्वा इदानीं प्राच्यादिषु चतसृषु दिक्षु
ऐच्छिकविकल्पेन प्रश्नपूर्वकदवभृथगमनं दर्शयितुं वृद्धानां प्रश्नं
तावदुपक्षिपति—
तदाहुः कां दिशमवभृथमभ्यवेयुरिति ॥ २५ ॥
तदाहुः कां दिशमभिलक्ष्य अवभृथमभ्यवेयुः । ऋत्विजः ५
प्रयन्तीति ॥ २५ ॥
तत्र प्रथमं कल्पं सप्ररोचनमाह—
प्राञ्चोऽभ्यवेयुर्देवानां वा एषा दिग् यत्प्राची । या
देवानां दिक् तां नोऽनु यज्ञः संतिष्ठाता इति ॥ २६ ॥
प्राञ्चः प्रागभिमुखाः सन्तोऽभ्यवेयुः अवभृथार्थम् अपः प्रतिगच्छेयुः । १०
एषा दिक् देवानां संबन्धिनी खलु । यत् या प्राची । या देवानां दिक्
नोऽस्माकं यज्ञः तां दिशमनुसंतिष्ठातै । तिष्ठतेर्लेटि एत ऐ (पा. ३.४.९३)
इत्यैकारः । प्रतिष्ठितो भवत्विति । प्राचीमेनम (०मनु ?) इत्यर्थः ॥ २६ ॥
द्वितीयं कल्पं सप्ररोचनं दर्शयति—
दक्षिणाभ्यवेयुः पाप्मानं हैष हन्ति यो यजते १५
तमिमं पाप्मानं हतं दक्षिणा हराणीति पितॄणां वा एषा
दिग् यद्दक्षिणा । या पितॄणां दिक् तां नोऽनु यज्ञः
संतिष्ठाता इति ॥ २७ ॥ १८

  1. J. om. चतसृषु; J after दिक्षु adds एकैकम् .
  2. RI ०गानं for ०गमनं.
  3. J. ०शिक्षति for ०क्षिपति.
  4. RIS om. तदाहुः; M. व्रतिनः प्रशंसति for तदाहु...प्रयन्तीति;
    T क्षादिनः पृच्छन्ति K क्षादिनः प्रशन्ति (!) for ऋत्विजः प्रयन्ति.
  5. J. एव for अपः.
  6. J adds सा before एषा; M. तां नोऽनुयज्ञः संतिष्ठता इति for प्राची.
  7. M. ०र्लिटि, TIK ०लेटि for ०लैटि.
  8. RJ ०गमनम् , IS. एनाम् for प्राचीमेनम् (०मनु?).
  9. TSK हि for ह.
  10. T हतनिष्पापं यजमानं for हतं.

१२० षड्विंशब्राह्मणम्
दक्षिणा दक्षिणातोऽभ्यवेयुः अत एव एष यजमानः पाप्मानमेव
हन्ति यो यजते तमिमं पाप्मानं हतं निष्पापं यजमानं दक्षिणा हराणि
नयानीति प्रस्तोता ब्रवीति । एषा दिक् पितॄणां संबन्धिनी खलु । यत् या
दक्षिणा । तथा च श्रुत्यन्तरं—देवमनुष्या दिशो व्यभजन्त । प्राचीं देवाः,
५ दक्षिणां पितरः, प्रतीचीं मनुष्या इति । स्पष्टमन्यत् ॥ २७ ॥
कल्पान्तरं सप्ररोचनमाह—
प्रत्यञ्चोऽभ्यवेयुर्मनुष्याणां वा एषा दिक् यत्
प्रतीची । या मनुष्याणां दिक् तां नोऽनु यज्ञः संतिष्ठाता
इति ॥ २८ ॥
१० पूर्ववद्व्याख्येयम् ॥ २८ ॥
पक्षान्तरं सप्ररोचनमाह—
उदञ्चोऽभ्यवेयुर्नक्षत्राणां वा एषा दिग् यदुदीची । या
नक्षत्राणां दिक् तां नोऽनु यज्ञः संतिष्ठाता इति ॥ २९ ॥
उदङ्मुखा अवभृथमभ्यवेयुः । एषा दिक् नक्षत्राणां स्वभूता या
१५ उदीची । नक्षत्राधिपतेः सोमस्य संबन्धित्वात् । स्पष्टमन्यत् ॥ २९ ॥
यथोक्तानां दिशां मध्ये यस्यां दिशि भूयिष्ठा आपो भवन्ति तत्रैव
गच्छेयुरिति नियमं दर्शयति—
अतो वाव यतमथैव कतमथा चापः स्युः
१९ तदभ्यवेयुः ॥ ३० ॥
2. J या पितॄणां दिक् तां नोऽनु यज्ञः संतिष्ठता इतीति दक्षिणा
हारिणी नयानीति प्रस्तोता ब्रवीति । सा एषा दिक् पितॄणां संबन्धिनी खलु या
दक्षिणा for हराणि नयानीति...व्यभजन्त.
6. J before कल्पान्तरं adds तृतीयं कहं; J दर्शयति for आह.
11. J कल्पा० for पक्षा०.
14. R. ०भृथार्थम् for भृथम्.
18. SK अथो for अतो.

तृती॒योऽध्यायः (४) १२१
अतो वाव यतमथा कतमथा यस्यां कस्यां दिशि । बहूनां दिशां
प्रकृतत्वात् । निर्धारणे डतमप् । आपो भूयिष्ठाः स्युः तत्राभ्यवेयुः गच्छेयुः ।
न तत्र प्राच्यादिदिङ्नियम इत्यर्थः ॥ ३० ॥
यथोक्तार्थविदं प्रशंसति—
यद्वै विद्वान् कर्म करोत्यस्मादिदमिति वसीयानेव
तेन भवति ॥ ३१ ॥
अस्मात् कर्मणः इदं श्रेयो भवतीति विद्वान् जानन् यत् कर्म करोति ।
तेन कर्मणा वसीयान् अतिशयेन वसुमानेव भवति ॥ ३१ ॥
नद्यादिषु वा तटाकादिषु वा अवभृथगमनमिति विचारपूर्वकं व्यवस्थित-
विकल्पं दर्शयितुं विचारं तावदाह—
तदाहुः स्रवन्तीष्वभ्यवेयू३स्स्थावरासू ३ इति ॥ ३२ ॥
तदाहुः तत्र ब्रह्मवादिन आहुः स्रवन्तीषु चलास्वप्सु अभ्यवेयुः
अवभृथार्थं गच्छेयुः । स्थावरासु अचलासु वेति । प्लुतौ विचारार्थौ ॥ ३२ ॥
तत्राद्यं पक्षं सप्रशंसं दर्शयति—
स्रवन्तीष्वभ्यवेयुः । पाप्मानं हैष हन्ति यो यजते
तमिमं पाप्मानं हतमपः प्रवहतामिति ॥ ३३ ॥
स्रवन्तीषु अप्सु अभ्यवेयुः । एष पाप्मानं हन्त्येव यस्तत्र यजते ।
तमिमं पाप्मानं हतं हतपाप्मानं अपः प्रति [प्र]वहताम् । यज्ञः प्रापयत्विति
स्रवन्तीषु गमनमित्यर्थः ॥ ३३ ॥

  1. TSK अथो for अतो०; RSI यतमथव for यतमथा; RI add च
    and S वा after कथमथा.
  2. R इति for इदं; J जानानः for जानन्.
  3. J. तदाहुः for तत्र.
  4. RMISK om. अभ्यवेयुः; J पाप्मानं हैष हन्ति यो for एष...यस्तत्र.
  5. JT हतं पापं for हतपाप्मानं; MI ०पाप्मानः for ०पाप्मानं; T.
    अतः for अपः ; M. यज्ञ अपः सन्ति तास्वभ्यवेयुः । अवभृथार्थमन्त्यर्थ(मित्यर्थः ?)
    for यज्ञः...गमनमित्यर्थः.

सप्रशंसं पक्षान्तरमाह—
स्थावरा याः शीपल्यास्तास्वभ्यवेयुः । इतो मा यज्ञो
विक्षुब्धः प्रत्युपतिष्ठाता इति ॥ ३४ ॥
याः स्थावराः अचलाः [शीपल्याः] शैवलयुक्ताश्च आपः सन्ति
तास्वभ्यवेयुरवभृथार्थम् । इतोऽस्मात् कृतोऽद्ध्र्यो यज्ञो विक्षुब्धः सन् मा
प्रत्युपतिष्ठातै । मा गच्छत्विति । शैवलास्वप्सु गमनमित्यर्थः । अत्र
संभवासंभावाभ्यां विकल्पो व्यवस्थितो द्रष्टव्यः ॥ ३४ ॥
नदीतटाकयोर्मध्ये यत्रापो भूयिष्ठास्तत्रैव गच्छेयुरिति नियममाह—
अतो वाव यतरथैव कतरथा चापः स्युस्तद-
भ्यवेयुः ॥ ३५ ॥
अतो वाव अपि च यतरथा कतरथा चैव यत्रकुत्रचित् । पक्षद्वयस्य
पूर्वमुपन्यस्तत्वात् द्वयोरेकतरस्य निर्धारणार्थे तरप् । आपो भूयिष्ठाः स्युः ।
तत्रैव अभ्यवेयुरिति ॥ ३५ ॥
उक्तार्थविदं प्रशंसति—
यद्वै विद्वान् कर्म करोत्यस्मादिदमिति वसीयानेव
तेन भवति ॥ ३६ ॥
व्याख्यातचरमेतत् ॥ ३६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥
2. TIS. शैवल्या० for शीपल्या०
4. J. शैवल्याः, RTISK शैवलवत्यः for शीपल्याः.
5. RTISK om. इतः; and कस्मात् for अस्मात्; RIS तेभ्यो,
M. कुतो हेतोर् for कृतोऽद्ध्र्यो०
12. JMTIK तरच् for तरप्.

पञ्चमः खण्डः
अथाभिचरणीययज्ञेषु एकस्यै हिंकरोतीत्याद्याः पञ्चानुवाकाः त्रिवृदादीनां
त्रिणवपर्यन्तानां विष्टुतिचोदनाः । तत्र त्रिवृत्स्तोमस्येषुसंज्ञिके द्वे विष्टुती स्त
इति तद्विधायकं ब्राह्मणमेवमाम्नायते—
एकस्यै हिंकरोति स प्रथमया । तिसृभ्यो हिंकरोति
स मध्यमया । पञ्चभ्यो हिंकरोति स उत्तमया । एकस्यै हिंकरोति
स प्रथमया । तिसृभ्यो हिंकरोति स पराचीभिः । पञ्चभ्यो
हिंकरोति स एकया स एकया स तिसृभिः । इषुस्त्रिवृतो
विष्टुतिः ॥ १ ॥
प्रथममुद्गाता एकस्यै एकासृचं गातुं हिंकरोति हिंकारं कुर्यात् ।
क्रियार्थोपपदस्य च कर्मणि (पा. २. ३ १४) इति सर्वत्र चतुर्थी । सः
हिंकर्ता प्रथमया ऋचा गायेदिति शेषः । ततः तिसृभ्यः तिस्र ऋचो गातुं
हिंकरोति । स मध्यमया द्वितीया त्रिर्गायेत् । पञ्चभ्यो हिंकरोति । स हिंकर्ता
उत्तमया तृतीयया ऋचा पञ्चकृत्वो गायेदित्येका विष्टुतिः। अथ एकस्यै हिंकरोति।
स प्रथमयेति पूर्ववद्व्याख्येयम् तिसृभ्यो हिंकरोति । स पराचीभिस्तिसृभिः
ऋग्भिः आनुलोम्येन गायेदित्यर्थः । पञ्चभ्यो हिंकुर्यात् । स प्रथममेकया गायेत् ।
ततः स एकया द्वितीया गायेत् । स हिंकर्तोद्गाता तिसृभिः तृतीयया ऋचा
त्रिर्गायेदिति । एवं त्रिवृत इषुसंज्ञिका विष्टुतिर्द्वितीयेत्यर्थः ॥ १ ॥
अनया कर्तव्यतां दर्शयति—
अभिचरन्त्स्तुवीत ॥ २ ॥
3. M JRSIK ०संज्ञके for ०संज्ञिके.
10. J adds सः before प्रथमम् .
13. J. Subst मध्यमयेति मध्यमया ऋचा for मध्यमया; J.
for द्वितीया.
14. J अतः for अथ.
17. RSIK अतो for ततः and om. स एकया
द्वितीया; RSIK सकृत् for गायेत् .

एतया द्विविधया विष्टुत्या अभिचारकर्म कुर्वाणः स्तुवीतेत्यर्थः ॥ २ ॥
अस्या विष्टुतेरिषुणा साम्यं दर्शयति--
अनीकं प्रथमा । इषुर्घनुर्ज्या यत्तिस्रः संदधाति, व्येव
पञ्चभिः सृजते ॥ ३ ॥
उभयत्राद्ये पर्याये प्रथमा ऋक् अनीकम् इषुधारास्थानीयम् । मध्यमे पर्याये
यत् यास्तिस्रो गीतिनिष्पन्ना ऋचः संदधाति [संधानं] करोति ता इषुः शरः
धनुश्च ज्या मौर्वी चेति तिस्र एतत्स्थानीया इत्यर्थः । एताभिः द्विविधाभिः
शरं शरासने संदधाति खलु । एवमेव पञ्चभिः, उक्ताः पर्यायास्ताभिः सृजते ।
धनुषि संहितमिषुं लक्ष्यदेशं प्रति विसृजति । अत्रानीकादिविसर्जनान्ताः
पञ्च संख्याः शरे विवर्तन्त इति तत्साम्यं द्विविधाया विष्टुतेर्युक्तमित्यर्थः ॥ ३ ॥
तत्प्रशंसति--
स्तृणुते भ्रातृव्यं वसीयानात्मना भवति य एतया स्तुते ॥ ४॥
य एतया विष्टुत्या स्तुते स भ्रातृव्यं सपत्नं स्तृणुते हिनस्ति ।
स्तृ-हिंसायाम् इति धातुः । आत्मना स्वेनैव अन्यनिरपेक्षेण वसीयान्
अतिशयेन वसुमान् भवतीति ॥ ४ ॥
इति सायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥

३. MIK इषुधनुर् for इषुर्घनुर्.
५. MTK add इति after ऋक् ; RI इषुः रणस्थानीयां for इषुधारा-
स्थानीयम्; M ॰स्थानीया, T ॰प्रस्थानीयां K ॰स्थानीयान् for ॰स्थानीयम्.
६. J तदासन्नं for शरः धनुश्च.
७. RIS. om. च after धनुश् ; KTM. Subst. द्विशरं for
द्विविधाभिः शरं.
८. J ॰सनं ड्यां संदधाति for ॰सने संदधाति; RIS परम्, KT पवम्
for एवम्; J एभिरुक्तैः अपशव्यां आयामस्रथाभिः, R. उत्तमपर्यायस्ताभिः KT
उक्ता पर्यायस्ताभिः for उक्ताः पर्यायास्ताभिः.
९. RJS. धनुःषु for धनुषि; RJTKSI संहिताम् for संहितम् ; RISK
इषु० for इषुं.
१०. TRJI. शरेऽपि for शरे वि०.
१३. MRIS हिंसति for हिनस्ति.

षष्ठः खण्डः
पञ्चदशस्तोमस्य विष्टुतिविधायकं ब्राह्मणमेवमाम्नायते--
तिसृभ्यो हिंकरोति । स पराचीभिस्तिसृभ्यो
हिंकरोति । स पराचीभिर्नवभ्यो हिंकरोति । स तिसृभिः
स तिसृभिः स तिसृभिः ॥ १ ॥
आद्यावुभौ पर्यायौ पराचीभिरानुलोम्येन पठिताभिस्तिसृभिः ऋग्भिः
कार्यौ । तृतीयः पर्याय एकैकस्या ऋचस्त्रिरावृत्त्या कार्य इत्यर्थः ।
पञ्चदशस्य विष्टुतिरिति ॥ १ ॥
अथास्यां कर्तव्यत्वं दर्शयति—
अभिचरन्स्तुवीत ॥ २ ॥
उक्तं पञ्चदशं स्तौति—
वज्रो वै त्रिवृत् । वज्रस्त्रिणवः । यत्त्रिवृत्त्रिणवाभ्यां
पञ्चदशं विदधाति । वज्रमेव तत्सम्यक् संदधाति ॥ ३ ॥
वज्रो वै वज्र एव त्रिवृत्स्तोमः । त्रिणवस्तोमोऽपि वज्रः । तस्य
त्रयस्त्रिवृत एवेति । त्रिणवस्य वज्रत्वं त्रिवृत्स्वसद्भावात् । एतावता किं
कृतमित्यत उक्तं यद्येवं त्रिवृत्त्रिणवाभ्यां उभाभ्यां स्तोमाभ्यां पञ्चदशस्तोमं
विदधाति [तर्हि] वज्रमेव तत्सम्यक् संदधातीति । तिसृभिस्त्रिवृतो विधानं
9. JMTK. om. अस्यां ; I. अस्य for अस्यां.
14. MTK वज्रम for वज्रः• J adds वज्रस्य after तस्य.
15. RJ om. त्रयः; J adds वज्रस्य after त्रिणवस्य; J त्रिवृत्स्वभावात् ,
M. तृवत्त संभवात् for त्रिवृत्स्वसद्भावात् .
16. TISK om. अतः; J M om. उभाभ्यां; T om. पञ्चदश.
17. JTRIS. om. वज्रमेव...संदधाति. See CN; M. विधानात्
for विधानं

नवभिः त्रिणवस्येति । तत् तेन वज्रमेव सम्यक् समीचीनं संदधाति ।
अवयविनं वज्रं वज्रावयवे संदधातीत्यर्थः ॥ ३ ॥
वज्रस्य त्रिवृत्त्रैणवसादृश्यं दर्शयति—
एवमिव वै वज्रः साधुः । यदारंभणतोऽणीयान्
प्रहरणतः स्थवीयान् ॥ ४ ॥
एवमिव वै एवमेव खलु वज्रः साधुः शत्रूणां साधको भवति । यद्
यस्मादयं वज्रः आरम्भणतः प्रथमतः ग्रहणप्रदेशे अणीयान् अणुत्तरो
भवति । प्रहरणतः प्रहरणप्रदेशे शल्ये स्थवीयान् । स्थूलतरो भवति ।
अत्रापि प्रथमसंख्या नवसंख्यापेक्षया अल्पा । नवसंख्या अधिका ।
अन्यसंख्याया अभिहितत्वात् ॥ ४ ॥
तत्प्रशंसति—
तेन पाप्मानं भ्रातृव्यं स्तृणुते । वसीयानात्मना
भवति य एतया स्तुते ॥ ५ ॥
य एतया स्तुते तेन पाप्मानं भ्रातृव्यं स्तृणुते हिनस्तीति ।
शिष्टं स्पष्टम् ॥ ५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥


१. M. नवति for नवभिः.
९. RI प्रथमं त्रिवृतो for प्रथमसंख्या; TK. प्रथमत्वसंख्यापेक्षया for
प्रथमसंख्या नवसंख्या...पेक्षया; RSI अल्पत्वं, M. अनल्पा for अल्पा;
KMT ०संख्याधिका RIS. संख्याया अधिकाया for ०संख्या अधिका.
१४. L. यत एवं for य एतया. MTK एव for एतया. TMT ...

सप्तमः खण्डः
सप्तदशस्तोमविष्टुत्या कर्तव्यतां दर्शयति—
एतयैवाभिचरन्स्तुवीत ॥ १ ॥
एतया वक्ष्यमाणया विष्टुत्या अभिचरन् शत्रून् जिघांसुः स्तुवीत ॥ १ ॥
सप्तदशं स्तौति—
वज्रो वै त्रिवृत् । वज्रः पञ्चदशः । वज्रः त्रिणवः ।
यत् त्रिवृत्पञ्चदशत्रिणवैः सप्तदशं विदधाति वज्रमेव
तत्सम्यक् संदधाति ॥ २ ॥
वज्रस्य त्रिवृत्वं सुप्रसिद्धम् । वज्रः पञ्चदशः । एतस्यैन्द्रत्वात् ।
वज्रस्त्रिणवः । यत् यस्मात् त्रिवृदादिभिः सप्तदशं विदधाति । तिसृभिः
त्रिवृतो विधानम् , पञ्चभिः पञ्चदशस्य नवभिः त्रिणवस्य । एतदुक्तं भवति ।
तिसृभिः पराचीभिः प्रथमः पर्यायः । पञ्चभिः मध्यमो नवभिरुत्तम इति । तत्
तेन वज्रमेव वज्रावयवे सम्यक् संदधातीति ॥ २ ॥
वज्रस्य त्रिवृदादिसादृश्यं दर्शयति —
एवमिव वै वज्रः साधुः यदारम्भणतोऽणीयान्
प्रहरणतः स्थवीयान् ॥ ३ ॥
अत्र पञ्चदशापेक्षया त्रिवृतोऽल्पसंख्या । तस्यापि त्रिणवापेक्षयेति ।
शिष्टं व्याख्यातम् ॥ ३ ॥
तत्प्रशंसति—
तेन पाप्मानं भ्रातृव्यं स्तृणुते । वसीयानात्मना
भवति । य एतया स्तुते ॥ ४ ॥
एतया सप्तदशविष्टुत्या । समानमन्यत् ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये सप्तमः खण्डः ॥ ७ ॥
2. J adds अथ before सप्त; RIS. ०विष्टुत्याः for ०विष्टुत्या•
9. J (ए)व तथास्वात् for (ऐ)न्द्रत्वात् .
10. MIK add इति after विदधाति.