सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 112, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 112

११२ षड्विंशब्राह्मणम्

सर्वस्य आप एव शान्तिः शान्तिकारणम् । किं च सर्वस्य जगत
एव प्रतिष्ठा । अद्भ्यः पृथिवी (तै. सं. २.१.१) इति श्रुतेः ॥ २ ॥
तत्रैव प्रस्तोतृकृत्यं दर्शयति—
पाप्मानं हैष हन्ति यो यजते । तमिमं पाप्मानं
हतमपो हराणीति ॥ ३ ॥
यो यजमानो यजते एष स्वयं पाप्मानमेव हन्ति । अतस्तमिमं
पाप्मानं हतं पापस्य हन्तारं यजमानमपः प्रतिहराणीति प्रस्तोता
मन्वीतेत्यर्थः ॥ ३ ॥
अवभृथगमने गन्तॄणां कंचिन्नियमं दर्शयति—
तेनान्तरेण प्रतिपद्यन्ते चात्वालं चोत्करं च ॥ ४ ॥
चात्वालम् चोत्करं चान्तरेण चात्वालोत्करयोर्मध्ये तेन पथा प्रति-
पद्यन्ते अपः प्रतिगच्छेयुः ॥ ४ ॥
यथोक्तं मार्गं प्रशंसति—
एतद्वै देवानां तीर्थम् ॥ ५ ॥
एतद्वै एतदेव यथोक्तं मार्गस्वरूपं देवानां तीर्थम् । सर्वपाप-
निवारकत्वात् ॥ ५ ॥
उक्तार्थे मन्त्रसंमतिमाह--
तदेतदृषिराहाप्मानं तीर्थं क इह प्रवोचद्येन देवाः
पथा प्र पिबन्ते सुतस्येति ॥ ६ ॥


पादटिप्पण्यः (Footnotes):

  1. R. ०कारणं, J ०कारिण्यः for कारणं; M. श्रान्तिः कारुण्यं, T शान्तिः कारुण्यं for शान्तिकारणम्
  2. J प्रशंसापूर्वक० for प्रस्तोतृ०.
  3. MTK स्वीयम् for स्वयम्.
  4. R प्रस्तोतारमन्विते for प्रस्तोता मन्वीते०.
  5. M पिबेत्, K. दृश्येत for मन्वीत.
  6. MK. मन्त्रिणां for गन्तॄणां; KR. किंचित्, T. कंचन for कंचित्.
  7. RKI. उत्करं चात्वालं for चात्वालं चोत्करं.
  8. K adds यद्, M यदि before उक्तार्थे.