सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 113, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 113

ऋषिः अतीन्द्रियार्थदर्शी सध्रीनामा ऋषिः घर्मो वा आह
आत्मानं व्यापकं तीर्थम् इह लोके कः प्रवोचत् तस्य महिमानं को वा
वदेदित्यर्थः । येन तीर्थरूपेण पथा मार्गेण आगत्य सुतस्य तस्य सुतं सोमं
देवाः प्रपिबन्ते प्रकर्षेण पिबन्ति । इतिशब्दो मन्त्रसमाप्तियोतनार्थः ॥ ६ ॥
प्रकारान्तरेण तदेव प्रशंसति—
एतद्वै देवानां तीर्थम् । अतीर्थं ह्येव
यज्ञस्यातोऽन्यत् ॥ ७ ॥
एतदेव देवानां संबन्धि तीर्थम् । अतोऽस्मादन्यत् यद्यज्ञस्य
संबन्धि तदतीर्थमेव ॥ ७ ॥
यथोक्तमर्थमुपसंहरति—
तस्मादेतेनैव प्रसृते प्रपद्येत । एतेन निष्क्रामेत् ॥ ८ ॥
यस्मादेवं तस्मात् यथा तेन मार्गेणैव प्रसृते प्रवेशे प्रपद्येत गच्छेत्
तथा एतेनैव पथा निष्क्रामेत् अवभृथार्थं निर्गच्छेत् ॥ ८ ॥
तन्निर्गमनकाले रक्षोघ्नमवभृथसाम गेयमिति दर्शयितुमाख्यायिकया
तत् प्रशंसति—
तान् प्रच्युतान् देवयजनादप्राप्तानप एतस्मिन्नवकाशे
रक्षांस्यजिघांसन् । स एतदग्नी रक्षोहा सामापश्यत् । तान्येतेना-
पाहत । तान्यमुर्ह्यपहतानि सन्तीति देवा अकुर्वन् । इत्येव
रक्षांस्यपसेधति ॥ ९ ॥

  1. RI समृद्ध० K. स्मृद्ध०, T. समृद्धि० for सध्री०.
  2. J वदति, M. वेद for वदेत्; MST तीर्थेन for तीर्थ०.
  3. Sh Ms J प्रसुते for प्रसृते ; MT add एव before निष्क्रामेत् .
  4. J. मन्त्रेण for मार्गेण; J प्रसुते for प्रसृते; J. om. प्रवेशे; J. प्रविशेत्
    for गच्छेत् ; RISK प्रतिपद्येत for प्रपद्येत.
  5. TK तानन्तराप० for तान्येतेनापा०.
  6. M तान्यमून्यप, TK तान्विमृद्धया वा for तान्यमुर्ह्यप ; M adds
    इति after ०हतानि.
    प० 8