षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 108, कुल 226 में से
संदर्भ में पढ़ेंप्रसङ्गाद्देवयजनस्य दक्षिणभागे तद्योग्यदेशस्थितौ न दोष इत्याह—
कामं दक्षिणत आगामुका हैनं दक्षिणा भवन्ति ॥ १४ ॥
दक्षिणतः कामं यथेष्टमतिरेचयेयुः । तर्हि एनं यजमानं दक्षिणा
आगामुका भवन्तीति ॥ १४ ॥
पश्चिमभागे तावदवशेषणे पुनः प्रत्यवायमाह—
कामं पश्चादपरपुरुषा हास्माच्छ्रेयांसो भवन्ति ॥१५॥
कामम् इच्छया पश्चाद्भागे यदि तावन्मात्रदेशमवशेषयेयुः अस्मादपर-
पुरुषाः श्रेयांसो भवन्ति ॥ १५ ॥
उत्तरभागे तावन्मात्रदेशावशेषणे श्रेयःप्राप्तिं दर्शयति—
काममुत्तरत उत्तरा हैनं देवयज्योपनामुका भवति ।
उत्तरोत्तरणी हास्य श्रीर्भवति ॥ १६ ॥
उत्तरतः कामम् इच्छयातिरेकः कार्यः तर्हि एनं यजमानम् उत्तरा
अपि देवयज्योपनामुका भवति । प्राप्नोतीत्यर्थः । किं च अस्य श्रीः
उत्तरोत्तरणी परंपरयापि वृद्धा भवति ॥ १६ ॥
धर्मान्तरं दर्शयति—
यस्य पुरस्तात् त्रीणि ज्योतींषि दृश्येरन् ।
अग्निरप आदित्यस्तद्देवयजनं तत्त्रिशुक्रियम् ॥ १७ ॥
यस्य देशस्य पुरस्तादग्निरप आदित्य इति त्रीणि ज्योतींषि दृश्येरन्
तदेव देवयजनं कार्यम् । एवं सति तत् त्रिशुक्रियं शुक्लं ज्योतिः त्रिज्योतिष्कं
- RS. प्रसङ्गादेव for प्रसङ्गादेव०; RKMIS. om. ०देश०.
- M. प्राशस्त्यम् for प्रत्यवायम्.
- M. पापीयांसो० for श्रेयांसो०; M. अवर० for अपर०.
- M. अवर० for अपर०.
- MK. ०यज्ञो० for ०यज्यो०.
- RIS (उ)त्तरिणी for (उ)त्तरणी.
- J. कामम for कार्यः.
- J अन्यापि, M अत्रापि for अपि; J adds पुनर्यागप्राप्तिः after अपि.
- IS. ०त्तरिणी for ०त्तरणी; IRS विवृद्धा, M ०भिवृद्धा, K. विरूद्धा for ०पि वृद्धा.
- RT om. ज्योतिः त्रि; RKMIS. om. त्रि.