सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

8
तत्रास्तेऽग्निशिखातन्वी चक्रात्तस्मान्नवाङ्गुले ।
देहस्य कन्दोऽस्त्युत्सेधायामाभ्यां चतुरङ्गुलः ।
ब्रह्मग्रन्थिरिति प्रोक्तम् तस्य नाम पुरातनैः ॥ ३९ ॥
38-39. Brahmagranthi the base of voice-production
12 angulas above the adhara chakra (1 angula=¾"
approximately)
(சு. 38-39) ஆதார சக்கரத்திற்கு பன்னிரண்டு அங்குலத்
துக்கு மேல் பிரஹ்ம கிரந்தி இருக்கிறது. அதிலிருந்து கிளம்பும்
வாயுவே நாதத்தை உண்டாக்குகிறது. 1 அங்குலம் = ¾ தற்கால
அங்குலம்.
अथ वायवः ।
प्राणापानौ तथाव्यानसमानोदानसंज्ञकाः ।
नागः कूर्मश्च कृकरोदेवदत्तधनञ्जयौ ॥ ४० ॥
तेषां मुख्यतमः प्राणो नाभिकन्दादधःस्थितः ।
सरत्यास्ये नासिकयोः नाभौहृदयपङ्कजे ॥ ४१ ॥
शब्दोच्चारण निश्वासोच्छ्वासकासादिकारणम् ।
अपानस्तुगुदे मेढे कटि जङ्घोदरे तथा ॥ ४२ ॥
व्यानोऽक्षि श्रोत्र गुल्फेपु कट्याङ्घ्राणे चतिष्ठति ।
समानोव्याप्य सकलं शरीरं वह्निनासह ॥ ४३ ॥
उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु ।
त्वगादिधातून।श्रित्य पञ्चनागादयः स्थिताः ॥ ४४ ॥
त्वगसृङ्मांसमेदोस्थि मज्जा शुक्राणि धातवः ।
हृदि प्राणो गुदेऽपानः समानो नाभिसं स्थितः ।
उदानः कण्ठ देशस्थः व्यानस्सर्वशरीरगः ॥ ४५ ॥
40-45 The ten Vayus and their places—the 7 dhatus
(சு. 40-45) பத்து வித வாயுக்களும், ஏழு தாதுக்களும்.

9
अथ प्रकृतम् । इति वस्तुस्थितिस्तावद्गाने त्रेधा भवेदसौ ।
हृदिमन्द्रो गले मध्यो मूर्ध्नि तार इति क्रमात् ॥ ४६ ॥
द्विगुणः पूर्वपूर्वस्माद्यं स्यादुत्तरोत्तरः ।
एवं शरीरवीणायां दारुव्यां तुविपर्ययः ॥ ४७ ॥
स्वरूपमात्रश्रवणात् नादोनुरणनं विना ।
श्रुतिरित्युच्यते भेदास्तस्या द्वाविंशतिर्मताः ॥ ४८ ॥
तदभिव्यक्तये नाडिस्थितिर्देहेनिरूप्यते ।
इडावामे स्थिता नाडी दक्षिणेपिङ्गलातथा ।
हृदिनाडी सुषुम्नासा ब्रह्मरन्ध्रावधिस्थिता ॥ ४९ ॥
46—49. The seats of the octaves in the body; the
3 principal Nadis—Ida, Pingala and Sushumna.
(சு. 46-49) சரீரத்தில் 3 ஸ்தாயிகளின் ஸ்தானங்களும்,
சரீரத்திலுள்ள நாடிகளில் முக்கியமான நாடிகளாகிய 'இடை,'
, பிங்கலை ' ' ஸுஷும்னை ' என்பவைகளும்.
अथ श्रुतयः ।
तीव्राकुमुद्वतीमन्दा छन्दोवत्यस्तु षड्जगाः ।
दयावती रञ्जनी च रतिकाऋषभे स्थिताः ॥ ५० ॥
रौद्री क्रोधाच गान्धारे वज्रिकाच प्रसारिणी ।
प्रीतिश्चमार्जनी त्येता श्रुतयोमध्यमाश्रिताः ॥ ५१ ॥
क्षितीरक्ताच सन्दीपिन्यालापिन्यपिपञ्चमे ।
मदन्ती रोहिणीरम्येत्येता धैवतसंश्रयाः ॥ ५२ ॥
2

10
उग्राच क्षोभिणीतिद्वे निषादे वसतः श्रुती ।
एवं गण्ठे तथाशीर्षे श्रुतिद्वाविंशतिर्मता ॥ ५३ ॥
50—53. The Srutis, 22 in number, and their distri-
bution in the 7 swaras.
(சு. 50-53) சுருதிகள் இருபத்திரண்டும், அவைகள் ஸ்வரங்
களில் அமைந்திருக்கும் விதமும்.
अथ श्रुतिविवेकः ।
श्रुत्यनन्तरभावित्वं यस्यानुरणनात्मकः ।
स्निग्धश्चरञ्जकश्चासौ स्वरइत्यभिधीयते ॥ ५४ ॥ अथवा ।
स्वयं यो राजते नादः सस्वरः परिकीर्तितः ।
शुद्धाः सप्तस्वरा स्तेच मन्द्रादि स्थानतस्त्रिधा ॥ ५५ ॥
च्युताच्युतादिभेदेन विकृता द्वादशोदिताः ।
चतुःश्रुतिर्यदाषड्जो द्विश्रुतिर्विकृतस्तदा ॥ ५६ ॥
साधारणे च्युतः सस्यात् काकलीत्वेऽच्युतः स्मृतः ।
त्रिश्रुती ऋषभः साधारणे षाड्जींश्रुतिंश्रितः ॥ ५७ ॥
चतुःश्रुतित्वं आपन्नः तदैको विकृतोभवेत् ।
साधारणे मध्यमस्य गान्धारस्त्रिश्रुतिर्भवेत् ॥ ५८ ॥
स्वस्यान्तरत्वे भवति चतुःश्रुतिरिति द्विधा ।
च्युताच्युतादिभेदेन मध्यमोऽपिद्विधा भवेत् ॥ ५९ ॥

11
साधारणेन्तरत्वेच द्विश्रुतिर्विकृतस्तदा ।
पञ्चमो मध्यमग्रामे त्रिश्रुतिर्जायतेस्वरः ॥ ६० ॥
मध्यमस्य श्रुतिं प्राप्य कैशिकोपि चतुःश्रुतिः ।
धैवतो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः ॥ ६१ ॥
कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः ।
एते च सप्तभिः शुद्धैः भवन्त्येकोनविंशतिः ॥ तथा च रत्नाकरः ॥
(54—62) The 7 Suddha swaras and 12 Vikrita
swaras as formulated in Sangita Ratnakara.
(சு. 54—62) சங்கீத ரத்னாகரத்தில் 'சொல்லியிருக்கிறபடி
7 சுத்த ஸ்வரங்களும், 12 விக்ருத ஸ்வரங்களும்,
चतुर्विधाः स्वरा वादी संवादी च विवाद्यपि ।
अनुवादी च वादीतु प्रयोगे बहुलःस्वरः ॥ ६३ ॥
वाद्यादिभेदभिन्नाश्चतुर्विधास्ते स्वराः कथिताः ।
रागोत्पादनशक्तिर्वादनं तद्योगतोवादी ॥ ६४ ॥
बहुलस्वरः प्रयोगे सभवति राजा च सर्वेषाम् ।
श्रुतयोष्टौ द्वादशवा भवन्तिमध्ये ययोः स्वरयोः ॥ ६५ ॥
संवादिनौ तुकथितौ परस्परं तौ निषादगान्धारौ ।
रिधयो र्विवादिनौस्तः तयोर्धिधौवा विवादिनौस्याताम् ॥ ६६ ॥
शेषाणामनुवादित्वं स्वराणामुपजायते ।
वादी राजा स्वरस्तस्य संवादी स्यादमात्यवत् ।
शत्रु र्विवादी तस्यस्यात् अनुवादीतुभृत्यवत् ॥ ६७ ॥
॥ इति वाद्यादिभेदाः ।
63—67 Vadi, Samvadi (consonant) Anuvadi (asso-
nant) & Vivadi (dissnoant)Swaras,—a classification necess-
ary in the formation of Ragas.

12
(சு. 63-67) ராகங்களை அமைப்பதற்கு வேண்டிய ஸ்வரங்
களின் வகை:-
வாதி (முக்கிய ஸ்வரம்), ஸம்வாதி (கிளை ஸ்வரம்),
விவாதி (பகை ஸ்வரம்), அனுவாதி (நட்பு ஸ்வரம்),
ग्रामः स्वरसमूहःस्यात् मूर्छनादेःसमाश्रयः ।
तौद्वौधरातले तत्र स्यात्षड्जग्राम आदिमः ॥ ६८ ॥
द्वितीयो मध्यमग्रामस्तयोर्लक्षणमुच्यते ।
षड्जग्रामः पञ्चमेस्वचतुर्थश्रुतिसंस्थिते ॥ ६९ ॥
स्वोपान्त्यश्रुतिसंस्थेस्मिन् मध्यमग्रामइष्यते ।
यद्वाधस्त्रिश्रुतिः षड्जे मध्यमे च चतुःश्रुतिः ॥ ७० ॥
रिमयोः श्रुतिमेकैकां गान्धारश्च समाश्रयेत् ।
पश्रुतिंधोनिषादस्तु धश्रुतिं सश्रुतिंश्रितः ॥ ७१ ॥
गान्धारग्राममाचष्ट तदातं नारदोमुनिः ।
प्रवर्तते स्वर्गलोके ग्रामोसौ नमहीतले ॥ ७२ ॥
षड्जःप्रधान आद्यत्वादमात्याधिक्यतस्तथा ।
ग्रामेस्याद्विलोपित्वात् मध्यमस्तुपुरस्सरः ।
एतत्कुलप्रसूतत्वात् गान्धारोप्यग्रणीर्दिवि ॥ ७३ ॥
68-73 The 3 Gramas and their characteristics.
(சு. 68-73) 3 க்ராமங்கள் என்னும் ஸ்வரத் தொகுதிகளும்
அவற்றின் லக்ஷணங்களும்.
गीर्वाण कुलसम्भूताः षड्जगान्धारमध्यमाः ।
पञ्चमः पितृवंशोत्थो रिधवृषि कुलोद्भवौ ॥ ७४ ॥
निषादोऽसुखवंशोत्थो ब्राह्मणाः समपञ्चमाः ।
रिधौतुक्षत्रियौज्ञेयौ वैश्यजाती निगौ मतौ ।

13
शूद्रावन्तरकाकल्यौ क्रमेण कथिता बुधैः ७५ ॥
(74—75) The tribe and caste of swras.
(சு. 74—75) ஸ்வரங்களின் குலமும் ஜாதியும்
इति ग्रामलक्षणम् ।
क्रमात्स्वराणां सप्तानां आरोहश्चावरोहणम् ।
मूर्च्छनेत्युच्यतेग्रामत्रये ताः सप्त सप्त च ॥ ७६ ॥
स्थानत्रयसमायोगे मूर्च्छनारम्भसम्भवः ।
तत्र मध्यस्थषड्जेन षड्जग्रामस्य मूर्च्छना ॥ ७७ ॥
प्रथमारभ्यतेन्यास्तु निषादाद्यैरधस्तनैः ।
मध्यममध्यममारभ्य मध्यमग्राममूर्च्छना ॥ ७८ ॥
आद्यान्यास्तदधोधस्थ स्वरानारभ्यषट्क्रमात् ।
षड्जेतूत्तरमन्द्राख्या रजनीचोत्तरायता ॥ ७९ ॥
शुद्धषड्जामत्सरीकृदश्वक्रान्ताभिरुद्गता ।
सौवीरीमध्यमग्रामे हरिणाश्वाततःपरा ॥ ८० ॥
स्यात्कलोपनता शुद्धमध्यामार्गी च पौरवी ।
हृष्यका सप्तमी प्रोक्ता मूर्च्छनेत्यभिधाइमाः ॥ ८१ ॥
नन्दा विशाला सुमुखी विचित्रारोहिणी सुखा ।
आलापाचेतिगान्धारग्रामेस्युः सप्तमूर्छनाः ॥ ८२ ॥
ताश्च स्वर्गे प्रयोक्तव्या विशेषादत्रनोदिताः ।
पृथक् चतुर्विधाः शुद्धाः काकलीकलितास्तथा ।

14
सान्तारास्तद्द्द्वयोपेताः षट्पंचाशत्तुमूर्च्छनाः ॥ ८३ ॥
(76—83) Moorchhanas (modes) fore each grama. 28
in number. made up of 7 Suddha, 7 with Kakali, 7 with
antara and 7 with both.—56 for both the gramas.
(சு. 76—83) மூர்ச்சனைகள், ஒவ்வொரு கிராமத்திற்கும்
சுத்த மூர்ச்சனைகள் 7, அந்தர ஸ்வரத்தோடு கூடியது 7, காகலி
ஸ்வரத்தோடு கூடியது 7, இரண்டும் கூடியது 7, ஆக இரண்டு
கிராமங்களுக்கும் 56.
यदानिषादसंज्ञकः श्रुतिद्वयं समाश्रयेत् ।
तदूर्ध्वसस्य काकलीतदा सकीर्त्यते बुधैः ॥ ८४ ॥
यदाश्रयतिगान्धारो मध्यमस्य श्रुतिद्वयम् ।
तदासावन्तरः प्रोक्तः मुनिभीऋतुसन्धिवत् ॥ ८५ ॥
(84—85) 'Kakali' and 'Antara' defined.
(சு. 84—85) 'காகலி' 'அந்தரம்' என்ற ஸ்வரங்களின்
லக்ஷணம்.
मूर्च्छनायां यावतिथौ भवेतां षड्जमध्यमौ ।
ग्रामयोस्तावतिथ्येव मूर्च्छना सा प्रकीर्तिता ॥ ८६ ॥
(86) Order of Moorchhnas.
(சு. 86) மூர்ச்சனைகளின் வரிசை.
प्रथमादिस्वरारम्भा देकैका सप्तधाभवेत् ।
तासूच्चार्यान्त्यस्वरांस्तान् पूर्व्वानुच्चारयेत्क्रमात् ।
ते क्रमाः कथितास्तेषां सङ्ख्यानेकतरामता ॥ ८७ ॥
(87) Kramas, 7 for each moorchhana
(சு. 87) கிரமங்கள், ஒவ்வொரு மூர்ச்சனைக்கும் 7.
यदातु मूर्च्छनाः शुद्धाः षाडवौडवितीकृताः ।
तदातु शुद्धतानाःस्युः मूर्च्छनास्तत्र षड्जगाः ॥ ८८ ॥

15
सप्तक्रमाद्यदाहीनाः स्वरैः सरिपसप्तमैः ।
तदाष्टाविंशति स्तानाःषाडवाः परिकीर्तिताः ॥ ८९ ॥
यदातुमध्यमग्रामे मूर्च्छनाः सरिगोञ्झिताः ।
सप्तक्रमाद्यदातानाः स्युस्तदात्वेकविंशतिः ॥ ९० ॥
एवमेकोनपञ्चाशन्मिलिताः षाडवा मताः ।
सपाभ्यां द्विश्रुतिभ्यांच रिपाभ्यां सप्तवर्जिताः ॥ ९१ ॥
षड्जग्रामे पृथक् ताना एकविंशतिशौडवाः ।
त्रिश्रुतिभ्यां द्विश्रुतिभ्यां मध्यमग्राममूर्च्छनाः ॥ ९२ ॥
यदाहीनास्तदातानाः चतुर्दश समोरिताः ।
औडवामिलिताः पञ्च त्रिंशद्ग्रामद्वयेस्थिताः ।
सर्वे चतुरशीतिःस्युः मिलिताः षाडवौडवाः ॥ ९३ ॥
इति शुद्धतान विवेकः ॥
(88—93) Suddha Tanas, 84 in number.
(சு. 88—93) சுத்த தானங்கள் 84.
असम्पूर्णाश्चसम्पूर्णाव्युत्क्रमोच्चारिताः स्वराः ।
मूर्च्छनाः कूटतानाःस्युः तासां सङ्ख्याभिधीयते ॥ ९४ ॥
पूर्णाः पञ्चसहस्राणि चत्वारिंशद्युतानि च ।
एकैकस्यां मूर्छनायां कूटतानास्सह क्रमैः ॥ ९५ ॥
षट्पञ्चाशन्मूर्छनाःस्युः पूर्णाः कूटास्तु योजिताः ।
लक्षद्वयं सहस्राणि व्यशीतिर्द्विशते तथा ॥ ९६ ॥

16
चत्वारिंशच्च संख्याताः अथापूर्णान्प्रचक्ष्महे ।
एकैकान्त्यान्त्यविरहाद्भेदाः षट् षट्स्वरादयः ॥ ९७ ॥
एकस्वरोत्र निर्भेदोप्युक्तो नष्टादिसिद्धये ।
क्रमाश्चकूटतानत्वेप्युक्तास्तेप्युपयोगिनः ॥ ९८ ॥
स्युः षाडवानां विंशत्या सह सप्तशतानि च ।
औडवानान्तु विंशत्या सहितं शतमुच्यते ॥ ९९ ॥
चतुःस्वराणां कूटानां चतुर्विंशतिरीरिताः ।
त्रिस्वराःषट् द्विस्वरौद्वौ एक एकस्वरोमतः ॥ १०० ॥
आर्चिकोग्राथिकश्चैव सामिकोथ स्वरान्तरः ।
एकस्वरादितानानां चतुर्णामभिधाइमाः ॥ १०१ ॥
उक्तशुद्धादिभेदेन निगयुक्ताश्चतुर्विधाः ।
तयोरेकैकहीनास्तु द्वेधा मूलक्रमामताः ॥ १०२ ॥
षड्जाद्यौ मध्यमाद्यौ द्वौ चत्वारःस्युर्द्विधा द्विधा ।
चतुर्धान्ये दशेत्यष्टाचत्वारिंश दमीक्रमाः ॥ १०३ ॥
सविंशतिस्सप्तशती प्रागुक्तागुणिता क्रमैः ।
चतुस्त्रिंशत्सहस्राणि षष्ट्यापञ्चशतानि च ॥ १०४ ॥
इति षाडवसंख्यास्यादथ पञ्चस्वरान्ब्रुवे ।
गाद्यौ धाद्यौ निषादाद्यौ चतुर्भेदाः षडौडवाः ॥ १०५ ॥
अष्टावन्ये द्विधात्वेवं चत्वारिंशदिमे क्रमाः ।
सविंशतौ शतेतैश्च गुणितेऽष्टौ शतानिश्च ॥ १०६ ॥

17
चत्वारिच सहस्राणि संख्या पञ्चस्वरेष्विति ।
चतुःस्वरेषु न्याद्यौ द्वौ चतुर्था द्वादशापरे ॥ १०७ ॥
क्रमाद्विधेति द्वात्रिंशच्चतुर्विंशतिताडिताः ।
शतानि सप्ताष्टषष्ट्या चतुःस्वरसुसंमितिः ॥ १०८ ॥
त्रिस्वरेषु तु माद्यौ द्वावभेदौ द्वादशापरे ।
द्विधा षड्दर्शनिरिति क्रमास्ते षड्भिराहताः ॥ १०९ ॥
षट्पञ्चाशच्छतंचस्युः द्विस्वरेषु पुनर्द्विधा ।
रिगधन्यादयोष्टौस्युः शुद्धाः षडितरे क्रमाः ॥ ११० ॥
द्वाविंशतिस्तेच चतुश्चत्वारिंशद्विताडिताः ।
एकस्वरास्त्वभेदत्वान्मौला एव चतुर्दश ॥ १११ ॥
षड्जादेः शुद्धमध्यायाः भेदकं पञ्चमं विना ।
चतुः स्वरे क्रमद्वंद्वेऽष्टाचत्वारिंशदीरिताः ॥ ११२ ॥
तानास्त्रिस्वरयोस्त्वेते द्वादश द्विस्वरे द्वयम् ।
एक एकस्वरस्तेत्रिषष्टि रौत्तरमन्द्रकैः ॥ ११३ ॥
पुनरुक्तामतास्ताना न्यादि मार्गी क्रमात्पुनः ।
पञ्च स्वराये चत्वारः तत्तानानां चतुःशती ॥ ११४ ॥
अशीत्यभ्यधिका चातुस्वरी षण्णवतिर्भवेत् ।
द्वादश त्रिस्वरद्वंद्वे चत्वारो द्विस्वरद्वये ॥ ११५ ॥
एक एकस्वरस्तानः तेषां पञ्चशतीत्वियम् ।
त्रिनवत्यायुतातानैः अभिन्नारजनीगतैः ॥ ११६ ॥
3

18
धैवतादेस्तु पौरुष्याश्चत्वारः षट्स्वराः क्रमात् ।
तत्तानानान्तु साशीतिशताष्टाविंशतिर्मता ॥ ११७ ॥
औडवानां चतुर्णां प्रागुक्ता संख्या चतुःस्वरौ ।
त्रिस्वरौद्विस्वरावेकस्वरः प्रागुक्त संख्यकाः ॥ ११८ ॥
पञ्चविंशति संयुक्ता चतुस्त्रिंशच्छतीत्वियम् ।
तानानां सदृशाकारा स्यात्तानै रौत्तरायतैः ॥ ११९ ॥
इत्येकाशीतिसंयुक्तं सहस्राणां चतुष्टयम् ।
तानानां पुनरुक्तानां पूर्णापूर्णैः सह क्रमैः ॥ १२० ॥
अपनीयेतचेदेषाकूटतानमितिर्भवेत् ।
लक्षत्रयं सप्तदश सहस्राणि शतानि च ।
नवत्रिंशद्युतानीति कूटतानमितिर्भवेत् ॥ १२१ ॥
इति कूटतान प्रकरणम् ।
(93—121) Koota tanas, (ie) tanas formed by notes
arranged out of order, and their total number arrived at
by calculation.
(சு. 93—121) கூடதானங்களும் (வரிசை மாறிய ஸ்வரங்
களால் உண்டானவை) அவைகளின் மொத்தத் தொகையின்
கணக்கும்.
संख्याज्ञान प्रकारस्तु सांप्रतंकथयिष्यते ।
अङ्कानेकादि सप्तान्तानूर्ध्वमूर्ध्वं लिखेत्ततः ॥ १२२ ॥
हते पूर्वेण पूर्वेण तेषुचाङ्के परे परे ।
एकस्वरादितानानां संख्या सञ्जायते क्रमात् ॥ १२३ ॥
द्विस्वरं त्रिस्वरं वापि चतुःस्वरमथापिवा ।
क्रमं कंचिद्विलिख्यादौ पूर्वः पूर्वः परादधः ॥ १२४ ॥
३

19
स्वरः स्थाप्यः सचेदग्रे तत्पूर्वस्तदधोभवेत् ।
पुरतोऽपि लिखेद्धीमान् स्वरानुपशिवर्तिनः ।
मूलक्रमःक्रमात्पृष्ठे शेषः प्रस्तारईदृशः ॥ १२५ ॥
(122—125) Sankhya or the table of prastara or
orderly formulation of the permutation and combination
of swaras in tanas.
(சு. 122—125) 'சங்கியை' அல்லது வரிசையாகத் தானங்
களை ப்ரஸ்தாரம் செய்யும் வழி.
नष्टोद्दिष्टप्रबोधार्थं खण्डमेरुस्तथोच्यते ।
सप्तकोष्ठानलिखेदाद्यां पङ्क्तिमेकाङ्क कोष्ठतः ॥ १२६ ॥
हीनं तु पूर्वं पूर्वस्मात् पङ्क्तिषट्कमधो लिखेत् ।
आद्यपङ्क्त्यादि कोष्ठेतु लिखेदेकं परेषुखम् ॥ १२७ ॥
द्वितीयपङ्क्त्यामप्येकं आद्यकोष्ठे लिखेद्बुधः ।
परेषु पूर्वपूर्वाङ्ककोष्ठसंख्यागुणं न्यसेत् ॥ १२८ ॥
एवमेवलिखेदङ्कमधोधः पङ्क्तिकोष्ठकम् ।
खण्डमेरुरयं प्रोक्तः नष्टोद्दिष्टप्रबोधकः ॥ १२९ ॥
वेद्यतानस्वरमितान् दत्वा शून्येषु लोष्टकान् ।
मूलक्रमं लिखित्वादौ उद्दिष्टं तदधोलिखेत् ॥ १३० ॥
स्वरान्मूलक्रमस्थान्त्यात् पूर्वोयावतिथः स्वरः ।
उद्दिष्टान्त्यस्तावतिथे कोष्ठाधो लोष्टकं क्षिपेत् ॥ १३१ ॥
लोष्टचालनमन्त्यात्स्या ल्लब्धंत्यक्त्वा क्रमोभवेत् ।
समश्चेदन्तिमोऽन्येन सोपित्याज्यः प्रयत्नतः ॥ १३२ ॥

20
| १ | ० | ० | ० | ० | ० | ० |
| | १ | २ | ६ | २४ | १२० | ७२० |
| | | ४ | १२ | ४८ | २४० | १८०० |
| | | | १८ | ७२ | ३६० | २१६० |
| | | | | ९६ | ४८० | २८८० |
| | | | | | ६०० | ३६०० |
| | | | | | | ४३२० |
लोष्टाक्रान्तांकसंयोगात् उद्दिष्टस्यमितिर्भवेत् ।
सङ्ख्यायातु यदारूपे पृष्टे नष्टन्तदुच्यते ॥ १३३ ॥
यैरङ्कैनैष्टसङ्ख्यास्यात् मौलैकाङ्कसमन्वितः ।
नष्टतानस्वरस्थानं तैर्ज्ञात्वा तं स्वरं लिखेत् ॥ १३४ ॥
क्रमोऽत्रापि च कर्तव्यः लब्ध्वात्यागेन पूर्ववत् ।
तथैवात्रलिखेच्छिष्टमेवं नष्टोत्तरं भवेत् ॥ १३५ ॥
तानस्वरोमतोध्र्वाधः पङ्क्तिगान्त्यांकमिश्रणात् ।
एकस्वरादितानानां सङ्ख्यासंजायते स्फुटम् ॥ १३६ ॥
इति खण्डमेरु नष्टोद्दिष्ट प्रकरणम् । अथ साधारणम् ।

21
126—136 Khanda meru or the table for ‘Uddishta, or
finding the order of any particular tana, and for ‘Nashta’
or finding the form of a tana of a particular order
(சு. 126-136) 'கண்டமேரு' - அல்லது 'நஷ்டம்' 'உத்
திஷ்டம்' என்பவைகளுக்கான வழி. அதாவது தானம் எத்தனை
யாவது என்று சொல்லி அதன் உருவத்தைக் கண்டு பிடித்தலும்,
தானத்தின் உருவத்தைச் சொல்லி அது எத்தனையாவது என்று
கண்டு பிடித்தலும்.
साधारणं भवेद्द्वेधा स्वरजाति विशेषणात् ।
स्वरसाधारणं तत्र चतुर्धा परिकीर्तितम् ॥ १३७ ॥
काकल्यन्तरषड्जैश्च मध्यमेन विशेष षात् ।
अन्तरस्यापि गमयोरेवं साधारणं मतम् ॥ १३८ ॥
निषादोयदिषड्जस्य श्रुतिमाद्यां समाश्रयेत् ।
ऋषभश्चान्तिमां प्रोक्तं षड्जसाधारणं तदा ॥ १३९ ॥
मध्यमस्यापि गमयोः एवं साधारणं मतम् ।
रागालापनसंयुक्तं जाति साधारणं विदुः ॥ १४० ॥
इति साधारण प्रकरणम् ।
(137—140) Sadharana or common-feaured Swaras
and Jatis:—
Swaras:—
(1) antara, (2) Kakali, (3) Shadjasadharana
& (4) Madhyama sadharana.
Jatis:—
Mixed jatis, described later.
(சு. 137-140) 'சாதாரணம்' அல்லது ஒன்றுக்கு மேல்
பட்ட ஸ்வரங்களின் குணங்களையுடைய ஸ்வரங்களும் ஒன்றுக்கு
மேற்பட்ட ஜாதிகளின் குணங்களுடைய ஜாதிகளும்;—
சாதாரண ஸ்வரங்கள்:— (1) அந்தரம், (2) காகலி,
(3) ஷட்ஜ சாதாரணம், மத்யம சாதாரணம்.
சாதாரண ஜாதிகள்:— பிந்தி விவரிக்கப் பட்டிருக்கின்றன.

22
गानक्रियोच्यते वर्णः सचतुर्धानिरूपितः ।
स्थाय्यारोह्यवरोही च संचारीचाथलक्षणम् ॥ १४१ ॥
स्थित्वास्थित्वा प्रयोगः स्यात् एकैकस्य स्वरस्ययः ।
स्थायी वर्णः सविज्ञेयः परावन्वर्थ नामको ॥
एतत्संमिश्रणाद्वर्णः सञ्चारी परिकीर्तितः ।
अथवा । यत्रोपविशतेरागः स्वरः स्थायी स कथ्यते ॥ १४२ ॥
इति स्थाय्यादिवर्णलक्षणम् ।
(141—142) 'Varna' or musical effort, 4 in numbers :
as cent, descent, going up & down and staying in a note -
(சு, 141-142) 'வர்ணம்' அல்லது கானக்ரியை. இது 4
வகை :— ஆரோகி, அவரோகி, சஞ்சாரி, ஸ்தாயி— அதாவது
ஏறுதல், இறங்குதல், மேலும் கீழும் செல்லுதல், ஒரே இடத்தில்
நிற்றல்.
गीतादौस्थापितो यस्तु सग्रहस्वर उच्यते । इति ग्रहस्वरः ।
न्यासस्वरस्तु विज्ञेयः यस्तु गीतसमापकः । इति न्यासस्वरः ।
बहुलत्वं प्रयोगेषु सअंशस्वर उच्यते ॥१४३॥ इति अंशस्वरः ।
143— 'Graha' or the note with which tune starts,
Nyasa' or the 'finale'; and 'Amsa' or the dominant note
of the tune, or the note most freeuenthy used.
(சு. 143) 'க்ரஹ ஸ்வரம்' அல்லது ராகம் ஆரம்பிக்கும்
ஸ்வரம்; 'நியாஸ ஸ்வரம்' அல்லது ராகம் முடியும் ஸ்வரம்;
அம்ச ஸ்வரம்' அல்லது ராகத்தின் முக்கிய ஸ்வரம் அல்லது
ராகத்தில் அடிக்கடி உபயோகிக்கப்படும் ஸ்வரம்.
विशिष्टवर्णसन्दर्भमलङ्कारं प्रचक्षते ।
एकैकस्यां मूर्छनायां त्रिषष्टिरुदिताबुधैः ॥ १४४ ॥

23
अथ अलङ्कारप्रस्तारः । सरि सरिग रिग रिगम गम गमप ।
मप मपध पध पधनि धनि धनिस इति प्रथमः ।
सस रिरि गग मम पप धध निन सस इतिद्वितीयः ॥ १४५ ॥
इति अलङ्कारलक्षणम् ।
(144—145) Alankaras or graceful variety in the four
forms of musical effort.
சு. (144—145) 'அலங்காரங்கள்' அல்லது வர்ணங்களின்
அழகிய வகைகள்.
ग्रहांशतारमन्द्राश्च न्यासापन्यासकौतथा ।
अपि सन्न्यासविन्यासौ बहुत्वं चाल्पताततः ॥ १४६ ॥
इति राग लक्षणं
146. The function of swaras in the formaton of
Ragas :—
Graha (Initial note) Amsa (Dominant note) Tara-
Highest note) Mandra (Lowest note) Nayasa (Final note)
Apanyas (notes for Staying) Sanyasa & Vinyasa (notes
for beginning & ending of parts of a musical piece)
(சு. 146) ராகத்தின் முக்கிய ஸ்வரங்கள் ;—
கிரஹம் (ஆரம்பிக்கும் ஸ்வரம்,) அம்சம் (முக்கிய ஸ்வரம்,)
தாரம் (ராகத்தின் மேல் கோடி,) மந்த்ரம் (கீழ் கோடி,) நியாஸம்
(முடிக்கும் ஸ்வரம்,) அபந்நியாஸம் (இடையே நிற்கும் ஸ்வரம்,)
ஸந்நியாஸ, விந்நியாஸம் (ராகப் பகுதிகளின் ஆரம்பம், முடிவு).
अथ स्वरा उच्यन्ते ।
श्रुतिभ्यः स्युः स्वराः षड्जऋषभगान्धारमध्यमाः ।
पञ्चमोधैवतश्चेति निषाद इति सप्तते ।
तेषां संज्ञासरिगम पधनीत्यपरामताः ॥ १४७ ॥
षड्जं वदति मयूरः स्वरमृषभं चातको ब्रूते ।
गान्धाराख्यं छागो निगदति पक्षी मध्यमं क्रौञ्चः ॥ १४८ ॥

24
गदति पञ्चममंचितवाक् पिकोरटति धैवतमुन्मदद्दर्दुरः ।
सृणिसमाहतमस्तक कुञ्जरो गदति नासिकयास्वरमन्तिमम् ॥
मयूरचातक छाग क्रौञ्च कोकिल दर्दुराः ।
गजश्च सप्तषड्गादीन् क्रमादुच्चारयन्त्यमि ॥ १५० ॥
इति चतुरदामोदरविरचिते सङ्गीतदर्पणे स्वराध्यायः ॥
(147—50) The Seven notes and the corresponding
sounds in nature.
(சு 147—150) ஏழுஸ்வரங்களும் அவற்றை ஒலிக்கும்
பிராணிகளும்.
अथ रागाध्यायः
योऽयं ध्वनिविशेषः स्यात् स्वरवर्णविभूषितः ।
रञ्जको जनचित्तानां सरागः कथितो बुधैः ॥ १५१ ॥
अथ रागाङ्ग भाषाङ्ग क्रियाङ्गोपाङ्गनिर्णयः ।
रागछायानुकारित्वात् रागाङ्गमिति कथ्यते ॥ १५२ ॥
भाषांगं भाषाच्छाया(या) भाषांगस्थेन हेतुना ।
करुणोत्साहसंयुक्तः क्रियांगस्तेनहेतना ॥ १५३ ॥
इतिरागांग भाषां गक्रियां गविवेकः ।
(151-153) "Raga", its definition and its kinds,
namely (1) Raga (2) Bhasha (3) Raganga (4) Bhashanga
and Kriyanga.
(சு. 151-153) "ராகம்" என்றால் என்ன?
அதன் வகைகள் :- (1) ராகம் (2) பாஷை (3) ராகாங்கம்
(4) பாஷாங்கம் (5) க்ரியாங்கம்.

25
काण्डारणा तुकथिता तारस्थानेतिशीघ्रता ।
गमकैर्विविधैर्युक्ता कौशल्यसहिता मता ॥ १५४ ॥
इति काण्डरणा ।
(154) "Kandarana" or the the tremulo and other
graces in the higher octaves.
(சு. 154) "காண்டாரணை" அல்லது மேல் ஸ்தாயியில்
கமகங்கள் நிறைந்த துரித சஞ்சாரம்.
अथ मतङ्गमतेन रागाणां त्रैविध्यं दर्शयति ।
शुद्धाः छायालगाः प्रोक्ताः सङ्कीर्णाश्च तथैव च ॥ १५५ ॥
तत्र शुद्धरागत्वं नाम शास्त्रोक्तनियमाद्रंजकत्वं भवति ।
छायालगरागत्वं नाम अन्यच्छायानुलगत्वेन रक्तिहेतुत्वम् ।
सङ्कीर्णरागत्वं नाम शुद्धछायालगमुख्यत्वेन रक्तिहेतुत्वम् ॥ १५६ ॥
इति कल्लिनाथोक्तं लिखितम् ।
(155-156) The 3 kinds of Ragas according to
Matanga :-Suddha, Chhayalaga, and Sankirna.
The 1st kind follows the classical rules of the
ancient texts.
The 2nd kind makes a slight deviation while
following, in the main, the path of the Suddha ragas.
The 3rd kind is formed with the help of the ragas
of the 1st and 2nd kind.
(சு. 155—156) மதங்கர் சொல்லியபடி ராகங்களின் வகை:—
(1) சுத்தம் (சாஸ்திரப்படி அமைந்தவை.)
(2) சாயாலகம் (சிறிது மாறியவை.)
(3) சங்கீர்ணம் (முதல் இரண்டு வகையும் கலந்தவை.)
4

26
औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः ।
सम्पूर्णः सप्तभिर्ज्ञेयस्त्वेवं रागस्त्रिधामतः ॥ १५७ ॥
(157) Classification according to the no. of swaras
occurring in the raga:--
(1) Sampurna (7 swaras.)
(2) Shadava (6 swaras.)
(3) Oudava (5 swaras.)
(சு. 157) ராகங்களிலுள்ள ஸ்வரங்களின் எண்ணிக்கையைப்
பொறுத்து ராகங்களின் வகை:—
(1) ஸம்பூர்ணம் (7 ஸ்வரங்கள்.)
(2) ஷாடவம் (6 ,, .)
(3) ஔடவம் (5 ,, .)
श्रीराग नट्टौ बङ्गालो भासमध्यम पाडवौ ।
रक्तहंसः कोह्लासः प्रसभो भैरवध्वनिः ॥ १५८ ॥
मेघरागः सोमरागः काम्बोदश्चाम्रपञ्चमः ।
स्यातां कन्दर्पदेशाख्यौ ककुभान्तश्च कैशिकः ।
नट्टनारायणश्चेति रागविंशतिरीरिताः ॥ १५९ ॥

  • (158-59) The well known classical Ragas 20 in
    number.
    (சு. 158-59) 20 பழைய பிரசித்த ராகங்கள்.
    अथ रागरागिणीमतम् ।
    शिवशक्तेः समायोगात् रागाणां सम्भवोभवेत् ।
    पञ्चास्यात् पञ्चरागाःस्युः षष्ठस्तु गिरिजामुखात् ॥ १६० ॥

द्वितीय रागाध्याय: राग-लक्षण एवं राग-ध्यान (रागांग, भाषांग)

27
सद्योवक्त्रात्तु श्रीरागो वामदेवाद्गसन्तकः ।
अघोराद्भैरवो जातः तत्पुरुषात्तु पञ्चमः ॥ १६१ ॥
ईशानाख्यान्मेघरागो नाट्यारम्भे शिवाद्भूत् ।
गिरिजाया मुखाल्लास्ये नट्टनारायणोऽभवत् ॥ १६२ ॥
“ केरागाः काश्चरागिण्यः कावेला ऋतवश्चके ।
किंरूपं कथमुद्धारः वद देव प्रसादतः ” ॥ १६३ ॥
श्रीरागोऽथ वसन्तश्च भैरवः पञ्चमस्तथा ।
मेघरागो बृहन्नाटः षडेते पुरुषाह्वयाः ॥ १६४ ॥
इति षट्पुरुषरागाः ।
अथरागिण्यः ।
मालवी त्रिवणी गौडी केदारी मधुमाधवी ।
ततः पाहाडिकाज्ञेया श्रीरागस्य वराङ्गनाः ॥ १६५ ॥
देशी देवगिरी चैव वराटी तोडिकातथा ।
ललिताचाथ हिन्दोली वसन्तस्य वराङ्गनाः ॥ १६६ ॥
भैरवी गुर्जरीचैव रेवा गुणकरी तथा ।
बङ्गाली बहुलीचैव भैरवस्य वराङ्गनाः ॥ १६७ ॥
विभासश्चाथ भूपाली कर्णाटी बडहंसिका ।
मालवश्रीपढमञ्जर्या सहैताः पञ्चमाङ्गनाः ॥ १६८ ॥