समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
३९६ समराङ्गणसूत्रधारे
मेखला चार्थभागेन भवेत् सान्तरपत्रका ।
पदानि पञ्च सार्धानि मञ्जर्याः स्यात् समुच्छ्रितिः ॥
त्रिपदः स्कन्धविस्तारो ग्रीवा वा (पदसादिकाः ? ) ।
अण्डकं स्यात् पदार्धेन भागपादेन चन्द्रिका ॥
भागोच्छ्रायस्तु कलशः कर्तव्यः शुभलक्षणः ।
मध्येन मूलमञ्जर्यास्त्रिपदा भद्रमञ्जरी ॥
सार्धा + त्रिपदोच्छ्राया ग्रीवा भागसमुच्छ्रिता ।
अण्डकं च त्रिभागेन कलशो भागमुच्छ्रितः ॥
पञ्चाण्डः पुण्डरीकोऽयं कर्तव्यः शुभवर्धनः ।
पुण्डरीकः ॥
सुनाभ(स)मथ ब्रूमो वन्दितो (तं) देवदानवैः ॥
वल्लभं लोकपालानां पुण्यमुत्कृष्टलक्षणम् ।
विभजेत् सप्तदशभिः समक्षेत्रं चतुर्भुजम् ॥
पञ्चभागायताः कोणा गर्भः कार्यस्त्रिभिः पदैः ।
उभयोः कोणयोर्मध्ये सप्तभागिकमन्तरम् ॥
व्यक्षेपात्(?) कर्णयोर्मध्ये प्रा(प्रो)ञ्छयेत् पदमन्तरम् ।
भागप्रवेशं भागार्धे(र्ध)विस्तारा(र)मुदकान्तरम् ॥
द्विपदा बाह्यभित्तिः स्यात् त्रिपदाथ भ्रमन्तिका ।
पञ्चभागायतो मध्ये भवेत् प्रासादनायकः ॥
त्रिपदस्तस्य गर्भस्तु भित्तिर्भागं विधीयते ।
त्रिपदं कर्णभद्रं च भागेनैकेन निर्गतम् ॥
पदप्रमाणकोणांस्तु चत्वा(तु)रोप(वि)निवेशयेत् ।
यथा कन्दस्तथा कोणो विभागैः स विधीयते ॥
पञ्च गर्भास्तु कर्तव्याः सममानप्रकल्पिताः ।
द्विगुणं चोर्ध्वमानं स्याद् ग्रीवाण्डकविवर्जितम् ॥
त्रिभिः पदैर्वेदिबन्धो जङ्घा सप्तपदा भवेत् ।
पदत्रयेण कर्तव्यं मेखलाद्वितयं बुधैः ॥
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९७
ऊर्ध्वतो बाह्यच्छन्दस्या (स्य) कर्तव्या कर्णमञ्जरी ।
षट्पदाः कर्णमञ्जर्यो द्विपदं कलशाण्डकम् ॥
(१द्वादशा सप्तविस्तारा ?) कर्तव्या मूलमञ्जरी ।
त्रयोदशपदोच्छाया ग्रीवास्या भागमुच्छ्रिता ॥
अण्डकं द्विपदोत्सेधं भागोत्सेधा तु चन्द्रिका ।
कलशस्त्रिपदोत्सेधो वर्तुलः शुभलक्षणः ॥
यावत् क्षितिर्यावदब्धिर्यावच्छशिदिवाकरौ ।
कर्तास्य तावद् दिव्यास्ते यावत् सुरगुरुः सुराः ॥
सुनाभाः ॥
माहेन्द्रमथ वक्ष्यामः प्रासादं भूषणं क्षितेः ।
सेवितं यक्षगन्धर्वैः फणीन्द्रैश्च महाप्रभैः ॥
माहेन्द्रं पञ्चदशभिर्भागैः प्राज्ञो विभाजयेत् ।
नवभागायतं गर्भं कुर्याद् भित्तिं त्रिभागिकीम् ॥
विस्तारेणास्य विख्याता तज्ज्ञैः शाला पदत्रयम् ।
शालायाः पार्श्वयोः कार्यों रथौ सार्धपदौ बुधैः ॥
रथशालान्तरेणैव कर्तव्यमुदकान्तरम् ।
(रथस्याग्रतः पश्चारि गृहकार्यं पदार्धकम् ?) ॥
प्रत्यङ्गानि पदं सार्धं + + + + जलान्तरम् ।
द्विपदं कर्णमानं च कार्यं कोणचतुष्टयं (ये) ॥
भागेनान्योन्यमेतेषां विधातव्यो विनिर्गमः ।
ऊर्ध्वमानं तु कर्तव्यं द्विगुणं सीमविस्तृतेः ॥
तुलोदयो दशांशः स्याद् विंशत्यंशा च मञ्जरी ।
वेदिबन्धं प्रकुर्वीत सार्धभागद्वयं बुधः ॥
जङ्घयोस्तु समुच्छ्रायमर्धपञ्चमभागिकम् ।
भागेन भरणं कुर्याल्लाञ्छितं पत्रभङ्गिभिः ॥
१ ‘द्वादशांशसविस्तारा’ इति स्यात् ।
३९८ समराङ्गणसूत्रधारे
तदूर्ध्वं मेखला कार्या भागद्वितयमुच्छ्रिता ।
ऊर्ध्वतो मञ्जरी कार्या क्रमेणैव मनोहरा ॥
नवभागायतं (रुद्धो ?)ग्रीवा भागसमुन्नता ।
अण्डकं द्विपदोत्सेधं चन्द्रिका भागमुच्छ्रिता ॥
द्विपदं कलशं कुर्याद् विस्तारोत्सेधनः समाः ।
लताः सप्त विधातव्या (रेषा ब्रूम कुलाकृति ?) ॥
मध्ये लतायाः कर्णस्य वेल्कः षड्।वच्रः क्रमः ।
प्रत्यङ्गे तिलका कूटाः पञ्चालार्धा द्विपक्षकः (ः) ॥
कोणे वराटका(?) कूटाः कार्या माहेन्द्रमन्दिरे ।
कृत्वा महेन्द्रं राजा स्याद् माहेन्द्रस्य(?) वसेद् दिवि ॥
महेन्द्रः ॥
अथो ब्रूमो वराटाख्यं प्रासादं शुभलक्षणम् ।
दयितं किन्नरेन्द्राणां नागानां चातिवल्लभम् ॥
चतुरश्रं समं क्षेत्रं विभजेद् दशभिः पदैः ।
कु(र्या)त् षड्भिः पदैर्गर्भं भित्तिं भागद्वयेन च ॥
द्विपदं कर्णविस्तारं कुर्यात् कोणचतुष्टयम् (ये) ।
उदकान्तरविस्तारमर्धभागप्रवेशकम् ॥
पञ्चभागायतं भद्रमन्तरं वारिमार्गयोः ।
विस्तारार्धेन कर्तव्यस्तस्य भद्रस्य निर्गमः ॥
कुर्यान्मध्येऽष्टभिर्भागैः सपादैर्वृत (त्त) मुत्तमम् ।
सहितो वारिमार्गेण तलच्छन्दोऽयमीरितः ॥
ऊर्ध्वप्रमाणमेतस्य विस्ताराद् द्विगुणं भवेत् ।
तुलोच्छ्रायोऽष्टभिर्भागैः पदानि द्वादशोर्ध्वतः ॥
पदत्रितयमुत्सेधात् कर्तव्यं भद्रपीठकम् ।
विस्ताराधार्थमुत्सेधं वेदिबन्धस्य कारयेत् ॥
चतुर्भागोच्छ्रितां जङ्घां हीरकं चार्धभागिकम् ।
मेखलान्तरपत्रं च कुर्याद् भागमुच्छ्रितम् ॥
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९
त्रिपदं शृङ्गमुत्सेधाद् ग्रीवा च कलशाण्डकम् ।
ष (त) दूर्ध्वं पञ्चविस्तारा स्यादुरोमञ्जरी शुभा ॥
ग्रीवा कार्या पदार्धेन भागेनैकेन चाण्डकम् ।
कलशोऽशोच्छ्रितोऽष्टांशविस्तारा मूलमञ्जरी ॥
तस्याः कार्यः समुत्सेधः प्रमाणान्नवभागिका(क)ः ।
स्कन्धः पञ्चपदो ग्रीवा पादहीनं पदं भवेत् ॥
सपादं पदमञ्जर्या (?) पदस्यार्धेन चन्द्रिका ।
कलशो द्विपदोच्छ्रायः प्रासादे स्याद् वराटके ॥
वराटं कारयेद् यस्तु प्रासादं भक्तिमान् नरः ।
स याति यानैर्विविधैः स्वर्गं प्राप्नोति चाक्षयम् ॥
वराटः ॥
सुमुखस्याधुना लक्ष्म प्रका (क्र)मागतमुच्यते ।
भागैरेकोनविंशत्या चतुरश्रे विभाजिते ॥
तत्रैकादशभिर्गर्भश्चतुर्भिर्भित्तिरंशकैः ।
कोणो द्विभागिकस्तत्र भागपादो जलान्तरम् ॥
भागार्धेन प्रवेशोऽस्य चतुरंशकविस्तृतम् ।
भद्रमेवं विनिर्दिष्टमर्धभागेन निर्गतम् ॥
पादोनभागद्वितयादन्तरे कर्णभद्रयोः ।
त्रयः प्रतिरथाः कार्याः सहिताः सलिलान्तरैः ॥
अर्धभागोऽर्धभागश्च मिथस्तेषां विनिर्गमः ।
ऊर्ध्वमानं भवेदस्य द्विगुणं द्विकलाधिकम् ॥
अंशकैः पञ्चम(भि)श्चैव विधेयोऽस्य तुलोदयः ।
विभागैः पञ्चविंशत्या तदूर्ध्वं मञ्जरी भवेत् ॥
वेदीबन्धो विधेयोऽस्य सार्धभागचतुष्टयात् ।
जङ्घाशैरष्टभिः सार्ध (धैः) वरण्डी तु द्विभागिका ॥
लताभिर्नवभिर्युक्ता प्राग्वत् कार्यास्य मञ्जरी ।
स्यादेकादशभिर्भागैरेतत्स्कन्धस्य विस्तृतिः ॥
४०० समराङ्गणसूत्रधारे
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ।
कोणासन्नप्रतिरथो द्राविडोऽस्य विधीयते ॥
भूमिका नव कर्तव्याः शेषं कार्यं महेन्द्रवत् ।
पादोनभागद्वितया ग्रीवास्य च विधीयते ॥
सार्धभागद्वयमितं विदध्यादण्डकं शुभम् ।
चण्डिका सार्धभागेन कलशश्चाण्डकैस्त्रिभिः ॥
इत्येष कथितः सम्यक् प्रासादः सुमुखाभिधः ।
य एनं कारयेद् भक्त्या स कामानश्नुतेऽखिलान् ॥
भुक्त्वेह विपुलान् भोगान् पदमभ्येति शाश्वतम् ।
सुमुखप्रासादः ॥
'चतुर्मुखा(?)श्रीधरादीनां ये प्रोक्तास्तान् प्रचक्ष्महे ॥
लक्षणैरधुना सम्यग् देवानामनिवर्तनात्(?)।
यत् स्याद् विजयभद्रस्य रूपं तस्मिंस्तथास्थिते ॥
विजयो नाम कर्तव्यः प्रासादो देवताप्रियः ।
कर्णे केसरि+++सर्वतोभद्रकः पुनः ॥
निवेशनीयो रथकैः सर्वलक्षणसंयुतः ।
तस्योपरि विधातव्या मञ्जरी चारुरूपिणी ॥
विस्तारादुदयात् तस्याः कुर्वीतैककलाधिकम् ।
स्कन्धस्तु षट्पदः कार्यो ग्रीवा भागसमुच्छ्रिता ॥
अण्डकं सार्धभागेन चन्द्रिकापि च तत्समा ।
तस्या एव हि मध्ये तु कुर्यादामलसारकम् ॥
सार्धभागद्वयोत्सेधं कलशं च तदूर्ध्वतः ।
द्राविडैश्च वराटैश्च प्रकुर्वीतास्य मञ्जरीम् ॥
+++++प्रपन्ना नापि जन्मनि जन्मनि(?)।
नन्दः ॥
महाघोषाभिधानोऽथ प्रासादः कथ्यतेऽपरः ॥
१ 'श्वांशकैस्त्रिभिः' इति तु युक्तः पाठः । २ इह ग्रन्थपात इव लक्ष्यते ।
मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०१
नन्दिघोषस्य संस्थाने रूपे चास्य व्यवस्थितः ।
अस्य कर्तृ (र्णे) षु सर्वेषु भद्राणि विनिवेशयेत् ॥
भद्रे चतुष्किका कार्या द्विपदायामनिर्गमा ।
भागिकी भित्तिरन्तश्च शेषं गर्भग्रहं स्मृतम् ॥
शृङ्गाणि कर्णे कुर्वीतेत्येषा प्रथमभूमिका ।
द्वितीया तु पुनः कार्या भित्तिविन्यासवर्जिता ॥
चतुर्दिशं विधातव्यं वेदीचन्द्रावलोकनम् ।
विदधीत चतुःस्तम्भां तृतीयामपि भूमिकाम् ॥
छाद्यकैरूर्ध्वेने तस्या कार्या संवरणा बुधैः (?) ।
कारयेन्नन्दिघोषं यः प्रासादमिममृत्तमम् ॥
विभूतिर्वाञ्छिता तस्य कुलेऽपि न विनश्यति ।
महाघोषः ।
प्रासादो मिश्रकेष्वेव वृद्धिरागो(मो) विधीयते ॥
(स्रीनिस्सय ?) संस्थानं यत् तदस्यापि कीर्तितम् ।
गर्भकन्दं परित्यज्य स्तम्भैः षोडशभिर्वृतम् ॥
अस्य मध्यं विधातव्यं शेषं च श्रीनिवासवत् ।
उरोघण्टाभिरष्टाभिरश्वशालाभिरेव च ॥
अस्य भद्राणि कुर्वीत सर्वालङ्कारवन्ति च ।
वसुन्धरस्य ये भेदास्तैः सर्वैरन्वितः शुभः ॥
कलशैरेकविंशत्या वृद्धिरामः प्रशस्यते ।
प्रासादस्यास्य कर्ता च यावच्चन्द्रार्कतारकम् ॥
तावदिन्द्र इव स्वर्गे क्रीडत्यप्सरसां गणैः ।
वृद्धिरामः ॥
वृद्धिरामस्य संस्थाने प्रासादः स्याद् वसुन्धरः ॥
१. 'छाद्यकैरूर्ध्वतस्तस्याः कार्यं संवरणं बुधैः' इति पाठनीयं स्यात् । २. 'श्रीनिवासस्य' इति स्यात् ।
वा. ५१
४०२ समराङ्गणसूत्रधारे
बाह्यभित्तीः परित्यज्य गर्भभित्तिर्विधीयते ।
वेदिकाकालरूपाद्यो(?) भद्रतोरणभूषितः ॥
एतद्द्वेदसमायुक्तः प्रासादः स्याद् वसुन्धरः ।
भक्त्या यः कारयेदेनं सोऽधितिष्ठत्यसंशयम् ॥
दुष्प्रापमपि देवानां महादेवस्य मन्दिरम् ।
वसुन्धरः ॥
प्रासादं मुद्गनामानमिदानीमभिदध्महे ॥
चतुरश्रीकृते क्षेत्रे षड्भिर्भागैर्विभाजिते ।
कुर्वीत भागिकीं भित्तिं गर्भं चैवास्य वर्तुलम् ॥
भद्रं चतुष्पदं वृत्तं निर्गमेण पदद्वयम् ।
स्वस्तिकञ्च(स्य) समाकाराश्चत्वारो रथिकाः स्मृताः ॥
कर्णांश्च सर्वे कर्तव्या अश्रिभिः षड्भिरावृताः ।
जङ्घा वेदी च पीठं च (तंन्न कीर्ति?)निभानि च ॥
विस्तृतान्येकभागेन द्विभागोत्सेधवन्ति च ।
कर्णकूटानि कुर्वीत सपत्रा(त्र)मकराणि च ॥
भद्रं चतुष्पदायामं पञ्चभागसमुच्छ्रितम् ।
ग्रीवाण्डकं सकलशं कुर्यात् सार्धपदद्वयम् ॥
विस्तारं मूलमञ्जर्याः षट्पदं ++मालिखेत् ।
उच्छ्रयं दशभिर्भागैर्ग्रीवाकलशसंयुतम् ॥
मञ्जरीमत्र कुर्वीत (मंन्नकीर्त्तिं?) यथा कृता ।
प्रासादं ++++ यो भक्तितः कारयेदिमम् ॥
गायन्ति तस्य किन्नर्यो दिवि चन्द्रामलं यशः ।
मुद्गप्रासादः ॥
इदानीं म+++++हच्छालं सु(रा)लयम् ॥
कमलोद्भवसंस्थाने कुर्वीतेमं यथास्थितम् ।
दिक्सूत्रे कर्णसूत्रेण रथ++++++त् ॥
१ 'मानकीर्ण' इति स्यात् । २ 'मामकीर्णं' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०३
कर्णान्ते भद्रमध्ये च कारयेदुदकान्तरम् ।
पदपादेन विस्तीर्णं प्रक्षेपेण पदार्धकम् ॥
कर्णाध+++तव्या षड्भिरङ्गुलिङ्गवृत्ताः(?) ।
पीठं वेदी च जङ्घा च मेखलान्तरपत्रकम् ॥
कमलोद्भववत् कार्यं बहुधा क++षितम् ।
कर्तव्यशिखरं (?) कुर्यात् ++++++++ ॥
१इलिकामकरग्रासैर्वरालैः सासुरैश्चिता ।
कथिता पुष्पके याहग् (२ज)घा(ङ्गा)३ताहगिहेष्यते ॥
ऊर्ध्वपीठप्रमाणस्य तथावच्छोदकस्य च ।
यन्मध्यं तत्र कुर्वीत षड्दारुकनिवेशनम् ॥
रुष्टिकातोरणश्चारुसालभञ्जाविराजितम्(?) ।
वेदिकांराजसेनाढ्यं४ (५शभूतेद्भवलोकनम् ?) ॥
सस्तम्भशीर्षभरणं पट्टराङ्गोपशोभितम् ।
६मल्लं(मल्ल)च्छाद्यं विधातव्यं सिंहकर्णविभूषितम् ॥
सिंहरूपैः समाँक्रान्तं विचित्रैश्च वरालकैः ।
त्र्यंशोच्छ्रितं कर्णकूटं कुर्याद्दिग्वे(द्विप)दविस्तृतम् ॥
ग्रीवाण्डकसमेतं च (वै)रण्ड्यां (का ?)कलशान्वितम् ।
कर्णाः पृथक् पृथक् चेह स्युः षट्पञ्चाशदण्डकाः ॥
उरोमञ्जरिकाभिस्ते तिसृभिः स्युर्विभूषिताः ।
कर्णान्ते मूलरेखा च विस्तारात् सप्तभागिका ॥
सार्धभागाष्टकं चास्या विधातव्या समुच्छ्रितिः ।
उरोमञ्जरिका कार्या चतस्रोऽनुदिशं तथा ॥
प्रथमा स्यादुरोरेखा द्वादशाण्डकभूषिता ।
चतुर्दशाण्डका चान्या तृतीया षोडशांश(शाण्ड)का ॥
१ द. ई । २ द. जंघा तां । ३ द. स्था । ४ द. ॰दे॰ । ५ द. ब्यशस्तंतद्भवलोकनं ।
६ द. मल्लच्छा॰ । ७ द. समक्रांत वि॰ । ८ द. स्थितं । ९ द. द्विपदवि॰ । १० द. च रॅज्यको
कलसान्विता ।
४०४ समराङ्गणसूत्रधारे
अष्टादशाण्डकोपेता चतुर्थी परिकीर्तिता¹ ।
षट्त्रिंशाताण्डकैर्युक्ता मूलरेखा विधीयते ॥
ग्रीवा पदं स्यात् पादोनं सपादं पदमण्डकम् ।
लवलीफलतुल्यं तच्चन्द्रिका च पदोच्छ्रिता ॥
द्विपदं कलशं विद्यात् समवृत्तं मनोरमम् ।
अर्धोतु ⁴दू विधातव्यं बुजं तस्य चोपरि(?) ॥
विचित्रभूमिके (सप्तदशँम्मिल्लिरुयराक्षर्णण्यपि ?) ।
स्तम्भैर्विविधविन्यासैर्बहुभङ्गविनिर्मितैः ॥
भूषितैः कर्मभिश्चित्रैः सर्वत्र शुभलक्षणैः ।
चन्द्रशालादिसंयुक्तैस्तोरणैश्चारुचामरैः ॥
तथाक्षंतमुखग्रासैर्घनरूपतया स्थितैः ।
व्यालैर्व्यालोलजिह्वैश्च मकरग्राससंयुतैः ॥
मदान्धालिकुलाकीर्णगजवक्त्रविभूषितैः ।
विद्याधरवधूवृन्दैः क्रीडारम्भविभूषितैः ॥
सुराणां सुन्दरीभिश्च वीणाहस्तैश्च किन्नरैः ।
सिद्धगन्धर्वयक्षाणां वृन्दैश्च परितः स्थितैः ॥
अप्सरोभिश्च दिव्याभिर्विमानावलिभिस्तथा ।
चारुचामीकरान्दोला क्रीडासक्तैश्च (‘निःसराम् ? )⁸॥
नागकन्याकदम्बैश्च सर्वतः समलङ्कृतम् ।
एवंविधाभिः सर्वत्र भूमिकाभिर्निरन्तरं ॥
अलङ्कृतो विधातव्यो मेरुः प्रासादनायकः ।
मध्य(म)द्विगुणैर्ज्येष्ठः क(र्तव्यो)मेरुरण्डकैः ॥
कनीयान् मध्यमार्धेनेत्यण्डकस्थितिरीरिता॑ ।
उत्तमेषूत्तमं न्यस्येन्मध्यमेषु च मध्यमम् ॥
१ द. ताः । २ द. शां । ३ द. क । ४ द. द्ध । ५ द. शा । ६ द. रा । ७ द. कृत ।
८ मुद्रित पुस्तके ‘निर्भरम्’ इति स्यात् । परन्तु द. पुस्तके ‘निःसराम्’ एव पाठः अस्ति ।
९ द. रां । १० द. ताः ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०३
(अध)मेष्वधमं लिङ्गमेवमन्येषु धामसु ।
मेरोस्तु त्रिविधस्यापि लिङ्गमुत्तममृद्धिदम् ॥
अन्यथाविहितं१ +++++दोषकृत् ।
मेरुं मेरुरूपमं२ दिव्यं यः कारयति पार्थिवः ॥
सं३ प्राप्नोति परां भुक्तिं++++सदाशिवाम् ।
मेरुं प्रदक्षिणीकृत्य काञ्चनं यत्फलर्द्धिभाक् ॥
शैलेष्टकादारुमये कृतेऽस्मिंस्तत्फलर्द्धिभाक् ।
मेरुः ॥
(लक्षणं) मन्दरस्याथ प्रासादस्याभिधीयते ॥
सिद्धिप्रदस्य पुण्य(स्य)स्तुतँस्य त्रिदशैरपि ।
चतुरश्रीकृतेक्षेत्रे ४++ भागविभाजिते ॥
गर्भः कार्यश्चतुर्भागो भित्तिरेकांशविस्तृता ।
अन्धारिकैकभागेन बाह्यभित्तिस्तु भागिकी ॥
कोणेषु रथिकाः कार्याः पदद्वितयसंमिताः ।
चत्वारो मण्डपाः कार्याः षट्त्रिंशत्पदसंमिताः ॥
चतुर्दशमलिन्दाश्च विधातव्याश्चतुष्पदाः ।
भागेन निर्गतास्ते च सर्वतः शुभलक्षणाः ॥
अस्योर्ध्वमानं कर्तव्यं विस्तराद् द्विगुणं बुधैः ।
कर्णावेधश्च(?) विस्तारसीमा सर्वत्र गृह्यते ॥
प्रासादे मूलमानं यत् तच्च सम्यक् प्रकल्पयेत् ।
द्विपदं पीठमुत्सेधात् कार्यं प्राङ्मुनतो(मूलतो) बहिः ॥
तत् पद्मैरङ्कितं कार्यं सिंहैरपि च मन्दिरे ।
पदार्धं खुरकः कार्यः प्रासादसमवर्जितः(?) ॥
सार्धं पदद्वयं कार्यो वेदीबन्धः सुशोभनः ।
चतुर्भागोन्नता जङ्घा भागार्थं रूपपट्टिका ॥
१ द. 'तं तत्र भवेद्दाग (मा) । २ द. मे । ३ द. स प्राप्नोति पराः भुक्ति मुक्तिं सदाशिवीं परां । ४ द. व । ५ द. दश । ६ द. ॰ह्तं । ७ द. स्रानतो बहिः । ८ द. मुखतः । ९ द. र्ध ।
४०६ समराङ्गणसूत्रधारे
मेखलान्तरपत्रं च कार्यं पदसमुच्छ्रितम् ।
पदद्वयायतानि स्युः कर्णे शृङ्गाणि मानतः ॥
उच्छ्रयस्त्रिपदस्तषां ग्रीवाण्डकलशैः सह ।
मूलरेखा विधातव्या कर्णकूटस्य चोपरि ॥
नवभागोच्छ्रिता २शस्ता विस्तारेणाष्टभागिका३ ।
विस्तारं दशधा कृत्वा तैः षड्भिः स्कन्धविस्तृतैः ॥
लताः पञ्च विधातव्याः श्रीवत्से४ कथिता यथा ।
कुर्वीत पञ्चभौमं वा सप्तभौममथापि वा ॥
ग्रीवा पादोनभागा स्यात् सं५(पादं) पदमण्डकम् ।
चन्द्रिकैकपदा कार्या कलशो द्विपदोदयः ॥
(त्रिश्वरं ?)त्रिपदं कुर्यात् तत्रैकं भागमुत्सृजेत् ।
८शुकनासोत्सृतं कुर्यात् सिंहस्थानविभूषितम् ॥
कनकाभरणैर्युक्तः पुमान् यद्वद् विराजते ।
तथा प्रासादराजोऽयं शोभते चित्रकर्मभिः ॥
मञ्जरीं९ दशधा कृत्वा कर्मशोभां प्रकल्पयेत् ।
भागैर्भद्रस्य विस्तारः षड्भिर्भागेन निर्गमः ॥
भागिक्यौ रथिके तत्र कुर्याद् भागादं विनिर्गमः ।
भागद्वयमितान् कर्णान् विदिक्षु च निवेशयेत् ॥
शालाश्चतस्रः कर्तव्या युक्ताः कूटैर्मनोरमैः ।
नीरान्तराणि ता अष्टौ मञ्जर्या द्विगुणान्विता ॥
कूटेऽर्धे प्रथमा भूमिः कार्या भागद्वयोच्छ्रिता ।
पदपादविहीनास्तु क्रमेणोपरि भूमिकाः ॥
अर्धभागोच्छ्रिता ग्रीवा भागिकोच्छ्रायमण्डकम् ।
भागेन कलशः कार्यः सर्वलक्षणसंयुतः ॥
१ द. ग. । २ द. शंस्यो द्विस्तां । ३ द. की. । ४ द. ०त्सो । ५ द. म । ६ द. सपदं पदं ।
७ 'शिखरम्' इति स्यात् ; द. त्रिश्वरं । ८ द्र. अ । ९ द. ०री । १० द. भागार्द्धनिर्गमा ।
विस्ताराद्वैर्न कर्तव्यो वेदीबन्धो विबन्धुरः ।
षड्गुणेनैव सूत्रेण मध्यरेखां समालिखेत् ॥
द्वितीयामालिखेत् पञ्चगुणितेन विचक्षणः ।
सार्धत्रिगुणसूत्रेण १++ रेखां समालिखेत् ॥
मञ्जरीभिर्विचित्राभिः सर्वत्रैव विराजितः ।
प्रासादो मन्दरः कार्यः प्रमाणेनामुना शुभः ॥
मन्दरं मन्दराकारं कृत्वा प्रासादमुत्तमम् ।
प्राप्नोतीह परं सौख्यं परत्र च शुभां गतिम् ॥
मन्दरः ॥
कथयामोऽथ कैलासमशेषसुरसेवितम् ।
३प्रमथप्रवरैर्जुष्टं प्रासादं पुण्यवर्धनम् ॥
चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते ।
शाला षड्भागविस्तारा कर्तव्या भागनिर्गमा ॥
(४कलात्रिभागिका कुर्यात् सलिलान्तरसंयुतान् ?) ।
(आरभ्य ब्रह्मणः स्थानात् समा इव पादद्वयम् ?) ॥
भ्रमयित्वा समं वृत्तं ५गैर्भं(गर्भमंशं) प्रकल्पयेत् ।
६तथा भित्तिर्विधातव्या समन्तादर्धभागिका ॥
भागिका बाह्यभित्तिः स्यात् (कार्या स्याद् ?) भद्रभूषिता ।
अन्तराले७ तु सर्वत्र विदध्यादन्धकारिकाम् ॥
अलिन्दकाश्चतुर्भागाः कर्तव्या दिक्त्रये बुधैः ।
भागद्वयेन निष्क्रान्ताः सर्वतः शुभलक्षणाः ॥
(८चतुर्थीकां ?) विधातव्यास्तेषु स्तम्भद्वयान्विताः ।
मुखे तु मण्डपः कार्यः स्तम्भपङ्क्तिविराजितः ॥
अथोर्ध्वमानं वक्ष्यामः कैलासस्य यथास्थितम् ।
पीठं तस्य पदे द्वे तु कर्तव्यं गणभूषितम् ॥
: १ द. कर्णे । २ द. मञ्जरः । ३ द. प्रथमं । ४ द. कलान् त्रिं । ५ द. गर्भं संप्र° । ६ द.
ततो । ७ द. ०ल्ये । ८ द. चतुर्थ्यै को वि°; मुद्रित पुस्तके तु; 'चतुष्किका' इति स्यात् । ९ द. नव° ।
४०८ समराङ्गणसूत्रधारे
पदस्यार्धेन कर्तव्यः खुरकस्तु खुरादिति(?)।
तदूर्ध्वं द्विगुणा ज्ञेया प्रासादस्य समुच्छ्रितिः॥
एकेन कुम्भकः कार्यो भागेन समवर्जितः¹।
मसूरकस्तु भागेन पादोनेन विधीयते ॥
कार्यं पदस्य पादेन ततश्चान्तरपत्रकम् ।
मेखलार्धपदेन स्याच्च²न्द्रेशालाविभूषिता ॥
जङ्घा तदूर्ध्वं कर्तव्या सार्धं पदचतुष्टयम् ।
भागेनैकेन कुर्वीत मेखलान्तरपत्रकम् ॥
कर्णशृङ्गं त्रिभिर्भागैः कुर्यात् सकलशाण्डकम् ।
तदूर्ध्वं द्विपदानि स्युः ³कूटान्युच्छ्रायमानतः ॥
पूर्वोक्तानाममीषां च प्रक्षेपः स्यात् पदां(शतः)।
चतुर्धा कूटविस्तारं ⁴संविभज्य पदद्वये ॥
(⁵संद्रस्यादितिक्तयनि?) सिंहक्रान्तानि कारयेत् ।
विस्तारं मूलमञ्जर्याः कुर्यात् षड्भागसंमितम् ॥
सप्तभागिकमुच्छ्रायं कैलासेऽस्याः प्रकल्पयेत् ।
भागार्धेन भवेद् (भाग?) भागिकोच्छ्रायमण्डकम् ॥
⁷चण्डिकामर्धभागेन कलशं सार्धभागिकम् ।
कुर्वीत शिखरं चास्य स्वस्तिकस्य यथोदितम् ॥
युक्तं भूमिभिरष्टाभिर्मञ्जरीभिरलङ्कृतम् ।
सिंहकर्णैर्विचित्रैश्च भद्राण्यस्य विभूषयेत् ॥
कर्तव्यः स्कन्धविस्तारस्तस्मिन् पदचतुष्टयम् ।
विदधीत समालेखसूत्रेण त्रिगुणेन च ॥
एवं +++++कैलासं ⁸विदधाति यः ।
विभूतिं लभते सोऽत्र सुखसौभाग्यसंयुताम् ॥
१ द. ॰र्तिंतः। २ द. ॰न्द्रं। ३ द. कुं। ४ द. स। ५ द. भद्रं स्यादिति कूटानि।
६ द. तां। ७ द. वंदिं। ८ द. सं। ९ द. त।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०९
कामानवाप्य विविधान् कीर्तिमारोग्यमेव च ।
भुक्त्वा भोगांश्च कैलासे कल्पान्ते२ यावदीप्सितम् ॥
३शार्वं पदमवाप्नोति शान्तं ध्रुवमनामयम् ।
कैलासः ॥
त्रिविष्टपमथ ब्रूमः प्रासादममरप्रिय१म् ॥
सेवितं यक्षगन्धर्वसिद्धविद्याधरादिभिः ।
चतुरश्रीकृते क्षेत्रे विंशत्यंशविभाजिते ॥
षड्भागविस्तृता शाला स्याच्चतुर्भागनिर्गमा ।
चतु४रंश(इश)५ती कोष्ठकानां द्वासप्तत्यधिका भवेत् ॥
आशात्रयस्थितैर्भद्रैः सार्धमेवं६ प्रजायते ।
कुर्याद् गर्भगृहाण्यष्टौ (दिक्षु७ष्वाखपि ?) तानि तु ॥
कोणे तु८ षोडशांशानि तन्मध्ये९ चतुरोऽशकान् (?) ।
भित्तिर्द्वादशभिर्भागैगर्भाणामिति निर्णयः ॥
चतुःषष्टिपदः कार्यो मध्ये प्रासादनायकः ।
पदैः षोडशभिस्तस्य मध्ये गर्भं प्रकल्पयेत् ॥
द्विभागविस्तृता भित्तिः कर्तव्या तस्य बाह्यतः ।
(च१०तुर्दिशतं भ्रमन्ती स्य?) ++पञ्चपदायता ॥
वलभीः कारयेत् तद्वद् द्वि(दिग्)११भागेषु चतुर्ष्वपि ।
प्रत्यङ्गं द्विपदं कर्णशालावल्लभिकान्तरे ॥
तच्च द्विपदमुद्दिष्टं जलमार्गे पदार्धिके ।
पदैर्द्वादशभिर्दिक्षु चतसृष्वपि मण्डपान् ॥
प्रासादस्य प्रकुर्वीत कर्मशोभाविभूषितान् ।
मूला(ल) प्रासादगर्भस्य कुर्याद् द्वारचतुष्टयम् ॥
विज्ञेये(यं) तच्च दिग्भद्रे१२ सूत्रमार्गानुसारतः ।
जलान्तराणि कुर्वीत प्रत्यङ्गे१३ पार्श्वयोरपि ॥
१ द. 'पिनं' । २ द. न्तं । ३ द. सार्वस्पदम° । ४ द. या । ५ द. शती को° । ६ द. व ।
७ 'दिक्ष्वष्टास्वपि' इति स्यात् । ८ द. षु । ९ द. र्ध्यं । १० 'चतुर्दिशं भ्रमन्ती स्यात् तस्याः'
इत्येवजातीयं पाठ्यं स्यात् । द. चतुर्दिशं भ्रं° । ११ द. वि । १२ द. द्र । १३ द. ङ्ग ।
वा. ५२
४१० समराङ्गणसूत्रधारे
बाह्यभित्तिं तु कुर्वीत भागेनैकेन संमिताम् ।
एवं विभज्य कुर्वीत पुरतो मुखमण्डपम् ॥
ऊर्ध्वमानमथ(स्त्रिंशा¹ ?)तत्र पीठं चतुष्पदम् ।
मध्यप्रासादजङ्घा च तद्वदेव समुच्छ्रिता ॥
अतः पदैः स्याद् विस्ताराद् द्विगुणा शिखरोन्नतिः ।
तस्याश्च मध्ये कुर्वीत षोडशांशं तुलोदयम् ॥
तुलोदयस्य मध्ये द्वे वेदीबन्धं सपञ्चकम्² (?) ।
जङ्घा चाष्टपदा कार्या मध्ये³ चासनपट्टिका ॥
⁴एषा त(मन्तर)पत्रं च कर्तव्यं त्रिपदोच्छ्रितम् ।
तुलोदयस्योपरिष्टात् प्रमाणमथ कथ्यते ॥
चतुष्पदेषु कर्णेषु कूटं पञ्चपदोदयम् ।
ग्रीवा पदस्य पादोन(ना)त्रिभिः पादैस्तथाण्डकम् ॥
चन्द्रिकाकलशोत्सेधं पादेनैकेन कल्पयेत् ।
प्रत्यङ्गे तिलकास्त्र्यंशा घण्टाकलशसंयुताः⁵ ॥
मध्ये तु वलभीशृङ्गमून्नतं⁶ सप्तभिः पदैः ।
ऊर्ध्वतस्तिलकानां स्यादुरोमञ्जरिका दश ॥
विस्तारेण पदान्यूर्ध्वं भवेद् द्वादशभागिका ।
स्कन्धं(पट्टादि ?)विस्तारो ग्रीवा पादोनभागिका ॥
अण्डकं सार्धभागेन चन्द्रिका भागमुच्छ्रिता ।
द्विपदः कलशोच्छ्रायस्तदूर्द(दू ?)बीजपूरकम् ॥
विस्तारो मूलमञ्जर्याः कार्यः षोडशभिः पदैः ।
उच्छ्रायः सप्तदशभिः स्कन्धो नवपदः स्मृतः ॥
कार्या सप्रलतोपेता प्रशस्ता मूलमञ्जरी ।
ग्रीवास्य भागिकीं भागद्वयमामलसारकम् ॥
१ द. त्रिंशस्तत्र । २ द. कं । ३ द. मध्ये वासंतपट्टिका । ४ द. मेक्षांतरपत्रं । ५ द. ता ।
६ द. च्छि्र । ७ द. स्कंधः पद्यद विं । ८ द. का । ९ द. स्तदूर्द्धर्वा । १० द. की ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४११
चन्द्रिका¹ भागमेकं स्यात् त्रिपदा कलशोच्छ्रितिः ।
उक्ता या मूलमञ्जर्यः प्राक् प्रासादेषु तास्विह्यम् ॥
कार्ये महामोकारा(?) चारुकर्मविशोभिता ।
बाह्यभित्तिसमायुक्तं प्रासादस्य चतुर्दिशम् ॥
मल्लच्छाद्यं प्रकुर्वीत यथाशोभं³ विचक्षणैः⁴ ।
सर्वतश्चारुरूपाद्यैर्विचित्रैः शुभलक्षणैः ॥
विभूषयेत् सिंहकर्णैर्मल्लच्छाद्यं मनोहरैः ।
वलभीत्रयसंयुक्तं कर्णकूटचतुष्टयम् ॥
यथाशोभं विधातव्यं प्रासादेऽस्मिंस्त्रिविष्टपे ।
वास्तौ शतपदे यानि मर्माप्युक्तानि सर्वतः ॥
उत्सृज्यै तानि यत्नेन परिकर्मात्र कारयेत् ।
प्रासादं कारयित्वैनमुक्तदूपं त्रिविष्टपम् ॥
लभेतेह यशो⁶ राज्यं परत्रानन्त्यमेव च ।
कृत्वा त्रिविष्टपं दिव्यं प्रासादं पुरभूषणम् ॥
वसेत् त्रिविष्टपे तावद् यावदाभूतसंप्लवम् ।
तस्यान्ते तु परे तत्त्वे लयमाप्नोति मानवः ॥
त्रिविष्टपः ॥
अथाभिधीयते सम्यक् प्रासादः पृथिवीजयः ।
किन्नरासुरयक्षाद्यैर्वन्दितः सुरसत्तमैः ॥
चतुरश्रीकृते क्षेत्रे (१०विभागाष्व ?) विभाजिते ।
चतुर्भागा भवेच्छाला सपादै(दैां)शवनिर्गता ॥
कर्णशृङ्गद्वयं कार्यं प्रत्येकं भागविस्तृतम् ।
पादोनैर्पद१२निष्क्रान्तं ++++++++ ॥
१ द. कां । २ द. माहाकरो चा° । ३ द. भां । ४ द. णाः । ५ द. ष्टा । ६ द. यत्सौ° ।
७ द. शंत्य° । ८ द. (ता च यावदा° ?) । ९ द. त । १० मुद्रित पुस्तके 'भा्राष्टक' इति स्यात्;
परन्तु द. पुस्तके 'विभागाष्ट' इत्येव पाठः । ११ द. °दोंश° । १२ द. पा ।
भागैश्चतुर्भिर्गर्भः स्याद् भित्तिः कार्या तु भागिका ।
भ्रमन्तिकापि भागेन बाह्यभित्तिश्च भागिकी ॥
भागद्वयेन कुर्वीत दिक्त्रयेऽस्य चतुष्किकाम् ।
पुरतो मण्डपं कुर्यादुपेतं कर्मशोभया ॥
एवं विभागान् संकल्प्य यथोद्देशं विचक्षणः ।
मन्दरस्येव कुर्वीत कर्मशोभां समन्ततः ॥
ऊर्ध्वतो यत् प्रमाणं स्यात् तदस्येहाभिधीयते ।
अधस्तान्नागपीठः स्यात् प्रमाणेन पदद्वयम् ॥
हीरकं भागपादेन तस्य मध्ये निवेशयेत् ।
विस्ताराद् द्विगुणं चोर्ध्वमानं भागार्धसंयुतम् ॥
ऊर्ध्वमानस्य मध्ये स्यात् षट्पदानिबर्हणादयः(?) ।
वेदीबन्धश्च तन्मध्ये कर्तव्यः सार्धभागिकः ॥
ततो हीरकसंयुक्ता जङ्घा पदचतुष्टयौ ।
मेखलान्तरपत्रं च कार्यं भागार्धसंमितम् ॥
भागद्वयेन कर्तव्यं वेदिका राजसेरका ।
चन्द्रावलोकं भागेन विदधीत विचक्षणः ॥
कुर्यात् पदस्य पादेन तत्रैवासनपट्टकम् ।
पदद्वयेन सांशेन स्तम्भमूर्ध्वं निवेशयेत् ॥
अर्धभागेन कुर्वीत भरणं स्तम्भशीर्षके ।
अर्धभागेन पट्टं च छाद्यं सार्धपदायतम् ॥
(द्वे सन्त पठिका ?) कार्या ततो भागार्धसंमिता ।
ऊर्ध्वमन्तरपत्रस्य (कथमोध ?) यथाक्रमम् ॥
कुर्याद् ग्रीवाण्डकलशं र्चन्द्रिकाभिः समं बुधः ।
उच्छ्रायं कर्णशृङ्गाणां सार्धभागं प्रमाणतः ॥
स्तम्भसूत्रेण कर्तव्यं नष्टशृङ्गं विचक्षणैः ।
कूटानि पञ्च कुर्वीत यथावत् प्रथमक्षितौ ॥
१ द. ॰णैः । २ द. ठा । ३ द. परुक्खं । ४ द. ॰बंध्याश्च । ५ द. ॰यां । ६ द. कं ।
७ द. द्विसंत पट्टिका का॰ । ८ द. सच । ९ द. कौ ।
मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ४१३
प्रा (त्री) णि भूमौ द्वितीयायां तृतीयायां तु कूटकम् ।
कुर्यात् तुल्यसमुच्छ्रायविस्तारं तच्च मानतः ॥
कर्णे कर्णे तु कूटानि भवन्त्येवं पृथङ् नव ।
शुकनासोन्नतिः कार्या सार्धभागद्वयं बुधैः ॥
स्यादुरोमञ्जरी पूर्वा नष्टशृङ्गस्य चोपरि ।
विस्तारात् त्रिपदा सा स्यात् सार्धभागत्रयोन्नता ॥
भागं सपादं कुर्वीत ग्रीवां सकलशाण्डकम् ।
द्वितीयशृङ्गस्योर्ध्वं स्यादुरोमञ्जरिकापरा ॥
विस्तीर्णा चतुरो भागान् कार्या पञ्चपदोच्छ्रिता ।
स्कन्धावरोहणग्रीवाचन्द्रिकाकलशैः सह ॥
एतेषां तु समुच्छ्रायः सार्धभागं विधीयते ।
उरःशिखरकाण्यष्टावेवं कुर्याच्चतुर्दिशम् ॥
तृतीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी ।
सा भवेत् षट्पदोच्छाया पदपञ्चकविस्तृता ॥
त्रिपदः स्कन्धविस्तारो दिक्षु स्याच्चतसृष्वपि ।
कूटैश्च विविधन्यासैरलङ्कुर्वीत मञ्जरीम् ३ ॥
अर्धभागोच्छ्रिता ग्रीवा सार्धांशाद्वयविस्तृता ।
अण्डकस्य समुच्छ्रायस्त्रिभागोनपदं भवेत् ॥
कर्परं चार्धभागेन कलशः पदमुच्छ्रितः ।
नवभिः शिखरैर्युक्तः कर्तव्योऽयं समन्ततः ॥
वेदीबन्धस्तु सर्वत्र कर्तव्यः शतवास्तुवत् ।
कुर्यात् तेन विभागेन कलशानपि शोभनान् ॥
मञ्जरीः पद्मपत्राग्रतुल्याः सर्वत्र कारयेत् ।
अण्डकानि भवन्त्यत्र चत्वारिंशच्च पञ्च चै५ ॥
एवंविधं विधत्ते यः प्रासादं पृथिवीजयम् ।
पृथ्वीं विजयते कृत्स्नां निर्जितारिः स पार्थिवः ॥
१ द. त्र । २ द. कूटैर्विविधं न्यां । ३ द. री । ४ द. री । ५ द. वा ।
४१४ समराङ्गणसूत्रधारे
अन्योऽपि कश्चिद् यः कुर्याद् (वेर्णाच्छतं ?) भक्तिमानिमम् ।
सोऽपि सौख्यमवाप्नोति पश्चादन्ते परं पदम् ॥
पृथिवीजयः ॥
अतः परं प्रवक्ष्यामि प्रासादं क्षितिभूषणम् ।
अमरैर्वन्दितं सर्वैस्तथा चाप्सरसां गणैः ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
भद्रे पञ्च पदानि स्युः कोणे कार्यं पदत्रयम् ॥
गर्भं षोडशभिर्भागैस्तस्य कुर्याद् विचक्षणः ।
कर्तव्या पदविंशत्याँ कन्दभित्तिः समन्ततः ॥
प्रासादस्यास्य कर्तव्या रमणी तु पदद्वयम् ।
पट्टि(दि)का बाह्यभित्तिः स्याद् द्विपदो भद्रनिर्गमः ॥
जलान्तरं तु भागस्तु ++++ गवाक्षकाः ।
भद्राणां मध्यतः पञ्च(स?) प्रकाशाः स(सु)मनोरमाः ॥
बाह्यालिन्दं प्रकुर्वीत वेदीजालविभूषितम् ।
तस्योपरिष्टात् कुर्वीत माल्युच्छ्रायं सुशोभनम् ॥
ऊर्ध्वमानमथ ब्रूमः प्रासादे क्षितिभूषणे' ।
क्षुरकं तस्य कुर्वीत त्रिपदं पीठसंयुतम् ॥
अस्योच्छ्रायतस्तः सार्धं°(पदाः स्यात् ?) पञ्चविंशतिः ।
एतन्मध्ये तु दशभिः पदैः कार्यस्तुलोदयः ॥
रेखा पञ्चदशांशा स्यात् स्कन्धशीर्षं पदार्धकम् ।
वेदीबन्धस्तु कर्तव्यः सार्धभागद्वयं बुधैः ॥
जङ्घा षड्भागिकोच्छ्राया भागार्धे(षेचराः ?) शुभाः ।
मेखलान्तरपत्रं च पदेनैकेन कारयेत् ॥
कार्या चतुष्किका पञ्चविस्तारा त्रिपदोच्छ्रिता ।
तदूर्ध्वतः क्रमः कार्यों द्विपदोऽन्योऽधिकं पदम् ॥
१ द. दथः । २ मुद्रित पुस्तके 'वर्णानाम्' इति स्यात् । ३ द. तः । ४ द. मां । ५ द. च
प्रवक्ष्यामः । ६ द. त्यां । ७ द. तु भागार्द्धं द्विभागस्तु ग° । ८. द. तां । ९ द. णे । १० द. द्वे ।
११ द. र्द्वि°।
मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९
भूमयः पञ्च कर्तव्या १न्यूना(+च ?) यथोत्तरम् ।
प्रथमा भूमिका (का)र्या सार्ध२ (द्विभागास्तु गवाक्ष ?) भागत्रयं बुधैः ॥
सपादास्तु त्रयो भागा द्वितीयाया ( स ) मुदाहृता३ ।
४तृतीया त्रिपदा ++++++++ परा ॥
५++++++++ पञ्चमी भूमिरिष्यते ।
पादहीनपदं ग्रीवा सपादपदमण्डकम् ॥
चन्द्रिका भागमेकं स्यात् पद्मपत्रनिभा शुभा ।
त्रिपदं कलशं ६विद्यान्मातुलिङ्गसमन्वितम् ॥
द्राविडं नागरं वापि वाराटं वास्तु शोभनम् ।
( यदेकं तेवते कर्तु ? ) तद्रूपं तं प्रकल्पयेत् ॥
नानाप्रकारैः स्तम्भैश्च नानाभूषणभूषितैः ।
कलशैः पद्मपत्रैश्च हीरकैश्चोपशोभितम् ॥
कृत्रिमग्रासयुक्ताभिश्चन्द्रशालाभिरन्वितम् ।
मकरग्राससंयुक्तैस्तोरणैर्लक्षणान्वितैः७ ॥
(कोणोत्कण्ठै ?)र्विचित्रैश्च रूपैश्चित्रैश्च शोभितम् ।
कर्म रम्यं प्रकुर्वीत यथावद् वित्तैविस्तृतम् ॥
गुणवान् नृपतिर्यद्वद् भूषयत्यखिलां महीम् ।
क्षितिं विभूषयत्येवं प्रासादः क्षितिभूषणः ॥
द्रव्येषु रेणुसंख्या या सुधायामपि यावती ।
तावद्युगसहस्राणि कर्ता शिवपदे वसेत् ॥
क्षितिभूषणः ॥
संस्थानं सर्वतोभद्रस्याधुना परिकीर्त्यते ।
चतुरश्रीकृतं क्षेत्रं१० विभजेद् दशभिः पदैः ॥
१ मुद्रित पुस्तके ‘न्यूनास्ताश्च’ इति स्यात् । २ द. सार्ध द्विभागास्तु । ३ द. ताः । ४-५ मुद्रित
पुस्तके ‘तृतीया त्रिपदा कार्या पादोनत्रिपदा परां ।’ इति पाठ्यं स्यात् । ‘अर्धहानित्रिभागा तु पञ्चमी
भूमिरिष्यते’ इति पाठ्यं स्यात् । द. पुस्तकेऽपि ‘तृतीया त्रिपदा परा’, ‘पंचमी भूमिरिष्यते’ इत्येव
पाठः । ६ द. विं । ७ द. ताः । ८ द. कोणे कूटैर्विचित्रैश्च । ९ द. त । १० द. याः । ११ द. त्रे ।