समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 471, कुल 726 में से
संदर्भ में पढ़ें४०८ समराङ्गणसूत्रधारे
पदस्यार्धेन कर्तव्यः खुरकस्तु खुरादिति(?)।
तदूर्ध्वं द्विगुणा ज्ञेया प्रासादस्य समुच्छ्रितिः॥
एकेन कुम्भकः कार्यो भागेन समवर्जितः¹।
मसूरकस्तु भागेन पादोनेन विधीयते ॥
कार्यं पदस्य पादेन ततश्चान्तरपत्रकम् ।
मेखलार्धपदेन स्याच्च²न्द्रेशालाविभूषिता ॥
जङ्घा तदूर्ध्वं कर्तव्या सार्धं पदचतुष्टयम् ।
भागेनैकेन कुर्वीत मेखलान्तरपत्रकम् ॥
कर्णशृङ्गं त्रिभिर्भागैः कुर्यात् सकलशाण्डकम् ।
तदूर्ध्वं द्विपदानि स्युः ³कूटान्युच्छ्रायमानतः ॥
पूर्वोक्तानाममीषां च प्रक्षेपः स्यात् पदां(शतः)।
चतुर्धा कूटविस्तारं ⁴संविभज्य पदद्वये ॥
(⁵संद्रस्यादितिक्तयनि?) सिंहक्रान्तानि कारयेत् ।
विस्तारं मूलमञ्जर्याः कुर्यात् षड्भागसंमितम् ॥
सप्तभागिकमुच्छ्रायं कैलासेऽस्याः प्रकल्पयेत् ।
भागार्धेन भवेद् (भाग?) भागिकोच्छ्रायमण्डकम् ॥
⁷चण्डिकामर्धभागेन कलशं सार्धभागिकम् ।
कुर्वीत शिखरं चास्य स्वस्तिकस्य यथोदितम् ॥
युक्तं भूमिभिरष्टाभिर्मञ्जरीभिरलङ्कृतम् ।
सिंहकर्णैर्विचित्रैश्च भद्राण्यस्य विभूषयेत् ॥
कर्तव्यः स्कन्धविस्तारस्तस्मिन् पदचतुष्टयम् ।
विदधीत समालेखसूत्रेण त्रिगुणेन च ॥
एवं +++++कैलासं ⁸विदधाति यः ।
विभूतिं लभते सोऽत्र सुखसौभाग्यसंयुताम् ॥
१ द. ॰र्तिंतः। २ द. ॰न्द्रं। ३ द. कुं। ४ द. स। ५ द. भद्रं स्यादिति कूटानि।
६ द. तां। ७ द. वंदिं। ८ द. सं। ९ द. त।