समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 469, कुल 726 में से
संदर्भ में पढ़ें४०६ समराङ्गणसूत्रधारे
मेखलान्तरपत्रं च कार्यं पदसमुच्छ्रितम् ।
पदद्वयायतानि स्युः कर्णे शृङ्गाणि मानतः ॥
उच्छ्रयस्त्रिपदस्तषां ग्रीवाण्डकलशैः सह ।
मूलरेखा विधातव्या कर्णकूटस्य चोपरि ॥
नवभागोच्छ्रिता २शस्ता विस्तारेणाष्टभागिका३ ।
विस्तारं दशधा कृत्वा तैः षड्भिः स्कन्धविस्तृतैः ॥
लताः पञ्च विधातव्याः श्रीवत्से४ कथिता यथा ।
कुर्वीत पञ्चभौमं वा सप्तभौममथापि वा ॥
ग्रीवा पादोनभागा स्यात् सं५(पादं) पदमण्डकम् ।
चन्द्रिकैकपदा कार्या कलशो द्विपदोदयः ॥
(त्रिश्वरं ?)त्रिपदं कुर्यात् तत्रैकं भागमुत्सृजेत् ।
८शुकनासोत्सृतं कुर्यात् सिंहस्थानविभूषितम् ॥
कनकाभरणैर्युक्तः पुमान् यद्वद् विराजते ।
तथा प्रासादराजोऽयं शोभते चित्रकर्मभिः ॥
मञ्जरीं९ दशधा कृत्वा कर्मशोभां प्रकल्पयेत् ।
भागैर्भद्रस्य विस्तारः षड्भिर्भागेन निर्गमः ॥
भागिक्यौ रथिके तत्र कुर्याद् भागादं विनिर्गमः ।
भागद्वयमितान् कर्णान् विदिक्षु च निवेशयेत् ॥
शालाश्चतस्रः कर्तव्या युक्ताः कूटैर्मनोरमैः ।
नीरान्तराणि ता अष्टौ मञ्जर्या द्विगुणान्विता ॥
कूटेऽर्धे प्रथमा भूमिः कार्या भागद्वयोच्छ्रिता ।
पदपादविहीनास्तु क्रमेणोपरि भूमिकाः ॥
अर्धभागोच्छ्रिता ग्रीवा भागिकोच्छ्रायमण्डकम् ।
भागेन कलशः कार्यः सर्वलक्षणसंयुतः ॥
१ द. ग. । २ द. शंस्यो द्विस्तां । ३ द. की. । ४ द. ०त्सो । ५ द. म । ६ द. सपदं पदं ।
७ 'शिखरम्' इति स्यात् ; द. त्रिश्वरं । ८ द्र. अ । ९ द. ०री । १० द. भागार्द्धनिर्गमा ।