सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 473, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 473

४१० समराङ्गणसूत्रधारे
बाह्यभित्तिं तु कुर्वीत भागेनैकेन संमिताम् ।
एवं विभज्य कुर्वीत पुरतो मुखमण्डपम् ॥
ऊर्ध्वमानमथ(स्त्रिंशा¹ ?)तत्र पीठं चतुष्पदम् ।
मध्यप्रासादजङ्घा च तद्वदेव समुच्छ्रिता ॥
अतः पदैः स्याद् विस्ताराद् द्विगुणा शिखरोन्नतिः ।
तस्याश्च मध्ये कुर्वीत षोडशांशं तुलोदयम् ॥
तुलोदयस्य मध्ये द्वे वेदीबन्धं सपञ्चकम्² (?) ।
जङ्घा चाष्टपदा कार्या मध्ये³ चासनपट्टिका ॥
⁴एषा त(मन्तर)पत्रं च कर्तव्यं त्रिपदोच्छ्रितम् ।
तुलोदयस्योपरिष्टात् प्रमाणमथ कथ्यते ॥
चतुष्पदेषु कर्णेषु कूटं पञ्चपदोदयम् ।
ग्रीवा पदस्य पादोन(ना)त्रिभिः पादैस्तथाण्डकम् ॥
चन्द्रिकाकलशोत्सेधं पादेनैकेन कल्पयेत् ।
प्रत्यङ्गे तिलकास्त्र्यंशा घण्टाकलशसंयुताः⁵ ॥
मध्ये तु वलभीशृङ्गमून्नतं⁶ सप्तभिः पदैः ।
ऊर्ध्वतस्तिलकानां स्यादुरोमञ्जरिका दश ॥
विस्तारेण पदान्यूर्ध्वं भवेद् द्वादशभागिका ।
स्कन्धं(पट्टादि ?)विस्तारो ग्रीवा पादोनभागिका ॥
अण्डकं सार्धभागेन चन्द्रिका भागमुच्छ्रिता ।
द्विपदः कलशोच्छ्रायस्तदूर्द(दू ?)बीजपूरकम् ॥
विस्तारो मूलमञ्जर्याः कार्यः षोडशभिः पदैः ।
उच्छ्रायः सप्तदशभिः स्कन्धो नवपदः स्मृतः ॥
कार्या सप्रलतोपेता प्रशस्ता मूलमञ्जरी ।
ग्रीवास्य भागिकीं भागद्वयमामलसारकम् ॥
१ द. त्रिंशस्तत्र । २ द. कं । ३ द. मध्ये वासंतपट्टिका । ४ द. मेक्षांतरपत्रं । ५ द. ता ।
६ द. च्छि्र । ७ द. स्कंधः पद्यद विं । ८ द. का । ९ द. स्तदूर्द्धर्वा । १० द. की ।