समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 476, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ४१३
प्रा (त्री) णि भूमौ द्वितीयायां तृतीयायां तु कूटकम् ।
कुर्यात् तुल्यसमुच्छ्रायविस्तारं तच्च मानतः ॥
कर्णे कर्णे तु कूटानि भवन्त्येवं पृथङ् नव ।
शुकनासोन्नतिः कार्या सार्धभागद्वयं बुधैः ॥
स्यादुरोमञ्जरी पूर्वा नष्टशृङ्गस्य चोपरि ।
विस्तारात् त्रिपदा सा स्यात् सार्धभागत्रयोन्नता ॥
भागं सपादं कुर्वीत ग्रीवां सकलशाण्डकम् ।
द्वितीयशृङ्गस्योर्ध्वं स्यादुरोमञ्जरिकापरा ॥
विस्तीर्णा चतुरो भागान् कार्या पञ्चपदोच्छ्रिता ।
स्कन्धावरोहणग्रीवाचन्द्रिकाकलशैः सह ॥
एतेषां तु समुच्छ्रायः सार्धभागं विधीयते ।
उरःशिखरकाण्यष्टावेवं कुर्याच्चतुर्दिशम् ॥
तृतीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी ।
सा भवेत् षट्पदोच्छाया पदपञ्चकविस्तृता ॥
त्रिपदः स्कन्धविस्तारो दिक्षु स्याच्चतसृष्वपि ।
कूटैश्च विविधन्यासैरलङ्कुर्वीत मञ्जरीम् ३ ॥
अर्धभागोच्छ्रिता ग्रीवा सार्धांशाद्वयविस्तृता ।
अण्डकस्य समुच्छ्रायस्त्रिभागोनपदं भवेत् ॥
कर्परं चार्धभागेन कलशः पदमुच्छ्रितः ।
नवभिः शिखरैर्युक्तः कर्तव्योऽयं समन्ततः ॥
वेदीबन्धस्तु सर्वत्र कर्तव्यः शतवास्तुवत् ।
कुर्यात् तेन विभागेन कलशानपि शोभनान् ॥
मञ्जरीः पद्मपत्राग्रतुल्याः सर्वत्र कारयेत् ।
अण्डकानि भवन्त्यत्र चत्वारिंशच्च पञ्च चै५ ॥
एवंविधं विधत्ते यः प्रासादं पृथिवीजयम् ।
पृथ्वीं विजयते कृत्स्नां निर्जितारिः स पार्थिवः ॥
१ द. त्र । २ द. कूटैर्विविधं न्यां । ३ द. री । ४ द. री । ५ द. वा ।