सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 472, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 472

मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०९
कामानवाप्य विविधान् कीर्तिमारोग्यमेव च ।
भुक्त्वा भोगांश्च कैलासे कल्पान्ते२ यावदीप्सितम् ॥
३शार्वं पदमवाप्नोति शान्तं ध्रुवमनामयम् ।
कैलासः ॥
त्रिविष्टपमथ ब्रूमः प्रासादममरप्रिय१म् ॥
सेवितं यक्षगन्धर्वसिद्धविद्याधरादिभिः ।
चतुरश्रीकृते क्षेत्रे विंशत्यंशविभाजिते ॥
षड्भागविस्तृता शाला स्याच्चतुर्भागनिर्गमा ।
चतु४रंश(इश)५ती कोष्ठकानां द्वासप्तत्यधिका भवेत् ॥
आशात्रयस्थितैर्भद्रैः सार्धमेवं६ प्रजायते ।
कुर्याद् गर्भगृहाण्यष्टौ (दिक्षु७ष्वाखपि ?) तानि तु ॥
कोणे तु८ षोडशांशानि तन्मध्ये९ चतुरोऽशकान् (?) ।
भित्तिर्द्वादशभिर्भागैगर्भाणामिति निर्णयः ॥
चतुःषष्टिपदः कार्यो मध्ये प्रासादनायकः ।
पदैः षोडशभिस्तस्य मध्ये गर्भं प्रकल्पयेत् ॥
द्विभागविस्तृता भित्तिः कर्तव्या तस्य बाह्यतः ।
(च१०तुर्दिशतं भ्रमन्ती स्य?) ++पञ्चपदायता ॥
वलभीः कारयेत् तद्वद् द्वि(दिग्)११भागेषु चतुर्ष्वपि ।
प्रत्यङ्गं द्विपदं कर्णशालावल्लभिकान्तरे ॥
तच्च द्विपदमुद्दिष्टं जलमार्गे पदार्धिके ।
पदैर्द्वादशभिर्दिक्षु चतसृष्वपि मण्डपान् ॥
प्रासादस्य प्रकुर्वीत कर्मशोभाविभूषितान् ।
मूला(ल) प्रासादगर्भस्य कुर्याद् द्वारचतुष्टयम् ॥
विज्ञेये(यं) तच्च दिग्भद्रे१२ सूत्रमार्गानुसारतः ।
जलान्तराणि कुर्वीत प्रत्यङ्गे१३ पार्श्वयोरपि ॥
१ द. 'पिनं' । २ द. न्तं । ३ द. सार्वस्पदम° । ४ द. या । ५ द. शती को° । ६ द. व ।
७ 'दिक्ष्वष्टास्वपि' इति स्यात् । ८ द. षु । ९ द. र्ध्यं । १० 'चतुर्दिशं भ्रमन्ती स्यात् तस्याः'
इत्येवजातीयं पाठ्यं स्यात् । द. चतुर्दिशं भ्रं° । ११ द. वि । १२ द. द्र । १३ द. ङ्ग ।
वा. ५२