सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 462, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 462

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९
त्रिपदं शृङ्गमुत्सेधाद् ग्रीवा च कलशाण्डकम् ।
ष (त) दूर्ध्वं पञ्चविस्तारा स्यादुरोमञ्जरी शुभा ॥
ग्रीवा कार्या पदार्धेन भागेनैकेन चाण्डकम् ।
कलशोऽशोच्छ्रितोऽष्टांशविस्तारा मूलमञ्जरी ॥
तस्याः कार्यः समुत्सेधः प्रमाणान्नवभागिका(क)ः ।
स्कन्धः पञ्चपदो ग्रीवा पादहीनं पदं भवेत् ॥
सपादं पदमञ्जर्या (?) पदस्यार्धेन चन्द्रिका ।
कलशो द्विपदोच्छ्रायः प्रासादे स्याद् वराटके ॥
वराटं कारयेद् यस्तु प्रासादं भक्तिमान् नरः ।
स याति यानैर्विविधैः स्वर्गं प्राप्नोति चाक्षयम् ॥
वराटः ॥
सुमुखस्याधुना लक्ष्म प्रका (क्र)मागतमुच्यते ।
भागैरेकोनविंशत्या चतुरश्रे विभाजिते ॥
तत्रैकादशभिर्गर्भश्चतुर्भिर्भित्तिरंशकैः ।
कोणो द्विभागिकस्तत्र भागपादो जलान्तरम् ॥
भागार्धेन प्रवेशोऽस्य चतुरंशकविस्तृतम् ।
भद्रमेवं विनिर्दिष्टमर्धभागेन निर्गतम् ॥
पादोनभागद्वितयादन्तरे कर्णभद्रयोः ।
त्रयः प्रतिरथाः कार्याः सहिताः सलिलान्तरैः ॥
अर्धभागोऽर्धभागश्च मिथस्तेषां विनिर्गमः ।
ऊर्ध्वमानं भवेदस्य द्विगुणं द्विकलाधिकम् ॥
अंशकैः पञ्चम(भि)श्चैव विधेयोऽस्य तुलोदयः ।
विभागैः पञ्चविंशत्या तदूर्ध्वं मञ्जरी भवेत् ॥
वेदीबन्धो विधेयोऽस्य सार्धभागचतुष्टयात् ।
जङ्घाशैरष्टभिः सार्ध (धैः) वरण्डी तु द्विभागिका ॥
लताभिर्नवभिर्युक्ता प्राग्वत् कार्यास्य मञ्जरी ।
स्यादेकादशभिर्भागैरेतत्स्कन्धस्य विस्तृतिः ॥