रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
३६ रसार्णवे
प्रणवं पूर्वमुच्चार्य्य बीजं शब्दमनुत्तरम्¹ ।
क्रींकारञ्चैव² क्रींकारं हंसबुद्धि³मनन्तरम् ॥ ५ ॥
कालपाशं महामन्त्रं गृह्णीयात्साधकेश्वरः⁴ ।
महारम्भे तु तन्मन्त्रं प्रतीहारं रसाङ्कुशम्⁵ ॥ ६ ॥
लक्षमेकं जपेत्तस्य महासिद्धिः प्रवर्त्तते ।⁶
बालवत्सपुरीषं तु⁷ ततः केनैव ग्राहयेत्⁸ ॥ ७ ॥
चिताग्नि⁹भस्म तेनैव ग्राहयेत् परमेखरि ।
क्षिप्रं तदुत्तमं स्थानं रसेन्द्रस्तत्र तिष्ठति ॥ ८ ॥
मार्जन्या मार्जयेत्स्थानं कुब्जिकाख्या तु खेचरी¹⁰ ।
द्वात्रिंशदक्षरा¹¹ देवि पञ्चनादेषु संस्थिता ॥ ९ ॥
ततः सिद्धाश्च चत्वारः पुरुषाष्टादश¹² स्मृताः ।
अद्य¹³पञ्चकसंयुक्ता ध्यानं स्यात्¹⁴ पञ्चकं पुनः ॥ १० ॥
योगिनोष्टकसंयुक्तं¹⁵ सप्तविंशत्क्रमान्वितम्¹⁶ ।
(1) प्रणवशब्दमनुत्तरम्, a variant in K. (2) क्रींकारः चैव, a variant
in K. which is incorrect, as it is connected with उच्चार्य्य. (3) K
reads हसशब्द. (4) This charana and the next are wanting in K.
(5) K reads प्रणिहार रसाङ्कुश, which is incorrect. (6) This
hemistich is wanting in M. (7) K reads चौण in lieu of बाल.
M reads बालवत्सपुरैवेषु. (8) K reads पुनस्तेनैव लइयेत्, which has no
clear sense. M reads गृह्णयेत्, which is incorrect. (9) K reads
चितास्थि. (10) कुब्जिकाख्यां सुखचरीं, a reading in M. (11) M
reads द्वात्रिंशदक्षरां. (Vide Paṭala II, verse 68.) (12) K reads
पुरुषाष्टदिशः. (13) M reads षट्. (14) K reads ध्यानाख्या.
(15) योगिनाश्टकसयुक्ताः, a variant in K. (16) K reads सप्तविशत्कर्मान्विताः.
तृतीयः पटलः । २७
एकाशीतिपदैर्युक्तं पञ्चावरणसंयुक्तम् ॥ ११ ॥
अनेन क्रमयोगेन मार्जनीं परिपूजयेत्¹ ।
अनेन मार्जयेत् क्षेत्रं रसेन्द्रो यत्र तिष्ठति ॥ १२ ॥
उपलेपन्तु तत्रैव चण्डघण्टास्तु कारयेत् ।
पूर्वे गृहे² तु सा देवी चण्डघण्टा व्यवस्थिता ॥ १३ ॥
चण्डभैरविका देवी संस्थिता³ दक्षिणे गृहे ।
गोमयं तेन गृह्णीयाल्लेपनार्थं वरानने ॥ १४ ॥
चण्ड⁴कापालिनी देवी⁵ संस्थिता⁶ चोत्तरे गृहे ।
गृहीत्वा चोदकं तेन⁷ लेपयेद्भूमिमण्डलम्⁸ ॥ १५ ॥
सप्तदशाक्षरां कालीं⁹ खल्ल¹⁰पाषाणतो न्यसेत् ।
द्वात्रिंशदक्षरं घोरं मर्दके¹¹ तु नियोजयेत् ॥ १६ ॥
गृह्णीयात् काञ्चिकां देवि कालपाशेन मन्त्रितः ।¹²
एवं सुकर्मसंयोगं कुरुते खेचरीकुलम् ॥ १७ ॥
षष्टाशीतिसहस्राणि याः स्थिता दिव्यखेचरी¹³ ।
(1) M reads तंन पूजयेत्. (2) पूर्व्वगेहे, a variant in K. (3) K
reads सा स्थिता. (4) M reads पश्च. (5) M reads देव्या, which
is incorrect. (6) K reads सा स्थिता. (7) M reads देवि.
(8) लेपन्तभूमिमण्डले, a variant in M. (9) साष्टादशाक्षरी काली, a
variant in K. (10) All the MSS. agree in spelling खल्ल thus--खल.
But no lexicon supports the latter spelling. (11) K reads मर्दने.
(12) गृहीत्वा काञ्चिकां देवि कालपार्शेन चर्षिताम्, a variant in K.
(13) [इति नाथा] is to be understood after दिव्यखेचरी. Both K and M
read या (without विसर्ग), which is incorrect.
३८ रसार्णवे
ताः सर्व्वाः किंकरास्तस्य¹ चौषधं पेषयन्ति ताः² ॥ १८ ॥
तासां सर्व्वन्तु मन्त्रैकं³ चतुरक्षरसंयुतम् ।—"सोऽहं हंसः"
सा विद्या खेचरीणां तु⁴ नाम्ना⁵ तु कुलखेचरो ॥ १९ ॥
राजिकां सैन्धवं न्यस्य⁶ सा विद्या कुलखेचरो ।
मन्त्रयेत् काञ्जिकां⁷ तत्र मन्त्रराजो रसाङ्कुशो⁸ ॥ २० ॥
अस्त्रविद्यां जपेत्तत्र⁹ या ज्ञाता पूर्व्वभार्गवे¹⁰ ।
गुड़ेष्टकान्तु सम्भार्य्य¹¹ प्रिये तन्मर्द्दितं¹² रसम् ॥ २१ ॥
का कथा मन्त्रराजस्य¹³ न वाक्यं त्रिशिरस्य च¹⁴ ।
षडङ्गं योजयेत् तं¹⁵ तु त्वरितं¹⁶ धारयेत् ततः ॥ २२ ॥
डामराख्यं महामन्त्रं धमनेषु¹⁷ नियोजयेत् ।
(1) खेचरास्तस्य is the reading in M. [Here किंकराः = female servants.]
(2) K reads पेषयन्ततः. (3) तासाञ्च सर्व्वमन्त्रैक, a reading in K.
(4) K reads खेचरो नाम. (5) M reads नाम्ना, which is an error
of the scribe. (6) राजिका सैम्भवं न्यस्यां, a variant in M, which
seems to be erroneous. (7) M reads काञ्जिक. (8) B
reads रसाङ्गुशा. K reads रसाङ्गुशौँ. (9) B has अस्तु विद्या जपं तत्र.
(10) K has या ज्ञाता पूर्व्वम.भवोत्. M has या ज्ञाता पूर्व्वभाव्भवेत्. (11) B
reads गुड़ेष्टक. K reads गुड़ेष्टक तु ससव्य, wherein the last term seems to be
an error. (12) B reads तं मर्दित. (13) B reads कालपाश
मन्त्रराजस्य, which mars the metre. (14) B reads न वाक्मा त्रिशतस्य च.
K reads तस्मान्न त्रिशिरस्य च. (15) K reads तत्. M reads तै, which
is incorrect. (16) B and K read त्वरितां, which is a palpable
mistake. (17) B reads महातत्रं डामयेषु. M reads भूपुरेषु, which
has no clear sense.
न्यस्तव्या वीरवन्दिते⁵ ॥ २५ ॥Wait, look at footnote 5:(5) गुलस्य कालरात्रिसु व्यन्तव्या वीरवन्दिता, a variant in M, which is inc.Wait, in : Is itगुड़स्यorगुडस्य? Look at : गुडस्यorगुड़स्य? The bottom of डhas a dot:गुड़स्य. And look at कालरात्रिसु: In , is it कालरात्रिसुorकालरात्रिश्चorकालरात्रिस्तु? Wait! Look at after कालरात्रि: Is it सु? Wait! Look at कालरात्रिसुin and ! In :गुलस्य कालरात्रिसु! It is clearly कालरात्रिसु! And in : कालरात्रिसु! Wait, in : न्यस्तव्या वीरवन्दिते⁵ ॥ २५ ॥`
Now let's check :
त्रिकूटाक्षं त्रिनेत्रं तु⁶ अनलस्य तु विन्यसेत्⁷ ।
Footnote 6:
`(6) K reads त्रिकूटाक्षचिनेत्रं च. M reads त्रिघण्टाख्यात्रिकीये
पृ० रसार्णवे
तदा तु सिद्ध्यते¹ तस्य साधकस्य फलं² प्रिये ॥ २८ ॥
रसाङ्कुशं महामन्त्रं जपेत्तु हृदयान्तरे³ ।
अन्ये ये⁴ योगिनोमन्त्राः सर्व्वान्त्रारौष जापयेत्⁵ ॥ २९ ॥
अप्रकाश्यन्तु⁶ तेनैव मन्त्रराजं रसाङ्कुशम् ।
अप्रकाश्यञ्च⁷ नारीणां रक्षयेत्प्रणवं तथा⁸ ।
महासमयविभ्रंशं⁹ नारीणां हृदयं यथा¹⁰ ॥ ३० ॥
कुब्जिकाद्यास्तु ये मन्त्रा मया¹¹ ते संप्रकाशिताः ।
त्रैलोक्यं क्षोभितास्ते तु¹² न मन्यन्ते मम प्रिये ॥ ३१ ॥¹³
रसाङ्कुशेन ज्ञानेन¹⁴ त्रैलोक्यं वश्यतां¹⁵ व्रजेत् ॥ ३२ ॥
(1) B reads भिद्यते, which is incorrect. (2) B reads परं. M
reads रमं. (3) B reads जपस्य तु हृदन्तरे. M reads हृदयाम्बुजे. All
the texts read जपस्यं,
चतुर्थः पटलः । ४१
मन्त्रन्यासमिति¹ ज्ञात्वा यन्त्रमूषाग्नि²मानवित् ।
कुर्वाणो रसकर्माणि सिद्धिं प्राप्नोति साधकः ॥ ३३ ॥
इति श्रीपार्वतीपरमेश्वरसंवादे
रसार्णवे रससंहितायां
मन्त्रन्यासो नाम³
तृतीयः पटलः ॥३॥
चतुर्थः पटलः ।
श्रीदेव्युवाच ।¹
यन्त्रमूषाग्निमानानि न ज्ञात्वा मन्त्रवेद्यपि ।
किं करोति² महादेव तानि मे वक्तुमर्हसि ॥ १ ॥
(1) मन्त्रन्यासानिति, a variant in K. (2) K reads मूखाग्नि. (See
the remark in p. 39.) (3) M reads रसार्णवे मन्त्रन्यासन्नाम तृतीयः पटलः.
(1) K has the following śloka, which being absurd, we have not
adopted :—रसोपरसलोहानि बलद्यंत्रमूर्खाग्निना। मानितो ज्ञानतं। मंत्रसंज्ञान्तु मंध-
वैद्यपि ॥ The portion commencing from the opening श्रीदैव्युवाच &c. up
to श्रीभैरव उवाच (next page) is not found in M except the word भैरवः.
(2) K reads किं करोंमि, which is inaccurate.
४२ रसार्णवे
श्रीभैरव उवाच ।
रसोपरसलोहानि वसनं¹ काञ्जिकम्² विडम् ।
धमनो-लोहयन्त्राणि³ खल्ल⁴पाषाणमर्दकम् ॥ २ ॥
कोष्ठिका⁵ वक्रनालं च⁶ गोमयं सारमिन्धनम् ।
मृन्मयानि च यन्त्राणि मुषलोलूखलानि च ॥ ३ ॥
संदसो-पट्टसंदंशं⁷ मृत्पात्राद्यःकटोरकम्⁸ ।
प्रतिमानानि च तुला-च्छेदनानि कषोपलम्⁹ ॥ ४ ॥
वंशनालो-लोहनालो¹⁰-मूषाङ्गारा¹¹स्तथौषधीः ।
स्नेहाम्ललवणक्षारविषाण्युपविषाणि च ॥ ५ ॥
एवं संगृह्य¹² सम्भारं कर्म्मयोगं समाचरेत् ॥ ६ ॥
द्रवद्रव्येण भाण्डस्य पूरिताद्धोदरस्य¹³ च ।
(1) B and M read वासना. (2) B reads किंजिकां. M reads
कांचिक. (3) K reads लोहपत्राणि. (4) All the texts read
खल्व, which is not supported by any lexicon. (5) B and K read
कोष्टिका, which is not correct. (6) M reads चक्रनालञ्च, which
seems to be incorrect. (7) K reads पाट्टशंदंश. M reads मण्डवीपट्ट-
सन्दशं. (8) K reads करोटकम्. M reads कमोरकम्. Both are inc.
(9) योदिनीनि, a reading in M, which has no meaning. K reads कपोत्-
पलम्, which is not correct (10) K reads बंसनालि लोहनालि,
which is incorrect. (11) M reads मूषायाग. K reads सुखमार्गा,
which has no clear sense. (12) M reads संग्राह्य. (13) K
reads द्रवद्रवेष भाण्डं च पूरौतमर्धरसेन, which seems to be an error. We
have adopted the reading in B and M, which agrees with that in रसरत्न-
समुच्चय, Chap. IX. v. 3.
चतुर्थः पटलः । ४३
मुखे तिर्य्यक्कृते¹ भाण्डे रसं सूत्रेण लम्बितम् ।
तं² स्वेदयेत् तल³गतं दोलायन्त्रमिति स्मृतम् ॥ ७ ॥
लोहमूषाह्वयं कृत्वा द्वादशाङ्गुलमानतः ।⁴
ईषच्छिद्रान्वितामेकां तत्र⁵ गन्धकसंयुताम्⁶ ॥ ८ ॥
मूषायां रसयुक्तायाम् अन्यस्यां तां प्रवेशयेत् ।
तोयं स्यात् सूतकस्याधः⁷ जर्द्धाधो वह्निदापनम्⁸ ॥ ९ ॥
रसोनकरसं भद्रे यत्नतो⁹ वस्त्रगालितम् ।
दापयेत्प्रचुरं यत्नात् आप्लाव्य¹⁰ रसगन्धकौ¹¹ ॥ १० ॥
स्थालिकायां निधायोर्द्धं¹² स्थालोमन्यां दृढां कुरु¹³ ।
सन्धिं¹⁴ विलेपयेद्यत्नात् मृदा वस्त्रेण चैव हि¹⁵ ॥ ११ ॥
(1) K reads मुखतिय्र्यक्कृते. (2) K reads तत. (3) K
reads तन. M reads तैल. For the definition of दोलायन्त्र vide रसरत्नसमुच्चय
Chap. IX. vs. 3-4. (4) This śloka and the following six ślokas
are nearly the same as in रस.स. in Chap. IX. vs. 15-21. (5) K
reads ईषच्छिद्रां छिद्रमितमेकां. (6) M reads गन्धकसंयुक्तम्, which is gram-
matically inc. (7) B reads सूतकस्यार्द्धे. (8) Both K and M read
दीपनम्. We have adopted the reading in B and रस.स. (9) M
reads यक्षतः, which is evidently an error of the scribe. (10) B
reads आप्लुत्या, which is incorrect. K reads आप्नुती. (11) M reads
रसगन्धकैः, which seems to be incorrect. (12) B reads निधायोष्वा.
K reads विधायोर्द्धं. पिधायोर्द्धं is the reading in रस.स. We have adopted
the reading in M. (13) स्थालिमन्यां दृढं कुरु, a variant in K.
(14) K reads सार्वं, which seems to be incorrect. (15) M reads
वेष्टयेत्.
४४ रसार्णवे
स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना¹ सदा ।
यन्त्रस्याधः करीषाग्निं² दद्यात्तीव्राग्निमेव वा ॥ १२ ॥
एवन्तु त्रिदिनं³ कुर्यात् ततो यन्त्रं विमोचयेत्⁴ ।
तप्तोदके तप्तचुल्लां⁵ न कुर्याच्छीतले क्रियाम्⁶ ॥ १३ ॥
न तत्र चोयते⁷ सूतो न च गच्छति कुत्रचित् ।
अनेन क्रमयोगेन⁸ कुर्याद्गन्धकजारणम्⁹ ॥ १४ ॥
ऊर्ध्वं वह्निरधश्चापो मध्ये तु¹⁰ रससङ्ग्रहः ।
मूषायन्त्रमिदं देवि¹¹ जारयेद्गगनादिकम्¹² ॥ १५ ॥
(1) M reads पुटकषीग्निना, which is incorrect. (2) B reads
करिष्याग्नि, which is not correct. (3) B, K and M read त्रिविध, the
sense whereof is not clear. We have adopted the reading in रसरत्न-
समुच्चय. (4) ततस्तोयं विमर्दयेत्, a variant in
चतुर्थः पटलः । ४५
गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारणम्¹।
चतुरङ्गुलदीर्घां तु² मूषिकां मृन्मयीं दृढाम् ॥ १६ ॥
त्र्यङ्गुलां मध्यविस्तारे³ वर्त्तुलं कारयेन्मुखम् ।
लोहस्य⁴ विंशतिर्भागा एको भागस्तु गुग्गुलोः⁵ ॥ १७ ॥
सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात्⁶ पुनः पुनः ।
मूषालेपं ततः कुर्यात्⁷ तले पिष्टीं च निक्षिपेत्⁸ ॥ १८ ॥
तुषकर्षाग्निना भूमौ⁹ मृदुस्वेदन्तु कारयेत्¹⁰ ।
अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥ १६ ॥
(1) B reads भस्मकारकं. K reads पिष्टिकायन्त्रकारकम्. We have
adopted the reading in रसरत्नसमुच्चय. For पिष्टिका, see रस.स. Chap. VIII.
ślokas 7—8 ; and for गर्भयन्त्र vide do. Chap. IX. vs. 28—31. This
hemistich is wanting in M. (2) K reads चतुरङ्गुलदीर्घं च, which
is incorrect. दीर्घांनु मूषैकां, a variant in M. (3) B reads अङ्गुलं
मध्यविस्तारे. K reads षडङ्गुलं मध्यविस्तारं. त्र्यङ्गुलोन्मितविस्तारं is the reading in
रसरत्नसमुच्चय, wherein the last term seems to be incorrect, as the term
विस्तार is invariably used to express a collection of words and not the
breadth. Vide Pāṇini 3.3.33. (4) B and K read लोषस्य. M
reads लौहस्य. We have adopted the reading in रस.स. (5) B
reads एकभागस्तु गुग्गुलुः. M reads एको भागस्तु गुग्गुलुः. (6) B and M
read दत्वा. दद्याद्वारंवारं is the reading in रस.स. (7) K reads.
मुखालिपं. दृढं कृत्वा is the reading in रस.स. (8) K reads तिलपिष्टं
सुनिचिपेत्. तैलपिष्टञ्च निक्षिपेत्, a variant in M. रस.स. has लवणाद्यैर्मृदम्बुभिः.
(9) B has भूयो instead of भूमौ. K has कुर्यात्तुषाग्निं भूमौ व. कर्येत्तुषाग्निना
भूमौ, a variant in रस.स. (10) रस.स. reads स्वेदयेन्मृदु मानवित्.
४६ रसार्णवे
जारणे मारणे¹ चैव रसराजस्य रञ्जने ।
यन्त्रमेकं² परं मर्म यत्रौषध्यो महाबलम्³ ॥ २० ॥
औषधोरहितह्यायं हठाद्⁴यन्त्रेण बध्यते ।
सर्व्वत्र सूतको याति⁵ मुक्त्वा भूधरलक्षणम् ॥ २१ ॥
देवताभिः समाकृष्टो लोष्टस्थोऽपि⁶ हि गच्छति ।
तस्माद्यन्त्रबलं चैकं न विलङ्गं⁷ विजानता ॥ २२ ॥
मन्त्रौषधिसमायोगात् सुसिद्धं कुरुतं ह्ययम्⁸ ।
मन्त्रोऽघोरोऽत्र जप्तव्यो⁹ जपान्ते¹⁰ पूजयेद्रसम्¹¹ ॥ २३ ॥
एकान्ते तु क्रिया कार्या दृष्टान्यैर्विफला¹² भवेत् ॥ २४ ॥
गन्धकस्य क्षयो नास्ति¹³ न रसस्य क्षयो भवेत् ।
(1) B reads आरणमारणे. K reads सारणे. (2) K reads यन्त्रमेव
परं कर्म. M reads यन्त्रौषध परं कर्म. (3) K reads यंत्र
चतुर्थः पटलः । ४७
क्षयो यन्त्रस्य विज्ञेयः$^1$ यन्त्रे विक्रियते क्रिया$^2$ ।
अलाभे कान्तलोहस्य यन्त्रं लोहेन कारयेत् ॥ २५ ॥
वह्निलक्ष्य$^3$मविज्ञाय रसस्यार्धक्षयो$^4$ भवेत् ।
यन्त्रक्षयविधिज्ञस्य चतुर्थांशक्षयो$^5$ भवेत् ॥ २६ ॥$^6$
द्विमासेन द्वितीयांशं तृतीयांशं त्रिभिर्भवेत् ।
महाग्निं सहते ह्येष सारितो यत्र$^7$ तिष्ठति ॥ २७ ॥
खर्परं सिकतापूर्णं$^8$ कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं$^9$ तत्र शनैर्मृद्वग्निना$^{10}$ पचेत् ॥ २८ ॥
पञ्चक्षारैस्तथा मूत्रै$^{11}$र्लवणैश्च$^{12}$ विड़न्सतः$^{13}$ ।
हंसपाकः स विज्ञातो$^{14}$ यन्त्रतत्त्वार्थकोविदैः$^{15}$ ॥ २६ ॥
(1) K reads विज्ञाय. B and M read यवमविज्ञाय. (2) M reads
क्रिया:, which is incorrect. (3) K reads वह्नेर्लक्ष्या. M reads वह्निलक्ष.
(4) रसस्याधक्षयो, a variant in M, which seems to be an error of the
scribe. (5) यंत्रचेपाविधिज्ञस्य चतुर्थांशक्षयो, a variant in M, which is
inc. (6) This hemistich is not found in K. (7) K reads
खेदात् instead of ह्येष. B reads सरिणावत्यं. M reads स्वरिदावत्य. Both
the readings are unintelligible. (8) B reads कपूर, which is inc.
कर्पर सिकताचूर्णं, a variant in M. (9) तत्पर कर्पर, a reading in M.
(10) K reads शते मृदग्निना, which is a palpable mistake of the scribe.
(11) B reads पञ्चाचरैस्तथा मंथैः. M reads पञ्चचरैः, which is senseless.
(12) लवणञ्च is the reading in रसरत्नसमुच्चय. (13) K reads विडेक्षतः.
(14) स विख्यातो, a variant in B. इसपादः सुविख्यातो, a variant in M.
हंसपाकं समाख्यात, a variant in रस.र. (15) M reads यव तत्त्वार्थकोविदैः.
We see यंत्रं तद्विधिकोविद्यैः in रस.स.
४८ रसार्णवे
कृष्णा रक्ता च पीता¹ च शुक्लवर्णा² च मृत्तिका ।
आद्या श्रेष्ठा कनिष्ठाम्या³ मध्यमा मध्यमा मता ॥ ३० ॥
दग्धधान्यतुषोपेता मृत्तिका कोष्ठिकाविधौ⁴ ।
वक्रनालकृता⁵ वापि शस्यते सुरसुन्दरि ॥ ३१ ॥
गारा⁶ दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
अजाश्वानां मलं⁷ दग्धं यावत्तत् कृष्णतां गतम्⁸ ॥ ३२ ॥
वासकस्य च पत्राणि वल्मीकस्य मृदा सह ।
पेषयेद्बद्रितोयेन यावत्तत् श्लक्ष्णतां गतम् ॥ ३३ ॥⁹
मर्दयेत्तेन वप्लोयात् वक्रनालञ्च कोष्ठिकाम्¹⁰ ॥ ३४ ॥
गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
चोरमङ्गारकः किट्टं वज्रेणापि न भिद्यते ॥ ३५ ॥¹¹
दग्धाङ्गारस्य षड्भागा भागैका¹² कृष्णमृत्तिका ।
चौरमङ्गारकः किट्टं वज्रमूषा¹³ प्रकीर्त्तिता ॥ ३६ ॥
(1) M reads सौता. (2) M reads शुक्लरुचा. (3) कनिष्ठा
च, a variant in K. (4) B reads कोष्ठकाय वै. K reads कोष्ठकार्य वै,
which is inc. The correct reading appears to be कोष्ठकाय वै. (5) B
and M read बद्धमालाकृता. (6) M reads गौरा. [गार or गारा = black
earth mixed with kankar or nodular stones.] (7) K reads अजा-
श्वाता मलं. M reads अजाश्वानमलं. Both are inc. (8) दग्धा मृत् कृष्णतां
गता, a variant in K. (9) अनेन वज्रतां गत, a variant in K. This
śloka (33) is not found in M. (10) B reads मर्दयते तेनौषधी या, which
is not intelligible. M reads कोष्ठिकम्. (11) This śloka is wanting
in M. (12) M reads भागैकं, which is not correct. (13) Accord-
ing to रसरत्नसमुच्चय this appears to be गारमूषा (Chap. X. v. 13).
चतुर्थः पटलः । ४९
तुषं वह्निसमं दग्धं¹ मृत्तिका चतुरंगिका² ।
कूपी³पाषाणसंयुक्ता वरमूषा⁴ प्रकीर्त्तिता ॥ ३७ ॥
प्रकाशा चान्धमूषा च मूषा तु द्विविधा स्मृता⁵ ॥ ३८ ॥
प्रकाशमूषा देवेशि शरावाकारसंयुता ।
द्रव्यनिर्वाहणी सा च वादिकैः⁶ सुप्रशस्यते ॥ ३९ ॥
अन्धमूषा तु कर्त्तव्या गोस्तनाकारसन्निभा ।
पिधानकसमायुक्ता किञ्चिदुन्नतमस्तका⁷ ॥ ४० ॥
पत्रलेपे तथा रङ्गे⁸ द्वन्द्वमेलापके तथा ।
सैव च्छिद्रान्विता⁹ मन्दा गम्भीरा सारणोचिता ॥ ४१ ॥
तिलभक्षा द्विरंशं तु¹⁰ इष्टकांश¹¹समन्वितम् ।
(1) तुषं दग्धसमं दग्धं, a variant in K, which is a senseless tautology.
2) B reads चतुरंशका. (3) K reads कूर्चा. M reads कूर्णी. (4) B,
K and M read वज्रमूषा. According to रसरत्नसमुच्चय this appears to be
वरमूषा (Chap. X. v. 15.) Hence we have adopted the reading in रस.सः
in order to avoid tautology. (5) प्रकृतिर्द्विविधा स्मृता, a variant in
K. (6) K reads वेदिकैः. M reads सा चावेदिकैः. (7) किञ्चि-
दुन्नतस्तका, a variant in K. किञ्चिदुष्ठितमस्तका, a variant in M. Both
are incorrect. [उन्नत should be उत्तान, and उष्ठित should be उत्थित]
This मूषा is called in रस.स. as गोस्तनी. (Vide Chap. X. v. 25.) (8) B
reads तत्र लेपे. K reads भागे in place of रङ्गे. (9) M reads च्छिद्रा-
न्वतान्विता, which is a mistake of the scribe. (10) M reads
द्विरंशस्तु, which is not correct. (11) B reads रमकांश. K reads
इष्टाकांश. Both appear to be incorrect.
7
५० रसार्णवे
भस्ममूषा तु विज्ञेया तारसंशोधने हिता¹ ॥ ४२ ॥
मोक्ष²क्षारस्य भागौ द्वौ इष्टकांशसमन्वितौ³ ।
मृद्भागास्तारशुद्ध्यर्थमुत्तमा⁴ वरवर्णिनि⁵ ॥ ४३ ॥
रक्तवर्गेण सम्मिश्रा रक्तवर्गपरिप्लुता⁶ ।
रक्तवर्गकृतालेपा⁷ सर्व्वशुद्धिषु शोभना⁸ ॥ ४४ ॥
शुक्लवर्गेण सम्मिश्रा⁹ शुक्लवर्गपरिप्लुता ।
शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शोभना¹⁰ ॥ ४५ ॥
विड्वर्गेण¹¹ सम्मिश्रा धृतिमित्स्छति जारणे¹² ।
(1) तस्मान्मूषा तु विज्ञेया तारसशोधने हिता, a variant in B. तारके शोधने
हिता, a variant in K. तारसंशोधने हिता, a variant in M. All appear
to be the error of the scribe. We do not find any mention of this
मूषा (भस्ममूषा) in रस.स. (2) M reads मोष. (3) रष्टकां च सम-
न्वितं, a variant in B, which is incorrect. ईष्टकांशसमन्वितं, a variant in M.
(4) B and K read सुशम, which is not grammatically correct.
(5) सुरवर्णिनि is the reading in K, which is not accurate. (6) K
reads रक्तवर्णपरिप्लुता, which is incorrect. (7) रक्तवर्यकृतालेपा, a variant
in K, which is an error of the scribe. (8) This charaṇa and the
next three charaṇas are wanting in M. (9) K reads मिश्रा या.
(10) सर्व्वशुद्धिषु शोभना, a reading in K. शुक्लसिद्धिषु शोभना, a reading in M.
[For रक्तवर्ग and शुक्लवर्ग see the next Paṭala, v. 39 and v. 40 respectively.]
(11) K reads विड़वर्गेण. M reads षड्वर्गेण च. (12) धृतिमिक्कति
कारणे, a variant in M, which is meaningless. K reads ऋतिमिक्कति जारणे,
which has no clear meaning. We have adopted the above reading,
after collating all the texts.
चतुर्थः पटलः । ५१
निर्वाहणं प्रकुर्व्वीत¹ रक्तवर्गप्रलिप्तया² ॥ ४६ ॥
विषटङ्कणगुञ्जाभिः मूषालेपन्तु³ कारयेत् ।
प्रकाशायां प्रकुर्व्वीत यदि वाङ्गारलेपनम्⁴ ॥ ४७ ॥
तस्यां विन्धस्व मूषायां द्रव्यमावर्त्तयेद्बुधः ।
लेपो कर्णोपुटं देवि रक्तमृत्सिम्बुभूखगैः⁵ ॥ ४८ ॥
आवर्त्तमाने कनके पीता तारे⁶ सिता प्रभा⁷ ।
शुल्बे⁸ नीलनिभा तीक्ष्णे कृष्णवर्णा सुरेश्वरि ॥ ४९ ॥
वङ्गे ज्वाला कपोताभा⁹ नागे मलिनधूमका¹⁰ ।
शैले तु धूसरा देवि आयसे कपिलप्रभा ॥ ५० ॥
अयस्कान्ते धूम्रवर्णा¹¹ सस्यके¹² लोहिता भवेत् ।
वज्रे नानाविधा¹³ ज्वाला खसत्त्वे¹⁴ पाण्डुरप्रभा ॥ ५१ ॥
(1) B and M read प्रकुर्व्वन्ति. (2) B reads रक्तवर्णप्रलिप्तया. [मूषया
is to be understood after this charana ] (3) K reads मूखालिपम्,
wherein मूखा == मूषा. (4) K reads वाङ्गारलिपयेत्, which is gram. inc.
M reads वाङ्गुलिलेपनम्, which is not accurate here. (5) रक्तभस्मिसु-
भूखगैः, a variant in K, which appears to be incorrect. M reads रक्तमृत्-
सितभूखगैः. (6) B reads तारे. K reads पितागारे, which is evidently
a mistake. (7) K reads सिता शुभा. M reads सितप्रभा. (8) K
reads शूक्ते, which
५२ रसार्णवे
न विस्फुलिङ्गो¹ न च बुद्बुदश्च²
यदा न रेखापटलं³ न शब्दः⁴ ।
मूषागतं रवसमं स्थिरञ्च⁵
तदा विशुद्धं प्रवदन्ति लोहम् ॥ ५२ ॥
प्रतीवापः पुरा योज्यो⁶ निषेक⁷स्तदनन्तरम् ।
छादनं तु प्रतोवापः⁸ निषेकं मज्जनं⁹ विदुः ।
अभिषेकं¹⁰ तदिच्छन्ति स्नपनं क्रियते तु यत्¹¹ ॥ ५३ ॥
वापो निषेकः स्नपनं¹² द्रुते¹³ निश्चलतां गते ।
उष्णेनैव हि वाञ्छन्ति शीतलं¹⁴ न च वाञ्छति ॥ ५४ ॥
शुक्लोदीप्तिः सशब्दश्च¹⁵ यदा वैश्वानरो भवेत् ।
(1) K reads विस्फुलिङ्गा. (2) B reads बुद्बुदाय. K reads बुद्बुदा
च, which is incorrect. (3) नरैः खापटल, a variant in M, which is
senseless. (4) न शब्दम् is the reading in M, which is grammati-
cally incorrect. (5) M reads मूषासमा, which is meaningless. B
reads स्थितं च. (6) K reads यो हि. M reads प्रतिवापं पुरा योज्यो, which
is gram. inc. (7) K reads निकरैः. M reads निषेकाः. (8) छादनन्तु
प्रतिवापो, a variant in K, wherein the latter term is inc. (9) M reads
जननं. (10) K reads अभिषेक, which is gram. inc. (11) K
reads यः, which is gram. incorrect. खपितं क्रियते तु यत्, a variant in
M. (12) वापो निषेकः खपनः, a variant in K, which is erroneous.
(13) K has रुचि. M has only the letter ते. Both are absurd.
(14) M reads शीतवे. (15) B reads शुक्लोदीप्तिस्सशब्द स्यात्. शुक्लोदीप्तिः
सशब्द स्यात् तदा, a variant in K, which seems to be inaccurate.
लोहावर्त्तः स विज्ञेयः सत्वं पतति निर्मलम् ॥ ५५ ॥¹
षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं शुभम्² ।
धातुसत्वनिपाताथं³ कोष्ठकं⁴ वरवर्णिनि ॥ ५६ ॥
वंश⁵खादिरमाधूक⁶-बदरोदारुसंभवैः⁷ ।
परिपूर्णं दृढाङ्गारैः धमेद्वातेन कोष्ठकम्⁸ ।
(1) To illustrate the above technical terms, we quote here the
verses from रसरत्नसमुच्चय (Chap. VIII. vs. 49—52) :—
द्रुते द्रव्यान्तरक्षेपो लोहाद्ये क्रियते हि यः ।
स आवापः प्रतीवापस्त्वौपाच्छादन मतम् ॥ ४९ ॥
द्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ।
सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ॥ ५० ॥
सप्तस्वाप्सु विनिष्क्षेपो निर्वापः स्नपनञ्च तत् ।
प्रतीवापादिकं कार्यं द्रुते लोहे सुनिर्मले ॥ ५१ ॥
यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।
शुद्धावर्त्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ॥ ५२ ॥
(2) B, K and M read शुभम् ; but we see समम् in रस.स. and in रुद्र.
(3) तनुसत्वनिपाताथं, a variant in M, which is not correct. (4) B,
K and M read कोष्टकं, which is not correct. It is called कोष्ठिकायन्त्र in
the 6th Paṭala, śloka 16, and कोष्ठीयन्त्र in रस.स. (Chap. IX. v. 44.)
(5) K reads वंशाः, which is incorrect. (6) M reads मायूखं, which
has no clear sense. (7) बदरीदरीदारिसम्भवैः, a variant in M, which
is absurd. (8) B reads अधोवातेन कोष्टकैः. K reads धमेद्वातेन
कोष्ठकैः. अधोवातेन कोष्ठकैः is the reading in M. अधोवातेन कोष्ठके is the
variant in रुद्र. [We cannot account for the third case-ending in
कोष्ठकैः, which has an adjective परिपूर्णं.]
५४ रसार्णवे
भस्त्रया१ ज्वालमार्गेण ज्वालयेच्च हुताशनम् ॥ ५७ ॥
प्रविततमुखभागं संहतान्तःप्रदेशं२
स्थलरचितचिरान्तर्जालकं कोष्ठकं स्यात् ।३
वकगलससमानं४ वङ्कनालं विधेयं५
शुषिरनलिनिका स्यान्मृन्मयो दीर्घवृत्ता७ ॥ ५८ ॥
मृन्मये लोहपात्रे वा८ अयस्कान्तमयेऽथवा ।
पाषाणे स्फटिके वाथ मुक्ताशैलमयेऽथवा ॥ ५९ ॥
सुदृढो मर्दकः कार्यः९ चतुरङ्गुलकोच्छ्रयः१० ।
(१) मातया is the reading in अवि. (२) प्राशवत्तन्मुखाभागात् संहतान्तः-
प्रदेशतः, a variant in K, which is inc. B and M read प्रविततमुखभागः
संहतान्तःप्रदेशः, whereas they state कोष्ठक (neuter). (३) स्थलरचितविदातां-
पावकं कोष्ठकस्य तु, a variant in K, which has no sense, neither metre.
M reads चितान्तर्जालकं. (४) वंकगलसमान च, a reading in K, which
is not correct. M reads वकगगलसमान, wherein वकग has no meaning.
(५) B reads वकनाल. K reads विधारयेत्, which mars the metre. (६) B
reads शुषिरनलिकांवा. शिशून् वरनलिकास्था, a variant in K, which is a
palpable error. शुषिरनलिनकाढश, a variant in M. [शुषिर = सच्छिद्र, नलि-
निका = नली, नाल.] (७) K reads दीर्घवृत्तया, which is incorrect. M
reads दीर्घवृत्वा, the meaning whereof is not intelligible. (८) K reads
च. M reads मण्यर्थंलाहपात्रे वा, which seems to be incorrect. (९) B
and K read मईकं कार्य. M reads कार्यो, which is incorrect. रसरत्नसमुच्चय
has the term मर्दकः in the masculine gender. (Chap. IX. v. 87.) We
have adopted that reading. (१०) चतुरङ्गुलकोटियः, a variant in K.
चतुरङ्गुलगोथियः, a reading in M. Both are unintelligible.
चतुर्थः पटलः । ५५
स च^१ लोहमयः शैलो ह्ययस्कान्त^१मयोऽथवा ॥ ६० ॥
अघोरास्त्राभिधानेन महापाशुपतेन वा ।
मन्त्रेण रचयेच्छुद्धिं भूमिं तेनैव शोधयेत् ॥ ६१ ॥
इन्धनानि च सर्व्वाणि द्रव्याणि च विशेषतः ।
दाहकं ज्वालयेत्तेन खल्लं तेनैव शोधयेत् ॥ ६२ ॥^२
रसं विशोधयेत्तेन विन्यसेत् दिवसे शुभे^३ ।
खल्लोपरि न्यसित्वा^४ च शिवमूर्त्तिमनुस्मरेत् ॥ ६३ ॥
देवतानुग्रहं^५ प्राप्य यन्त्रमूषाग्निमानवित् ।
देवेशि रससिद्धार्थं जानीयात्^६ ओषधीरपि^७ ॥ ६४ ॥
यन्त्रमूषाग्निमानानि^८ वर्णितानि सुरेश्वरि ।
तन्ममाचक्ष्व देवेशि^९ किमन्यच्छ्रोतुमिच्छसि ॥ ६५ ॥^१०
(1) K reads सैव, and ह्यस्मान्त. Both the readings are incorrect.
[The अघोरमन्त्र is mentioned in detail in the 2nd Paṭala. Vide the
portion between the ślokas 97 and 98 ] (2) This śloka is want-
ing in M. (3) विष्यसेद्दासवे तथा, a variant in B and M. (4) K
reads न्यर्सत्वा, which is incorrect. (5) देवमानुग्रहं is the reading in K,
which seems to be an error of the scribe. (6) K reads यानि वा,
which is inconsistent. (7) M reads दोषधीरपि, which seems to be
दोषधीरपि. (8) यन्त्रमूषाग्निमानानि, a variant in K. (9) This
charaṇa is wanting in M. K reads तन्ममाचल, which is an error of the
scribe. (10) This hemistich is written in K between the two
hemistichs of the 64th śloka, which is an evident error of the scribe.