रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 62, कुल 558 में से
संदर्भ में पढ़ें३८ रसार्णवे
ताः सर्व्वाः किंकरास्तस्य¹ चौषधं पेषयन्ति ताः² ॥ १८ ॥
तासां सर्व्वन्तु मन्त्रैकं³ चतुरक्षरसंयुतम् ।—"सोऽहं हंसः"
सा विद्या खेचरीणां तु⁴ नाम्ना⁵ तु कुलखेचरो ॥ १९ ॥
राजिकां सैन्धवं न्यस्य⁶ सा विद्या कुलखेचरो ।
मन्त्रयेत् काञ्जिकां⁷ तत्र मन्त्रराजो रसाङ्कुशो⁸ ॥ २० ॥
अस्त्रविद्यां जपेत्तत्र⁹ या ज्ञाता पूर्व्वभार्गवे¹⁰ ।
गुड़ेष्टकान्तु सम्भार्य्य¹¹ प्रिये तन्मर्द्दितं¹² रसम् ॥ २१ ॥
का कथा मन्त्रराजस्य¹³ न वाक्यं त्रिशिरस्य च¹⁴ ।
षडङ्गं योजयेत् तं¹⁵ तु त्वरितं¹⁶ धारयेत् ततः ॥ २२ ॥
डामराख्यं महामन्त्रं धमनेषु¹⁷ नियोजयेत् ।
(1) खेचरास्तस्य is the reading in M. [Here किंकराः = female servants.]
(2) K reads पेषयन्ततः. (3) तासाञ्च सर्व्वमन्त्रैक, a reading in K.
(4) K reads खेचरो नाम. (5) M reads नाम्ना, which is an error
of the scribe. (6) राजिका सैम्भवं न्यस्यां, a variant in M, which
seems to be erroneous. (7) M reads काञ्जिक. (8) B
reads रसाङ्गुशा. K reads रसाङ्गुशौँ. (9) B has अस्तु विद्या जपं तत्र.
(10) K has या ज्ञाता पूर्व्वम.भवोत्. M has या ज्ञाता पूर्व्वभाव्भवेत्. (11) B
reads गुड़ेष्टक. K reads गुड़ेष्टक तु ससव्य, wherein the last term seems to be
an error. (12) B reads तं मर्दित. (13) B reads कालपाश
मन्त्रराजस्य, which mars the metre. (14) B reads न वाक्मा त्रिशतस्य च.
K reads तस्मान्न त्रिशिरस्य च. (15) K reads तत्. M reads तै, which
is incorrect. (16) B and K read त्वरितां, which is a palpable
mistake. (17) B reads महातत्रं डामयेषु. M reads भूपुरेषु, which
has no clear sense.