रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 68, कुल 558 में से
संदर्भ में पढ़ें४४ रसार्णवे
स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना¹ सदा ।
यन्त्रस्याधः करीषाग्निं² दद्यात्तीव्राग्निमेव वा ॥ १२ ॥
एवन्तु त्रिदिनं³ कुर्यात् ततो यन्त्रं विमोचयेत्⁴ ।
तप्तोदके तप्तचुल्लां⁵ न कुर्याच्छीतले क्रियाम्⁶ ॥ १३ ॥
न तत्र चोयते⁷ सूतो न च गच्छति कुत्रचित् ।
अनेन क्रमयोगेन⁸ कुर्याद्गन्धकजारणम्⁹ ॥ १४ ॥
ऊर्ध्वं वह्निरधश्चापो मध्ये तु¹⁰ रससङ्ग्रहः ।
मूषायन्त्रमिदं देवि¹¹ जारयेद्गगनादिकम्¹² ॥ १५ ॥
(1) M reads पुटकषीग्निना, which is incorrect. (2) B reads
करिष्याग्नि, which is not correct. (3) B, K and M read त्रिविध, the
sense whereof is not clear. We have adopted the reading in रसरत्न-
समुच्चय. (4) ततस्तोयं विमर्दयेत्, a variant in