सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

४९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
भिन्नत्वसाम्यात्समवायान्तरौपेक्षायामनवस्थितिः॥ १३ ॥
( ७ ) न च तत्रप्रमाणम् । प्रथमसम्बन्धासिद्ध्यैव च तदसि-
द्धिः । स्वनिर्वाहकत्वे समवाय एव न स्यात् ॥ १३ ॥
र्याणां परमाण्वादिकारणानां च परस्परभिन्नत्वमुपेत्य समवायसम्ब-
न्धाङ्गीकारादित्यर्थः । अस्य हेतोः सूत्रे पूर्वस्मादनुषक्तेन नञान्वयः ।
न समवायाङ्गीकारो युक्तः । अत एव न समवायिकारणत्वं युक्तमित्य-
र्थः । सम्बन्धेत्युक्त्या समवायशब्दस्य समावेशार्थत्वभ्रमो वारितः ।
अस्य तन्मतमसमञ्जसमित्यध्याहृतेनान्वयः । ननु भिन्नयोरवयवावय-
विभावविशेषणविशेष्यभावोपपत्तये समवायसम्बन्धोऽङ्गीकार्य एव ।
अतस्तदभ्युपगमे को दोष इत्यतः प्रवृत्तं साम्यादनवस्थितेरित्यंशं सा-
मर्थ्यप्रकारप्रदर्शनपूर्वकं व्याचष्टे—तस्य चेति । समवायस्यापीत्य-
र्थः । न केवलं कार्यकारणादीनामित्यपेरर्थः । चशब्दस्साम्याच्चेति च
सम्बध्यते । सूत्रे तु चकारो यथाश्रुतो भिन्नक्रमोपि हेतुसमुच्चयार्थः ।
अस्तु साम्यं, ततः को दोष इत्यत आह—समवायेति । तस्येत्येतदावृ-
त्तं विपरिणतमत्रापि सम्बध्यते । तस्य समवायस्य ताभ्यां समवा-
यिभ्यां भिन्नत्वसाम्यात् भिन्नस्य च तस्य विशेषणविशेष्यभावानुप-
पत्तये ताभ्यां समवायसम्बन्धाङ्गीकारात् तस्यापि समवायान्तरस्य
तेन समवायान्तरेण भिन्नत्वसाम्यात् भिन्नस्य तस्य समवायान्तरस्य
तेन विशेषणविशेष्यभावानुपपत्तये तेन समवायान्तरेण समवायान्त-
रापेक्षया निमित्तभूतयाऽनवस्थितिः स्यादिति योजना । अनवस्थिति-
रित्यनन्तरं यत इति शेषः । अन्यथा सूत्रविसंवादः स्यात् । अस्या-
प्युत्तरत्रान्वयः । अत एव सूत्रे हेतुसमुच्चयार्थश्चशब्दः ॥
( ७ ) प्रामाणिकत्वान्नानवस्थादोषस्स्यादित्यत आह—न चेति ॥
तत्रतत्र समवायानन्त्य इत्यर्थः । बीजाङ्कुरादिवत् मूलक्षयाभावान्नान-
वस्था दूषणमित्यत आह—प्रथमेति । एवकारो भिन्नक्रमः कैमुत्यद्यो-
तकः । तथा च मूलभूतावयवावयव्यादिसम्बन्धस्यैवासिद्ध्या तदसि-
द्धिः । तेषां प्रथमसम्बन्धसिद्ध्यर्थे अभ्युपगन्तव्यानां सम्बन्धान्तराणां
सुतरामसिद्धिरित्यर्थः । तथा चेत्थंयोजना । यतस्तत्र प्रमाणं नास्ति
अतः प्रथमसंबन्धस्यैवासिद्ध्या तदसिद्धिः । यतएवमतोस्त्येव मूलक्षति-
रिति भवत्येवानवस्था दूषणमितिमाऽस्तु तर्हि समवायपरंपरा, प्रथम-
समवाय एव स्वनिर्वाहकोऽस्त्वित्यत आह—स्वनिर्वाहकत्वे इति । त

[ अधि - ६. - सू - १४. ] दीपिकासहितम्. ४९५
(८) सू—ॐ ॥ नित्यमेव च भावात् ॥ ॐ ॥ १४ ॥
नित्यत्वाच्च परमाणूनां समवायस्य च तस्यैव जनि
त्वाङ्गीकारान्नित्यमेव कार्यं स्यात् । अन्यथा न कदा
चित् ॥ १४ ॥
स्येत्यनुवर्तते । तथा च तस्य समवायस्य स्वनिर्वाहकत्वे स्वस्मिन्
स्वयमेव विशेषणविशेष्यभावबुद्धिजनकत्वेऽङ्गीकृते समवाय एव 'न
स्यात्' न सिद्धयेदित्यर्थः। गुणगुण्यादिभेदं तत्समवायं चाङ्गीकृत्य तस्य
स्वनिर्वाहकत्वकल्पनापेक्षया लाघवेन गुणगुण्यादेरभेदमङ्गीकृत्य ए
कस्य द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तौ समवायवैयर्थ्यादिति भावः॥
(८) एवं परपक्षे कारणत्रयनिरासेन सृष्टिं निरस्य प्रलयनिरासा
र्थं प्रवृत्तं सूत्रं पठित्वा व्याचष्टे—नित्यमिति ॥ नित्यत्वादिति । सदा
तनत्वादित्यर्थः । 'सदातनं सत्यमिति नित्यमित्युच्यते बुधैः' इति व
चनात् । अनेन नित्यमित्यस्य भावादिति हेतावप्यन्वयो दर्शितः । च
शब्दः परमाणूनां चेत्यन्वितो न केवलं समवायिकारणपरमाणूनां, कि
न्तु निमित्तकारणेश्वरेच्छादेश्चेति समुच्चयार्थः । 'नित्यमेव' नित्यदैव
कार्यं स्यादित्यनेन नित्यमित्यस्य साध्येऽप्यन्वयः । कार्यमित्यस्याध्या
हारश्च दर्शितः । न तु परपक्षे कदाचित्प्रलये इत्येवकारार्थः । समवाय
सूत्रात्समवायस्येतिपदं बुद्ध्या विवेकेनानुवर्त्य समवायस्य नित्यं भावा
न्नित्यं नित्यदोत्पत्तिः स्यादिति सूत्रस्यार्थान्तरमभिप्रेत्याह—समवा
यस्येति । नित्यत्वादित्यनुवर्तते । सर्वं कार्यं नित्यमेव नित्यं जनिमदेव
स्यादित्येवमत्रापाद्यस्यार्थः । न तु कादाचित्कजनिमदित्येवकारार्थः ।
न केवलं परमाण्वादीनामिति चशब्दार्थः । ततः किमित्यतो भावादि
त्यनेनोक्तं हेतुमाह—तस्यैवेति । समवायस्यैवेत्यर्थः । प्रागसतस्सत्तास
मवाय एव जनिरिति परैरङ्गीकारादिति भावः । न तु विकारादेरित्ये
वकारार्थः । जनित्वाङ्गीकारादित्यनेन भावस्सद्भावः प्रजननं तद्रूपत्वा
ङ्गीकारादिति हेतोरर्थान्तरमुक्तं भवति । अनेन सौत्रश्चशब्दः कारण
समुच्चयार्थः । समवायसमुच्चयार्थश्चेति सूचितम् । केचित्तु-परपक्षे सृ
ष्टिप्रलयनिराससमुच्चये चशब्दः किञ्चेत्यर्थक इत्याहुः । स्यादित्यनन्त
रं तत इति शेषः । अस्याप्युक्तरीत्यान्वयः । समवायिकारणादिसत्त्वे
ऽपि कार्योत्पत्त्युपरमे बाधकमाह—अन्यथेति । सकलकारणसत्त्वेऽपि

४९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
( ९ ) सू—ॐ ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ ॐ ॥ १५ ॥
रूपादिमत्त्वाच्च परमाणूनामनित्यत्वं तथा दृष्टत्वाल्लोके॥१५॥
( १० ) सू—ॐ ॥ उभयथा च दोषात् ॥ ॐ ॥ १६ ॥
कार्योत्पादोपरम इत्यर्थः । न कदाचिदिति । कदाऽपि तस्मात्कार्योत्प
त्तिर्न स्यादित्यर्थः । सति पुष्कलकारणे कार्यानुत्पादे तस्य तत्कारण
त्वायोगादिति भावः ॥
( ९ ) एवं परमाणूनां नित्यत्वमभ्युपेत्य तदारम्भकवादो दूषितः।
इदानीं नित्यत्वं पराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—रूपादीति ॥ भौति
करूपरसगन्धस्पर्शवत्त्वादिति हेत्वर्थः । तेन नेश्वरादौ व्यभिचारः ।
नित्यमिति पूर्वसूत्रे प्रकृताः परमाणवोऽत्र पक्षीभूता इत्याह—परमाणू
नामिति । पार्थिवाप्यतैजसपरमाणूनामित्यर्थः । साध्यप्रदर्शकस्य
विपर्ययशब्दस्यार्थमाह—अनित्यत्वमिति । तस्यैव स्वाभिमतप्रकृतनि
त्यत्वाभावरूपत्वादित्यर्थः । स्याद्यत इति शेषः । अस्योत्तरत्रान्वयः ।
सूत्रे विपर्ययश्चेति सम्बन्धः।तदनुसारेण भाष्येऽप्यनित्यत्वं चेति।उभय
त्र चशब्दो भिन्नक्रमः । तदर्थस्तु सावयवत्वं, चकारात्सावयवत्त्वं गृ
ह्यत इति तत्त्वप्रदीपोक्तेः । अतएव टीकायां अवयवित्वस्य द्रव्यत्वरू
पपक्षधर्मावच्छिन्नसाध्यव्यापकस्योपाधित्वमाशङ्क्य रूपादिमत्त्वादेव
तत्सिद्धेरित्यनेन पक्ष एव साधनव्यापकतोक्ता । ननु रूपादिमत्त्वेऽपि
अनित्यत्वं कुत इत्यतः प्रवृत्तं दर्शनादिति सूत्रखण्डं व्याचष्टे—तथे
ति । लोके रूपादिमति घटादावनित्यत्वस्य च दृष्टत्वादित्यर्थः । तथा
चात्र व्याप्तिसद्भावान्नाप्रयोजकताऽऽशङ्केति भावः ॥
( १०) ननु रूपादिमत्त्वेऽपि परमाणूनां नित्यत्वं किं न स्यात्,अस्तु वा
नित्यत्वं किं बाधकमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—उभ
यथा चेति ॥ परमाणूनां 'नित्यत्वे' अनित्यत्वाभावे अनित्यत्व इत्यनेन
सूत्रे उभयथेत्येतन्नित्यमेव विपर्यय इतिप्रकृतनित्यत्वानित्यत्वरूपप
क्षद्वयपरामर्शकमिति व्याख्यातम् । परमाणूनामित्यतः प्राग्रूपादिमता
मपीत्युपस्कार्यम् । दोषादित्युक्तदोषमाद्यपक्षे संयोजयति—तद्धी
ति । परमाणुवत्सर्वेषां घटादीनामपि नित्यत्वं स्यात् । अनित्यत्वं न
स्यादित्यर्थः । ननु घटादेरवयवित्वात् कृतकत्वाच्च भवत्यनित्यत्वं, न
परमाणूनां, तदभावात् । अतो रूपादिमत्त्वाविशेषेऽपि विशेषप्रमाणब
लादस्तु घटादेरनित्यत्वं न परमाणूनामिति वैषम्यमाशङ्क्याह—विशे

[ अधि-६. सू-१७. ] दीपिका सहितम्. ४९७
नित्यत्वे परमाणूनां तद्गतसर्वंनित्यत्वं स्यात् । विशेष
प्रमाणाभावात् । अनित्यत्वे कारणाभावात्तदुत्पत्त्य
भावः ॥ १६ ॥
( ११ ) सू—ॐ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ ॐ ॥ १७ ॥
षेति । परमाणूनामनित्यत्वाभावसाधकस्यावयवित्वकृतकत्वाभावरू
पस्य विशेषप्रमाणत्वेन पराभिमतस्य पक्षीभूतेषु परमाणुष्वभावादि
त्यर्थः । रूपादिमत्त्वादेव तत्सिद्धेरिति भावः। अनित्यत्वपक्षमनूद्य तत्र
दोषादित्युक्तदोषे योजयति—अनित्यत्व इति । परमाणूनामिति वर्तते।
तथा च परमाणूनामनित्यत्वे तेषां कारणाभावात्समवायिकारणाभा
वादुत्पत्त्यभावः स्यात् । यतएवमतो द्व्यणुकादेः समवायिकारणाभा
वादुत्पत्तेरप्यभावः स्यात् परपक्षे, अतः सदुष्टः अतः न तद्विरोधः प्रकृ
तार्थस्येत्यावृत्त्या योजना । अत्र सूत्रे चशब्दोऽप्यर्थे । न केवलमेकप
क्षे दोषः, किन्तु पक्षद्वयेऽपीति समुच्चयार्थः । अथ वा—न केवलं
'उभयथापि न कर्म' इत्यत्र पक्षद्वयोक्तदोषात्, किन्त्वपसिद्धान्तदोषा
च्चेति समुच्चये चशब्दः । अन्यथा परमाणु नित्यत्वे नित्यमेव कार्यं
स्यादिति दोषस्योक्तत्वात्, अनित्यत्वेऽपीश्वरेच्छान्यायेन मूलकारणा
भावापसिद्धान्तयोरर्थसिद्धत्वात्, उक्तार्थाभ्यामुभयत्र दोषावगमा
दिदं सूत्रं व्यर्थमेव स्यात् । अतएव तत्त्वप्रदीपे—प्रथमं श्रुत्यर्थाभ्या
मवगतदोषद्वयपरतयेदं सूत्रं व्याख्यायानन्तरं अथवोभयत्रापसिद्धा
न्ताख्यं दूषणान्तरमुच्यत इति पक्षान्तरपरतया व्याख्यातम् । न च व्य
वधानाद्योगः। यतोऽत्र निमित्तं 'एवं परमाणूनाम्' इत्यवतारिकाटीका
यां सङ्गतिविशेषाख्यं पूर्वसूत्रस्याभिहितं, तथास्य सूत्रस्य ननु रूपा
दिमत्त्वेपीत्यनेन विशेषाशङ्कारूपा सङ्गतिरपि तत्त्वप्रदीपटीकयोः प्र
दर्शितेति ध्येयम् ॥
( ११ ) एवं प्रपञ्चेन दूषिते परमाण्वारम्भवादमप्रामाणिकत्वेनापि
दूषयत्सूत्रं पठित्वा व्याचष्टे—अपरिग्रहाच्चेति ॥ श्रुतीति । श्रुतिस्मृत्य
नुकूलत्वाभावात् तद्विरुद्धत्वाच्चेत्यर्थः। परमाण्वारम्भवादस्येति प्रकर
णालभ्यते। न केवलं पूर्वोक्तहेतुभ्य इति चार्थः। अनेन पूर्वोक्तहेतूनाम
नपेक्षेति साध्येनान्वयः इति सूचितम्। अत्र आद्यव्याख्याने सूत्रे अप
रिग्रहादित्यस्य असूर्यं पश्या राजदारा इति वदसामर्थ्येऽपि समासं
निर्मक्षिकमित्यादाविव अव्ययत्वं वा आश्रित्य श्रुत्यादिपरिग्रहाभावा
६३

४९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
श्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेन अनपेक्षता ।
( १२ ) आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकाम् ।
इति च मोक्षधर्मे ॥ १७ ॥
――:✻:――
७. अधिकरणम् ॥
( १ ) परमाणुपुञ्जवादिमतमपाकरोति ।
त तद्वानुकूल्याभावादित्यर्थः । द्वितीयव्याख्याने तु परिगृह्यत १.ते प-
रिग्रहः न परिग्रहः अपरिग्रहः इति विग्रहः। नञश्च विरुद्धार्थता । भां-
वप्रधाननिर्देशश्च अयमिति ज्ञातव्यं, प्रधानकारणत्ववादापेक्षया अति-
शयेनेत्यनेन अत्यन्तशब्दस्य अनपेक्षता अनादरणीयतेति। अनेन अनपे-
क्षेत्यस्यच अर्थ उक्तः। सूत्रे न अपेक्षा अनपेक्षेति विग्रहः। शिष्टैः कार्ये-
तिशेषः। परमाण्वारंभाद् इति च प्रकरणाल्लभ्यते ॥
( १२ ) यद्वादि श्रुतिस्मृतिविरुद्धत्वादिति तत्स्मृतिसिद्धमित्या-
ह-आन्वीक्षिकीमिति ॥ इदं च-‘ इन्द्रः सृगालरूपेण बभाषे कश्यमा-
नसं ’ इति पूर्ववाक्ये प्रकृतस्य सृगालरूपस्य इन्द्रस्य कंचित्प्रति वा-
क्यम् । एतच्च ‘अहमासं पण्डितको हेतुको वेद निन्दकः’ इति
पूर्वेण ‘तस्येयं फलनिष्पत्तिस्सृगालत्वं यतो मम’ इत्युत्तरेण वा-
क्येन च व्याख्येयम् । तथा हि-यतः अहं ‘पण्डितकः’ कुत्सितो विद्वान्
‘हेतुकः’ शुष्कानुमानप्रामाण्यवादी अतएव स्वतर्कविरुद्धवेदपदोक्त-
सदागमार्थनिन्दकश्च ‘आसम्’ अभूवम्, न केवलमेतावत्,किन्तु‘आन्वीक्ष-
कीं’दृष्टवद्युत्प्रेक्षारूपां ‘निरर्थकां’ परमात्मोत्कर्षाबोधकत्वान्निर्विषयां मो-
क्षासाधकत्वान्निष्प्रयोजनां तर्कविद्यामनुरक्तः तत्रातीवासक्तोऽभवम्।
अतस्तस्यानुरागस्येदं सृगालत्वं फलरूपमिति । अत्रेन्द्रेण तर्कविद्या-
नुरागस्य जम्बुकजन्महेतुत्वोक्त्या वेदनिन्दक इत्युक्त्या च तर्कवि-
द Dyारूपपरमाण्वारम्भवादस्य ‘ आत्मन आकाशः’( तै. १ - २. )‘ उ-
त्पत्तिस्थितिसंहाराः’ इत्यादिश्रुतिस्मृतिविरुद्धत्वं ज्ञायत इति न हेत्व-
सिद्धिः । मोक्षधर्म इत्यस्य श्रुत्यादिविरुद्धत्वं उक्तमिति अध्याहृते-
नान्वयः ॥ ६ ॥
॥ इति वैशेषिकाधिकरणम् ॥
――――
७. अधिकरणम् ॥
( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति―परमाणुपुञ्जेति ॥ अत्राधि-

[ अधि - ७. सू - १८. ] दीपिकासाहितम्. ४९९
( २ ) सू—ॐ ॥ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ ॐ ॥ १८ ॥
समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्यो-
न्याश्रयत्वात्तदप्राप्तिः । अन्यथा सर्वदा समुदायस-
त्त्वं स्यात् ॥ १८ ॥
करणे पाषण्डप्रभेदेषु वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचारभेदेन
चतुर्विधेषु सौगतेषु मध्ये परमाणुसमुदाय एव गोघटादिबोधबोध्यो
न त्ववयवी नाम तदतिरिक्तोऽस्तीति वादिनां वैभाषिकानां सौत्रान्ति-
कानां च मतं निराकरोति सूत्रकृदित्यर्थः ॥
( २ ) अत्र सूत्रव्याख्यानेनैव पूर्वपक्षः स्फुटीभविष्यतीत्यभिप्रेत्य सि-
द्धान्तयत्सूत्रं पठित्वा तत्र समुदाय इति सप्तम्यन्तपदस्योभयपदार्थ-
प्रतियोगिना एकहेतुके इत्यध्याहृतपदेनान्वयमभिप्रेत्य प्रथममपिश-
ब्दलब्धपक्षान्तरं प्रतिषेधति—समुदायस्येति ॥ 'समुदायस्य' पर-
माणुसमुदायस्य एकदेशसंयोगविशेषरूपस्य 'एकहेतुकत्वं' एकपर-
माणुजन्यत्वमयुक्तमित्यर्थः । अस्मिन् साध्ये हेतुस्तु सूत्रे विरोध इत्य-
ध्याहृतपदेन सूचितः एकस्मात्समुदाय इत्यस्य व्याहतेरित्येवंरूपो
द्रष्टव्यः । इदानीं समुदाय उभय इति वाक्येन साक्षादुक्तं पक्षमनूद्य
तत्र सूत्रकृदुक्तं दोषं योजयति—उभयेति । समुदाय इत्यस्ति । तथा
च समुदाये उक्तरूपे 'उभयहेतुके' मिलितोभयहेतुके एकदेशस्थाने-
कपरमाणुहेतुकेऽङ्गीकृतेऽपि 'तदप्राप्तिः' तस्य समुदायस्याप्राप्तिरनुपप-
त्तिरेवेत्यर्थः । न केवलमेकहेतुक इत्यपिशब्दार्थः । कुतोऽप्राप्तिरित्यत-
स्तत्र तस्मादिति व्यस्ततत्पदेनोक्तं हेतुं दर्शयति—अन्योन्येति । उभ-
योरिति बुद्ध्या विवेकेन सम्बध्यते । तथा च मिलितानेकतः समुदाय-
सिद्धिः समुदाये सति मिलितानेकत्वसिद्धिः इत्युभयोर्मिलितानेकत्व-
समुदाययोः कार्यकारणयोः परस्पराश्रयभावापातादित्यर्थः । तदप्रा-
प्तिः समुदायानुपपत्तिरित्यर्थः । इदानीमुभयहेतुक इत्यस्य विरलाने-
कहेतुकेत्यर्थमुपेत्य तेनोक्तं पक्षान्तरमनूद्य दूषयति—अन्यथेति । समु-
दायस्योक्तविधत्वमनङ्गीकृत्य नानादेशस्थानेकपरमाणुहेतुकत्वेऽङ्गीकृते
इत्यर्थः । अत्र पक्षे समुदाय इत्यनेन अनेकत्वसङ्ख्या विवक्षिता । स-
मुदायत्वं तेषामिति शेषः । तथा च सर्वदा सतां तेषां विरलानेकप-
रमाणूनां सर्वदा समुदायत्वं तदुत्पादकत्वं स्यात् । ततश्च समुदाय-
स्यापि सर्वदा सत्त्वं स्यात् । तथा च प्रलयाभ्युपगमविरोध इति योज-

५०० | ब्रह्मसूत्रभाष्यम्. | [ अध्या - २. पा - २. ]
( ३ ) सू—ॐ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनि
मित्तत्वात् ॥ ॐ ॥ १९ ॥
सर्वदा विद्यमानोऽपि समुदायः परस्परापेक्षया व्यव
ना । समुदायस्येति पाठान्तरम् । यस्मादेवं समुदायस्याप्राप्ति-
तस्मात्स एव गोघटादिबुद्धिवेद्यो न त्ववयवी कश्चिदस्तीति पक्षो न
युक्त इति भावः ॥
( ३ ) उक्तमाक्षिप्य समाधत्सूत्रं पठति—इतरेतरेति ॥ अत्र षष्ठ्य-
न्ततया विपरिणतस्य समुदायस्येति पदस्य व्यवहार इत्यस्य वा अनु-
वृत्तिः, इतरसहितं इतरत् इतरेतरत् तस्य प्रत्ययः द्वित्वाद्यपेक्षाबु-
द्धिः इतरेतरप्रत्ययः। स निमित्तभूतो ययोर्वित्तिव्यवहारयोस्तावितरे-
तरप्रत्ययाविति व्यधिकरणो बहुव्रीहिः। अतः 'अर्श आदिभ्यो ऽच्'
विषयतासम्बन्धेन तद्वान्। यद्वा—इतरत् इतरत्र प्रत्ययः इदं चेदं चे-
त्यपेक्षाबुद्धिः यस्य व्यवहारादेर्निमित्तभूतः स तथोक्तः । तस्य भाव-
स्तत्त्वं, तस्मादिति विग्रहं चाभिप्रेत्य समुदायस्य विरलानेकहेतुक-
त्वपक्षोक्तदोषोद्धाराय तत्र हेतुकथनार्थं प्रवृत्तमाक्षेपांशं तावद्व्याच-
ष्टे—सर्वदेति। अपिर्यद्यपि तथापीत्यर्थे। नञावर्तते। योजना तु-यद्य-
पि विरलानेकहेतुकः समुदायः सर्वदा विद्यमानो नित्य एव भवति,
तथाऽपि न प्रलयानुपपत्तिदोषः।

हियत इति चेन्न । एकं कार्यमुत्पाद्य तस्यं विनष्टत्वा
त्परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते ।
( ४ ) कारणे सति कार्य भवत्येवेति हि तस्य नियमः ॥ १९ ॥
न प्रवृत्तमुत्पत्तीति सौत्रहेतुं तात्पर्यतो व्याख्याति—एकमिति । 'तस्य'
विरलानेकपरमाणुजन्यसमुदायस्य ' एकं ' एव ' कार्यमुत्पाद्य नष्टत्वा
त् ' इत्यर्थः । तथा च प्रथमं विरलपरमाणूनां मिलितपरमाणूत्पादक
त्वं मिलितानां च दर्शनं ततः इदं चेदं चेतिपरस्परापेक्षाप्रत्ययः, ततो
व्यवहारादिः, तत्र द्रष्टा पुरुषः परमाणवश्च क्षणिकाः ते चैकमेव का
र्यमुत्पाद्य नश्यन्तीत्यङ्गीकुर्वतां सौगतानां मते प्रथममेकस्य परमाणोर्द्र
र्शनम् , अथ तत्रैव तस्यैवापेक्षा बुद्धिः अथ तत्रैव तस्यैव व्यवहारा
दीति क्रमो न युज्यते । तन्मते सर्वेषां क्षणिकत्वेन दर्शनबुद्धिव्यवहा
रादीनां एकविषयत्वस्यैकाधिकरणत्वस्य चायोगादिति भावः । अने
नोत्पत्तिनिमित्तमात्रत्वादिति सूत्रशेषस्य परमाणूनामेककार्योत्पत्तावे
व निमित्तत्वात् द्वितीयादिक्षणवृत्तिदर्शनापेक्षाबुद्ध्यादिरूपकार्यान्तरो
त्पत्तावनििमित्तत्वात् तेषामेकं समुदायाख्यं कार्यमुत्पाद्य नष्टत्वात् पु
नस्तेभ्यः कार्यान्तरोत्पत्त्ययोगादित्यर्थ उक्तो भवति ॥
(४) ननु विरलपरमाणुजन्यानां मिलितपरमाणूनां स्थायित्वम
ङ्गीक्रियते । ततस्तद्विषये दर्शनापेक्षाबुद्धिव्यवहारा भवेयुरतो नोक्त
दोष इत्यत आह-कारणे सतीति॥ हियतस्तस्य सौगतस्य नियमः। अ
स्तीति शेषः । अस्यातस्तेषां स्थायित्वाभ्युपगमे प्रतिक्षणं कार्योत्पाद
कत्वप्रसङ्गः। तथाचाल्पतरकालेऽप्येकैकस्मात्परमाणुपुञ्जात्मकाद्धटादने
ककार्योत्पत्त्या कुलालशालापरिपूर्तिप्रसङ्ग इत्युपस्कृतवाक्येनान्वयः।
यद्यपि क्षणिकत्वहानिरेव वक्तव्या, न तूक्तबाधकम् । तथापि क्षणिक
त्वहानिरेव क्षणिकत्वाभ्युपगमे नियमाख्यकारणप्रदर्शनेनोक्ता वेदित
व्या। अस्माभियमात्स्थायित्वाभ्युपगमे कुलालशालापरिपूर्तिप्रसङ्गा
द्धि तैः क्षणिकत्वमभ्युपगतम् । अत्र तत्त्वप्रदीपे—इतिचेत्कार्यसम्भूति
मात्रव्यावृत्तिकारणमित्यनुभाष्यदिशा द्वितीयसूत्रांशस्य कारणस्य स
दृशकार्योत्पत्तावेव निमित्तत्वादित्यर्थमभिप्रेत्य तदनुसारेणैकं सदृशं
कार्यमुत्पाद्य तस्य विनष्टत्वान्नापेक्षाप्रत्ययादिरूपविसदृशकार्योत्पत्ति
र्युज्यते । कुत एतत् ? कारणे सति कार्यं भवत्येवेति तस्य नियमो, न
पुनर्विशेषकार्यमपीति भाष्यस्याप्यर्थ उक्तः । न चैवं टीकायास्तद्वि

(५) सू—ॐ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ ॐ ॥ २० ॥
(६) कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्यो-
त्पत्तिः ॥ २० ॥
(७) सू—ॐ ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ ॐ ॥ २१ ॥
रोधः , सुधाविरोधश्चेति वाच्यम् । द्वितीयतृतीयसूत्रयोरर्थान्तरा-
भिप्रायेण तत्प्रवृत्त्या विरोधाभावात् ॥
(५) एवं विरलपरमाणुभ्यो मिलितपरमाणूत्पत्तिमभ्युपेत्य व्यव-
हाराद्यसम्भवो दर्शितः । अथ विसदृशकार्योत्पत्तिमपि निराकुर्वत्सूत्र-
मुपन्यस्य व्याचष्टे—उत्तरेति ॥ कार्यशब्दः सदृशकार्यपरः । विषयस-
प्तमीयम् । सामर्थ्यादिति शेषः । तथा च कारणस्य सदृशकार्यजनन
एव सामर्थ्यादित्यर्थः । न तु विसदृशकार्योत्पत्तौ । अन्यथा घटात्पटो-
त्पत्तिप्रसङ्गात् इत्येवशब्दार्थः । कार्यकारणपदाभ्यां उत्तरपूर्वशब्दौ
व्याख्यातौ । कार्योत्पत्तावेव कारणस्य सामर्थ्यादिति हेत्वन्वययोग्यं
सूत्रे नञनुवृत्त्या लब्धं साध्यं दर्शयति—नेति । विशेषेभ्यो विरलेभ्यः
परमाणुभ्यो विशेषकार्योत्पत्तिः मिलितपरमाणुरूपविसदृशकार्योत्प-
त्तिर्न युक्तेत्यर्थः । चशब्दो भिन्नक्रमेणात्राप्यन्वेति । न केवलं वित्ति-
व्यवहारयोरसम्भव इति तदर्थः । एवेत्यनेन विशेषकार्योत्पत्तिश्चेत्यने-
न च सौत्रचशब्दोऽवधारणार्थः समुच्चयार्थश्चेत्युक्तं भवति ॥
(६) ननु सदृशकार्यजनने समर्थमपि कारणं कार्यमुत्पाद्य पश्चा-
त्तत्र वैसादृश्यमुत्पादयति, न चातिप्रसङ्गः । विशेषकार्योत्पत्तेरदृष्टा-
धीनत्वादित्यतस्तत्रोत्तरत्वेनापि उत्तरोत्पाद इति समग्रसूत्रं योजय-
ति—कार्येति ॥ अत्र पक्षे उत्तरोत्पाद इति सतिसप्तमी । निरोधाच्चे-
त्यपिशब्दान्वयः। तथा च 'उत्तरोत्पादे' कार्योत्पत्तौ सत्यामेव 'पूर्वनि-
रोधात्' पूर्वस्य कारणस्य विनाशाच्च नोक्तविशेषकार्योत्पत्तिर्युक्तेत्य-
र्थः । अन्यथा पूर्वनिरोधात् पूर्वाचार्याङ्गीकृतक्षणिकत्वविरोधादिति
चशब्दसूचितार्थः । तत्त्वप्रदीपे तु इतश्च न विशेषकार्योत्पत्तिरित्यव-
तारितत्वात् चशब्दस्य पूर्वहेतुसमुच्चायकत्वमुक्तम् । अतएवैकं कार्य-
मिति पूर्वहेतुव्याख्यानरूपं भाष्यमपि विशेषकार्योत्पत्तिनिरासकतया
व्याख्यातम् ॥
(७) एवं विसदृशकार्योत्पत्तिनिरासेन व्यवहारादिकं पराकृत्ये-
दानीं प्रतिक्षणकार्योत्पत्तिमेव निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—अस

[ अधि - ७. सू - २२. ] दीपिकासहितम्. ५०३
कारणे विनष्टे कार्यमुत्पद्यते चेत्तत्कार्यमिति प्रतिज्ञाहानिः।
(८) तत्काले कारणमस्ति चेद्विनाशाकारणाभावाद्यौगपद्यं
सर्वकार्याणाम् ॥ २१ ॥
(९) सू— ॐ ॥ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छे-
दात् ॥ ॐ ॥ २२ ॥
तीति ॥ कारणे विनष्ट इत्यनेनासतीत्यस्यार्थ उक्तः। कार्यमुत्पद्यते चे-
दित्यनेन सूत्रे उत्तरोत्पाद इत्यस्यानुवृत्तिः सूचिता। अस्य पक्षान्तरत्व-
द्योतनाय-चेदिति। यदीत्यर्थेऽयम्। अतस्तर्हीति लभ्यते। तदिति त-
न्त्रं। तस्य तत्कार्यमिति प्रतिज्ञायाः सैद्धान्तिकप्रतिज्ञापदानां हानि-
र्विरोधः स्यादित्यर्थः। कार्यकाले कारणस्य सत्त्वावश्यंभावेन तदन-
भ्युपगमे तस्य तत्कार्यत्वमिति व्यपदेशो विरुद्ध इति भावः ॥
(८) पक्षान्तरोद्घाटनपरमन्यथेत्येतद्व्याचष्टे—तत्काल इति ॥ का-
र्योत्पत्तिक्षण इत्यर्थः। कारणे सत्येवकार्यमुत्पद्यते चेदिति पर्यवसिता-
र्थः। यौगपद्यं स्यादिति शेषः। कुत इत्यतः सूत्रकृदभिप्रेतहेतुमाह-
विनाशकारणाभावादिति। कार्योत्पत्तिक्षणरूपद्वितीयक्षणे कारणस्य
सत्त्वेन तस्यास्तद्विनाशकत्वायोगात्, विनाशकान्तरस्य चाभावात्।
तृतीयादिक्षणेऽपि सतस्तस्मात्पुनः कार्योत्पत्तयः स्युः। कारणे सति
कार्यं भवत्येवेति नियमात्। तेभ्यस्तथेति सर्वकार्याणां यौगपद्यमवि-
च्छेदेनोत्पत्तिः स्यादित्यर्थः। एवं तत्काल इति वाक्यं यस्मिन् काले
कारणमस्ति तत्काले कारणसत्त्वकाले कार्यमस्ति चेत् तस्यापि कि-
ञ्चित्कार्यकारणत्वेन तत्सत्त्वकाले कार्यान्तरस्यापि सत्त्वापत्त्या तस्या-
प्येवं सत्त्वापत्त्या सर्वकार्याणां विनाशकारणाभावाद्यौगपद्यं युगपदव-
स्थानं स्यात्। ततश्चैकस्यां घटिकायां कुलालशालापरिपूर्तिप्रसङ्ग इ-
त्यपि व्याख्येयम्। अतएव कारणे विनष्टे कार्यमुत्पद्यते चेदिति प्रथम-
पक्षवैपरीत्येनान्यथाशब्दार्थमनभिधायोभयविधयौगपद्यापादनाय त-
त्काले कारणमस्ति चेदिति वाक्यविन्यासः कृतः ॥
(९) एवं क्षणिकवादे कार्योत्पत्तिं निराकृत्य विनाशं च निराकुर्वन्सू-
त्रं पठित्वा व्याचष्टे—प्रतिसङ्ख्येति ॥ नियमादित्यनेन विच्छेदोऽनिय-
मस्तदभावोऽविच्छेद इति हेतोरर्थान्तरमभिप्रैति। अभ्युपगमोपलक्ष-
कमेतत्। कार्योत्पत्त्यविच्छेदादित्यर्थान्तरं तु न युज्यत इत्युत्तरवा-
क्यस्य न हि कार्योत्पत्तिविच्छेदो युज्यत इति योजनयाऽभिहितं बो

५०४ ब्रह्मसूत्रभाष्यम्. [ अध्यां - २. पां - २. ]
कारणे सति कार्यं भवत्येवेति नियमान्निस्सन्तानः स
सन्तानश्च विनाशो न युज्यते ॥ २२ ॥
ख्यम् । सन्तानः कार्यपरम्परा निर्गतः सन्तानो यस्मान्नाशात्स तथो-
क्तः । सन्तानमन्तरेणेति यावत् । ससन्तान इत्यस्य प्रतियोगितया
सन्तानेन सहित इत्यर्थः । विनाश इत्युभयान्वयी । कारणस्येति शे-
षः । चः समुच्चये । निस्सन्तानः ससन्तानश्चेत्यनेन प्रतिसङ्ख्याऽप्रति-
सङ्ख्याशब्दौ व्युत्क्रमेण व्याख्यातौ । तत्राद्यनाशे सन्तानस्य नाशा-
न्वयाभावः । द्वितीये तु तस्याप्येवं अविच्छेदोऽपि। प्रथमपक्षे कार्यवि-
च्छेदाभावः , द्वितीये तु सन्तानोच्छेदाभावरूप इति विवेकः । विना-
शश्चेति चशब्दो न केवलं विनाशद्वयसमुच्चये , किन्तु न केवलं प-
रपक्षे कार्योत्पादो न युज्यते , किन्तु विनाशश्चेति समुच्चयेऽपि । ते-
न सूत्रे चशब्दोऽनुवर्त्य इति सूचितम् । न युज्यत इत्यनेनाप्राप्तिशब्दो
ऽनुपपत्त्यर्थकतया व्याख्यातः । यद्यपि प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरो-
धशब्दौ प्रतिसङ्ख्यापदोक्तबुद्धिपूर्वकविनाशार्थकतया बौद्धैः परिभा-
षितौ । तथापि घटादेः प्रतिक्षणविनाशस्याबुद्धिपूर्वकत्वात् सन्तानेन
सहात्यन्तिकविनाशस्य मुसलप्रहारादिजन्यस्य प्रायेण बुद्धिपूर्वकत्वा-
त्प्रतिक्षणविनाशसन्तानविनाशौ तदुभयशब्दार्थत्वेनोक्तावित्यदोषः ।
प्रतिक्षणे जायमानस्य घटादेः निस्सन्ताननाशस्य प्राथमिकत्वादात्य-
न्तिकनाशस्य ससन्तानस्य चानन्तरभावित्वात् तदभिप्रायेण भाष्ये
व्युत्क्रमेण व्याख्यानम् । अनेन न केवलं क्षणिकमते कार्योत्पत्तिर्युक्ता ,
किन्तु प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधावपि , कुतोऽविच्छेदात् । न
हि कार्योत्पत्तिविच्छेदो युज्यते । क्षणिकत्ववादिना हि प्रतिक्षणं कारणं
कार्यमुत्पाद्य नश्यतीति वक्तव्यम् । अन्यथा सन्तानसाहित्येन नाशा-
पत्तेः । क्षणिकत्वविरोधाच्च। क्षणिकस्य चोत्पत्तिकाल एव वियोगका-
लः । एवं चेत् कार्योत्पत्तिकाले सतः कारणस्य तद्वियोगकालेऽपि स-
त्त्वं प्राप्तम् । अन्यथा कार्येण वियोगानुपपत्तेः । एवं वियोगकालेऽपि
कारणं कार्यमुत्पादयेत् । सतोऽपि कारणस्य कुतः कार्योत्पादकत्वम्,अ-
विच्छेदात्,कारणे सति कार्यं भवत्येवेति नियमाभ्युपगमात्। एवं तदु-
त्पत्यनन्तरमपि कार्यान्तरमुत्पादयेदिति सिद्धः कार्योत्पत्त्यविच्छेदः ।
एवं सति हि घटस्यात्यन्तिको नाशः न त्वसतः, अतोऽसौ सत्त्वात्कार्यं
उत्पादयेदेव । कुतोऽविच्छेदात् । कारणे सति कार्यं भवत्येवेति निय-

[ अधि - ७. सू - २३. ] दीपिकासहितम्. ५०५
(१०) सू—ॐ ॥ उभयथा च दोषात् ॥ ॐ ॥ २३ ॥
कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभा
वान्त्र कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥२३॥
मात्, तत्कार्यं चैवमिति कार्यपरम्परायाः अविच्छेदात् कथं सन्तानो
च्छेदावसर इत्यतोऽपि न क्षणिकपक्षो युक्त इति सूत्रार्थ उक्तो भ
वति । केचित्तु—अविच्छेदादित्यस्य विच्छेदाभावादित्यर्थः । कारणे
सति कार्यं भवत्येवेति नियमादिति भाष्योक्तहेतुस्तूपस्कृतः, न सौत्र
पदोक्त इति कारणस्य कार्योत्पत्त्युत्तरक्षणेऽपि सत्त्वमिति चाहुः ॥
(१०) ननु तथाऽपि सतां भावपदार्थानां न क्षणिकता निषेद्धुं शक्या,
घटादेर्घटान्तररूपार्थक्रियाकारित्वं खलु सत्त्वं नाम । न च तत् क्षणि
कतामन्तरेणोपपद्यते । यद्याद्यक्षणे घटो घटान्तरमुत्पाद्य न स्वयं न
श्यति, तर्दा घटान्तरमपि तथेत्यनन्तकार्यापातः। ततश्चैकस्यां घटिका
यां कुलालशालापरिपूर्तिस्स्यात् । अतोऽर्थक्रियाकारित्वरूपसत्त्वसिद्धयै
क्षणिकत्वमेष्टव्यं भावानामित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-उ
भयथेति॥ नियमे अनियमे इत्यनेन उभयथेत्येतद्व्याख्यातम्। सर्वदा.का
र्याभावात् । क्षणिकमते कार्यस्य यावत्कारणभावित्वादित्यनेन दोषादि
ति सौत्रहेतोरुपपादकश्चशब्दसूचितो हेतुर्दर्शितः । 'न कार्यकारण
विशेषः' सव्येतरगोविषाणवत् कार्यकारणयोर्विशेषः कार्यकारणभा
वो न स्यादित्यनेन 'कार्यानुत्पत्तिः' यतः कार्योत्पत्तिर्न स्यात् इत्यनेन
च पक्षद्वयेऽपि दोषादित्युक्तो हेतुर्विवृतः । तत्रानियमपक्षे कारणे सत्य
पि कदाचित्कार्याभावाङ्गीकारे तत्काले कारणस्यार्थक्रियाकारित्वाभा
वेनासत्त्वापत्तिः । ततश्चासतः कारणात् कदाऽपि कार्योत्पत्तिर्न स्या
दित्यनिष्टप्रसङ्गान्तरोपस्कारेण सौत्रहेतुर्योज्यः । एवमनियमपक्षे कार
णस्य घटादेः अर्थक्रियाकारित्वरूपसत्त्वाभावेन ततः कल्प्यमाना क्ष
णिकताऽपि व्याहन्येतेति चशब्दसूचितानिष्टप्रसङ्गान्तरं च द्रष्टव्यम् ।
कार्योत्पत्तिरित्यनन्तरं नान्यतरपक्षावलम्बेन घटादीनां घटान्तररू
पार्थक्रियाकारित्वेन सत्त्वं वाच्यम्, किन्तु जलाद्याहरणादियोग्य
त्वेनेति परोक्तापादकासिद्धेर्न तदनुपपत्त्या क्षणिकता कल्प्येत्यसम
ञ्जसमिदं दर्शनमिति वाक्यशेषः । अनेन च सौत्रचशब्दस्य परपक्ष ए
वोभयथा दोषसत्त्वादस्मत्पक्षे च दोषाभावादिति हेतुसमुच्चायकत्वं
६४

५०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
( ११ ) सू—ॐ ॥ आकाशे चाविशेषात् ॥ ॐ ॥ २४ ॥
दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्ष
णिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनादन्य
त्रापि तदनुमीयेत ॥ २४ ॥
प्रतिज्ञासमुच्चायकत्वं च अभिप्रेति ॥
( ११ ) ननु माभूदर्थापत्त्या क्षणिकत्वसिद्धिः । तथाऽपि विमतं क्षणि
कं, सत्त्वात्, यत्सन्न तत् क्षणिकम्, यथा दीपादि, सन्तश्चामी भावाः
पदार्था इत्यनुमानेन सेत्स्यति । न च दृष्टान्ते साध्यवैकल्यम् । यद्वि
रुद्धधर्माधिकरणं तन्नानेति व्याप्तेः । पूर्वोत्तरक्षणयोः प्रदीपे परिमाण
विशेषदर्शनेन वस्तुभेदस्याप्यावश्यकत्वात्तत एव क्षणिकतासिद्धेरि
त्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—आकाशे चेति ॥ दीपादि
ष्विति वायुक्तानुमानदृ

[ अधि - ७. सू - २५. ] दीपिकासहितम्. ५०७
( १२ ) सू-ॐ ॥ अनुस्मृतेश्च ॥ ॐ ॥ २५ ॥
ज्ञयाऽन्वयः। अत्र वाद्युक्तानुमाने प्रतिपक्षानुमाने च पक्षसाध्यहेतुदृष्टा
न्तानां समुच्चये अर्थापत्त्यनुमानसमुच्चये च सौत्रश्चशब्दः। तथा चा
यं सूत्रार्थः-यदि दीपादौ विशेषात् क्षणिकत्वस्य सिद्धत्वादन्यत्रा
पि तद्दृष्टान्तेन तदनुमीयते । तर्ह्याकाशेऽविशेषात् स्थायित्वस्य सिद्ध
त्वेन तद्दृष्टान्तेन सत्त्वहेतुनैवाक्षणिकत्वमप्यनुमीयेत। सत्त्वहेतोराका
शे दीपादौ नीलिमादौ चाविशेषात् । अतः सत्त्वहेतोः स्वेनैव प्रतिप
क्षितत्वान्नानेनापि क्षणिकत्वसिद्धिः, न केवलमर्थापत्त्येति॥
( १२ ) एवं प्रतिपक्षेण सत्त्वानुमानं निरस्य प्रमाणबाधेनापि निरा
कुर्वत्सूत्रं पठित्वा व्याचष्टे--अनुस्मृतेरिति ॥ तदेवेदमिति प्रत्यभिज्ञा
नादिति । यद्दृष्टपूर्वं तदेवेदं घटादीति पूर्वोत्तरदेशकालसम्बन्धिनोरे
क्यविषयकप्रत्यभिज्ञानादित्यर्थः । स एवाहमित्यनुक्त्वा तदेवेदमिति
जडविषयकप्रत्यभिज्ञाप्रदर्शनं न परमत इवात्ममात्रस्थायित्वपरमिदं
सूत्रमिति प्रदर्शनाय । चशब्दः पूर्वहेतुसमुच्चये । अस्यापि पूर्वसाध्ये
नान्वयः। उक्तं हि चन्द्रिकायां-सप्तमाष्टमयोः क्षणभङ्गविरोधिस्था
यित्वरूपैकसाध्यान्वयस्य सम्भव इति। ननु परिलूनपुनर्जातकुन्तल
कलापे सोऽयं कुन्तलकलाप इति प्रत्यभिज्ञायाः इवास्याः प्रत्यभिज्ञायाः
भ्रान्तित्वाङ्गीकारान्न तद्बाधः सत्त्वानुमानस्येत्यतः तत्र प्रत्यभिज्ञाया
थार्थ्यसूचकानुपदसूचितं दोषमविशेषादिति हेतुमापाद्यापादकोपस्का
रपूर्वकमाह-प्रत्यभिज्ञाया इति । 'भ्रान्तित्वे' बाधकं विनाऽपि भ्रा
न्तित्वकल्पने 'विशेषदर्शनस्यापि' दीपादौ क्षणिकत्वसाधकतयोक्त
परिमाणभेदादिदर्शनस्यापि । अपिः समुच्चये । 'भ्रान्तित्वं' स्याद्
विशेषादिति शेषः । ननु तत्त्वद्योतटीकायामनुस्मृतेश्च

५०८ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - २.]
तदेवेदमिति प्रत्यभिज्ञानाच्च । प्रत्यभिज्ञाया भ्रान्तित्वे
विशेषदर्शनस्यापि भ्रान्तित्वम् ॥ २५ ॥
८. अधिकरणम् ॥
(१) शून्यवाद्मपाकरोति—
सू—ॐ ॥ नासतो दृष्टत्वात् ॥ ॐ ॥ २६ ॥
अदृष्टत्वान्नासतः कारणत्वं युज्यते ॥ २६ ॥
भिज्ञया चात्यन्ताभेदावगाहनादिति चेत् । उच्यते—यदा हि पूर्वोत्त
रकालभाविनोः अभेदः प्रत्यभिज्ञाविषयोऽङ्गीक्रियते तदा सावधारण
स्य प्रत्यभिज्ञानस्य भ्रमत्वेऽपि तदिदमिति न भ्रमः, तेनैव च स्थायित्व
सिद्धिर्भवति । यदा तु कालद्वयसम्बन्धो विषयः, तदा सावधारणम
पि न भ्रम इति । तथा च तदेवेदमिति प्रत्यभिज्ञायाः तद्देशतत्कालस
म्बन्ध्येवैतद्देशैतत्कालसम्बन्धीति विशेष्यमात्रैक्यविषयकत्वेनेदं भा
ष्यं प्रवृत्तम्, न तु.विशिष्टैक्यविषयकत्वेन, तादृश्याश्च भ्रान्तित्वमनि
ष्टमेवेति नापाद्यत्यानुपपत्तिः । विशिष्टविषयकत्वेऽपि निरवधारणप्र
त्यभिज्ञानस्याभ्रमत्वमेवेति तस्य भ्रान्तित्वापादने नानुषपत्तिः, न वा ग्र
न्थान्तरविरोध इति ध्येयम् ॥ ७ ॥
॥ इति समुदायाधिकरणम् ॥
८. अधिकरणम् ॥
(१) अत्राधिकरणार्थं दर्शयति—शून्येति ॥ शून्यमेव जगत्कारण
मिति वदतां माध्यमिकार्ना वादं समयं निराकरोति सूत्रकृदित्यर्थः ।
श्रुतिप्रामाण्यानभ्युपगमेन तद्विरोधाभावादसङ्गत्यापि संवृतिसम्ब
न्धेन जगत्कारणत्वोपपत्तेः शून्यतत्वादेव जगदुदयसम्भवादीश्वरेणो
पयोगाभावात्तस्य जगत्कारणत्वमयुक्तम् । तस्यैव तल्लक्षणमित्येतत्
सुतरामयुक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—नेति ।
अदृष्टत्वादित्यतः । प्राक् प्रमाणाभावादित्युपस्कार्यम् । तथा चासतः
सर्वधर्मविकलत्वरूपासत्त्वोपेतस्य शून्यस्य जगत्कारणत्वं न युज्यते ।
कुतः? तत्र प्रमाणाभावात् । न चासिद्धिः । शून्यकारणत्वस्य ‘दृष्टत्वा
त् ’ अप्रत्यक्षत्वात् । तत एव तदुपजीव्यनुमानाविषयत्वात् । एवमेव
शून्यकारणतावगमकागमस्याप्यदर्शनादिति योजना । एतेन सौ

[ अधि - ८. सू - २७. ] दीपिकासहितम्. ५०९
( २ ) सू—ॐ ॥ उदासीनानामपि चैवं सिद्धिः ॥ ॐ ॥ २७ ॥
असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जिता-
नां खपुष्पादीनामपि सकाशात्कार्यसिद्धिः ।
अहेतोरीश्वरादौ व्यभिचारो निरस्तः । अस्य हेतुसाधकहेतुत्वाभ्युप-
गमेन साक्षाद्धेतुत्वानभ्युपगमात् । अत एव तत्त्वप्रदीपे—प्रमाणेनादृ-
ष्टत्वादित्येवोक्तम् ॥
( २ ) नन्वदृष्टमपि जगत्कारणत्वं शून्यस्याभ्युपगतं चेत्को दोषः ।
ननूक्तमदृष्टत्वादेव अप्रामाणिकत्वान्नाङ्गीकारार्हतेति, न अदृष्टत्वेन दृ-
ष्टानुमानानुपपत्तावपि सामान्यतो दृष्टवोपपत्तेः । कारणस्य हि का-
र्यवत् वस्तुत्वेन सत्त्वे निषिद्धे कार्यत्वेन हेतुनाऽसत एव जन्म सेत्स्य-
तीत्याशङ्कापरिहाराय

५१० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
( ३ ) चशब्दान्न चेदन्यत्रापि न स्यात् अविशेषात् ॥ २७ ॥
( ४ ) सू—ॐ ॥ नाभाव उपलब्धेः ॥ ॐ ॥ २८ ॥
न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥ २८ ॥
( ५ ) सू—ॐ॥वैधर्म्याच्च न स्वप्नादिवत् ॥ ॐ ॥ २९ ॥
( ३ ) खपुष्पादीनामकारणत्वेऽपि को दोष इत्यतस्तत्र स्वाभिमता
सिद्धिरूप दोषोक्तिपरतया सौत्रचशब्दं व्याचष्टे—चशब्दादिति ॥
अस्याविशेषादित्यनन्तरं अध्याहारेण इतिसूचितमित्यनेनान्वयः । किं
सूचितमित्यतस्तदाह—न चेदिति । खपुष्पादीनामपि सकाशात्कार्य
सिद्धिर्नास्ति चेदित्यर्थः । 'अन्यत्र' अन्यतः खपुष्पाद्यन्यबौद्धाभिमतशू-
न्यात् 'अपि' जगदाख्यकार्योत्पत्तिः 'न स्यात्' इत्यर्थः । ननु शू-
न्यस्य कारणत्वे खपुष्पादिकारणत्वापादनमसङ्गतं हेत्वभावादित्यत
आह—अविशेषादिति । शून्यस्य खपुष्पादेश्चासत्त्वाविशेषादित्यर्थः ।
तथा च सर्वधर्मविकलत्वरूपासत्त्वं हेतुः । अत्र दृष्टान्तस्तु शून्यमेवे-
ति भावः । अनेन तर्कस्य विपर्ययपर्यवसानेन प्रकृतोपयोग उक्तो भ-
वति ॥
( ४ ) भवेदेतद्दूषणं यदि शून्यतत्त्वात्परमार्थतो मृत्पिण्डाद्घट इव
जगदुत्पद्येत । नैतदस्ति । शून्यस्य जगदाकारेण परिणामानभ्युपगमा-
त् । किन्तु संवृतिशब्दिताज्ञानविशेषादसतो रजताकारेणेव शून्यस्या-
पि जगदाकारेण अवभासाख्यविवर्तत्वाभ्युपगादित्याशङ्कां परिहर-
त्सूत्रमुपन्यस्य व्याचष्टे-नेति ॥ एवकारो भिन्नक्रमः । तथा च 'शून्य-
मेव' शून्यरूपमसदेव 'जगत्' जगदाकारेणावभाति न परमार्थतो जगद-
स्तीति न वाच्यमित्यर्थः । न केवलमेतावत् , किन्त्वदृष्टिदोषपरिहारा-
य यदसदेव रजताकारेणावभातीति वचनं तदपि न युक्तमिति चश-
ब्दार्थः । अनेन सौत्राभावशब्दो भवतीति भावः सन्, न भावोऽभाव
इति व्युत्पत्त्या असत्पर इत्युक्तं भवति। 'दृष्टत्वात्' सदिति प्रतीयमान-
त्वादित्यनेन उपलब्धेरिति सौत्रहेतुर्व्याख्यातः । एवं दृष्टत्वादित्येतत्
नेदं रजतं , किन्तु शुक्तिकैवेति बाधदर्शनादिति परोक्तसाधकनिरास-
कत्वेनापि व्याख्येयम् ॥
( ५ ) ननु सदिति दृश्यमानस्य स्वप्नस्य रज्जुभुजङ्गादेश्चासत्त्वं
दृष्टम्। अतो जगतस्सत्त्वेन दृष्टत्वेऽपि तद्वदसत्त्वं किं न स्यादित्याशङ्कां
परिहरत्सूत्रमुपन्यस्य व्याचष्टे—वैधर्म्याच्चेति ॥ 'दृष्टस्य' सत्त्वेनोपल-

: स+ौ=सौ. Look at line 6: अ+ाwith two strokes? Wait, look atअपि- in Sanskrit: "अपिः"? No, in Sanskrit grammar, when referring to the word 'अपि', it is called 'अपिशब्दः' or simply 'अपिः'. But why would there be strokes above? Wait, look at:औ? Wait, could the whole word be: [दृष्टस्येत्यनेन] बाध्यस्य ।? Wait, what if the word is: ध्यस्य । अपिः? Wait, look at the dot above? Wait, look at the first two words again: Word 1: ध्यस्य ।(orध्वस्य ।orष्टस्य ।) Word 2: अपिःorओपःorअपि? Wait! Is that a smudge, or is it: अपिःwith a blur? Look at the letter:अthenपि- the loop ofिgoes fromपback overअ? In many Indian fonts, the िmatra onपcurves to the left! Whenिis onप, the curve goes leftwards over the preceding space or letter. Here पि` has the curve

५१२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - २.]
९. अधिकरणम् ॥
( १ ) विज्ञानवादमपाकरोति—
सू—ॐ ॥ न भावोऽनुपलब्धेः ॥ ॐ ॥ ३० ॥
कण्ठतोऽनुक्तत्वादनुक्तत्वम् । न च द्वयमपि वैधर्म्यशब्देनैव वक्तुं यु
क्तमिति चशब्दो व्यर्थ इति वाच्यम्। आवृत्तिं विनैव तत्सूचनार्थत्वात्।
न च चशब्दस्योक्तशङ्कापरिहारकतया व्याख्याने तत्त्वोद्योतटीकायां
इह चशब्देन सूचितं जगद्धर्मिकवैधर्म्यं वैधर्म्यशब्दार्थत्वेनाङ्गीकृत्य दू
षणान्तरसमुच्चयार्थश्चकार इत्युक्तत्वात् तद्विरोध इति वाच्यम् । 'चे
ति दृष्टे विरुद्धताम्। निष्प्रमाणत्वमप्यस्य दर्शयामास विश्वकृत्' इत्यनु
व्याख्यानोक्तरीत्या मानाभावप्रत्यक्षविरोधरूपदूषणान्तरसमुच्चायक
स्यापि चशब्दस्य बाधकप्रमाणाभावरूपार्थत्वस्यापि सम्भवेन विरो
धाभावात् । परं तु वैधर्म्यधर्मिव्यत्यासमात्रं । तच्च न प्रमेयविरुद्धम् ।
अस्तीत्यनन्तरं यत इति शेषः । अस्यातोऽपि न स्वप्नादिवदिति पूर्वे
णान्वयः ॥ ८ ॥
॥ इति असदधिकरणम् ॥
— * —
९. अधिकरणम् ॥
( १ ) एतदधिकरणप्रतिपाद्यं दर्शयति—विज्ञानवादमिति ॥ चतु
र्विधेषु सौगतेषु मध्ये वैभाषिकसौत्रान्तिकमाध्यमिकेषु त्रिषु निरस्ते
षु अधुना क्रमप्राप्तं तुरीयं विज्ञानपरिणतं तन्मात्रमेवेदं जगत् न तु त
तोऽतिरिक्तमिति वदतां योगाचाराणां वादं मतं निराकरोत्यस्मिन्नधि
करणे सूत्रकृदित्यर्थः । नित्यं निरञ्जनं विज्ञानतत्त्वमेव खलु विद्यमानं
तन्मात्रमेवेदं जगत्, न तु ततोऽतिरिक्तमस्ति। तथा च ततएव जगदु
दये नेश्वरेण कृत्यमित्ययुक्तं तस्य जगत्कारणत्वलक्षणमिति प्राप्ते सि
द्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—नेति । विज्ञानमात्रं तद्रूपमेव जगत्
न ततोऽतिरिक्तमस्तीति न युक्तमित्यनेन न भाव इति साध्यांशः साव
धारणं कृत्वा जगत्पदाध्याहारेण च व्याख्यातः। भावशब्दस्य विज्ञाना
र्थकत्वं च भवतेरनुभवार्थत्वात् उपसर्गा हि धातुलीनस्यार्थस्य व्य
ञ्जका एवेति सुधोक्त्या सिद्धं । प्रसिद्धज्ञानपदं विहाय भाव इत्युक्ति
स्तु परमते भवतीति भाव इति व्युत्पत्त्या भावशब्देन सद्विवक्षि

स्य व्याचष्टे—क्षणिकत्वञ्चेति । ज्ञानमित्युक्त्या सूत्रे भावस्येत्यनुष-
Wait, क्षणिकत्वञ्चेति or क्षणिकत्वंचेति?
It has क्षणिकत्वञ्चेति (with ञ्च).
And after व्याचष्टे: dash —.
At end of L12: भावस्येत्यनुष- or भावस्येत्यनुष? ङ्गो starts L13.

ङ्गो दर्शितः । क्षणिकं यत इति शेषः । ज्ञानस्य क्षणिकत्वादाशुतरवि-
Check:
ङ्गो दर्शितः ।
क्षणिकं यत इति शेषः ।
ज्ञानस्य
क्षणिकत्वादाशुतरवि-

नाशत्वादित्येतदर्थानां स्थायित्वादित्यस्याप्युपलक्षकम् । चशब्दो वा
Check:
नाशत्वादित्येतदर्थानां स्थायित्वादित्यस्याप्युपलक्षकम् । चशब्दो वा
Matches 100%.

तत्समुच्चायक इत्याशयेनार्थानां घटादीनां चेत्याद्युक्तमुक्तं साधितं 'उ-
Wait, quote before उ?