सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 559, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 559

५१२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - २.]
९. अधिकरणम् ॥
( १ ) विज्ञानवादमपाकरोति—
सू—ॐ ॥ न भावोऽनुपलब्धेः ॥ ॐ ॥ ३० ॥
कण्ठतोऽनुक्तत्वादनुक्तत्वम् । न च द्वयमपि वैधर्म्यशब्देनैव वक्तुं यु
क्तमिति चशब्दो व्यर्थ इति वाच्यम्। आवृत्तिं विनैव तत्सूचनार्थत्वात्।
न च चशब्दस्योक्तशङ्कापरिहारकतया व्याख्याने तत्त्वोद्योतटीकायां
इह चशब्देन सूचितं जगद्धर्मिकवैधर्म्यं वैधर्म्यशब्दार्थत्वेनाङ्गीकृत्य दू
षणान्तरसमुच्चयार्थश्चकार इत्युक्तत्वात् तद्विरोध इति वाच्यम् । 'चे
ति दृष्टे विरुद्धताम्। निष्प्रमाणत्वमप्यस्य दर्शयामास विश्वकृत्' इत्यनु
व्याख्यानोक्तरीत्या मानाभावप्रत्यक्षविरोधरूपदूषणान्तरसमुच्चायक
स्यापि चशब्दस्य बाधकप्रमाणाभावरूपार्थत्वस्यापि सम्भवेन विरो
धाभावात् । परं तु वैधर्म्यधर्मिव्यत्यासमात्रं । तच्च न प्रमेयविरुद्धम् ।
अस्तीत्यनन्तरं यत इति शेषः । अस्यातोऽपि न स्वप्नादिवदिति पूर्वे
णान्वयः ॥ ८ ॥
॥ इति असदधिकरणम् ॥
— * —
९. अधिकरणम् ॥
( १ ) एतदधिकरणप्रतिपाद्यं दर्शयति—विज्ञानवादमिति ॥ चतु
र्विधेषु सौगतेषु मध्ये वैभाषिकसौत्रान्तिकमाध्यमिकेषु त्रिषु निरस्ते
षु अधुना क्रमप्राप्तं तुरीयं विज्ञानपरिणतं तन्मात्रमेवेदं जगत् न तु त
तोऽतिरिक्तमिति वदतां योगाचाराणां वादं मतं निराकरोत्यस्मिन्नधि
करणे सूत्रकृदित्यर्थः । नित्यं निरञ्जनं विज्ञानतत्त्वमेव खलु विद्यमानं
तन्मात्रमेवेदं जगत्, न तु ततोऽतिरिक्तमस्ति। तथा च ततएव जगदु
दये नेश्वरेण कृत्यमित्ययुक्तं तस्य जगत्कारणत्वलक्षणमिति प्राप्ते सि
द्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—नेति । विज्ञानमात्रं तद्रूपमेव जगत्
न ततोऽतिरिक्तमस्तीति न युक्तमित्यनेन न भाव इति साध्यांशः साव
धारणं कृत्वा जगत्पदाध्याहारेण च व्याख्यातः। भावशब्दस्य विज्ञाना
र्थकत्वं च भवतेरनुभवार्थत्वात् उपसर्गा हि धातुलीनस्यार्थस्य व्य
ञ्जका एवेति सुधोक्त्या सिद्धं । प्रसिद्धज्ञानपदं विहाय भाव इत्युक्ति
स्तु परमते भवतीति भाव इति व्युत्पत्त्या भावशब्देन सद्विवक्षि