पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 556, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - २७. ] दीपिकासहितम्. ५०९
( २ ) सू—ॐ ॥ उदासीनानामपि चैवं सिद्धिः ॥ ॐ ॥ २७ ॥
असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जिता-
नां खपुष्पादीनामपि सकाशात्कार्यसिद्धिः ।
अहेतोरीश्वरादौ व्यभिचारो निरस्तः । अस्य हेतुसाधकहेतुत्वाभ्युप-
गमेन साक्षाद्धेतुत्वानभ्युपगमात् । अत एव तत्त्वप्रदीपे—प्रमाणेनादृ-
ष्टत्वादित्येवोक्तम् ॥
( २ ) नन्वदृष्टमपि जगत्कारणत्वं शून्यस्याभ्युपगतं चेत्को दोषः ।
ननूक्तमदृष्टत्वादेव अप्रामाणिकत्वान्नाङ्गीकारार्हतेति, न अदृष्टत्वेन दृ-
ष्टानुमानानुपपत्तावपि सामान्यतो दृष्टवोपपत्तेः । कारणस्य हि का-
र्यवत् वस्तुत्वेन सत्त्वे निषिद्धे कार्यत्वेन हेतुनाऽसत एव जन्म सेत्स्य-
तीत्याशङ्कापरिहाराय