सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 544, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 544

[ अधि-६. सू-१७. ] दीपिका सहितम्. ४९७
नित्यत्वे परमाणूनां तद्गतसर्वंनित्यत्वं स्यात् । विशेष
प्रमाणाभावात् । अनित्यत्वे कारणाभावात्तदुत्पत्त्य
भावः ॥ १६ ॥
( ११ ) सू—ॐ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ ॐ ॥ १७ ॥
षेति । परमाणूनामनित्यत्वाभावसाधकस्यावयवित्वकृतकत्वाभावरू
पस्य विशेषप्रमाणत्वेन पराभिमतस्य पक्षीभूतेषु परमाणुष्वभावादि
त्यर्थः । रूपादिमत्त्वादेव तत्सिद्धेरिति भावः। अनित्यत्वपक्षमनूद्य तत्र
दोषादित्युक्तदोषे योजयति—अनित्यत्व इति । परमाणूनामिति वर्तते।
तथा च परमाणूनामनित्यत्वे तेषां कारणाभावात्समवायिकारणाभा
वादुत्पत्त्यभावः स्यात् । यतएवमतो द्व्यणुकादेः समवायिकारणाभा
वादुत्पत्तेरप्यभावः स्यात् परपक्षे, अतः सदुष्टः अतः न तद्विरोधः प्रकृ
तार्थस्येत्यावृत्त्या योजना । अत्र सूत्रे चशब्दोऽप्यर्थे । न केवलमेकप
क्षे दोषः, किन्तु पक्षद्वयेऽपीति समुच्चयार्थः । अथ वा—न केवलं
'उभयथापि न कर्म' इत्यत्र पक्षद्वयोक्तदोषात्, किन्त्वपसिद्धान्तदोषा
च्चेति समुच्चये चशब्दः । अन्यथा परमाणु नित्यत्वे नित्यमेव कार्यं
स्यादिति दोषस्योक्तत्वात्, अनित्यत्वेऽपीश्वरेच्छान्यायेन मूलकारणा
भावापसिद्धान्तयोरर्थसिद्धत्वात्, उक्तार्थाभ्यामुभयत्र दोषावगमा
दिदं सूत्रं व्यर्थमेव स्यात् । अतएव तत्त्वप्रदीपे—प्रथमं श्रुत्यर्थाभ्या
मवगतदोषद्वयपरतयेदं सूत्रं व्याख्यायानन्तरं अथवोभयत्रापसिद्धा
न्ताख्यं दूषणान्तरमुच्यत इति पक्षान्तरपरतया व्याख्यातम् । न च व्य
वधानाद्योगः। यतोऽत्र निमित्तं 'एवं परमाणूनाम्' इत्यवतारिकाटीका
यां सङ्गतिविशेषाख्यं पूर्वसूत्रस्याभिहितं, तथास्य सूत्रस्य ननु रूपा
दिमत्त्वेपीत्यनेन विशेषाशङ्कारूपा सङ्गतिरपि तत्त्वप्रदीपटीकयोः प्र
दर्शितेति ध्येयम् ॥
( ११ ) एवं प्रपञ्चेन दूषिते परमाण्वारम्भवादमप्रामाणिकत्वेनापि
दूषयत्सूत्रं पठित्वा व्याचष्टे—अपरिग्रहाच्चेति ॥ श्रुतीति । श्रुतिस्मृत्य
नुकूलत्वाभावात् तद्विरुद्धत्वाच्चेत्यर्थः। परमाण्वारम्भवादस्येति प्रकर
णालभ्यते। न केवलं पूर्वोक्तहेतुभ्य इति चार्थः। अनेन पूर्वोक्तहेतूनाम
नपेक्षेति साध्येनान्वयः इति सूचितम्। अत्र आद्यव्याख्याने सूत्रे अप
रिग्रहादित्यस्य असूर्यं पश्या राजदारा इति वदसामर्थ्येऽपि समासं
निर्मक्षिकमित्यादाविव अव्ययत्वं वा आश्रित्य श्रुत्यादिपरिग्रहाभावा
६३

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 544, कुल 1267 में से · SarvaKosh