पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 554, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २५. ] दीपिकासहितम्. ५०७
( १२ ) सू-ॐ ॥ अनुस्मृतेश्च ॥ ॐ ॥ २५ ॥
ज्ञयाऽन्वयः। अत्र वाद्युक्तानुमाने प्रतिपक्षानुमाने च पक्षसाध्यहेतुदृष्टा
न्तानां समुच्चये अर्थापत्त्यनुमानसमुच्चये च सौत्रश्चशब्दः। तथा चा
यं सूत्रार्थः-यदि दीपादौ विशेषात् क्षणिकत्वस्य सिद्धत्वादन्यत्रा
पि तद्दृष्टान्तेन तदनुमीयते । तर्ह्याकाशेऽविशेषात् स्थायित्वस्य सिद्ध
त्वेन तद्दृष्टान्तेन सत्त्वहेतुनैवाक्षणिकत्वमप्यनुमीयेत। सत्त्वहेतोराका
शे दीपादौ नीलिमादौ चाविशेषात् । अतः सत्त्वहेतोः स्वेनैव प्रतिप
क्षितत्वान्नानेनापि क्षणिकत्वसिद्धिः, न केवलमर्थापत्त्येति॥
( १२ ) एवं प्रतिपक्षेण सत्त्वानुमानं निरस्य प्रमाणबाधेनापि निरा
कुर्वत्सूत्रं पठित्वा व्याचष्टे--अनुस्मृतेरिति ॥ तदेवेदमिति प्रत्यभिज्ञा
नादिति । यद्दृष्टपूर्वं तदेवेदं घटादीति पूर्वोत्तरदेशकालसम्बन्धिनोरे
क्यविषयकप्रत्यभिज्ञानादित्यर्थः । स एवाहमित्यनुक्त्वा तदेवेदमिति
जडविषयकप्रत्यभिज्ञाप्रदर्शनं न परमत इवात्ममात्रस्थायित्वपरमिदं
सूत्रमिति प्रदर्शनाय । चशब्दः पूर्वहेतुसमुच्चये । अस्यापि पूर्वसाध्ये
नान्वयः। उक्तं हि चन्द्रिकायां-सप्तमाष्टमयोः क्षणभङ्गविरोधिस्था
यित्वरूपैकसाध्यान्वयस्य सम्भव इति। ननु परिलूनपुनर्जातकुन्तल
कलापे सोऽयं कुन्तलकलाप इति प्रत्यभिज्ञायाः इवास्याः प्रत्यभिज्ञायाः
भ्रान्तित्वाङ्गीकारान्न तद्बाधः सत्त्वानुमानस्येत्यतः तत्र प्रत्यभिज्ञाया
थार्थ्यसूचकानुपदसूचितं दोषमविशेषादिति हेतुमापाद्यापादकोपस्का
रपूर्वकमाह-प्रत्यभिज्ञाया इति । 'भ्रान्तित्वे' बाधकं विनाऽपि भ्रा
न्तित्वकल्पने 'विशेषदर्शनस्यापि' दीपादौ क्षणिकत्वसाधकतयोक्त
परिमाणभेदादिदर्शनस्यापि । अपिः समुच्चये । 'भ्रान्तित्वं' स्याद्
विशेषादिति शेषः । ननु तत्त्वद्योतटीकायामनुस्मृतेश्च