पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
४७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
सू-ॐ ॥ सर्वधर्मोपपत्तेश्च ॥ ॐ ॥ ३८ ॥
गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवा
[ त्र शङ्का ।
विरोध उच्यते । ननु सर्वेषां युक्तिविरोधानां परिहृतत्वात्किमुत्तरसू-
त्रेणेत्यत एतत्सूत्रतात्पर्यमाह—अवशिष्टैरिति ॥ पूर्णत्वमितिशेषः । त-
था च विशिष्यप्रतिपादितेभ्यः स्रष्टृत्वादिगुणेभ्यः अवशिष्टैः सर्वगुणैः
प्रतिपादितैः पूर्णत्वं 'उपसंहरति' निगमयत्यत्रेत्यर्थः । इदमुकं भवति-
पूर्वाधिकरणेषु विष्णोः प्रत्येकमेकैकगुणविषये दोषाभावविषये च वि-
रोधं परिहृत्य तत्समर्थनं कृतम् । तेभ्योऽवशिष्टाः ये सर्वगुणा दोषा-
भावाश्च तत्र सामान्यतो युक्तिविरोधपरिहारेण तान् समर्थ्य धिष्णोः
सर्वगुणपूर्णत्वविषयं सर्वदोषाभाववत्त्वविषये च प्राप्तयुक्तिविरोधप-
रिहारेण तत्प्रकरणमत्राधिकरणे समापयति सूत्रकार इति । यथोक्तं
प्रमेयदिपे 'उपसंहरति' प्रकरणं समापयतीति । अत्र भाष्ये तृती-
या द्वितीयार्थे । समर्थ्य पूर्णत्वमितिपदद्वयमध्याहार्यमिति ध्येयम् ।
न विष्णोस्सर्वगुणपूर्णत्वं युक्तं, चेतनत्वात् जीववत्, अन्यथा
ऽन्यस्यापि तत्स्यादविशेषादितिप्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्या-
चष्टे—सर्वैति । इति सर्वधर्मोपपत्तेरिति । एवंरूपसर्वधर्मोपपाद-
कश्रुतेरित्यर्थः । क्वचित् 'सर्वगुणोपपत्तिश्रुतेश्च' इतिपाठः । गुणे
तिधर्मशब्दव्याख्यानम् । न केवलं स्वातन्त्र्यादिना विष्णोः सर्वे
धर्मोपपत्तिः, किन्तु 'गुणाः श्रुताः' (सौपर्णश्रुतिः) इति सर्वधर्मो-
पपादकश्रुतेश्चेति समुच्चये चशब्दः । तत्त्वप्रदीपे तु—'इति सर्व-
गुणोपपत्तिश्रुतेः' कयाऽपि विधया दोषाभावश्रुतेश्चेति चशब्दार्थ
उक्तः । अस्य हेतोः चशब्दसूचितेन नायुक्तं विष्णोः पूर्वत्वमि-
तिसाध्येनान्वयः । चेतनत्वं त्वप्रयोजकं श्रुतिविरुद्धं चेति भावः । सू-
त्रार्थस्तु स्पष्टः । वेदे 'श्रुता गुणाः' अणुत्वमहत्वादिशुभधर्माः 'सु-
विरुद्धाश्च' लोकदृष्ट्याऽतिविरुद्धाः अन्यत्र सहादृष्टा अपि 'देवे' ह-
रौ सन्त्येव, न तु तेषां विरुद्धतया मिथ्यात्वं कल्पनीयमित्यर्थः । न के-
वलं विरुद्धा इत्यपिशब्दार्थः । एवं हरौ 'अश्रुताः' वेदानुक्ताश्च रमा-
चतुर्मुखवाणीचिन्त्या गुणास्सन्ति । तर्हि यावन्तो रमादिभिश्चिन्तयि-
तुं शक्यन्ते तावन्त एव गुणाः किमित्यतो नेत्याह—अचिन्त्या इति ।
यथा रमादिभिश्चिन्त्यास्सन्ति, तथा तैरचिन्त्याश्च गुणाः सन्तीत्यर्थः।
[ अधि - ११. सू - ३८. ] दीपिकासहितम्. ४७५
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि त
[ था प्रतीताः ॥
इति सर्वधर्मोपपत्तेरिति ॥ ३८ ॥
—: ❖ :—
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये द्वितीयास्याध्यायस्य
प्रथमः पादः.
॥ ॐ ॥
—
ननु यथा गुणाः श्रुताः चिन्त्या अचिन्त्याश्च देवे सन्ति तथा दोषा अ
पि किमित्यतो नेत्याह—दोषा इति । देवे दोषाः श्रुता एव न सन्ति,
नापि चिन्त्याः, किमुपुनरचिन्त्या दोषान सन्तीति वक्तव्यमित्यर्थः। ननु
कथं न दोषाः श्रुताः ‘जनितोत धिष्ण्येः’ ( ) इत्यादौ प्रती
तैरित्यत आह—अज्ञैरिति । मिथ्यादृग्भिर्हि तथा श्रुता इति सन्तीति च
प्रतीताः, न तु ज्ञानिनामित्यर्थः । अयं चार्थस्तत्त्वप्रदीपन्यायदीपिकासू
क्तः। न चाश्रुता रमादिचिन्त्याः सन्ति चेत् ‘अनुक्तं पञ्चभिर्वेदैर्न च
स्त्वस्ति कुतश्च न’ इत्युक्तिविरोध इति वाच्यम् । सामान्यतः श्रुताः
विशिष्याश्रुता इत्यर्थस्येह विवक्षितत्वेन विरोधाभावात् । इयं च गी
तातत्पर्योक्तरीत्या ऋग्वेदे सौपर्णशाखाश्रुतिः । गीताभाष्ये तु इयं
जाबालिखिलश्रुतिरित्युक्तम् । सुपर्णदृष्टाया अपि श्रुतेर्जाबालिदृष्टत्वस
म्भवादविरोधः ॥ ११ ॥
॥ इति सर्वधर्मोपपत्त्यधिकरणम् ॥
—❦—
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि
कायां द्वितीयाध्यायस्य प्रथमः पादः.
॥ ॐ ॥
—
४७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
१. अधिकरणम् ॥
( १ ) इतरेषां चानुपलब्धैरिति सामान्यतो निराकरणं सम
यानां कृतम् । विशेषतो निराकरोत्यस्मिन् पादे ।
( २ ) अचेतनप्रवृत्तिमंतं प्रथमतॊ निराकरोति—
( ३ ) सू— ॐ ॥ रचनानुपपत्तेश्च नानुमानम् ॥ ॐ ॥ १ ॥
१. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति—इतरेषामिति ॥ तानिति शेषः । तथा
च ‘ इतरेषां चानुपलब्धेः ’ इति सूत्रे येषां समयानां दर्शनानां तदुक्त
फलानुपलब्ध्याऽनाप्तोक्तत्वेन च लिङ्गेन निराकरणं कृतम् । तान् क-
पिलकणादादिसमयान् निराकरोत्यस्मिन् पादे सूत्रकार इति योज-
ना । ननु प्राङ्गिराकृतानां पुनर्निराकरणं व्यर्थमित्यत आह—सामान्य-
तो विशेषत इति । योजना तु सामान्यतो विशेषत इति पदद्वयप्रक्षेपे-
ण पूर्ववदेव । तथा च प्राक्सामान्यतो निराकरणं कृतम् । नैतावता-
धिकारिणश्शास्त्रे निःशङ्का प्रवृत्तिर्युज्यते । तेषामनादिकालाद्यनुवृत्त-
त्वात्प्रतीतिसुन्दरत्वाच्च । अतोऽधिकारिणो निःशङ्कप्रवृत्त्यर्थं प्राङ्गिराकृ-
तानेव समयान्विशेषतया एकैकपक्षानुवादेन निराकरोत्यस्मिन्पादे इ-
ति न वैय्यर्थ्यमिति भावः ॥
( २ ) एतत्पादीयाद्याधिकरणार्थं दर्शयति—अचेतनेति ॥ ईश्व-
रनिरपेक्षाचेतनप्रकृतेरेव महदादिकार्यकरणे प्रवृत्तिरिति यन्निरीश्वर-
साङ्ख्यमतं तत् ‘प्रथमतः’ अस्य पादस्य प्रथमेऽधिकरणे निराकरोति
सूत्र कृदित्यर्थः । इतरसमयापेक्षया प्रबलत्वादतिविरोधित्वादतितुच्छ-
त्वाच्चेति भावः ॥
( ३ ) अत्र नानुमानमित्यंशव्याख्यानेनैव पूर्वपक्षः प्रदर्शितो भव-
तीत्याशयेन तमप्रदर्श्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—रचनेति॥
रचनानुपपत्ते रित्यस्यैकपदत्वे तदन्वययोग्यपदं दर्शयति—अचेतन-
स्येति । हेतुगर्भविशेषणमेतत् । प्रधानस्येति विपरिणामेनाकृष्यते । र-
चनेत्यस्य भिन्नपदत्वेऽत्र स्वतःप्रवृत्तीत्येकं पदम् । तथात्वे बहुव्री-
हिः । प्रधानमित्यनेनान्वेति । अनुपपत्तेरित्यत्र नञ् विरुद्धार्थः । स्वम-
तेऽपीश्वरप्रेरितचेतनप्रवृत्त्यभ्युपगमाद्धितं भेतादित्यत उक्तं —स्वत इ-
ति । ईश्वरनिरपेक्षस्येत्यर्थः । प्रवृत्तेर्यत्नः रचनपदव्याख्यानमेतत् । 'अ
[ अधि - १. सू - २. ] दीपिकासहितम्. ४७७
अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं
प्रधानं जगत्कर्तृ ।
(४) चशब्देन प्रमाणाभावं दर्शयति ॥ १ ॥
(५) सू—ॐ ॥ प्रवृत्तेश्च ॥ ॐ ॥ २ ॥
नुपपत्तेः' उपपत्तिविरुद्धत्वात् । अनेन सूत्रे अचेतनस्य स्वतःइति शेषः
कार्यः। नेत्यस्य रचनेत्यनेन संबंधभाष्ये स्वतः प्रवृत्तीत्यत्रापि अन्वयः। सू
त्रे अनुमानमिति वा आनुमानमिति वा छेदं अनुमीयत इत्यनुमानमिति
व्युत्पत्तिं जगत्कर्तृ इत्यध्याहारं चाश्रित्य पर्यवसितार्थमाह—अनुमाने
ति । 'परिकल्पितं' सिद्धम् । प्रधानमिति शेषोक्तिः । अनेन नानु
माने प्रधानं जगत्कर्तृ इति प्रतिज्ञान्तरं दर्शितम् । तथा चेत्थं सूत्र
भाष्ययोजना—अनुमानं महदादिकं सदसदृशकारणं कार्यत्वात्
पटवदित्यनुमानेन सिद्धं प्रधानं न जगत्कर्तृ । कुतः ? यतो नास्य
रचना न प्रधानं स्वतःप्रवृत्ति ईश्वरनिरपेक्षप्रवृत्तिमत् । न चासि
द्धिः । अचेतनस्य रचनानुपपत्तेः । रचनायाः स्वतःप्रवृत्तेरचेतन
त्वोपपत्तिविरुद्धत्वात् । अनेन प्रधानस्य स्वतः प्रवृत्त्यभावे अचे
तनत्वाख्यहेतुसूचनादसिद्धिः परिहृता । तद्विरुद्धोपपत्तेरेव तद्
भावसाधकत्वात् । यद्यद्विरुद्धं लिङ्गं तत्तदभावसाधकं यथा नित्यत्व
विरुद्धकृतकत्वमनित्यत्वसाधकमितिव्याप्तेः । यद्यपि नानुमानमुपपत्ते
रिति सुवचम्, सर्वस्यापि हेतोः सङ्ग्रहात् । तथापि विरोधिहेतुप्राब
ल्यसूचनाय विरोधस्फोरणाय चैवमुक्तम् । अतएवाचेतनस्येति पद
मध्याहृतम्, असम्भवादित्यनुक्त्वाऽनुपपत्तेरिति चोक्तम् ॥
(४) प्रामाणिकं प्रधानस्य कर्तृत्वं न युक्त्या निराकर्तुं शक्यमि
त्यतः प्रवृत्तस्य सौत्रचशब्दस्यार्थमाह—चशब्देनेति ॥ प्रमाणाभावमि
ति । वादिनो हैतुकत्वेनात्र प्रमाणशब्दोऽनुमानपरः । वस्तुस्थितिकथ
नार्थं सामान्योक्तिः । अचेतनस्य स्वतः प्रवृत्तौ जगत्कर्तृत्वे चेति शे
षः । 'दर्शयति' समुच्चिनोति सूत्रकृदित्यर्थः । अनेन न केवलं प्रकृति
कर्तृत्वे स्वतःप्रवृत्तौ च प्रमाणविरोधः, अपि तु प्रमाणाभावश्च । न चा
नुमानं मानम्, 'रचनानुपपत्तेः'अनुमानरचनानुपपत्तेः कार्यत्वाद्यनुमा
नं तु कारणतामात्रसाधकतया सिद्धसाधकत्वान्न प्रकृतोपयोगीति सू
त्रस्य वृत्त्यन्तरं दर्शितं भवति ॥
(५) एवं प्रधानस्य स्वतःप्रवृत्तिकर्तृत्वे अचेतनत्वस्वतःप्रवृत्ति
४७८ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - २.]
चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ २ ॥
( ६ ) सू—ॐ ॥ पयोऽम्बुवच्चेत्तत्रापि ॥ ॐ ॥ ३ ॥
पयोऽम्बुवदचेतनस्यापि प्रवृत्तिर्न युज्यत इति न युक्तम् ।
'एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यस्स्र-
न्दन्ते याश्च श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यांयां च दिश-
शून्यत्वप्रमाणाभावैः निराकृत्य युक्त्यन्तरेणापि तन्निराकुर्वत्सूत्रमुपन्य-
स्य व्याचष्टे—प्रवृत्तेश्चेति ॥ चेतनस्येति सावधारणम् । तथा च 'चे-
तनस्य' एव कुलालादेर्घटादिसृष्टौ 'प्रवृत्तेः' व्यापारस्य 'दर्शनात्'
अहं करोमीत्यनुभवसिद्धत्वादित्यर्थः । अचेतनस्यापि चेतनाधीनप्रवृ-
त्तिदर्शनाद्व्यभिचारपरिहाराय 'स्वतः' इत्युक्तम् । चेतननिरपेक्षेत्य-
र्थः । अनेन सूत्रे चेतनस्य स्वतो दर्शनादितिपदत्रयमध्याहार्यमिति सू-
चितम् । चशब्दो न केवलमचेतनत्वसाधितस्वतःप्रवृत्तिशून्यत्वाख्या-
नुमानात्, नापि प्रधानकर्तृत्वसाधकप्रमाणाभावान्नानुमानं जगत्कर्तृ,
किन्तुमहदादिसृष्टिश्चेतनेच्छानुसारिणी सृष्टित्वाद्धटादिसृष्टिवदित्य-
नुमानान्तरविरोधाच्चेति हेतुसमुच्चयार्थः । न चेदं कथं सूत्रोक्तमिति
वाच्यम् । चेतनस्य ज्ञातुः प्रवृत्तेरित्यनेनास्योक्तत्वात् । प्रवृत्तिर्हि क्रि-
या, सा च कृतिं विना नोपपन्ना । सा च नेच्छां विना । सा च न ज्ञा-
नं विनेति प्रवृत्त्यादिकार्याणां स्वस्वकारणाविनाभूतत्वेन प्रवृत्त्या इ-
च्छापूर्वकत्वसाधनसम्भवात् । दर्शनादित्यस्य न दृष्टान्ते साध्यवैक-
ल्यमित्यध्याहृतसाध्येनान्वयः ॥
( ६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—पयोऽम्बुवदि-
ति ॥ अचेतनस्येत्यनन्तरं प्रधानस्येति शेषः । चो विशेषणसमुच्चये ।
यद्यपि तथापीत्यर्थे, न केवलं चेतनस्य किं त्वचेतनस्यापीतिसमुच्चये
वाऽपिशब्दः । सूत्रे व्यस्तस्य रचनेत्यतोऽनुवृत्तस्य रचनाशब्दस्यार्थ-
माह—प्रवृत्तिरिति । युज्यत इति शेषोक्तिः । तथा चेत्थं पूर्वपक्षांशा-
र्थः—यथाऽचेतनस्य पयसः क्षीरस्य दध्याकारेण परिणामः अम्बुनो
जलस्य गतिश्च दृष्टा। तथा अचेतनस्यापि प्रधानस्याचेतनत्वेऽपि रचना
स्वतःप्रवृत्तिर्युज्यत इति चेदिति । अनेन. सिद्धान्त्युक्ताद्यानुमानस्य
प्रत्यनुमाने पक्षसाध्यहेतुदृष्टान्तप्रदर्शनेन प्रतिपक्ष उक्तो भवति । व्या-
सत्यभिधानायानेकदृष्टान्तोपादानम् । स्वतः परिणामे पयः, अम्बु तु प्र-
वृत्तिमात्रे दृष्टान्त इति केचित् । अनेन सिद्धान्तिहेतोर्व्यभिचाराभिधा-
[ अधि - १. सू - ४. ] दीपिकासहितम्. ४७९
मनु' (बृ. ५-८-९.) 'एतेन ह वाव पयो मण्डं भवति'
( ) इत्यादि तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥३॥
(७) सू—ॐ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ॐ ॥ ४ ॥
'न ऋते त्वत्क्रियते किञ्चनारे' (ऋ. १०-११२-९.) इति
नायाभिहिते पयोऽम्ब्वादौ स्वतःप्रवृत्त्यभावरूपप्रथमसाध्यस्याभावो
दर्शितः । अचेतनस्येत्यनेन हेतुरपि । तथा चाचेतनत्वहेतोः स्वेनैव
सत्प्रतिपक्षिक्षतत्वात्पयोऽम्ब्वादौ व्यभिचारित्वाच्च न साधकत्वमिति भा
वः । सौत्रापिपदं नञस्समाकर्षकमिति भावेनाह — नेति । इत्यादी
त्यविभक्तिको निर्देशः । इत्यादावित्यर्थः । 'तत्रापि' पयोऽम्ब्वादावपि
न केवलं प्रधान इत्यपिशब्दार्थः । सौत्रापिशब्दः ईश्वराख्यचेतनाधीन
प्रवृत्तेराकर्षकश्चेति भावेनाह — ईश्वरनिमित्तेति । पूर्वसूत्राध्याहृतस्य
दर्शनादित्यस्य इहानुवृत्तिः कार्येतिभावेन तदर्थमाह—श्रुतेरिति । त
थाच पूर्ववाद्युक्तप्रत्यनुमानदृष्टान्ते पयोऽम्ब्वादौ सिद्धान्त्यभिमतसाध्य
स्यैव सत्त्वान्न तदनुमानस्य सत्प्रतिपक्षता न वा व्यभिचार इति भा
वः । श्रुतेः प्राबल्यात्तत्क्रमानुसारेण सौत्रक्रमातिक्रमः कृतः। अन्यथा ए
तेनेति वाक्यमादावुदाहरेत् । बृहदारण्यके एतस्यवेत्येकं वाक्यम् । ए
तेनेत्यन्यत्तत्रैव । तदर्थस्तु—याः अन्याः विलक्षणाः काश्चित्प्राच्यः
प्राच्यां दिशि स्थिताः याश्चान्याः काश्चित्प्रतीच्यः प्रतीच्यां दिशि
स्थिताः नद्यः श्वेतेभ्यः तन्नामकपर्वतेभ्यः । बहुवचनमाद्यर्थे । सकाशा
दिति शेषः । यां यां दिशमनुस्यन्दन्ते स्रवन्ते ताः नद्यः एतस्याक्षर
स्य भगवदाख्यस्य प्रशासने । निमित्तसप्तमीयम् । आज्ञामात्रान्तां तां
दिशमनुस्यन्दन्ते । एतेन भगवता पयः क्षीरं मण्डं दधि भवति तद्रू
पं भवति । यद्वा—मण्डं दधिभावं भवति प्राप्नोति दध्युपादानं भवती
ति वेति ॥
(७) ननु श्रुतिसामर्थ्येन पयोऽम्बुनोः प्रवृत्तेरीश्वराधीनतया तत्र
व्यभिचाराभावेपि अयस्कान्तशिलादिरूपाचेतनान्तरस्य प्रवृत्तौ सि
द्धायां भविष्यति तत्र व्यभिचारः सेत्स्यति च प्रधानस्य स्वतः प्रवृ
त्तौ साध्यायामयस्कान्तादिकमेव निदर्शनं उदाहरणनियमस्यान्याश्रय
णीयत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—व्यतिरेकेति ॥ इ
र्त्यनन्तरं श्रुत्येति अनवस्थितेरित्यनन्तरं सिद्धत्वादिति च शेषः ।
यद्वा—इत्यनवस्थितेरसत्त्वश्रुतेरित्यर्थः । तद्व्यतिरेकेणेत्यनेनापि पदेन
४८० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेः अनपे
क्षितमेवाचेतनवादिमतम् ॥ ४ ॥
:—*—:
प्रकृत ईश्वरोऽत्र व्यतिरेकप्रतियोगितया संयोज्य इति सूचितम् । सौ
त्रेश्चशब्दस्यार्थमाह--कस्यापि कर्मण इति । किञ्चित्कर्तृकर्मण इति
व्यधिकरणे षष्ठ्यौ । यदा समानाधिकरण्ये षष्ठ्यौ अपिरभिव्याप्तौ ।
तदा अनवस्थितेरित्यनन्तरं अत इति शेषः । अत इति अनपेक्षितमि
ति चावर्तते । अचेतनेति । अचेतनस्यैव स्वतः प्रवृत्तिरितिवादिनो
मतमित्यर्थः । तथा चेत्थं सूत्रभाष्ययोजना—नर्ते इतीश्वरव्यतिरेकेण
तं विना कस्यापि कर्मणोऽनवस्थितिश्रुतेर्नाचेतनत्वहेतोः कुत्रापि व्य
भिचारः न वा पूर्ववाद्युक्तानुमाने दृष्टान्तलाभः । यतएवमतोऽचेतन
[L
[ अधि - २. सू - ४. ] दीपिकासहितम्. ४८१
२. अधिकरणम् ॥
( १ ) सेश्वरसाङ्ख्यमतं निराकरोति । यथा पृथिव्या एव प-
र्जन्यानुगृहीतं तृणादिकमुत्पद्यते एवं प्रधानादीश्वरा-
नुगृहीतं जगदिति ।
( २ ) अतो ब्रवीति—
२. अधिकरणम् ॥
( १ ) एतदधिकरणार्थं दर्शयति—सेश्वरेति ॥ प्रधानमेव जगत्क-
र्तृ, तस्य गुणभूतत्वेनेश्वरोऽस्तीति वदन् सेश्वरः, स चासौ साङ्ख्यश्च
तस्य पतञ्जलेर्मतं निराकरोत्यस्मिन्नधिकरणे सूत्रकृदित्यर्थः । सिद्धा-
न्तप्रतिज्ञापरेण न तृणादिवदित्यनेन सूचितं पूर्वपक्षमाह—यथेति । पृ-
थिव्या इति पञ्चमी । उपलक्षणमेतत् । कलमादिबीजाच्चेत्यपि द्रष्टव्य-
म् । एवशब्दस्योत्तरत्राप्यन्वयः । प्रधानपदं पुरुषस्याप्युपलक्षकम् ।
तथा च—यथा स्वाधीनोपादानत्वशक्तिमत्या एव केवलायाः पृथि-
व्याः, न पुनर्वेदवादिन इव ईश्वराधीनत्वशक्तिमत्याः, एवं स्वाधीनबी-
जत्वशक्तियुक्तात्कलमादेश्च सकाशात् स्वोत्पत्तौ पृथिव्यनुग्राहकेण त-
त्सन्निधिमता तदनुकूलेन पर्जन्येनानुगृहीतं तदनुग्रहसहितं तत्क-
र्तृकस्वोत्पत्तीच्छाविषयीकृतं 'तृणादिक'मङ्कुरादिकमुत्पद्यते । तथा प्र-
धानात्स्वाधीनोपादानत्वशक्तियुक्तादेव केवलात्, न पुनरीश्वराधीनश-
क्तियुक्तात् । एवं देहादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः
स्वाधीनतच्छक्तियुक्तात्पुरुषाच्च स्वोत्पत्तौ स्वोपादानभूतप्रकृत्यनुग्रा-
हकेनेश्वरेणानुगृहीतं तत्कर्तृकस्वोत्पत्तीच्छाविषयीकृतं जगदुत्पद्यत
इत्यर्थः । तथा चेश्वरस्य प्रेरकत्वबीजावापकर्तृत्वाभावेऽपि सन्निधिमा-
त्रेण प्रकृत्यनुग्राहकत्वमस्त्येवेति तदर्थमीश्वरोऽङ्गीकार्य इति न तद्वैय-
र्थ्यशङ्केति भावः । अत्र दृष्टान्तदार्ष्टान्तिकयोः कार्ये पर्जन्येश्वरानुग्रहो-
क्तिः कारणेऽपि तदनुग्रहोपलक्षणार्था । सिद्धान्ते सौत्रचशब्देन तस्य
व्यावर्तनात्प्रकृत्यनुग्रहशक्तिरेवेश्वरस्येति पतञ्जलिनाऽङ्गीकारादिति सु-
धोक्तेश्चेति ध्येयम् ॥
( २ ) सिद्धान्तवत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ श्रुत्युदाहर-
णेन हेतुसिद्धिः परिहृता । 'अन्यत्र' ईश्वरात् 'राज्ञि राष्ट्रं' इतिव-
त्, अन्यत्राभावादित्यस्यान्याधीनत्वेनाभावादित्यर्थः । अवगमोपलक्ष-
६१
४८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २, पा - २, ]
सू—ॐ ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ॐ ॥ ५ ॥
( ३ ) ‘यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः ॥
ब्रह्मण्येवेदमाविरासीद्ब्रह्मणि स्थितं ब्रह्मणि लयमध्यु
पैति ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्टाद्ब्रह्म मध्यतो ब्रह्म सर्व
तः’ ‘ब्रह्मैवेदं सर्वम्’ ( बृ.४-५-१० ) इत्यादिश्रुतिभ्योऽ
न्यत्र जगतोऽभावात्तृणादीनां पर्जन्यवन्नानुग्राहक
त्वमात्रमीश्वरस्य ।
( ४ ) स एव भूयो निजवीर्यचोदितां स्वजीवमय्यां प्रकृतिं
णमेतत् । तथा च इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावावगमादित्यन्व
यः । तृणादिवदिति । तृणादीनामुत्पत्तौ यथा पर्जन्योऽनुग्राहक एव,
न स्वतन्त्रोत्पादकः, तथा जगदुत्पत्तावीश्वरस्यानुग्राहकत्वमात्रं न,
किन्तु स्वातन्त्र्येण तदुत्पादकत्वमेवेत्यर्थः ॥
( ३ ) यच्चेति तैत्तिरीयवाक्यम् । ब्रह्मण्येवेत्यादीनि श्रुत्यन्तरवा
क्यानि। आद्यश्रुतावपिशब्दः क्रियासमुच्चये कर्मसमुच्चये वा । वाशब्दो
ऽनादरे । तथा च नारायणो यत्किञ्चिद्दृश्यते यच्च श्रूयते वा तत्सर्वमपि
जगत्सर्वं सर्वपदार्थानां सत्तादिकं प्रति तत्प्रदानाय व्याप्य । यद्वा-त
दुद्दिश्य सर्वै सर्वथा देशकालगुणशक्तिभिर्व्याप्य तत्प्रेरकतया स्थितः।
न केवलमेतावत, किन्तुजगतोऽन्तर्बहिश्च तद्देशे तद्रहितदेशे च त
त्काले तद्रहितकाले व्याप्य तद्भूतैस्तदभूतैश्च गुणैः शक्तिभिश्च युक्त
स्सन् श्रुत इति तत्त्वप्रदीपटीकादिशा श्रुत्यर्थः । द्वितीयश्रुतावाद्यो ब्र
ह्मशब्दो निमित्तसप्तम्यन्तः। द्वितीयतृतीयावधिकरणसप्तम्यन्तौ। 'इदं'
जगत्'आविरासीत्'अजायत। अनेनेशाधीनोत्पत्तिसत्तादिकमुक्तम्। ब्र
ह्मैवाधस्तादित्यनेनापि सत्ताप्रदानाय सर्वगतत्वमुच्यते । तदधीनसत्ता
कस्य तदधीनत्वं सिद्धमेव । ब्रह्मैव सर्वपदार्थानामधस्तादुपरिष्टान्म
ध्यतः । किं बहुना-'सर्वतः' सर्वत्र च तत्तत्सत्तादिप्रदानाय तत्र तत्रा
स्तीत्यर्थः । ब्रह्मैवेदमितिवाक्यान्तरेणापि इदं जगत् तदधीनसत्ताकमे
वोच्यते ॥
( ४ ) इदानीं सप्रमाणकं सौत्रचशब्दार्थमाह—स एवेति ॥ अत्र स
एवेत्यनेन ईश्वराधीनोद्बोधकत्वं प्रकृतेरुच्यते।'शास्तिकृत्'जगच्छिक्षकः
' 'व' 'ज्' 'ज' 'ग' ... wait, what is the letter after 'ग'?
Is it 'द्'? Yes, it's 'द्' (da with virama).
And line 26 starts with:
'नु' 'ग्रा' 'ह्य' 'मा' 'त्र' 'म्' ','
Wait, let's look at the letter 'नु' in line 26 again.
Is it 'नु'?
Wait! Could it be 'ऽनु'? An avagraha before 'नु'? No.
Could it be 'न'? No, it clearly has a 'ु' hook at the bottom.
So it is literally printed:
दिमत्त्वादिति यावत् । एवं प्रकृत्यादेश्चान्यत्राभावाच्च तृणादिवज्जगद्
नुग्राह्यमात्रम्, नापीश्वरः पर्जन्यवदनुग्राहकमात्रमिति सूत्रार्थ उक्तो
Let's check line 27:
"भवति । द्रव्यमित्येतद्वैषम्याधिकरणे व्याख्यातम् ॥ २ ॥"
Wait, after व्याख्यातम्: ॥ २ ॥
Then line 28:
"इति अन्यत्राभावाधिकरणम् ॥"
Then a decorative flower/asterisk ornament:
※ or similar printer's flower.
Then line 29:
"३. अधिकरणम् ॥"
Then line 30:
"( १ ) अत्राधिकरणार्थं दर्शय
४८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
( २ ) सू- ॐ ॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ॐ ॥ ६ ॥
( ३ ) यस्य धर्माधर्मौ न स्तस्तत्सिद्धान्ते किं प्रयोजनम् ।
चार्वाकाचार्यस्य अयं लोकायतिकः स चासौ पक्षः सिद्धान्तश्च त
मित्यर्थः । लोकायतेनाङ्गीकृत इति वा ॥
( २ ) धर्माद्यतीन्द्रियपदार्थानां तत्साधकश्श्रुत्यादिप्रामाण्यस्य चा
नभ्युपगमात्प्रमाणाभावेनेश्वरस्यैवाभावादान्तरेणापीश्वरं पूर्वपूर्वस्मा
दुत्तरोत्तरवस्तूत्पत्तिसम्भवाच्च तस्य जगत्कारणत्वं युक्तमिति प्राप्ते
सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-अभ्युपगम इति । न केवलं परोपपा
दनेन किन्तु 'अभ्युपगमेऽपि' स्वसिद्धान्तेऽपि तद्रीत्यापि विषयप्रयोजन
योरभावादनारम्भणीयमेव चार्वाकशास्त्रमिति सूत्रार्थः सुधायामुक्तः।
चन्द्रिकायां तु पूर्वसूत्रान्नञोऽनुवृत्तिः। तथा च स्वकीयशास्त्रस्य सि
द्धान्तत्वानभ्युपगमे सिद्धमस्मदिष्टम् । अभ्युपगमेऽपि तत्र तद्व्यापक
योर्विषयप्रयोजनयोरभावाभ्युपगमात् व्याहतिः स्यादिति उभयथा
पि न चार्वाकसिद्धान्तो युक्त इति सूत्रार्थ उक्तः । अत्र सुधापक्षे अ
नपेक्षभवेदित्यस्यावृत्तिः । योजनाद्वयेऽप्यपिशब्दः समुच्चयार्थः विरोधसू
चकश्चेति ध्येयम् ॥
( ३ ) यस्येति॥ सिद्धान्त इत्याकृष्यते। धर्मो यागादिजन्यादृष्टम्। अध
र्मस्तदन्यः स्वर्गादिः । यद्वा--अधर्मः पापं तत्साध्यो नरकश्च । अध
र्मनिवृत्तिप्रयोजनकत्वस्यापि निराकरणार्थमधर्मग्रहणम् । धर्माधर्म
पदाभ्यामतीन्द्रियमात्रमुपलक्ष्यते । सप्तमी षष्ठ्यर्थे । किमाक्षेपे । प्रयु
ज्यते प्रवर्त्यते शास्त्रे अधिकार्यनेनेति व्युत्पत्त्या प्रयोजनशब्देन फल
विषयौ गृह्येते । तथा च-'यस्य धर्माधर्मौ न स्तः' येन धर्माधर्मौ
नाङ्गीकृतौ तस्य वादिनः सिद्धान्ते तेन सिद्धान्तत्वेनाभ्युपगतस्य शा
स्त्रस्य किं प्रयोजनं ? न किमपि विषयादिकमङ्गीकृतमिति योजना ।
सिद्धान्तप्रयोजनपदाभ्यां सौत्राभ्युपगमार्थशब्दौ विवृतौ । ततः कि
मित्यत आह-अत इति । स्वशास्त्रस्य सिद्धान्तत्वाभ्युपगमेऽपि तत्र
तद्व्यापकयोर्विषयप्रयोजनयोरभावाङ्गीकारादित्यर्थः । ततोपि किमि
त्यतो विरोधस्फोरकेण सौत्रापिशब्देन सूचितं हेतुं दर्शयति-स्वेति।
यः सिद्धान्तः असौ प्रयोजनादिमानिति नियमात्सिद्धान्तत्वेन अङ्गी
कृतशास्त्रस्य प्रयोजनाद्यभावमभ्युपगतवतो माता वन्ध्येतिवत्स्ववच
नंविरुद्धवादित्वापातादित्यर्थः । न तत्र युक्त्यन्तरं वक्तव्यमित्येवश
[ अधि - ४. सू - ७. ] दीपिकासहितम्. ४८५
र्थातः स्वव्याहतेरेवोपैक्ष्यः ॥ ६ ॥
४. अधिकरणम् ॥
( १ ) पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति—
( २ ) सू-ॐ ॥ पुरुषाश्मवदिति चेत्तथाऽपि ॥ ॐ ॥ ७ ॥
यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमा
ब्दार्थः । ततः किमित्यतः सूत्रेऽपेक्ष्य इति बुद्ध्या विविच्यानुवृत्तपदेन
मञ्जनुवृत्त्या वा लब्धसाध्यं दर्शयति—उपेक्ष्य इति । स इति विपरि
णामेनानुवर्तते । एवकारोऽत्रापि सम्बध्यते । तथा च स चार्वाकः त
त्सिद्धान्तो वा उपेक्ष्य एव न त्वादरणीयः परिहारायाक्षिप्तो वा । अ
तो न तद्विरोधो विष्णुजगतकारणत्वस्येत्यर्थः ॥ ३ ॥
इति अभ्युपगमाधिकरणम् ॥
:-*-:
४. अधिकरणम् ॥
( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति—पुरुषेति ॥ पुरुषश्चेतनः
प्रकृतिरचेतना । कर्तृरिति भावप्रधानम् । उच्यते अर्थोऽत्रेति वादो मत
म् । तथा चात्राधिकरणे निरीश्वरसाङ्ख्यैकदेशिनां चेतनोपसर्जनका-
चेतनप्रकृतिकर्तृत्ववादिनां मतं निराकरोति सूत्रकारदित्यर्थः ॥
( २ ) पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं ताव
द्व्याचष्टे—पुरुषेति ॥ चेतनसम्बन्धाज्जीवसन्निधानादित्यनेन सूत्रे पु
रुषपदं जीवसम्बद्धशरीरपरमित्युक्तं भवति । एवकारः शरीरमेवेत्य
न्वेति । न तु चेतनमपीत्येवार्थः । अश्मा पाषाणः । आदिशब्दादार्वादि
ग्रहः । ‘आदाय’ तदर्थे प्रवर्तते तत् प्रगृह्य च ‘गच्छति’ गन्तुं प्रवृ
र्तत इति । अनेन अश्मपदं लक्षणया तदादानादिविषयप्रवृत्तिपरमित्युक्तं
भवति । दृष्टान्तवाक्येन सूचितं दार्ष्टान्तिकं दर्शयति-- एवमिति । अ
पिशब्दो यद्यपीत्याद्यर्थे प्रकृतिरपीति समुच्चये च प्रकृतिरेव न ट्वीश्व
र इत्यवधारणे वा । अचेतनमचेतनेतिहेतुगर्भविशेषणाभ्यां सिद्धा
न्त्युक्ताचेतनत्वहेतोः पक्षविपक्षवृत्तित्वोक्त्या तस्य व्यभिचारः, प्रधा
नं चेतनसन्निधानात्स्वतः प्रवृत्तिमत् अचेतनत्वात् शरीरवदिति अ
नुमानरूपप्रतिपक्षश्चोक्तो भवति । तथा च प्रधानादेव जगदुत्पत्तावी
श्वरवैयर्थ्यान्नासावस्ति । तदभावे च तस्य जगत्कारणत्वं नास्त्येव ।
Here is the complete line-by-line transcription in pure Devanagari Markdown with line markers:
४८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
दाय गच्छति। एवमचेतनाऽपि प्रकृतिः पुरुषसम्बन्धा
त्प्रवर्तत इति चेन्न । 'न ऋते त्वत्क्रियते' इति तत्रा
पि तथात्वे दृष्टान्ताभावात् ॥ ७ ॥
(३) सू-- ॐ ॥ अङ्गित्वानुपपत्तेः ॥ ॐ ॥ ८ ॥
शरीरप्रवृत्तौ पुरुषस्याङ्गित्वान्,
शस्यैव जगत्कारणत्वमित्येतद्दूरोत्सारितमिति भावः । एवमनुमानाव
लम्बेन प्राप्ते पूर्वपक्षं प्रतिक्षेप्तुं प्रवृत्तं तथापीति सिद्धान्तांशं नञनुवृ
त्त्या व्याचष्टे—नेति । नानुमानेन प्रकृतेः स्वतः प्रवृत्तिसाधनं युक्तिम
दित्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन तथापीत्यंशमावर्त्याव्ययानामने
कार्थत्वमिति न्यायमनुसृत्य व्याचष्टे—नेति । इतिश्रुतेरितिशेषः ।
'तत्रापि' ईश्वरप्रवृत्तावपि । न केवलं पूर्वोक्तपयोऽम्ब्वादावित्यपिश
ब्दार्थः । तत्रापीति सूत्रपाठेऽप्ययमेवार्थो बोद्धव्यः । 'तथात्वे' परमा
त्माधीनत्वे सिद्धेसतीति शेषः । तथापीत्येतद्दृष्टान्ताभावादित्यनेना
पि सम्बध्यते । तथा च महदादिकार्यकरणप्रवृत्तेः पुरुषोपसर्जन प्रकृ
त्यधीनत्वसाधनेऽपि निरीश्वरोपन्यस्तपूर्वानुमान इव निदर्शनाभावादि
त्यर्थः । अनेन–पुरुषाश्मवत् चेतनोपसर्जनशरीरस्याश्माद्यानयनादौ
स्वतः प्रवृत्तित्त्वत् पुरुषोपसर्जनप्रधानस्यैव महदादिकार्यकरणे स्वतः
प्रवृत्तिः सम्भवतीति ईश्वरवैयर्थ्यम् । तद्भावे चै तस्य जगत्कारणत्व
मपि नास्ति तस्यैव जगत्कारणत्वमित्येतद्दूरोत्सारितमिति चेन्न। कुतो?
यतः पुरुषोपसर्जनप्रकृतिकर्तृत्वे न मानमस्ति । न चोक्तानुमानं मान
म् । यतः तथा श्रुतेः नर्ते इति श्रुतेः । तथापि तत्रापि शरीरप्रवृत्ताव
पि तथैव व्यतिरेकानवस्थितेरित्यनेनोक्तेश्वराधीनत्वमेव सिद्धं अत
एव तथापि पुरुषोपसर्जनप्रकृतिकर्तृत्ववाद्युपन्यस्तानुमानेऽपि तथा
निरीश्वरसाङ्ख्योपन्यस्तपूर्वानुमान इव तथा दृष्टान्ताभाव इति सूत्रा
र्थे उक्तो भवति ॥
(३) एवं श्रुतिलक्षणहेतुना दृष्टान्ते साध्यवैकल्यमभिधाय हेत्व
न्तरेण दृष्टान्ते साध्यवैकल्योपपादनाय सूत्रं—अङ्गित्वेति ॥ अत्राङ्गि
त्वपदं लौकिकपरीक्षकद्वयव्यवहारोपलक्षकम् । तथापीत्यनुषज्यते, पु
रुषस्य चेत्यभिप्रेत्य दृष्टान्ते परोक्तसाध्याभ्युपगमे बाधकतर्कोक्तिपर
तया तद्व्याचष्टे—शरीरेति । यस्मादित्यादौ संयोज्यम् । शरीरप्रवृत्ता
‘अङ्गमङ्गी समादाय यथा कार्यं करोत्यसौ’
इत्यङ्गित्वव्यवहारोऽनुपपन्नः ॥ ८ ॥
—-::-—
५. अधिकरणम्॥
(१) प्रकृत्युपसर्जनपुरुषकर्तृत्ववादमपाकरोति—
सू—ॐ ॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगत् ॥ ॐ ॥ ९ ॥
(२) शरीरसम्बन्धात्पुरुषः प्रवर्तेत इत्यङ्गीकारेऽपि स्वत
नित्यनेन तथापीत्यनुषक्तांशो विवृतः । तथा च यस्मात्पुरुषसंवलित
शरीरस्यैव स्वतः प्रवृत्तावुच्यमानायां पुरुषस्याङ्गत्वार्दप्रधानत्वावश्यं
भावादङ्कमितिस्मृतौ पुरुषस्याङ्गित्वव्यवहारः शरीरं प्रति प्राधान्यव्य
पदेशोऽनुपपन्नः स्यात् । एवं दार्ष्टान्तिकेऽपि पुरुषस्य प्रधानाङ्गत्वोप
त्याङ्गित्वव्यवहारानुपपत्तिरित्यर्थः । अस्य हेतोस्तस्मादपि न शरीर
स्य स्वतः प्रवृत्त्यङ्गीकारो युज्यत इति विपर्ययपर्यवसानलब्धसाध्य
द्वाराऽऽदृशब्दाध्याहारेण दृष्टान्ताभावादिति पूर्वहेतुनान्वयः । एवं सौ
त्रहेतोर्न शारीरस्य स्वतः प्रवृत्तिर्न वा प्रधानस्य । कुतः ? पुरुषस्या
ङ्गित्वव्यवहारानुपपत्तेः । शरीरप्रधानयोरङ्गित्वानुपपत्तेश्च इत्यध्याहृ
तसाध्यमुखेन तथा दृष्टान्ताभावो बाधश्चेति पूर्वसाध्येनान्वयो द्रष्ट
व्यः । वादिनो हेतुकत्वे नोक्तश्रुतावविश्वासात्स्यैकस्यैव हेतुत्वा
त्सूत्रे चशब्दाभावः । स्मृत्यर्थस्तु—अङ्गी प्रधानः पुरुषोऽङ्गं गुणभूतं
शरीरं सङ्गृह्य यथाऽश्माचानयनादि कार्यं करोति तथाऽसौ भगवान
पि प्रकृतिमादाय महदादिकार्यं करोतीति ॥ ४ ॥
॥ इति पुरुषाश्माधिकरणम् ॥
—**—
५. अधिकरणम् ॥
(१) अधिकरणार्थं दर्शयति—प्रकृतीति ॥ प्रधानोपसर्जनकचेत
नकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां वादं मतमस्मिन्नधिकरणे
निराकरोति सूत्रकृदित्यर्थः ॥
(२) सूत्रे पुरुषाश्मवदिति चेदित्युक्तादन्यथानुमितौ चेति योज
नामभिप्रेत्य तमंशं पूर्वपक्षपरतया व्याचष्टे—शरीरेति ॥ चेतनपद
स्थाने शरीरपदस्य शरीरपदस्थाने पुरुषपदस्यैवमचेतनपदस्थाने पु
रुषपदस्य पुरुषपदस्थाने प्रकृतिपदस्य प्रक्षेप्येण यथेत्यादिपूर्वभाष्य
४८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
स्तस्यासामर्थ्याच्छरीरसम्बन्ध एवायुक्तः ॥ ९ ॥
(३) सू-ॐ॥ विप्रतिषेधाच्चासमञ्जसम् ॥ ॐ ॥ १० ॥
सकलश्रुतिस्मृतियुक्तिविरुद्धत्वानीश्वरमतमस
[ मञ्जसम् ।
(४) श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् ।
मत्रापि संयोज्येदं व्याख्येयम् । 'प्रवर्तते' अश्माद्यादाने । इत्यङ्गीका
रेऽपीति। एवमभ्युपगम्य साधनेऽपीत्यर्थः। अनेन विमता प्रवृत्तिरचेत
नोपसर्जनपुरुषाधीना प्रवृत्तित्वादश्मानयनादिप्रवृत्तिवदिति पूर्वपक्ष
साधकानुमानं सूचितम् । अपिशब्दो न केवलं पूर्ववाद्युक्तपक्ष इति
समुच्चये । अनेन सौत्रचशब्दो व्याख्यातः । अपीत्यनन्तरं तथेतिपदं
संयोज्यम् । दृष्टान्ते साध्याभाव इति तदर्थः । कुतोऽसावित्यतस्तत्र
हेतुत्वेन चशब्दादाकृष्टमङ्गित्वानुपपत्तेरिति पदं व्याचष्टे— शरीरेति।
तस्येत्युभयत्रान्वेति । शरीरसम्बन्ध इति सप्तम्यन्तं प्रथमान्तं च । त
त्राद्यस्य तस्य जीवस्य शरीरसम्बन्धेऽप्यसामर्थ्यादित्यन्वयः । द्विती
यस्य युक्तपदेनान्वयः । सुतरां शरीरसम्बन्धेन जीवस्याश्मानयनादि
कार्ये प्रवृत्तिरित्थेवशब्दाथः । शरीरपदं प्रकृतेरप्युपलक्षकम् । कुतः ?
शरीरसम्बन्धानुपपत्तिरित्यतस्तत्र हेतुत्वेन ज्ञशक्तिवियोगादित्यंशं अ
सिद्धिपरिहाराय स्वतः पदाध्याहारेण व्याचष्टे—स्वत इति । स्वात
न्त्र्येणेत्यर्थः। अनेन-अयथा पुरुषाश्मवदित्युकपक्षाद्वैपरीत्येन पुरुषाश्म
वदचेतनसम्बन्धाच्चेतनं प्रवर्तत इत्येवं रूपेणानुमितावुनमानेऽपि तथा
दृष्टान्ते साध्यवैकल्यम् । कुतः ? अङ्गित्वानुपपत्तेर्जीवस्याङ्गपदोक्तश
रीरसम्बन्धित्वायोगात् । सोऽपि कुतः ? ज्ञशक्तिवियोगात् अङ्गसम्ब
न्धेन ज्ञस्य ज्ञातुर्जीवस्य सामर्थ्यायोगादिति सूत्रार्थ उक्तो भवति ॥
( ३ ) एवं प्रत्येकं दूषितान्यनीश्वरमतानि सामान्यविशेषेणापि
निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—विप्रतिषेधादिति ॥ श्रुतीत्यादिना
विप्रतिषेधप्रतियोगिनो दर्शिताः । विरुद्धत्वादित्यनेन विप्रतिषेधशब्दा
र्थ उक्तः । न केवलं उक्तयुक्तिविरुद्धत्वादिति चकारार्थः । अनीश्वरे
ति । न विद्यते ईश्वरो यस्मिन्निति तत्तथोक्तम् । तच्च तन्मतं चेतिवि
ग्रहः । अनीश्वराणां वादिनां मतमिति वा । मतमिति समुदायेकवच
नम् । असमञ्जसमयुक्तमित्यर्थः ॥
.(४) कुतोऽनीश्वरमतानां श्रुत्यादिविरुद्धत्वमित्यत आह—श्रुतय
[ अधि - ६. - सू - ११. ] दीपिकासहितम्. ४८९
वदन्ति तद्विरुद्धं यो वदेत्तस्मान्न चाधमः ॥ इति
[ पाद्मे ॥ १० ॥
—::—
६. अधिकरणम् ॥
( १ ) परमाण्वारम्भवादमपाकरोति ।
( २ ) सू—ॐ ॥ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ॐ ॥ ११ ॥
इति । चशब्दौ मिथः समुच्चयार्थौ । ईश्वरमेव परं स्वतन्त्रं वदन्तीत्य
न्वयः । युक्तिषु वदन्तीत्यस्य साधयन्तीत्यर्थः—श्रुतयः–‘द्यावाभूमी
जनयन्’ (श्वे. ३ - ३.) ‘यतो वा’ (तै. ३ - १.) ‘यस्सर्वज्ञः’
(मुं.१-१-९.) इत्याद्याः । स्मृतयः—‘उत्पत्ति स्थितिसंहाराः’ ‘स्र
ष्टा पाता तथैवात्ता’ इत्याद्याः ।—युक्तयः—‘विमतं सकर्तृकं कार्यत्वात्’
‘चित्कैक्ये केनचिन्नीयते अस्वन्त्रत्वात्’ इत्याद्याः । ‘तद्विरुद्धं’ श्रुतिस्मृ
तियुक्तिविरुद्धं प्रकृतिस्वातन्त्र्यादिरूपमर्थमिति शेषः । यः पुरुषः त
स्मादन्यः‘अधमः’अयोग्येषु अधरो नास्तीत्यर्थः।नैतावता सेश्वर साङ्ख्ये
न सन्तोष्टव्यम् । यतः श्रुतयः स्मृतयश्चेति स्मृतिरीश्वरं परं वदती
त्यनेन तमपि निराह । इति पाद्म इत्यनन्तरं वचनादिति शेषः । अस्य
श्रुत्यादिविरुद्धत्वाद्विरुद्धतावगमादिति पूर्वेणान्वयः ॥ ५ ॥
इति अन्यथाऽनुमित्यधिकरणम् ॥
—::—
६. अधिकरणम् ॥
( १ ) अत्राधिकरणप्रतिपाद्यमाह–परमाण्विति ॥ परमाणुभ्यो जगदा
रम्भः जगदुत्पत्तिरिति वादिनां वैशेषिकादीनां ‘वादं’मतं ‘अपाकरोति’
निराकरोत्यस्मिन्नधिकरणे सूत्रकृदित्यर्थः । आरम्भकेतिपाठे परमाण
वः जगदारम्भकाः तत्कारणानीति वादमित्यर्थः ॥
( २ ) सूत्रे दृष्टान्तोक्त्या लब्धपरपक्षप्रतिक्षेपकानुमाने साध्यसम
र्पकेण ह्रस्वपरिमण्डलाभ्यामित्यंशेनैव परम*विरोधादीश्वरस्यानन्त
गुणत्वमयुक्तमिति पूर्वपक्षस्य सूचनात्तद्विवरणेनैव पूर्वपक्षः प्रदर्शि
तो भवतीत्याशयेन तमनुपन्यस्य सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याच
ष्टे–महदिति ॥ अत्र महत्त्वाहित्याद्युक्त्या सूत्रे महदित्यादिनिर्देशो
भावप्रधानः । ‘कारणबाहुल्यात्कारणमहत्त्वात् प्रचयविशेषाच्च मह
त् ’ इति काणादसूत्रानुसारेण तथा निर्देशः । तत्र तस्येत्यस्य प्राथि ]
६२
४९० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
महत्त्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते एवं ह्रस्वत्वा
त्पारिमण्डल्याच्चोत्पद्येत ।
( ३ ) वाशब्दादन्यथैतयोरपि न स्यात् विशेषकारणाभावात्॥११॥
( ४ ) सू—ॐ॥ उभयथाऽपि न कर्मातस्तदभावः ॥ ॐ ॥ १२ ॥
कत्वात् । ह्रस्वपरिमण्डलाभ्यामिति पञ्चमीसमभिव्याहारात्पञ्चम्य-
न्ताद्वतिः। सकाशादित्यध्याहारेण षष्ठ्यन्ताद्वा वतिः। उत्पद्यते उत्पद्ये-
त इति च शेषः कार्य इत्युक्तम् भवति । चः समुच्चये । तथा च वैशे-
षिकमते नैयायिकमते च यथा समवायिकारणीभूतत्र्यणुकचतुरणु-
कादिगतात् महत्त्वारूयपरिमाणाद्दीर्घत्वाख्याच्चतुरणुकपञ्चाणुकादिग-
तं परिमाणाख्यकार्यमुत्पद्यते तथा द्वयणुकगतह्रस्वत्वात् परमाणुगता-
त्पारिमाण्डल्याख्याच्च परिमाणात्त्र्यणुकद्वयणुकगतं परिमाणाख्यं कार्य-
मुत्पद्येत इत्यर्थः । अनेन द्वयणुकपरमाणुपरिमाणं परिमाणान्तरारम्भ-
कं द्रव्यसमवायिकारणपरिमाणत्वात् त्र्यणुकादिपरिमाणवदिति वै-
शेषिकादिमतस्य प्रतिकूलानुमानमुपन्यस्तं भवति ॥
( ३ ) त्र्यणुकादिपरिमाणस्यारम्भकत्वेऽपि द्वयणुकादिगतस्यैतन्मा-
स्तु को दोषः। त्र्यणुकादिगतपरिमाणारम्भस्तु द्वयणुकादिगतसङ्ख्य-
यैव सम्भवतीत्यप्रयोजकोऽयं हेतुरित्याशङ्कां परिहरद्वाशब्दं व्याख्या-
ति—वाशब्दादिति ॥ अस्य विशेषकारणाभावादित्यनन्तरं अध्याहृते-
न 'इति सूत्रकृता सूचितं' इत्यनेनान्वयः । किं सूचितमित्यतस्तदा-
ह—अन्यथेति । यद्युभयोः कारणगतपरिमाणत्वाविशेषेऽपि ह्रस्वत्वा-
देर्न कार्यमुत्पद्यते । तर्ह्येतयोर्महत्त्वदीर्घत्वयोरपि न स्यादित्यर्थः । त-
त्कार्यारम्भकत्वमिति शेषो वा,सकाशादिति शेषेण कार्यमित्यनेन वा-
ऽस्यान्वयः । न केवलं तयोरिति समुच्चयेऽपिः । ननु विशेषकारणे स-
ति प्रतिबन्दीमात्रं न बाधकमित्यतस्तदेवासिद्धमित्याह—विशेषेति ।
पक्षदृष्टान्तयोर्वैषम्यसाधकरूपस्य वा तदनङ्गीकारे बाधकरूपस्यवा
नियामकविशेषस्याभावात् । भावे वा स वक्तव्यः स्यादित्यर्थः । तद्-
भावस्तु टीकायामुपपादितः। तस्मादुपपत्तिविरुद्धत्वात् न तयोरसम-
वायिकारणत्वं किं त्वेतयोरेवेतिवैशेषिकाद्युक्तमसमञ्जसमेवेति न त-
द्विरोध ईश्वरानन्तगुणत्वस्येति भावः ॥
( ४ ) एवं वैशेषिकादिमते महत्त्वदीर्घत्वादेरसमवायिकारणत्वस्य
[ अधि - ६. सू - १२. ] दीपिकासाहितम्. ४९१
ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावा
चेदानीमपि तत्स्यात् ।
अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभा
वात्तत्कार्याभावः ।
(५) वैदिकेश्वरस्य तु वेदेनैव सर्वशक्तित्वोक्तेः सर्वमुपप
ण्डनरीत्या समवायिकारणमात्रं निरस्तं भवतीत्यभिप्रेत्य निमित्तकारण
मप्येवं निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—उभयथाऽपीति ॥ ईश्वरेच्छा
या इति। कार्यनिमित्तत्वेन पराभ्युपगतायाः ईश्वरेच्छायाः 'नित्यत्वे' स
दातनत्वे 'तद्भावेऽपि' ईश्वरेच्छासद्भावेऽपि प्रलये 'परमाणुकर्माभावात्'
तच्चेष्टाभावादन्वयव्यभिचारेण तस्यास्तत्कारणत्वायोगादिदानीं प्रल
यादन्यस्मिन् अभिमतकालेऽपि ईश्वरेच्छायाः सकाशात्परमाणुकर्म 'न
स्यात्'नोत्पद्येतेत्यर्थः । ततः किमित्यत आह—अत इति । अत इत्यस्य
व्याख्यानं परमाण्विति । स्यादिति वर्तते । तदिति चेष्टा परामृश्यते ।
कार्यशब्दः प्रकृतद्व्यणुकादिकार्यपरः। एवं सौत्रस्तच्छब्दोऽपि। अनित्य
त्व इत्यत्रेश्वरेच्छायाः इत्यनुवर्तते । तदिति तन्त्रम् । तथा च तस्याः
ईश्वरेच्छायाः अनित्यत्वे तस्या निमित्तकारणाभावादत एव कर्मकार
णीभूताया ईश्वरेच्छाया अभावादित्यर्थः । ततः किमित्यतः तदुत्तरत्वे
न अत इत्याद्यत्रापि संयोज्यम् । अत्र अत इत्यस्येश्वरेच्छात् इत्यर्थः ।
तत्कार्याभाव इत्यस्य तच्च तत्कार्यं चेति विग्रहेणेश्वरेच्छालक्षणका
र्याभावः, तस्य कार्यमिति विग्रहेण परमाणुक्रियाजन्यद्व्यणुकादिका
र्याभावः स्यादित्यर्थः । नित्यत्वेऽनित्यत्वे इत्युक्तोभयथेत्येतत् दूष्यत्वेनो
पस्थितेश्वरेच्छानित्यत्वानित्यत्वाख्यप्रकारद्वयपरामर्शकमित्यभिप्रेति।
तद्भावेऽपीदानीमपीत्यनेनापेरर्थः उक्तः। परमाणुकर्माभावादित्यनेन न
कर्मेत्येतद्यतश्शब्दशिरस्कतया व्याख्यातम् । कर्मशब्दस्यावृत्त्यभिप्रा
येण स्यादित्यत्र कर्तृनुक्तिः । अत इत्यादेरेवावृत्त्यभिप्रायेणान्ते अर्थ
उक्तः।तथा च अतोऽप्यसमञ्जसं वैशेषिकायुक्तमितिभावः। कार्याभाव
इत्यनन्तरं यत इति शेषः । अस्योत्तरत्रान्वयः ॥
(५) ईश्वरेच्छाया निमित्तत्वनित्यत्वयोरभ्युपगमादाद्यपक्षोक्तदू
षणं भवतामपि सममित्यत आह—वैदिकेति ॥ वैदिकैर्वेदाधिकृतैः त
त्प्रामाण्यज्ञैरभ्युपगतो वैदिकः वेदगम्यो वा ईश्वरो यस्य तस्येत्यर्थः ।
४९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
द्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ॥ १२ ॥
पक्ष इति शेषः । तेन विशेषार्थकतुशब्दस्यान्वयः । तेनेदं समाधानं
परपक्षेऽपीति ज्ञापितम्। यद्वा—वैदिकश्वासावीश्वरश्चेति कर्मधारयः ।
अस्य च सर्वशक्तित्वोक्तेरित्यनेनान्वयः । तुशब्दः शङ्कापरिहारद्योत
कः । तेन नायमस्मत्पक्षे दोष इति सूच्यते । अत्राद्यार्थो यस्य वेदग
म्य ईश्वरस्तत्पक्षे इति तत्त्वप्रदीपे, तेनानुमानमात्रेणेश्वरमभ्युपगच्छते
ति टीकायां चोक्तः । द्वितीयस्तु—ईश्वराचिन्त्यशक्तीति टीकोक्त्या
तस्य वेदेनैव सर्वशक्तित्वोक्तेरिति तत्त्वप्रदीपोक्त्या च ज्ञापितः । त
था चेत्थं योजना—वैदिकेश्वरस्य पक्षे तु नायं दोषः । कुतः ? यतः
सत्यामपीश्वरेच्छायां सर्वं कार्यानुत्पादादिकं ईश्वराचिन्त्यशक्तित ए
वोपपद्यते। साऽपि तस्य कुतः? 'परास्य'इत्यादि वेदेनैवेश्वरस्य सर्वविष
यकशक्तिमत्त्वोक्तेरिति न तत्र मानान्तरं मार्गणीयमित्येवकारार्थः । न
च परपक्षे सममेतत् । तस्यानुमानमात्रगम्येश्वरत्वेन वैदिकगम्येश्वर
त्वाभावादिति तुशब्दाभिप्रायः । इतश्च नायं दोषोऽस्मत्पक्ष इत्याह—
स्वत इति । नास्मत्पक्षे प्रलये व्यभिचारदोषः । तदानीमीश्वरेच्छा
रूपनिमित्तसत्त्वेऽपि कालाख्यनिमित्तान्तरस्याभावेन कार्याभावस्यान्य
थोपपत्तेः । न च प्रलये सोऽप्यस्तीति वाच्यम् । तदा सृष्टिकालाख्य
कालविशेषस्याभावात्तस्यैव सृष्टिकारणत्वात् । न चैतत्परमतेऽपि स
ममिति वाच्यम् । अस्माभिः कालं स्वत एव सृष्ट्याद्युपाधिमन्तरेणैव
विशेषाणां स्वाभाविकसृष्टिकालत्वादिधर्माणामङ्गीकृतत्वात् । परे
ण तु सृष्ट्यवच्छिन्नः कालः सृष्टिकाल इति सृष्ट्याद्युपाधित एव काले
विशेषाभ्युपगमनानौपाधिकविशेषानभ्युपगमादित्यपस्कारेण वाक्य
योजना । ननु सत्यामपीश्वरेच्छायां सृष्टिकालाभावेन कार्याभावाभ्यु
पगमे सा मोघा स्यादित्यतोऽप्याह—स्वत एवेति । एवकारो भिन्नक्र
मः । इच्छायाः इति शेषः । तथा च नैष दोषोऽस्माभिर्नित्याया अपी
श्वरेच्छायाः 'काले एव' सृष्टिकाले एव 'स्वतः' अनौपाधिकानां सृ
ष्टिविषयत्वादिविशेषाणामाविर्भावाभ्युपगमान्नैवं परेण वक्तुं शक्यम्,
तेन इच्छायामनौपाधिकविशेषानभ्युपगमादित्यर्थः। यद्वा-उभयथाऽपि
न कर्मेत्यस्य कालस्य नित्यत्वेऽनित्यत्वे चोकरीत्या न कर्मेति प्रकारे
णापि व्याख्यानसम्भवात् कालस्य निमित्तकारणत्वमीश्वरेच्छानिमित्त
कारणत्वनिरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं स्वपक्षे परिहर
[ अधि - ६. सू - १३. ] दीपिकासहितम्. ४९३
( ६) सू- ॐ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३॥
कार्यकारणादीनां समवायसम्बन्धाङ्गीकारात्तस्य च
ति-स्वत एवेति । योजना तु-नायं दोषोऽस्मत्पक्षे । कुतः? स्वतएव स्वसृ
ष्ट्याद्युपाधिमन्तरेणैव अनित्ये काले सृष्टिकालादिविशेषोत्पत्त्यङ्गी
कारात्तस्यैव निमित्तत्वात् । न चैवं परेण वक्तुं शक्यम् । अस्माभिः
काले विशेषाणां सृष्टिकालादीनां स्वतएव स्वाभाविकत्वस्यैव अ
भ्युपगमात् परेण तु सृष्ट्याद्युपाधिनिबन्धनत्वाभ्युपगतेरिति । न च का
लस्य कार्यमात्रनिमित्तकारणत्वात्सृष्टिकालाद्युत्पत्त्यसम्भवः । अधिक
रणतयैव कालस्य सर्वकार्यकारणत्वेन सृष्टिकालादिकार्ये चात्माश्रय
प्रसङ्गेन तत्र तस्याधिकरणतया कारणत्वायोगादिति वाच्यम् । का
लातिरिक्तकार्येष्वेव कालस्याधिकरणतया कारणत्वाभ्युपगमात् । का
ले तु तथा कारणत्वानभ्युपगमात् । परन्तु - ईश्वरोद्देश्यत्वेनाधारः
कालोऽपेक्षितः । स च सृज्य एव । ईश्वरोद्देशश्च स कालस्तदैव स्यां
दित्येवंरूपः । इच्छाविषयत्वरूपोद्देश्यत्वं च न प्राक्सत्त्वापेक्षम् ।
न हि सृज्यस्य प्राक् सत्त्वमस्ति । एकस्यैवाधिकरणताधिकर्त्तव्यताच
'ईशोद्देशश्च कालश्च स्वगत एव' इति श्रुत्यादिसिद्धविशेषबलाच्चोपप
द्यत इति न कश्चिद्दोषः । अथ वा-उभयथेत्यस्यादृष्टनित्यत्वेऽनित्यत्वे
चेति व्याख्यानसम्भवाददृष्टस्य निमित्तत्वं ईश्वरेच्छाकालनिमित्तत्व
निरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं स्वपक्षे परिहरति-स्वत एवे
ति । काल इत्यावर्तते । अदृष्ट इति शेषः । तथा च नायमस्मत्पक्षे दो
षः। कुतः? अस्माभिः काले प्रलयकाले सत्येवादृष्टे काले सृष्ट्यादिकाले
एव समुद्बोधविशेषाभ्युपगमात् । न चैतदन्यमते सम्भवति । अस्मा
भिः काले स्वत एव स्वाभाविकानामेव विशेषाणामङ्गीकारात् । परे
ण च तदनङ्गीकारादिति योजना ॥
( ६ ) एवं वैशेषिकादिपक्षे निमित्तकारणासम्भवं दर्शयित्वा सम
वायिकारणमपि निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-समवायेति ॥ अत्र
कार्यकारणपदे अवयव्यवयवपरे । आदिपदेनानित्यगुणक्रियातद्वतां
सङ्ग्रहः । अथ वा कार्यकारणपदेनैषां सङ्ग्रहः । आदिपदेन नित्यगुणगु
णिजातिव्यक्तिविशेषविशेषिणां प्रसङ्गाद्ग्रहणम् । भिन्नत्वाङ्गीकारादि
त्यपि सम्बध्यते । ल्यब्लोपनिमित्ता पञ्चमी । तथा च द्व्यणुकादिका