पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 552, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २३. ] दीपिकासहितम्. ५०५
(१०) सू—ॐ ॥ उभयथा च दोषात् ॥ ॐ ॥ २३ ॥
कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभा
वान्त्र कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥२३॥
मात्, तत्कार्यं चैवमिति कार्यपरम्परायाः अविच्छेदात् कथं सन्तानो
च्छेदावसर इत्यतोऽपि न क्षणिकपक्षो युक्त इति सूत्रार्थ उक्तो भ
वति । केचित्तु—अविच्छेदादित्यस्य विच्छेदाभावादित्यर्थः । कारणे
सति कार्यं भवत्येवेति नियमादिति भाष्योक्तहेतुस्तूपस्कृतः, न सौत्र
पदोक्त इति कारणस्य कार्योत्पत्त्युत्तरक्षणेऽपि सत्त्वमिति चाहुः ॥
(१०) ननु तथाऽपि सतां भावपदार्थानां न क्षणिकता निषेद्धुं शक्या,
घटादेर्घटान्तररूपार्थक्रियाकारित्वं खलु सत्त्वं नाम । न च तत् क्षणि
कतामन्तरेणोपपद्यते । यद्याद्यक्षणे घटो घटान्तरमुत्पाद्य न स्वयं न
श्यति, तर्दा घटान्तरमपि तथेत्यनन्तकार्यापातः। ततश्चैकस्यां घटिका
यां कुलालशालापरिपूर्तिस्स्यात् । अतोऽर्थक्रियाकारित्वरूपसत्त्वसिद्धयै
क्षणिकत्वमेष्टव्यं भावानामित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-उ
भयथेति॥ नियमे अनियमे इत्यनेन उभयथेत्येतद्व्याख्यातम्। सर्वदा.का
र्याभावात् । क्षणिकमते कार्यस्य यावत्कारणभावित्वादित्यनेन दोषादि
ति सौत्रहेतोरुपपादकश्चशब्दसूचितो हेतुर्दर्शितः । 'न कार्यकारण
विशेषः' सव्येतरगोविषाणवत् कार्यकारणयोर्विशेषः कार्यकारणभा
वो न स्यादित्यनेन 'कार्यानुत्पत्तिः' यतः कार्योत्पत्तिर्न स्यात् इत्यनेन
च पक्षद्वयेऽपि दोषादित्युक्तो हेतुर्विवृतः । तत्रानियमपक्षे कारणे सत्य
पि कदाचित्कार्याभावाङ्गीकारे तत्काले कारणस्यार्थक्रियाकारित्वाभा
वेनासत्त्वापत्तिः । ततश्चासतः कारणात् कदाऽपि कार्योत्पत्तिर्न स्या
दित्यनिष्टप्रसङ्गान्तरोपस्कारेण सौत्रहेतुर्योज्यः । एवमनियमपक्षे कार
णस्य घटादेः अर्थक्रियाकारित्वरूपसत्त्वाभावेन ततः कल्प्यमाना क्ष
णिकताऽपि व्याहन्येतेति चशब्दसूचितानिष्टप्रसङ्गान्तरं च द्रष्टव्यम् ।
कार्योत्पत्तिरित्यनन्तरं नान्यतरपक्षावलम्बेन घटादीनां घटान्तररू
पार्थक्रियाकारित्वेन सत्त्वं वाच्यम्, किन्तु जलाद्याहरणादियोग्य
त्वेनेति परोक्तापादकासिद्धेर्न तदनुपपत्त्या क्षणिकता कल्प्येत्यसम
ञ्जसमिदं दर्शनमिति वाक्यशेषः । अनेन च सौत्रचशब्दस्य परपक्ष ए
वोभयथा दोषसत्त्वादस्मत्पक्षे च दोषाभावादिति हेतुसमुच्चायकत्वं
६४