पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 546, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - १८. ] दीपिकासाहितम्. ४९९
( २ ) सू—ॐ ॥ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ ॐ ॥ १८ ॥
समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्यो-
न्याश्रयत्वात्तदप्राप्तिः । अन्यथा सर्वदा समुदायस-
त्त्वं स्यात् ॥ १८ ॥
करणे पाषण्डप्रभेदेषु वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचारभेदेन
चतुर्विधेषु सौगतेषु मध्ये परमाणुसमुदाय एव गोघटादिबोधबोध्यो
न त्ववयवी नाम तदतिरिक्तोऽस्तीति वादिनां वैभाषिकानां सौत्रान्ति-
कानां च मतं निराकरोति सूत्रकृदित्यर्थः ॥
( २ ) अत्र सूत्रव्याख्यानेनैव पूर्वपक्षः स्फुटीभविष्यतीत्यभिप्रेत्य सि-
द्धान्तयत्सूत्रं पठित्वा तत्र समुदाय इति सप्तम्यन्तपदस्योभयपदार्थ-
प्रतियोगिना एकहेतुके इत्यध्याहृतपदेनान्वयमभिप्रेत्य प्रथममपिश-
ब्दलब्धपक्षान्तरं प्रतिषेधति—समुदायस्येति ॥ 'समुदायस्य' पर-
माणुसमुदायस्य एकदेशसंयोगविशेषरूपस्य 'एकहेतुकत्वं' एकपर-
माणुजन्यत्वमयुक्तमित्यर्थः । अस्मिन् साध्ये हेतुस्तु सूत्रे विरोध इत्य-
ध्याहृतपदेन सूचितः एकस्मात्समुदाय इत्यस्य व्याहतेरित्येवंरूपो
द्रष्टव्यः । इदानीं समुदाय उभय इति वाक्येन साक्षादुक्तं पक्षमनूद्य
तत्र सूत्रकृदुक्तं दोषं योजयति—उभयेति । समुदाय इत्यस्ति । तथा
च समुदाये उक्तरूपे 'उभयहेतुके' मिलितोभयहेतुके एकदेशस्थाने-
कपरमाणुहेतुकेऽङ्गीकृतेऽपि 'तदप्राप्तिः' तस्य समुदायस्याप्राप्तिरनुपप-
त्तिरेवेत्यर्थः । न केवलमेकहेतुक इत्यपिशब्दार्थः । कुतोऽप्राप्तिरित्यत-
स्तत्र तस्मादिति व्यस्ततत्पदेनोक्तं हेतुं दर्शयति—अन्योन्येति । उभ-
योरिति बुद्ध्या विवेकेन सम्बध्यते । तथा च मिलितानेकतः समुदाय-
सिद्धिः समुदाये सति मिलितानेकत्वसिद्धिः इत्युभयोर्मिलितानेकत्व-
समुदाययोः कार्यकारणयोः परस्पराश्रयभावापातादित्यर्थः । तदप्रा-
प्तिः समुदायानुपपत्तिरित्यर्थः । इदानीमुभयहेतुक इत्यस्य विरलाने-
कहेतुकेत्यर्थमुपेत्य तेनोक्तं पक्षान्तरमनूद्य दूषयति—अन्यथेति । समु-
दायस्योक्तविधत्वमनङ्गीकृत्य नानादेशस्थानेकपरमाणुहेतुकत्वेऽङ्गीकृते
इत्यर्थः । अत्र पक्षे समुदाय इत्यनेन अनेकत्वसङ्ख्या विवक्षिता । स-
मुदायत्वं तेषामिति शेषः । तथा च सर्वदा सतां तेषां विरलानेकप-
रमाणूनां सर्वदा समुदायत्वं तदुत्पादकत्वं स्यात् । ततश्च समुदाय-
स्यापि सर्वदा सत्त्वं स्यात् । तथा च प्रलयाभ्युपगमविरोध इति योज-