सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 547, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 547

५०० | ब्रह्मसूत्रभाष्यम्. | [ अध्या - २. पा - २. ]
( ३ ) सू—ॐ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनि
मित्तत्वात् ॥ ॐ ॥ १९ ॥
सर्वदा विद्यमानोऽपि समुदायः परस्परापेक्षया व्यव
ना । समुदायस्येति पाठान्तरम् । यस्मादेवं समुदायस्याप्राप्ति-
तस्मात्स एव गोघटादिबुद्धिवेद्यो न त्ववयवी कश्चिदस्तीति पक्षो न
युक्त इति भावः ॥
( ३ ) उक्तमाक्षिप्य समाधत्सूत्रं पठति—इतरेतरेति ॥ अत्र षष्ठ्य-
न्ततया विपरिणतस्य समुदायस्येति पदस्य व्यवहार इत्यस्य वा अनु-
वृत्तिः, इतरसहितं इतरत् इतरेतरत् तस्य प्रत्ययः द्वित्वाद्यपेक्षाबु-
द्धिः इतरेतरप्रत्ययः। स निमित्तभूतो ययोर्वित्तिव्यवहारयोस्तावितरे-
तरप्रत्ययाविति व्यधिकरणो बहुव्रीहिः। अतः 'अर्श आदिभ्यो ऽच्'
विषयतासम्बन्धेन तद्वान्। यद्वा—इतरत् इतरत्र प्रत्ययः इदं चेदं चे-
त्यपेक्षाबुद्धिः यस्य व्यवहारादेर्निमित्तभूतः स तथोक्तः । तस्य भाव-
स्तत्त्वं, तस्मादिति विग्रहं चाभिप्रेत्य समुदायस्य विरलानेकहेतुक-
त्वपक्षोक्तदोषोद्धाराय तत्र हेतुकथनार्थं प्रवृत्तमाक्षेपांशं तावद्व्याच-
ष्टे—सर्वदेति। अपिर्यद्यपि तथापीत्यर्थे। नञावर्तते। योजना तु-यद्य-
पि विरलानेकहेतुकः समुदायः सर्वदा विद्यमानो नित्य एव भवति,
तथाऽपि न प्रलयानुपपत्तिदोषः।